Digital Sanskrit Buddhist Canon

पुरप्रवेशपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Purapraveśaparivartaḥ
पुरप्रवेशपरिवर्तः।



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार प्रतिपत्तिसारो भविष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम्। तत् कस्य हेतोः ? प्रतिपत्तिसारस्य हि कुमार बोधिसत्त्वस्य महासत्त्वस्य न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः, किं पुनरयं समाधिः। अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावत् सुभाषिता चेयं भगवता बोधिसत्त्वानां महासत्त्वानामववादानुशासनी सर्वबोधिसत्त्वशिक्षा देशिता स्वाख्याता सुप्रज्ञप्ता। सर्वतथागतगोचरोऽयं भगवन् यत्र अभूमिः सर्वश्रावकप्रत्येकबुद्धानां कः पुनर्वादोऽन्यतीर्थिकानाम् ? प्रतिपत्तिसाराश्च वयं भगवन् भविष्यामः अनपेक्षाः कायजीविते च भूत्वा तथागतस्यानु शिक्षिष्यामहे। तत् कस्य हेतोः ? शिक्षितुकामाश्च वयं भगवंस्तथागतस्य, अभिसंबोद्धुकामा वयं भगवन्ननुत्तरां सम्यक्संबोधिम्। अर्थिका वयं भगवन् अनुत्तरायाः सम्यक्संबोधेः। विध्वंसयितुकामाश्च वयं भगवन् मारं पापीयांसम्। मोचयितुकामा वयं भगवन् सर्वसत्त्वान् सर्वभयेभ्यः सर्वदुःखेभ्यः। अधिवासयतु मे भगवान् श्वस्तने मम गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन सार्धं भिक्षुसंघेन चानुकम्पामुपादाय। अधिवासयति स्म भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तूष्णींभावेन श्वस्तने गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन भिक्षुसंघेन चानुकम्पामुपादाय। अथ खलु चन्द्रप्रभः कुमारभूतो भगवतस्तूष्णींभावेनाधिवासनं विदित्वा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्राक्रामत्॥



अथ खलु चन्दप्रभः कुमारभूतो येन राजगृहं महानगरं येन च स्वकं निवेशनं तेनोपसमक्रामत्। उपसंक्रम्य चन्द्रप्रभः स्वगृहं प्राविशत्। प्रविश्य च तामेव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं स्वादनीयमभिसंस्कारयति स्म। शतरसं च भोजनं संपाद्य तस्या एव रात्र्या अत्ययेन राजगृहं महानगरं सुसिक्तं सुसंमृष्टं मुक्तकुसुमाभिकीर्णं गन्धघटिकानिर्घूपितमुच्छ्रितच्छत्रध्वजपताकं धूपनधूपितं वितानविततमवसक्तपट्टदामकलापं सरथ्यान्तरापणमपगतपाषाणशर्करकठल्लं विचित्रपुष्पाभिकीर्णं चन्दनचूर्णाभिकीर्णं गवाक्षतोरणनिर्यूहपञ्जरजालार्धचन्द्रसमलंकृतं चन्दनानुलिप्तमकार्षीत्। सर्वावन्तं नगरमुत्पलकुमुदपद्मपुण्डरीकाभ्यवकीर्णमकार्षीत्। स्वं च गृहं सर्वालंकारव्यूहितमकार्षीत्। अथ खलु चन्द्रप्रभः कुमारभूत इमानेवंरुपान् नगरव्यूहान् गृहव्यूहान् भोजनव्यूहान् समलंकृत्य राजगृहान्महानगरान्निष्क्रम्य येन गृध्रकूटपर्वतो येन भगवांस्तेनोपसमक्रामत्। उपसंक्रम्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्तेऽस्थात्। एकान्ते स्थितः चन्द्रप्रभः कुमारभूतो भगवतः कालमारोचयामास-कालो भगवन्, कालः सुगत, सिद्धं भक्तं यस्येदानीं कालं मन्यसे। अथ खलु भगवान् उत्थायासनात् कल्यमेव निवास्य पात्रचीवरमादाय महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुशतसहस्रेण संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः परिवृतः पुरस्कृतोऽनेकैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशतसहस्रैः पूज्यमानोऽभिष्टूयमानो महता बुद्धानुभावेन महता बुद्धप्रातिहार्येण महता बुद्धेर्यापथेन रश्मिकोटिनियुतशतसहस्रैर्निश्चरद्भिर्नानातूर्यशतसहस्रैः पुष्पगन्धमाल्यविलेपनचूर्णचीवरैः प्रवर्षद्भिर्येन राजगृहं महानगरं तेनोपसंक्रामति स्म। चन्द्रप्रभस्य कुमारभूतस्य निवेशने प्रक्षिप्तश्च भगवता दक्षिणश्चक्ररत्नसमलंकृतः अपरिमितकुशलसंचितपादरत्न इन्द्रकीले, अथ तावदेव तस्मिन् महानगरे अनेकानि आश्चर्याद्भुतानि प्रातिहार्याणि संदृश्यन्ते स्म। इयमत्र धर्मता। तत्रेदमुच्यते -

पुरवर प्रविशन्ति नायकस्मिन्

चरणवरु स्थपितश्च इन्द्रकीले।

चलति वसुमती शिरीय तस्य

प्रमुदित भोन्ति पुरोत्तमस्मि सत्त्वाः॥ १॥

ये नरः क्षुधिताः पिपासिता वा

न भवति तेष जिघत्स तस्मि काले।

अपगत भवती क्षुघा पिपासा

यद जिनु निक्षिपतीन्द्रकीलि पादम्॥ २॥

तथ पुन नर ये भवन्ति अन्धाः

श्रोत्रविहीन अनाथ अल्पपुण्याः।

सर्वि प्रतिलभन्ति चक्षु श्रोत्रं

यद जिनु निक्षिपतीन्द्रकीलि पादम्॥ ३॥

यमविषये ये केचि भोन्ति प्रेताः

सुदुःखित खेटसिंघाणकभोजनाशाः।

सर्वि सुखित भोन्ति आभस्पृष्टा

यद जिनु निक्षिपतीन्द्रकीलि पादम्॥ ४॥

शैलशिखरशृङ्गपर्वताश्च

तथ वरपादपशालकर्णिकाराः।

सर्वि अभिनमन्ति येन बुद्धो

यद जिनु निक्षिपतीन्द्रकीलि पादम्॥ ५॥

सनगरनिगमा ससागरान्ता

प्रचलि वसुंधरि षड्-विकार सर्वा।

न भवति विहेठ कस्यपि चेह

यद जिनु निक्षिपतीन्द्रकीलि पादम्॥ ६॥

मरुमनुजकुम्भाण्डराक्षसाश्च

नभःस्थित तुष्ट उदग्रचित्ताः।

छत्र धरिय च लोकनायकस्य

परमप्रीणित जनेत्व बोधिछन्दम्॥ ७॥

श्रूयति च मनोज्ञ वाद्यशब्द-

स्तूर्यसहस्र अघट्टिता रणन्ति।

प्रमुदितास्तद भोन्ति सर्वसत्त्वा

यद जिनु निक्षिपतीन्द्रकीलि पादम्॥ ८॥

वृक्षशतसहस्र ओनमन्ति

सर्वि प्रपुष्पित भोन्ति तस्मि काले।

देवशतसहस्र अन्तरीक्षे

पूज करोन्ति अमानुषी जिनस्य॥ ९॥

ऋषभगण तदा नदन्ति हृष्टा

हयद्विरदाधिपती प्रवृद्धकायाः।

मृगपतयो नदन्ति सिंहनादं

यद जिनु निक्षिपतीन्द्रकीलि पादम्॥ १०॥

महीपतय ये केचि भूमिपाला

दिशिविदिशासु च आगता भवन्ति।

धरणितलि पतन्ति हृष्टचित्ता

दृष्टु जिनस्य शिरीमिममेवरूपाम्॥ ११॥

अन्ये अभिष्टुवन्ति लोकनाथम्

अपरि क्षिपन्ति जिनस्य पुष्पवृष्टिम्।

अपरि दशनखाञ्जलिं करित्वा

अहो जिनु कारुणिको भणन्ति वाचम्॥ १२॥

केचि वर क्षिपन्ति मुक्तहारान्

बहुविध आभरणान् जनेत्व प्रीतिम्।

चीवर रतनान् क्षिपन्ति अन्ये

अतुलियु अग्रु जिनत्व बोधिचित्तम्॥ १३॥

केचि वर क्षिपन्ति हेमजालं

अपरि पुनर्मुखफुल्लकं क्षिपन्ति।

केचि वर क्षिपन्ति हेमनिष्कां-

स्तथ अपरे परिहारकान् क्षिपन्ति॥ १४॥

कटकवर क्षिपन्ति केचि तत्र

अपरि केयूर क्षिपन्ति रत्नचित्रान्।

अम्बर कुसुमान् क्षिपन्ति अन्ये

चित्त जनेत्व ' सियां वयं पि बुद्धाः'॥ १५॥

अपरि नरः क्षिपन्ति हेमचित्रां -

स्तथ मणिसूत्रवरान् प्रसन्नचित्ताः।

केचि च रतनजालकं क्षिपन्ति

द्वारि यदा स्थितु भोति लोकनाथः॥ १६॥

परमदुःखित ये भवन्ति सत्त्वा

बहुविधुपद्रुवु शोकशल्य प्राप्ताः।

सर्वि सुखसमर्पिता भवन्ति

पुरुषवरस्य शिरीय नायकस्य॥ १७॥

परभृतशुकसारिकामयूरा-

स्तथपि च सारसचाषहंसक्रौञ्चाः।

सर्वि द्विजगणा नभे स्थिहित्वा

परममनोज्ञरुतानि व्याहरन्ति॥ १८॥

प्रमुदित तद भोन्ति पक्षिसंघा

मधुरमनोज्ञरुतं प्रमुञ्चमानाः।

रागु तथ समेन्ति दोषमोहं

ये च शृणन्ति मनोज्ञ पक्षिशब्दान्॥ १९॥

श्रुणिय रञ्जनीय सत्त्वकोट्यः

सर्वि च लभन्ति क्षान्तिमानुलोमाम्।

तांश्च सुगत व्याकरोति सर्वान्

भविष्यथ यूय जिना अनागताश्च॥ २०॥

न भवति किलेशु तस्मि काले

सर्वि सगौरव भोन्ति धर्मराजे।

अपगतभयदोषमोहजालाः

प्रणिपतिताः सुगतमभिष्टुवन्तः॥ २१॥

पश्यिय तद रूप नायकस्य

स्पृह जनयन्ति वरस्मि बुद्धज्ञाने।

कद वय लभे ज्ञानमेवरूपम्

आशयु ज्ञात्व जिनोऽस्य व्याकरोति॥ २२॥

रश्मि शतसहस्र निश्चरन्ति

एकैकतः सुगतस्य रोमकूपात्।

तदुत्तरि यथ गङ्गवालिका वा

न पि च निमित्तु गृहीतु शक्यु तासाम्॥ २३॥

सूर्यप्रभ न भान्तिं तस्मि काले

न पि मणि नाग्नि न सर्वदेवतानाम्।

सर्वि प्रभ न भान्ति तस्मि काले

यद प्रविशन्त पुरं विभाति बुद्धः॥ २४॥

पद्मशतसहस्र प्रादुर्भूता

धरणितु कोटिसहस्रपत्र शुद्धाः।

यत्र दशबलः स्थपेति पादं

मार्ग गतः सुगतो महागणेन॥ २५॥

अशुचि कलिमला न भोन्ति तस्मि काले

नगरवरं प्रविशन्ति नायकस्मिन्।

नगरु सुरभि सर्वि धूपनेन

गन्ध मनोज्ञ प्रवायते समन्तात्॥ २६॥

वीथि नगरि तद भोति सर्वा

अपगतलोष्टकठल्ल सिक्त गन्धैः।

पुण्य दशलबस्य एवरूपा

विविध विकीर्ण भवन्ति मुक्तपुष्पाः॥ २७॥

यक्ष शतसहस्र रौद्रचित्ताः

कनकनिभं द्विपदेन्द्रु दृष्ट्व बुद्धम्।

जनयि विपुलु नायकस्मि प्रेमं

शरणमुपेति च बुद्धधर्मसंघान्॥ २८॥

ये च देवशतसहस्र कोटियो वा

उपगत सर्वि नरेन्द्रदर्शनाय।

वर्षति सुगतस्य पुष्पवर्षं

गगनतले च स्थिहन्ति मुक्तपुष्पाः॥ २९॥

ये मनुज क्षिपी जिनस्य पुष्पं

गगनतले भवतीति पुष्पछत्रम्।

ये पुन कुसुमान् क्षिपन्ति देवा

धरणितले स्तृत भोन्ति दिव्यपुष्पाः॥ ३०॥

न भवति कदाचि दृष्ट्व तृप्ती

देवमनुष्यकुभाण्डराक्षसानाम्।

यद दशबलु दृष्ट्व लोकनाथं

प्रमुदित भोन्ति उदग्रकल्यचित्ताः॥ ३१॥

न मनसि तद भोन्ति दिव्यपुष्पा

न च पुन विस्मयु जायते च तत्र।

यद पुरुषवरस्य कायु दृष्ट्वा

तुष्ट भवन्ति उदग्र सर्वसत्त्वाः॥ ३२॥

ब्रह्म दशबलस्य दक्षिणेनो

तथ पुन वामतु शक्र देवराजा।

गगनतलगता अनल्प देवकोट्यः

पुरुषवरस्य जनेन्ति चित्रिकारम्॥ ३३॥

परिवृत जिनु देवदानवेहि

मरुमनुजान शिरिं ग्रसित्व सर्वाम्।

धरणि क्रमतलेहि चित्रयन्तो

प्रविशि पुरं भगवान्निमन्त्रणाय॥ ३४॥

कुसुमित अनुव्यञ्जनेहि काये

यथ गगनं परिपूर्ण तारकेहि।

प्रतपति स्थितु राजमार्गि बुद्ध-

श्चन्द्रो नभःस्थ यथैव पूर्णिमास्याम्॥ ३५॥

मणिरतनु यथा विशुद्धु श्रेष्ठं

व्यपगतदोषमलं प्रभासमानम्।

दिशि विदिशि प्रमुञ्चि आभ शुद्धां

तथ जिनु भासति सर्वलोकधातुम्॥ ३६॥

परिवृतु जिनु देवदानवेहि

प्रविशति राजगृहं नराण श्रेष्ठः।

धरणि क्रमतलेहि चित्रयन्तो

प्रविशति चन्द्रप्रभस्य गेहि बुद्धः॥ ३७॥

पुरुवरु समलंकृतं समन्ताद्

बहु ध्वज कोटिसहस्र उच्छितात्र।

गन्धवरविलिप्त सर्वभूमी

सुमनःप्रकीर्ण तथैव वार्षिकारम्॥ ३८॥

यद सुगतु कथां कथेति नाथो

वीथिगतो मनुजान् कृपायमानः।

निर्मितु जिनु तत्र निर्मिणित्वा

वितरति तेषु प्रणीत बुद्धधर्मान्॥ ३९॥

दशनियुत जिनान निर्मितान

कनकनिभा अभिरूप दर्शनीया।

परिवृतु जिनु बुद्धु निर्मितेहि

वितरति शून्यत शान्त बुद्धबोधिम्॥ ४०॥

प्राणिशतसहस्र तं श्रुणित्वा

प्रणिदधि चित्तु वराग्रबुद्धज्ञाने।

कद वय लभि ज्ञानमेवरूपं

आशयु ज्ञात्व जिनोऽस्य व्याकरोति॥ ४१॥

केचि स्पृह जनेन्ति तत्र काले

परम अचिन्तिय लब्ध तेहि लाभाः।

येहि जिनु निमन्त्रितो नरेन्द्रो

न च पर्यन्त स तेषु दक्षिणायाः॥ ४२॥

केचि पुनरुपपादयि सुचित्तं

श्वो वय कारुणिकं निमन्त्रयामः।

हितकरमनुकम्पकं प्रजानां

यस्य सुदुर्लभु दर्शनं भवेषु॥ ४३॥

केचि स्थित निर्यूहखोटके हि

सुभगु विभूषितगात्र प्रेमणीयाः।

दिव्य दशबलस्य मुक्तपुष्पा-

ण्यवकिरतेऽग्रु जनित्व बोधिचित्तम्॥ ४४॥

सुरुचिर वर चम्पकस्य मालां

तथ अतिमुक्तक गन्धवर्षिकां च।

अपरि पुन क्षिपन्ति पट्टदामान्

परम निरुत्तरु चित्तु संजनित्वा॥ ४५॥

केचि स्थित गृहे गृहीतपुष्पाः

परमविभूषितकायु चीवरेहि।

पुष्प विविधु गृहीत्व पट्टदामान्

प्रवर्षि येन जिनो महानुभावः॥ ४६॥

पदुमकुमुदोत्पलान् क्षिपन्ति केचि

अपरि क्षिपन्ति विशिष्ट हेमपुष्पान्।

मणिरतन क्षिपन्ति केचि तस्मिन्

अपरि क्षिपन्ति च चूर्ण चन्दनस्य॥ ४७॥

अपरिमित भवन्ति अच्छरीया

अतुलिय ये न च शक्यु कीर्तनाय।

पुरवरु प्रविशन्ति नायकस्मिन्

बहुजनकोट्य स्थिहिंसु बुद्धज्ञाने॥ ४८॥

अबृह अतपाश्च दृष्टसत्त्याः

सुदृश सुदर्शन ये च अन्य देवाः।

तथ पुनरकनिष्ठ वीतरागा

उपगत सर्वि नरेन्द्रदर्शनाय॥ ४९॥

तथ शुभमरुताश्च अप्रमेया

अपरिमित शुभा उदग्रचित्ताः।

शुभकृत्स्न नियुताश्च अप्रमेया

उपगत पश्यितु नायकं महर्षिम्॥ ५०॥

अपरिमितु तथाप्रमाण-आभा

तथ पुन देव परीत्त आभ ये च।

बहु नियुत आभस्वराण तस्मिन्

उपगत पश्यितु तेऽपि लोकनाथम्॥ ५१॥

बहव शतसहस्र पारिषद्या-

स्तथ पुन ब्रह्मपुरोहिताः प्रसन्नाः।

बहुशत पुन ब्रह्मकायिकानां

उपगत नायकदर्शनाय सर्वे॥ ५२॥

तथ पुन परनिर्मितापि देवा-

स्तथ निर्माणरतिश्च शुद्धसत्त्वाः।

प्रमुदित तुषिताथ यामदेवा

उपगत सर्वि नमस्यमान बुद्धम्॥ ५३॥

त्रिदश अपु च शक्र देवराजा

अप्सरकोटिशतैः सहागतोऽत्र।

कुसुमवर्ष संप्रवर्षमाणो

उपगत बुद्धमुनीन्द्रदर्शनाय॥ ५४॥

चतुरि चतुर्दिशासु लोकपाला

वैश्रवणो धृतराष्ट्र नागराजा।

विरूढकु विरूपाक्षु हृष्टचित्ता

उपगत सर्वि नरेन्द्र ते स्तुवन्ता॥ ५५॥

ऐलविल बलवन्त यक्षराजा

परिवृत यक्षशतेहि प्रेमजातः।

गगनतलि स्थिहित्व हृष्टचित्तः

क्षिपति अनेक विचित्र पुष्पवर्षम्॥ ५६॥

अपरि पुनरनन्त मालधारी

विविध विचित्र गृहीत्व माल्यगन्धान्।

सर्वि सपरिवार हृष्टचित्ताः

पुरुषवरस्य करोन्ति तत्र पूजाम्॥ ५७॥

बहव शत करोटपाणि यक्षा

अपि च सुभूषि तेष यक्षकन्याः।

सुमधुर सुमनोज्ञ यक्षवाद्यै-

स्तूर्यशतेहि करोन्ति बुद्धपूजाम्॥ ५८॥

ललित-मधुर-गीत-वादितस्मिन्

सुकुशलैः सह किन्नरीसहस्रैः।

द्रुम उपगत गन्धमादनातो

जिनवरु पूजितु किन्नराण राज्ञा॥ ५९॥

शंबर बल वेमचित्र राहु

दानवकन्य सहस्रपारिवाराः।

असुरगण महर्द्धिकाश्च अन्ये

उपगत ते रतनानि वर्षमाणाः॥ ६०॥

शतनियुत अनन्त राक्षसानां

राक्षसकोटिशतैरुपास्यमानाः।

पृथु विविध विचित्र मुक्तपुष्पान्

पुरुषवरस्य क्षिपन्ति गौरवेण॥६१॥

तथपि च अनवतप्तु नागराजा

परमसुशिक्षिताश्च नागकन्याः।

तूर्यशतसहस्र नादयन्त्यो

उपगत पूजन तत्र लोकनाथम्॥ ६२॥

पञ्चशत अनवतप्तु पुत्रा

विपुलु अनुत्तरु ज्ञान प्रार्थयन्तः।

स्वजनपरिवृता उदग्र भूत्वा

उपगत पूजयितुं स्वयं स्वयंभूम्॥ ६३॥

तथपि च अपलालु नागराजा

पुरुषवरस्य कृताञ्जलिः प्रणम्य।

वर रुचिर गृहीत्व नागपुष्पान्

स्थित गगने मुनिराज सत्करोन्तः॥ ६४॥

तथपि च मुचिलिन्द नागराजा

प्रीतमनाः परितुष्ट हर्षजातः।

विविध रत्नमौक्तिकं गृहीत्वा

उपगमि नायकु अभिकिरन्तु तत्र॥ ६५॥

तथपि च कालिकोऽपि नागराजा

उपगतु मुखु तथागतस्य हृष्टचित्तः।

वर रूचिर गृहीत्व रत्नदामान्

पुरुषवरस्य पूज करित्व श्रेष्ठाम्॥ ६६॥

सोऽपि परम गौरवं जनित्वा

अनुस्मरमाणु गुणांस्तथागतस्य।

स्वजनपरिवृतः सनागसंघो

बहुविधु भाषति वर्ण नायकस्य॥ ६७॥

नन्दु तथा उपनन्दु नागराजा

तथ पुनस्तक्षक कृष्णगौतमौ च।

उपगत जिनु ते नमस्यमानाः

प्रणिपतिताः सुगतस्य पादयोर्हि॥ ६८॥

उपगत एलपत्रु नागराजा

परिवृत नागशतेहि रोचमानः।

मुनिवर जिनु काश्यपं स्मरन्तो

स्वक उपपत्ति अपश्यि अक्षणेषु॥ ६९॥

अहो अहु पुरि आसि काङ्क्षप्राप्तो

मयि पुरि च्छिन्नु परित्तमेलपत्रम्।

सो अहु उपपन्नु अक्षणस्मिन्

न सुकरु धर्म विजानितुं जिनस्य॥ ७०॥

क्षिप्र अहु जहित्व नागयोनिं

परम जुगुप्सितमेतु जन्तुकायम्।

धर्ममहु विजानि शान्तिभावं

पुरुषवरेण य ज्ञातु बोधिमण्डे॥ ७१॥

सागर अहिराजचक्रवर्ती

परिवृतु नागत्रिकोटिसहस्रैः।

वरुण मनस्वी गृहीत्व मुक्ताहारान्

उपगतु ते भगवन्तु पूजनाय॥ ७२॥

क्षिप्त शिल जिनस्य तत्र येनो

गगनस्थितेन गृहीत्व तस्मि काले।

राजगृहि स किम्पिलोऽपि यक्षः

पुरतः स्थितः सुगतस्य गौरवेण॥ ७३॥

अलकवती समग्र राजधानी

शून्य अभूषि न तत्र कश्चि यक्षः।

सर्वि क्रिय करित्व अन्यमन्यं

उपगत पश्यितु सर्वलोकनाथम्॥ ७४॥

तथपि च खरकर्ण सूचिरोमा

आटविकस्तथ यक्ष भेषकश्च।

हैमवत शतगिरिश्च यक्ष

उपगत गर्दभको जिनं स्वयंभूम्॥ ७५॥

इन्द्रकेतु विकटश्च सुरूपो

वक्कुलु पञ्चिकु शाक्य प्रवृद्धो।

एते परेऽपि च यक्षेन्द्र सहस्ता

उपगत धूपघटं परिगृह्य॥ ७६॥

विकृत बहु दुःसंस्थितात्मभावा

विगलित-आभरणा अनेकरूपाः।

बहव शतसहस्र तस्मि काले

उपगत तत्र गृहीत्व यक्ष पुष्पान्॥ ७७॥

जलनिधि निवसन्ति ये सुपर्णा

उपगत ब्राह्मणवेश निर्मिणित्वा।

मुकुटधर विचित्र दर्शनीया

गगनस्थिताः सुगतं नमस्यमानाः॥ ७८॥

नगरशत ये केचि जम्बुद्वीपे

वनविहरेषु य तत्र देवताश्च।

सर्व नगरदेवताः समग्रा

उपगत पूज करोन्त नायकस्य॥ ७९॥

उपगत वनदेवता अनन्ता-

स्तथपि च सर्वि य शैलदेवताश्च।

तथपि च नदिदेवताः समग्रा

उपगत पूज करोन्त नायकस्य॥ ८०॥

अटविमरुषु देवताशतानि

गिरिशिखरेषु य देवता समग्राः।

उत्स-सर-तडागदेवताश्च

उपगत सागरदेवताश्च बुद्धम्॥ ८१॥

देव-असुर-नाग-यक्ष-संघा

गरुड-महोरग-किन्नराः कुम्भाण्डाः।

तथपि च बहु प्रेतपूतनाश्चो

पुरुषवरस्य करोन्ति चित्रिकारम्॥ ८२॥

तेऽपि च जिनवरे करित्व पूजां

नगरवरं प्रविशन्ति नायकस्मिन्।

देव असुरनागयक्षराजा।

सततमतृप्त भवन्ति दर्शनेन॥ ८३॥

यथ पुरिमभवेषु लोकनाथः

पुरिमजिनेषु अकार्षि पूज श्रेष्ठाम्।

पुण्यफलविपाक एवरूपो

न च जनु तृप्तु नरेन्द्र पश्यमानः॥ ८४॥

मेरु तथ सुमेरु चक्रवाला

हिमगिरिस्तथ गन्धमादनश्च।

आवरणा न ते जिनस्य भोन्ति

आभ यदा जिनु मुञ्चि बुद्धक्षेत्रे॥ ८५॥

ये च इह समुद्र बुद्धक्षेत्रे

तेऽपि महीय समास्तदा भवन्ति।

सर्वमिमु समन्तु बुद्धक्षेत्रं

समु भवती कुसुमेहि संप्रकीर्णम्॥ ८६॥

रश्मि शतसहस्र अप्रमेया

अवकिरि पादतलेहि धर्मराजा।

सर्वि निरय शीतला भवन्ति

धर्मदुःख उपनीत सुखं च वेदयन्ति॥ ८७॥

धर्म दशबल संप्रभाषि तत्रो

मरुमनुजान विशुद्ध भोति चक्षुः।

प्राणि शतसहस्र अप्रमेया

नियत भवन्ति च सर्वि बुद्धज्ञाने॥ ८८॥

बहु इमि सुगतस्य प्रतिहार्या

न सुकरु वक्तु च कल्पकोटियेभिः।

पुरवर प्रविशन्ति नायकस्मिन्

प्रमुदित सर्व जगज्जिनप्रवेशे॥ ८९॥

इमि गुण सुगतस्य अप्रमेया

नरवृषभस्य गुणाग्रपारगस्य।

सर्वगुणविशेषपारगस्य

शिरसि नमस्यथ बुद्धपुण्यक्षेत्रम्॥ ९०॥



इति श्रीसमाधिराजे पुरप्रवेशपरिवर्तो नाम दशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project