Digital Sanskrit Buddhist Canon

स्मितसंदर्शनपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Smitasaṁdarśanaparivartaḥ
स्मितसंदर्शनपरिवर्तः।



अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावत् सुभाषितेयं भगवता तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मस्वभावसमता सर्वबोधिसत्त्वशिक्षासमाधिनिर्देशः। यथापि नाम भगवन् दीर्घरात्रमत्र शिक्षित्वा समुदागतोऽनुत्तरायां सम्यक्संबोधौ। प्रतिभाति च मे भगवन्, प्रतिभाति च मे सुगत। भगवानाह- प्रतिभातु ते कुमार यस्येदानीं

कालं मन्यसे। अथ खलु चन्द्रप्रभः कुमारभूतो भगवता कृतावकाशो भगवन्तं संमुखं सारूप्याभिर्गाथाभिरभ्यष्टावीत्-

दृष्ट्वान सत्त्वान् दुखितानुपद्रुतान्

रागेण दोषेण सदाभिभूतान्।

चित्तं त्वयोत्पादितु बोधिकारणादू

बुद्धो भवेयं ति प्रजान मोचकाः॥ १॥

चीर्णोऽसि वीर्ये बहुकल्पकोटियो

दाने दमे संयमि नित्यु शिक्षितः।

शीले च क्षान्तौ तथ वीर्येऽतन्द्रितो

दानं च दत्तं विपुलमनन्तकम्॥ २॥

न चो तव मानसु जातु खिन्नं

हस्तांश्च पादांस्त्यजमानु जीवितम्।

हिरण्यसुवर्णं तथ पुत्रदारं

राज्थं च त्यक्तमनपेक्ष भूत्वा॥ ३॥

शीलं तवाच्छं विमलं विशुद्धम्

आत्मा च त्यक्तो न च शील खण्डितम्।

कायेन वाचा मनसा सुसंवृता

सुदान्तचित्ता सुगता नमोऽस्तु ते॥ ४॥

क्षान्तीरताः क्षान्तिपथे प्रतिष्ठिताः

काये कृते खण्ड पि नैव क्रुध्यसे।

क्षीरं ततः प्रस्रवि मैत्रभावना

आश्चर्यभूता सुगता नमोऽस्तु ते॥ ५॥

बलैरुपेता दशभिर्बलैः स्थिता

असङ्गुज्ञानी विदि सर्वधर्मान्।

करुणानि लोकहितकर धर्मस्वामिन्

अनुकम्पसे प्रजा इम अर्थकामः॥ ६॥

शून्यं ति ज्ञानं न च पुनिहास्ति सत्त्वो

लोकं च दृष्ट्व तथा ति प्रनष्टमार्गम्।

विबोधितास्ते प्रकृतिनिरात्मधर्मे

विमुक्तिजाता न च क्वचि सा विमुक्तिः॥ ७॥

प्रत्यादिशं जहिय सदा प्रमत्तं

जित्वा च मारं सबलमनन्तसैन्यम्।

बुद्धित्व बोधि विपुलामनन्तज्ञानं

दिशेहि धर्मं परम विशुद्धशान्तम्॥ ८॥

गगनं पतेय्या सह शशितारकेहि

पृथिवी विनश्येत् सनगरशैलसंस्था।

आकाशधातुरपि च सियान्यथात्वं

नो चैव तुभ्यं वितथ भणेय्य वाचा॥ ९॥

दृष्ट्वा त्वं दुःखितान् सत्त्वानुपलम्भरताः प्रजाः।

अनोपलम्भं देशेसि गम्भीरां शान्तशून्यताम्॥ १०॥

शिक्षितोऽसि महावीर कल्पकोटीरचिन्तिया।

अनोपलम्भशिक्षायां स्खलितं ते न विद्यते॥ ११॥

यादृशे शिक्षितो धर्मे तादृशं धर्मु भाषसे।

अभूमिरत्र बालानां यावन्त अन्यतीर्थिकाः॥ १२॥

ये स्थिता आत्मसंज्ञायां ते स्खलन्ति अविद्वसु।

ज्ञात्वा धर्माण नैरात्म्यं स्खलितं ते न विद्यते॥ १३॥

भूतवादी महावीर भूतधर्मप्रतिष्ठितः।

भूते सत्ये स्थितो नाथ भूतां वाचं प्रभाषसे॥ १४॥

भूता ते चारिका आसीद् यथा ते प्रणिधिः कृतः।

तस्य भूतस्य निष्यन्दा भूतां वाचं प्रभाषसे॥ १५॥

भूतचर्यासु संपन्नो भूतकोटीसुशिक्षिता।

भूताशया भूतचरी भूतप्रज्ञ नमोऽस्तु ते॥ १६॥

समस्ते प्रज्ञया नास्ति ज्ञानवादि प्रभाकर।

ज्ञाने विशेषतां प्राप्त ज्ञानवादि नमोऽस्तु ते॥ १७॥

मित्रस्त्वं सर्वसत्त्वानां मैत्री तव सुभाविता।

अप्रकम्प्यो यथा मेरुरचलः सुप्रतिष्ठितः॥ १८॥

गणे सुविपुले शास्तुर्गणान् संपरिकर्षसि।

गभीरप्रज्ञा सुगता नदसे परिषद्गता॥ १९॥

सिंहनादं नदि बुद्धः सिंहविक्रान्तविक्रमः।

जितास्ते तीर्थिकाः सर्वे सिंहेन क्रोष्टुका यथा॥ २०॥

अदान्तदमको वीर अदान्ता दमितास्त्वया।

ते च मित्रा दृढा भोन्ति अभेद्या भोन्ति सुस्थिताः॥ २१॥

दृष्ट्वा त्वं दुःखितान् सत्त्वानात्मदृष्टिसमाश्रितान्।

नैरात्म्य धर्मं देशेमि यत्र नास्ति प्रियाप्रियम्॥ २२॥

अशिक्षितानां बालानां कुमार्गपथचारिणाम्।

मार्गं त्वं संप्रकाशेसि येन गच्छन्ति नायकाः॥ २३॥

ये स्थिता आत्मसंज्ञायां दुःखे ते सुप्रतिष्ठिताः।

न ते जानन्ति नैरात्म्यं यत्र दुःखं न विद्यते॥ २४॥

अखिलितपदधर्मदेशकोऽसि

स्खलितु न लभ्यति लोकनाथ।

अवितथ गिर संप्रभाषसे त्वं

दुःखमोक्षकरा नमस्ते नाथ॥ २५॥

बहुनियुतशता सहस्रकोट्यो

गगनस्थिताः पृथु देवनागयक्षाः।

सर्विं स्पृह जनेन्ति नायकस्मिन्

भगवतु वाच श्रुणित्व अर्थयुक्ताम्॥ २६॥

स्निग्धमृदुमनोज्ञकालयुक्तां

सुमधुर वाच प्रणीत प्रेमणीयाम्।

अपरिमितस्वराङ्गसंप्रयुक्तां

हितकर मोक्षकरीं बहुजनस्य॥ २७॥

तुरियशतसहस्र अप्रमेया

सुमधुर युक्त भवेयुरेककाले।

दिव्यस्वर विशिष्ट प्रेमणीया

अभिभवति सुगतस्य एकवाचा॥ २८॥

द्विजगणकलविङ्कमञ्जुधोषाः

सुरुचिर प्रेमणीयाः सुगीतशब्दाः।

शङ्खपटहभेरिवीणशब्दाः

कलमपि न लभन्तिः बुद्धशब्दे॥ २९॥

परभृतशुकशारिकाण शब्दा-

स्तथ पुनः क्रौञ्चमयूरकिन्नराणाम्।

रुत रवित य केचि प्रेमणीयाः

कलमपि बुद्धस्वरस्य नानुभोन्ति॥ ३०॥

प्रिय मधुर मनोज्ञ प्रेमणीयाः

सुमधुर शान्तगिरा प्रशंसनीयाः।

सर्वि गिर प्रयुक्त एककाले

गिरवर हर्षणियास्तथागतस्य॥ ३१॥

सुरमनुजनरेन्द्रदानवानां

सकलभवे त्रिभवे य अस्ति सत्त्वाः।

या प्रभा अभवत् प्रभाकराणां

अभिभवति सुगतस्य एकरश्मिः॥ ३२॥

कुसुमितु सुगतस्य आत्मभावः

परिवृतु विचित्रु सर्वलक्षणैः।

पुण्यशतनिर्वृतु अच्छ शुद्धः

प्रतपति सर्वजगे जिनस्य कायः॥ ३३॥

शङ्खान शब्द पणवसुघोषकाणां

भेरीण शब्द तथपि च किम्पलानाम्।

सर्वे च शब्द सुमधुर प्रेमणीया

बुद्धस्य शब्दे शतिम कलां न भोन्ति॥ ३४॥

तूर्याण कोटिनियुतसहस्रशब्दा

आस्वादनीय सुमधुर दिव्यकल्पाः।

प्रामोदनीय मरुगण अप्सराणां

बुद्धस्य शब्दे शतिम कलां न भोन्ति॥ ३५॥

क्रौञ्चा मयूर परभृत चक्रवाका

हंसाः कुणाला बहुविधपक्षिसंघाः।

ये ते सशब्दाः सुमधुर एककाले

बुद्धस्य शब्दे शतिम कलां न भोन्ति॥ ३६॥

नागान यक्षाण असुरमहोरगाणां

देवेन्द्रब्रह्ममरुपतीनां च शब्दाः।

यावन्त शब्दास्त्रिभवे मनोज्ञ कान्ता

बुद्धस्वरस्य कलमपि ते न भोन्ति॥ ३७॥

या ब्रह्मणो वा मरुपतिनश्च आभा

प्रभास्वराणां मणिरतनान आभाः।

सर्वा य आभा विविधमनेकरूपाः

सर्वास्त एका अभिभवि बुद्धरश्मिः॥ ३८॥

कायेन शुद्धो वचसा मनेन चैव

ज्ञानेन शुद्धस्त्रिभवि अनोपलिप्तः।

गुणसारराशि गुणरतनो नरेन्द्रः

सर्वगुणेहि असमसमः स्वयंभूः॥ ३९॥

एवं स्तवित्वा दशबल सत्यवादिं

वाचं प्रभाषि मुदितमनः कुमारः।

पूजित्व बुद्धमतुलियमप्रमेयं

बुद्धो भवेय यथ इव शाक्यसिंहः॥ ४०॥

तस्यो विदित्वा सुगतु विशिष्ट चर्या-

मसङ्गज्ञानी स्मितमकरोन्नरेन्द्रः।

मैत्रेयु पृच्छी दशबलज्येष्ठपुत्रं

कस्यार्थि एतं स्मितु कृतु नायकेन॥ ४१॥

आकम्पिताभूद्वसुमति षड्विकारं

देवाश्च नाग गगनस्थिता उदग्राः।

प्रेक्षन्ति बुद्धं प्रमुदित हृष्टचित्ता-

स्तं व्याकरोहि सुगत अनाभिभूतः॥ ४२॥

अभूमिरस्मि भगवतु श्रावकाणां

यत्र प्रवृत्तं पुरुषवरस्य ज्ञानम्।

सुविशुद्धज्ञानिन्ननुपमप्रज्ञभूमि

अखिला ते स्मितु कृतु जिन कस्य अर्थे॥ ४३॥

पृच्छमि दशबलं विनायकं

शाक्यसिंह द्विपदानमुत्तमम्।

ज्ञानपारमिं गतं प्रभाकरं

रागद्वेषखिलमोहसादकम्॥ ४४॥

कल्पकोटि चरितोऽसि नायको

गङ्गवालुकसमास्ततोत्तरम्।

एषमाणु वरबोधिमुत्तमां

कस्य अर्थि स्मितु एतु दर्शितम्॥ ४५॥

हस्त-पाद परिकृत्त शास्तुना

पुत्रदार प्रियज्ञाति बान्धवान्।

एषमाणु वरज्ञानमुत्तमं

को नु हेतु स्मितदर्शने मुने॥ ४६॥

अश्वहस्तिरथपत्तियो त्वया

दासदासिमणिरत्न रूप्यकम्।

नैव द्रव्यरतनं च लभ्यते

यन्न त्यक्तु चरता ति चारिकाम्॥ ४७॥

ज्ञानु श्रेष्ठु त्रिभवेऽतिवर्तते

सर्वसत्त्वचरियां प्रजानसे।

धातुचित्तु अधिमुक्तिकोविदा

कस्य अर्थि स्मितु एतु दर्शितम्॥ ४८॥

केन पूजित नराणमुत्तमाः

कस्य वार्थ विपुलो भविष्यति।

को च अस्य चरियाय ग्राहकः

कस्य अर्थि स्मितु दर्शितं मुने॥ ४९॥

षड्विकार पृथिवी प्रकम्पिता

पद्मकोट्य धरणीतु उत्थिताः।

कोटिपत्रपरमा प्रभास्वरा

हेमवर्णरुचिरा मनोरमा॥ ५०॥

यत्रिमे स्थित जिनस्य औरसा

बोधिसत्त्व परमा महर्द्धिकाः।

धर्मभाणक बहू समागता-

स्तेष कारुणिक पृच्छि नायकम्॥ ५१॥

भेरिशङ्खतुणवाः सुघोषका-

स्तूर्य कोटिनियुताः प्रवादिताः।

तेष शब्द गगनस्मि श्रूयते

यादृशः सुगतघोष अचिन्तियः॥ ५२॥

हंसक्रौञ्चकलविङ्ककोकिलाः

पक्षिसंघ बहुकाः समागताः।

मुञ्चि घोष परमं प्रभास्वरं

बुद्धघोषकल नानुभोन्ति ते॥ ५३॥

केन दान दम संयमः पुरे

कल्पकोटि बहुका निषेविताः।

केन पूजित नराण उत्तमा

कस्य अर्थि स्मितु एतु दर्शितम्॥ ५४॥

केन पूर्वि द्विपदेन्द्रु पृच्छितो

गौरवं परमु संजनित्वन।

बुद्धबोधि कथमेष लभ्यते

कस्य अर्थि स्मितु एतु दर्शितम्॥ ५५॥

यात्तिका दशबला अतीतकाः

प्रत्युत्पन्न सुगता अनागताः।

सर्व जानसि नराणमुत्तमो

तेन पृच्छमि प्रजाय कारणात्॥ ५६॥

चित्तसंतति प्रजाय जानते

सर्वि प्राणिन अनन्तगोचराः।

यस्य यादृशु नरस्य आशय-

स्तेन पृच्छमि नराणमुत्तमम्॥ ५७॥

ये चरन्ति चरियामनुत्तमां

हेतुयुक्तिविनयस्मि कोविदाः।

बुद्धज्ञान कथमेतु लभ्यते

एतदर्थि द्विपदेन्द्रु पृच्छिहम्॥ ५८॥

ये हि धर्म सुखुमाः सुदुर्दृशाः

शून्य शान्त अतुला अचिन्तियाः।

भाविता दशबलान गोचरा-

स्तेष अर्थ अहु पृच्छि नायकम्॥ ५९॥

येष मैत्रि करुणा सुभाविता

सर्वप्राणिषु जगे अचिन्तिया।

सत्त्वसंज्ञ न च येष वर्तते

तेष अर्थि द्विपदेन्द्रु पृच्छियाम्॥ ६०॥

येष ज्ञानमतुलमचिन्तियं

तेष ग्राह्य न कदाचि विद्यते।

चित्तगोचरिय पारमिं गता

तेष अर्थि अहु नाथ पृच्छमि॥ ६१॥

शीलज्ञानगुणपारमिं गता

त्र्यध्वज्ञानमतुलं भिवर्तते।

नैव तुभ्य स्खलितूपलभ्यते

कस्य अर्थि स्मितु एतु दर्शितम्॥ ६२॥

शारिपुत्र अनिरुद्ध कोलिता

ये च अन्य सुगतस्य श्रावकाः।

नैव तेष इह ज्ञानु वर्तते

बुद्धगोचरु अयं निरूत्तरः॥ ६३॥

सर्वधर्मवशिपारमिं गताः

सर्वशिक्ष-चरियाय उद्गताः

संजनेत्व करुणां विनायका

मुञ्च घोष परमार्थकोविदा॥ ६४॥

येऽपि पूर्व बहुकल्पकोटियो

एव चिन्ति द्विपदेन्द्रु पृच्छितः।

भष्यमग्रु शरणं परायणं

तेष अद्य फल ब्रूहि नायका॥ ६५॥

यक्षराक्षसकुम्भाण्डगुह्यकाः

प्रेक्षमाण द्विपदानमुत्तमम्।

सर्वि प्राञ्जलिस्थिताः सगौरवाः

श्रोतु व्याकरणमग्रपुद्गलान्॥ ६६॥

बोधिसत्त्व बहवोऽद्य आगता

ऋद्धिमन्त बहुक्षेत्रकोटिभिः।

जेष्ठपुत्र सुगतस्य औरसाः

सर्वि प्राञ्जलिस्थिताः सगौरवाः॥ ६७॥

गन्धहस्ति पुरिमादिशा गतो-

ऽक्षोभ्यक्षेत्र दिशि लोकविश्रुतः।

बोधिसत्त्वनयुतैः पुरस्कृतः

शाक्यसिंहु द्विपदेन्द्रु पृच्छना॥ ६८॥

सुखावतीय वरलोकधातुतो

महास्थाम प्राप्त अवलोकितेश्वरः।

बोधिसत्त्वनयुतैः पुरस्कृतः

शाक्यसिंहु द्विपदेन्द्रु पृच्छना॥ ६९॥

येन पूर्व बहुकल्पकोटियो

अप्रमेय सुगता उपस्थिताः।

सागराण सकला च वालिका

एषता परम ज्ञानमुत्तमम्॥ ७०॥

सर्वबुद्धस्तुत संप्रशंसितः

सर्वधर्मगुणपारमिं गतः।

सर्वलोकदिशतासु विश्रुतो

मञ्जुघोष स्थितु प्राञ्जलीकृतः॥ ७१॥

बुद्धक्षेत्रनियुतैश्चरित्वना

सुदुर्लभमीदृशकान दर्शनम्।

बुद्धपुत्रगुणवत् सुशिक्षिताः

सर्वि प्राञ्जलिस्थिताः सगौरवाः॥ ७२॥

नास्ति अन्य इह कश्चि भाजनं

एवरूपि यथ एत सूरताः।

धर्मकोषधर सर्वशास्तुनां

स्निग्धभाव गिर मुञ्च नायका॥ ७३॥

न ह्यकारणक जिना विनायका

दर्शयन्ति स्मितमग्रपुद्गलाः।

मुञ्च घोषवर दुन्दुभिस्वर

कस्य अर्थि स्मितु एतु दर्शितम्॥ ७४॥

हंसकोकिलमयूरसारसा

मेघनाद वृषभाः प्रगर्जिताः।

दिव्यवाद्यमधुराः प्रवादिता

व्याकरोहि गिर सत्त्वमोचनी॥ ७५॥

मैत्रसंजननि प्रेमवर्धनी

ज्ञानदर्शनि अविद्यरिञ्चनी।

अर्थतीरणि प्रज्ञाविवर्धनी

कल्पकोटिनियुता विशोधनी॥ ७३॥

विनिश्चितभावविभावित-

दुःखनिरोधपदार्थनिदर्शनी।

सर्वकुतीर्थकवादध्वंसनी

शून्य निसत्त्व निजीव विभावनि॥ ७७॥

पुण्यसहस्रशतेहि अलंकृतः

बुद्धसहस्रशतेहि चरित्विह।

देवसहस्रशतेहि सुसंस्तुतः

ब्रह्मसहस्रशतेहि नमस्कृतः॥ ७८॥

राक्षसयक्षकुम्भाण्डप्रसादनि

नागसुपर्णमहोरगमोचनि।

नित्यमसक्त-प्रयुक्त-उदीरणि

कर्मफलेहि शुभेहि समुद्गतः॥ ७९॥

ये च केचि जिनाः परिनिर्वृता

ये च अनागत ये च अवस्थिताः।

सर्वि प्रजानसि सङ्गु न तेऽस्तीति

सर्वगुणेहि समुद्गत नायक॥ ८०॥

भूतधरा ससमुद्रपर्वत

सर्वि मही षड्विकार प्रकम्पिता।

देवगणा नभि पुष्प क्षिपन्ति च

दिव्यु प्रवायति गन्धु मनोरमु॥ ८१॥

हतरागदोषतिमिरा निखिला

परिशुद्धशील परिशुद्धमनाः।

प्रशान्त शून्य अनिमित्तरता

नरसिंहनादु नद कारुणिका॥ ८२॥

प्रतिभानवन्त सुविशालयशा

सुसमाप्तप्रज्ञ तथज्ञान जिना।

तव लोकि नास्ति समु कारुणिका

भण कस्यु अर्थि स्मितु दर्शयसे॥ ८३॥

कलविङ्ककोकिलमयूररवा-

स्तथ जीवंजीवं जीवकमनोज्ञरुताः।

रञ्जनीय शब्दु भुवि एकक्षणे

कल तेन भोन्ति सुगतस्य स्वरे॥ ८४॥

भेर्यो मृदङ्गपणवाश्च तथा

शङ्ख सवेणु तथा वल्लरियो।

तूर्यासहस्र सिय एकरवाः

कल नानुभोन्ति सुगतस्य रुते॥ ८५॥

तूर्यसहस्र वर दिव्यरुता

रञ्जनीय गीत सिय अप्सरसाम्।

सुगीति शब्दरति संजने

कल न भोन्ति सुगतस्य रुते॥ ८६॥

एकस्वरा तु तव लोकहिता

नानाधिमुक्ति स्वरु निश्चरति।

एकैकु मन्यि मम भाषि जिनो

ब्रूहि स्मितं ति कृतु कस्य कृते॥ ८७॥

देवान शब्द तथ नागरुता

ये चापि किन्नररुता मधुराः।

प्रशमेन्ति क्लेश न कदाचिदपि

बुद्धस्वरास्तु सद क्लेशनुदाः॥ ८८॥

प्रीतिं जनेति न च रागरतिं

मैत्रीं जनेति न च दोषमतिम्।

प्रज्ञां जनेति न च मोहरतिं

बुद्धान सर्व मलनाशि स्वरः॥ ८९॥

न बहि च शब्दु परिषातु प्रजा

सर्वेष छिन्दति स काङ्क्षशतान्।

न च ओनतो न हि च औन्नमतो

समसौख्यदर्शन स्वरो मुनिनः॥ ९०॥

भज्यादियं मही सशैलरणा

क्षीयते सागरजलं च तथा।

चन्द्रोऽथ सूर्यु धरणीं प्रपतेद्

गिरमन्यथा न पुन भाषि जिनः॥ ९१॥

सर्वाङ्गवाक्य परिशुद्धगिरा

सिंहस्वरा मधुरमञ्जगिरा।

ब्रह्मस्वरा सुगत कारुणिका

भण कस्य अर्थि स्मितु दर्शयसे॥ ९२॥

यावन्त सत्त्व इह सर्व जगे

सर्वेष चित्त चरते कुशलः।

ये अतीतनागत ये सांप्रतिका

भण कस्य अर्थि स्मितु दर्शयसे॥ ९३॥

यावन्त केचिज्जिन कारुणिका

ज्ञानस्मि सर्वि वशि पारमिं गताः।

न च ते जिना विमलचन्द्रमुखा

नाहैतुकं स्मित सद दर्शयसे॥ ९४॥

अपि कल्पकोटि भणि अप्रतिमा

यथ गङ्गवालिक भणेय्य गुणान्।

न च शक्यु कीर्तितु प्रमाणु गुणे

भण कस्य अर्थि स्मितु दर्शयसे॥ ९५॥



इति श्रीसमाधिराजे स्मितसंदर्शनपरिवर्तश्चतुर्दशः॥ १४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project