Digital Sanskrit Buddhist Canon

तथागतकायनिर्देशपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tathāgatakāyanirdeśaparivartaḥ

॥ तथागतकायनिर्देशपरिवर्तः॥



अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात् तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन कायेऽनध्यवसितेन जीविते निरपेक्षेण भवितव्यम्। तत् कस्य हेतोः ? कायजीविताध्यवसानहेतोर्हि कुमार अकुशलधर्माभिसंस्कारो भवति। तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन न रूपकायतस्तथागतः प्रज्ञातव्यः। तत् कस्य हेतोः ? धर्मकाया हि बुद्धा भगवन्तो धर्मकायप्रभाविताश्च न रूपकायप्रभाविताः। तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन तथागतकायं प्रार्थयितुकामेन तथागतकायं ज्ञातुकामेन अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तितव्यः उद्देष्टव्यः स्वाध्यातव्यो वाचयितव्यो भावनायोगमनुयुक्तेन भवितव्यम् परेभ्यश्च विस्तरेण संप्रकाशयितव्यः। तत्र कुमार तथागतस्य कायः शतपुण्यनिर्जातया बुद्ध्यानेकार्थनिर्देशो धर्मनिर्जातः आनिमित्तः सर्वनिमित्तापगतो गम्भीरः अप्रमाणः अप्रमाणधर्मः आनिमित्तस्वभावः सर्वनिमित्तविभावितः। अचलोऽप्रतिष्ठितोऽत्यन्ताकाशस्वभावोऽदृश्यश्चक्षुःपथसमतिक्रान्तो धर्मकायः प्रज्ञातव्यः। अचिन्त्यः चित्तभूमिविगतः सुखदुःखाविप्रकम्प्यः सर्वप्रपञ्चसमतिक्रान्तोऽनिर्देश्योऽनिकेतो बुद्धज्ञानं प्रार्थयितुकामानां घोषपथसमतिक्रान्तः ससारो रागसमतिक्रान्तः अभेद्यो दोषपथसमतिक्रान्तो दृढो मोहपथसमतिक्रान्तो निर्दिष्टः। शून्यतानिर्देशेन अजातो जातिसमतिक्रान्तः अनास्रवः विपाकसमतिक्रान्तः नित्यो व्याहारेण। व्यवहारश्च शून्यः निर्विशेषो निर्वाणेन, निर्वृतः शब्देन, शान्तो घोषेण, सामान्यः संकेतेन, संकेतः परमार्थेन, परमार्थो भूतवचनेन। शीतलो निष्परिदानः अनिमित्तः अमन्यितः अनिन्दितः अप्रपञ्चितः-अल्पशब्दो निर्देशेन। अपर्यन्तो वर्णनिर्देशेन, महाभिज्ञापरिकर्मनिर्जातः अस्मृतितः अविदूरे महाभिज्ञापरिकर्मनिर्देशेन। अयमुच्यते कुमार तथागतकाय इति॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

य इच्छे लोकनाथस्य कायं जानितुमीदृशम्।

इमं समाधिं भावित्वा कायं बुद्धस्य ज्ञास्यति॥ १॥

पुण्यनिर्जातु बुद्धस्य कायः शुद्धः प्रभास्वरः।

समेति सोऽन्तरीक्षेण नानात्वं नास्य लभ्यते॥ २॥

यादृशा बोधिर्बुद्धस्य लक्षणानि च तादृशाः।

यादृशा लक्षणास्तस्य कायस्तस्य हि तादृशः॥ ३॥

संबोधिलक्षणः कायो बुद्धक्षेत्रं हि तादृशम्।

बला विमोक्षा ध्यानानि सर्वे तेऽप्येकलक्षणाः॥ ४॥

एवं संभवु बुद्धानां लोकनाथान ईदृशः।

न जातु केनचिच्छक्यं पश्यितुं मांसचक्षुषा॥ ५॥

बहू एवं प्रवक्ष्यन्ति दृष्टो मे लोकनायकः।

सुवर्णवर्णः कायेन सर्वलोकं प्रभासति॥ ६॥

अधिष्ठानेन बुद्धानामनुभावाद्विकुर्वितैः।

येनासौ दृश्यते कायो लक्षणेहि विचित्रितः॥ ७॥

आरोहपरिणाहेन कायो बुद्धस्य दर्शितः।

न च प्रमाणं कायस्य लब्धं तेन अचिन्तियः॥ ८॥

यदि प्रमाणं लभ्येत कायो बुद्धस्य एत्तकः।

निर्विशेषो भवेच्छास्ता देवैश्च मनुजैरपि॥ ९॥

समाहितस्य चित्तस्य विपाकोऽपि तल्लक्षणः।

तल्लक्षणं नामरूपं शुद्धं भोति प्रभास्वरम्॥ १०॥

न चैष केनचिज्जातु समाधिः शान्तु भावितः।

यथेह लोकनाथेन कल्पकोट्यो निषेवितः॥ ११॥

बहुभिः शुक्लधर्मैश्च समाधिर्जनितोऽप्ययम्।

समाधेरस्य वैपुल्यात् कायो मह्यं न दृश्यते॥ १२॥

यस्य वो यादृशं चित्तं नामरूपं पि तादृशम्।

निःस्वभावस्य चित्तस्य नामरूपं विलक्षणम्॥ १३॥

यस्य चोदारसंज्ञादि नामरूपस्मि वर्तते।

विसभागाय संज्ञाय उदारं चित्तु जायते॥ १४॥

यस्य चो मृदुकी संज्ञा नामरूपस्मि वर्तते।

अगृध्रं नामरूपस्मि चित्तं भोति प्रभास्वरम्॥ १५॥

स्मरामी पूर्वजातीषु असंख्येयेषु सप्तसु।

तिस्रो मे पापिकाः संज्ञा नैवोत्पन्नाः कदाचन॥ १६॥

अनास्रवं च मे चित्तं कल्पकोट्यो ह्यचिन्तियाः।

करोमि चार्थं सत्त्वानां न च मे कायु दृश्यते॥ १७॥

यथा च यस्य भावेहि विमुक्तं भोति मानसम्।

न तस्य तेहि भावेहि भूयो भोति समागमः॥ १८॥

विमुक्तं मम विज्ञानं सर्वभावेहि सर्वशः।

स्वभावो ज्ञातु चित्तस्य भूयो ज्ञानं प्रवर्तते॥ १९॥

क्षेत्रकोटीसहस्राणि गच्छन्ति मम निर्मिताः।

कुर्वन्ति चार्थं सत्त्वानां यत्र कायो न लभ्यते॥ २०॥

अलक्षणो निर्निमित्तो यथैव गगनं तथा।

कायो निरभिलाप्यो मे दुर्विज्ञेयो निदर्शितः॥ २१॥

धर्मकायो महावीरो धर्मेण काय निर्जितो।

न जातु रूपकायेण शक्यं प्रज्ञापितुं जिनो॥ २२॥

कथानिर्देशु यस्यैतं श्रुत्वा प्रीतिर्भविष्यति।

न तस्य मारः पापीयानवतारं लभिष्यति॥ २३॥

श्रुत्वा च धर्मं गम्भीरं यस्य त्रासो न भेष्यति।

न चासौ जीवितार्थाय बुद्धबोधिं प्रतिक्षिपेत्॥ २४॥

भूतकोटीसहस्राणां भूतनिर्देश ज्ञास्यति।

आलोकभूतो लोकानां येन येन गमिष्यति॥ २५॥

तत्र कुमार तथागतस्य कायो निमित्तकर्मणापि न सुकरं ज्ञातुम्। नीलो वा नीलवर्णो वा नीलनिदर्शनो वा नीलनिर्भासो वा। पीतो वा पीतवर्णो वा पीतनिदर्शनो वा पीतनिर्भासो वा। लोहितो वा लोहितवर्णो वा लोहितनिदर्शनो वा लोहितनिर्भासो वा। अवदातो वा अवदातवर्णो वा अवदातनिदर्शनो वा अवदातनिर्भासो वा। मञ्जिष्ठो वा मञ्जिष्ठवर्णो वा मञ्जिष्ठनिदर्शनो वा मञ्जिष्ठनिर्भासो वा। स्फटिको वा स्फटिकवर्णो वा स्फटिकनिदर्शनो वा स्फटिकनिर्भासो वा। आग्नेयो वा अग्निवर्णो वा अग्निनिदर्शनो वा अग्निनिर्भासो वा। सर्पिर्मण्डोपमो वा सर्पिर्वर्णो वा सर्पिर्निदर्शनो वा सर्पिर्निर्भासो वा। सौवर्णो वा सुवर्णवर्णो वा सुवर्णनिदर्शनो वा सुवर्णनिर्भासो वा। वैदूर्यो वा वैदूर्यवर्णो वा वैदूर्यनिदर्शनो वा वैदूर्यनिर्भासो वा। विद्युद्वा वा विद्युद्वर्णो वा विद्युन्निदर्शनो वा विद्युन्निर्भासो वा। ब्रह्मो वा ब्रह्मवर्णो वा ब्रह्मनिदर्शनो वा ब्रह्मनिर्भासो वा। देवो वा देववर्णो वा देवनिदर्शनो वा देवनिर्भासो वा। इति हि कुमार तथागतस्य कायः शुद्धः सर्वनिमित्तैरप्यचिन्त्यः अप्यचिन्त्यनिर्देशो रूपकायपरिनिष्पत्त्या। न सुकरं सदेवकेनापि लोकेन कायस्य प्रमाणमुद्ग्रहीतुमन्यत्र सर्वाकारैरचिन्त्यः अप्रमेयः॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

यद्रजो लोकधातूषु पांसुसंज्ञानिदर्शनम्।

उत्सह्रदतडागेषु समुद्रेषु च यज्जलम्।

न तेषां लभ्यते अन्तो एत्तका परमाणवः॥ २६॥

समुद्राद्वालकोटीभिर्मातुं शक्यं जलं भवेत्।

न तुल्या लोकनाथेन उपमा संप्रकाशिता।

जलबिन्दवोऽप्रमेयास्तथैव परमाणवः॥ २७॥

पश्माम्येकस्य सत्त्वस्य ततो बहुतरानहम्।

अधिमुक्तिचित्तोत्पादो नैककाले प्रजानितुम्॥ २८॥

ये मया आत्मभावस्य भूतवर्णा निदर्शिताः।

सर्वसत्त्वाधिमुक्तास्तानेतेषामुपमाक्षमाः॥ २९॥

निमित्तकर्मणा चैव वर्णनिर्भास ईदृशः।

शक्यं जानितुं बुद्धस्य विशेषो हीदृशो मम॥ ३०॥

निमित्तापगता बुद्धा धर्मकायप्रभाविताः।

गम्भीराश्चाप्रमेयाश्च तेन बुद्धा अचिन्तियाः॥ ३१॥

अचिन्तियस्य बुद्धस्य बुद्धकायोऽप्यचिन्तियः।

अचिन्तिया हि ते काया धर्मकायप्रभाविताः॥ ३२॥

चित्तेनापि न बुद्धानां कायश्चिन्तयितुं क्षमः।

तथा हि तस्य कायस्य प्रमाणं नोपलभ्यते॥ ३३॥

अप्रमेया हि ते धर्माः कल्पकोट्यो निषेविताः।

तेनो अचिन्तियः कायो निर्वृतो मे प्रभास्वरः॥ ३४॥

अग्राह्यः सर्वसत्त्वेहि न प्रमाणेहि गृह्यते।

तथा हि कायो बुद्धस्य अप्रमाणो ह्यचिन्तियः॥ ३५॥

अप्रमाणेहि धर्मेहि प्रमाणं तत्र कल्पितम्।

अकल्पितेहि धर्मेहि बुद्धोऽप्येवमकल्पितः॥ ३६॥

प्रमाणं कल्पमाख्यातो अप्रमाणमकल्पितम्।

अकल्प्यः कल्पापगतस्तेन बुद्धो अचिन्तियः ॥ ३७॥

अप्रमाणं यथाकाशं मातुं शक्यं न केनचित्।

तथैव कायु बुद्धस्य आकाशसमसादृशः॥ ३८॥

ये कायमेवं जानन्ति बुद्धानां ते जिनात्मजाः।

तेऽपि बुद्धा भविष्यन्ति लोकनाथा अचिन्तियाः॥ ३९॥



इति श्रीसमाधिराजे तथागतकायनिर्देशपरिवर्तो नाम द्वाविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project