Digital Sanskrit Buddhist Canon

तथागताचिन्त्यनिर्देशपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Tathāgatācintyanirdeśaparivartaḥ
तथागताचिन्त्यनिर्देशपरिवर्तः॥



तस्मात्तर्हि कुमार यो बोधिसत्त्वो महासत्त्वः आकाङ्क्षेत् किमित्यहं चतस्रः प्रतिसंविदः साक्षात्कुर्यामिति। कतमाश्चतस्रः ? यदुत अर्थप्रतिसंविदं धर्मप्रतिसंविदं निरुक्तिप्रतिसंविदं प्रतिभानप्रतिसंविदम्। इमाश्चतस्रः प्रतिसंविदः साक्षात्कुर्यामिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं समाधिरुद्ग्रहीतव्यः पर्तवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो भावयितव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्यः। भावनायोगमनुयुक्तेन च भवितव्यम्। तत्र कुमार कतमा धर्मप्रतिसंविदः ? इमाः कुमार बोधिसत्त्वो धर्मप्रतिसंविद एवं प्रतिसंशिक्षते -यावन्तो वा रूपव्याहारास्तावन्तस्तथागतस्य वर्णव्याहाराः। एवं वेदनासंज्ञासंस्काराः। यावन्तः कुमार विज्ञानव्याहारास्तावन्तस्तथागतस्य वर्णव्याहाराः। इति हि कुमार अप्रमेया अचिन्त्या असंख्येयाः अतुल्यामाप्यापरिमाणास्तथागतस्य रूपवर्णव्याहाराः। इति हि कुमार अपर्यन्ता अनन्ता रूपव्याहाराः। एवमचिन्त्यास्तथागतस्य वर्णव्याहाराः। एवं वेदनासंज्ञासंस्काराः। इति हि अनन्ता अपर्यन्ता अचिन्त्या विज्ञानव्याहाराः। एवमचिन्त्यास्तथागतस्य वर्णव्याहाराः॥

इति हि कुमार अप्रमेया असंख्येयाः संस्कृते दोषाः। अप्रमेया असंख्येया निर्वाणे अनुशंसाः। असंख्येयास्तथागतस्य वर्णाः। इति हि कुमार यावन्ति निर्वाणनामानि तावन्तस्तथागतस्य वर्णाः। इति हि कुमार असंख्येयानि निर्वाणनामानि। असंख्येयास्तथागतस्य वर्णाः॥

चत्वार इमे कुमार तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यव्याहाराः। कतमे चत्वारः ? यदुत अचिन्त्यः संस्कारव्याहारः। अचिन्त्यः स्वरव्याहारः। अचिन्त्यः संक्लेशव्याहार। अचिन्त्यो व्यवदानव्याहारः। इमे कुमार चत्वारस्तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यव्याहाराः। चत्वार इमे कुमार तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यनिर्देशाः। ते न सुकरं पर्यन्तनिष्ठास्थानेन निर्देष्टुम्। कतमे चत्वारः ? एष एव चतुष्कः। एवं विस्तरेण निर्देष्टव्यम्। यदुत चत्वारो बोधिसत्त्वानां नयाः। चतस्रो युक्तयः। चत्वारो द्वाराः। चत्वार निर्देशाः। चत्वारो घोषाः। चत्वारो वचनपथाः। चत्वारो व्याहाराः। चत्वारि संघाभाष्याणि। चतस्रो नामनिध्यप्तयः। चतस्रो मनुजनिध्यप्तयः। चत्वारि प्रतिवचनानि। चत्वारि द्वाराणि। चत्वार्यक्षराणि। चत्वारोऽवताराः। चत्वारः पदाः। चत्वारि निर्हारपदानि। चत्वारः सूत्रान्तपदाः। चत्वारश्चर्यापथाः। चत्वारोऽचिन्त्यपथाः। चत्वारः तुल्यपथाः। चत्वारोऽनन्तपथाः। चत्वारोऽपर्यन्तपथाः। चत्वारोऽसंख्येयपथाः। चत्वारोऽप्रमेयपथाः। चत्वारोऽपरिमाण पथाः। चत्वारि ज्ञानानि। चत्वारो ज्ञानसंचयाः। चत्वारि ज्ञानगोत्राणि। चत्वारि प्रतिभानानि। चत्वारः प्रतिभानसंचयाः। चत्वारि प्रतिभानगोत्राणि। चत्वारः सूत्रान्तसंचयाः। चत्वारि प्रतिभानकरणानि। चत्वारः सूत्रान्तनिर्हाराः। चत्वारि बाहुश्रुत्यगोत्राणि। चत्वारि बुद्धधनानि। चतस्रो बोधिसत्त्वशिक्षाः। चत्वारो बोधिसत्त्वगोचराः। चत्वारि बोधिसत्त्वकर्माणि। चत्वारि बोधिसत्त्वप्रतिभानानि। चतस्रो मार्गभावनाः। चत्वारि क्लेशप्रहाणानि। चत्वार्यपायजहनानि। चत्वार्यज्ञानविधमनानि। चत्वार्यविद्याप्रहाणानि। चत्वारि दुःखोपशमनानि। चत्वारि दौर्मनस्यप्रहाणानि। चत्वार्युपायसंजननानि। चत्वारि दृष्टिप्रहाणानि। चत्वार्युपपन्नपरिज्ञानानि। चत्वार्यात्मदृष्टिप्रहाणानि। चत्वारि सत्त्वदृष्टिप्रहाणानि। चत्वारि जीवदृष्टिप्रहाणानि। चत्वारि पुद्गलदृष्टिप्रहाणानि। चत्वारि भवदृष्टिप्रहाणानि। चत्वारि वस्तुप्रहाणानि। चत्वार्युपलम्भदृष्टिप्रहाणानि। ते न सुकरं पर्यन्तस्थानेन निर्देष्टम्॥

चतस्रो धारण्यः। कतमाश्चतस्रः ? यदुत अनन्तः सर्वसंस्कारपरिभाषाव्याहारः। तत्र यज्ज्ञानमियं प्रथमा धारणी। अनन्तः स्वरपरिभाषाव्याहारः। तत्र यज्ज्ञानमियं द्वितीया धारणी। अनन्तः संक्लेशपरिभाषाव्याहारः। तत्र यज्ज्ञानमियं तृतीया धारणी। अनन्तो व्यवदानगुणानुशंसाव्याहारः। तत्र यज्ज्ञानमियं चतुर्थी धारणी। इमाश्चतस्रो धारण्यः। इति हि या कुमार धारणी तज्ज्ञानम्, स धर्मः। इति हि धर्मज्ञानेन धर्मप्रतिसंवित्॥

धर्मज्ञाने योऽर्थः, इयमुच्यते अर्थप्रतिसंवित्। धर्मज्ञाने यच्छन्दः, इयमुच्यते निरुक्तिप्रतिसंवित्। धर्मज्ञाने या व्यवहारदेशना आचक्षणा प्रज्ञपना प्रकाशना प्रस्थापना विचरणा विभजना उत्तानीकरणता असक्तवचनता अनेलामूकवचनता अनवलीनवचनता, इयमुच्यते प्रतिभानप्रतिसंवित्॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

यात्तकं ज्ञानु बुद्धस्य रूपप्रज्ञप्ति तात्तिका।

यावती रूपप्रज्ञप्ति रूपव्याहार तात्तका॥ १॥

यावन्तो रूपव्याहाराः शीलनामानि तात्तकाः।

यावन्ति शीलनामानि बुद्धनामानि तात्तकाः॥ २॥

यात्तका बुद्धनामानि सत्त्वनामानि तात्तकाः।

एत्तकान्येकसत्त्वस्य अहं नामानि जानमि॥ ३॥

अनन्ता नामव्याहारा ये मे पूर्वं प्रकाशिताः।

शीलनामा बुद्धनामा सत्त्वनामा च ते समाः॥ ४॥

यात्तकाः संस्कृते दोषा निर्वाणे तात्तका गुणाः।

बुद्धस्य तात्तका वर्णा औपम्या मे प्रकाशिताः॥ ५॥

यात्तकाः सर्वसत्त्वानां चित्तोत्पादा निदर्शिताः।

तात्तका लोकनाथस्य एकरोमात रश्मयः॥ ६॥

नामाश्च अधिमुक्तिश्च सर्वसत्त्वान यात्तिकाः।

ततो भूयो नरेन्द्रस्य स्वराङ्गवर्ण भाषिताः॥ ७॥

ये नामाः सर्वसत्त्वानामेकसत्त्वस्य दर्शिताः।

एकसत्त्वस्य ते नामाः सर्वसत्त्वान दर्शिताः॥ ८॥

प्रतिसंविदानामोत्तार अयं बुद्धेन देशितः।

अनन्तनामनिर्देशा बोधिसत्त्वान कारणात् ॥ ९॥

य इच्छेत् कथं भाषेय्या सूत्रकोटीरनन्तिकाः।

इदं सूत्रं प्रवर्तित्वा अनोलीनः प्रकाशयेत्॥ १०॥

असक्तः परिषन्मध्ये सूत्रकोटीः प्रभाषते।

यथाकाशमपर्यन्तमेवं धर्मं स भाषते॥ ११॥

एमेव बोधिसत्त्वानां शुद्धसत्त्वान तायिनाम्।

इदं सूत्रं समुद्गृह्य भवन्ति ज्ञानसंपदः॥ १२॥

यथा यथा प्रकाशेन्ति श्रद्दधन्तो इमं नयम्।

तथास्य वर्धते ज्ञानं हिमवन्तेव पादपाः॥ १३॥



इति श्रीसमाधिराजे तथागताचिन्त्यनिर्देशपरिवर्तस्त्रयोविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project