Digital Sanskrit Buddhist Canon

गम्भीरधर्मक्षान्तिपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Gambhīradharmakṣāntiparivartaḥ

गम्भीरधर्मक्षान्तिपरिवर्तः।



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन गम्भीरधर्मक्षान्तिकुशलेन भवितव्यम्। कथं च कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशलो भवति ? इह कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्मा यथाभूततः प्रज्ञातव्याः। स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः प्रज्ञातव्याः। यदा च कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्माः परिज्ञाता भवन्ति, स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः परिज्ञाता भवन्ति यथाभूततः तदायं कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशल इत्युच्यते। स गम्भीरया धर्मक्षान्त्या समन्वागतो रञ्जनीयेषु धर्मेषु न रज्यते, दोषणीयेषु धर्मेषु न दुष्यते, मोहनीयेषु धर्मेषु न मुह्यते। तत् कस्य हेतोः ? तथा हि-स तं धर्मं न समनुपश्यति, तं धर्मं नोपलभते। यो रज्येत, यत्र वा रज्येत, येन वा रज्येत। यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत। यो मुह्येत, यत्र वा मुह्येत, येन वा मुह्येत। स तं धर्मं न समनुपश्यति, तं धर्म नोपलभते। तं धर्ममसमनुपश्यन्ननुपलभमानोऽरक्तोऽदुष्टोऽमूढोऽविपर्यस्तचित्तः समाहित इत्युच्यते। निष्प्रपञ्चः ......। तीर्णः पारगतः ......। स्थलगतः ......। क्षेमप्राप्तः। अरूपप्राप्तः। शीलवान्। ज्ञानवान्। प्रज्ञावान्। पुण्यवान्। ऋद्धिमान् ......। स्मृतिमान्......। मतिमान् ......। गतिमान्। ह्रीमान् ......। धृतिमान्। चारित्रवान्। धूतगुणसंलेखवान्। अनङ्गनः। निष्किंचनः। अर्हन्। क्षीणास्रवः। निष्क्लेशो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञः आजानेयो महानागः कृतकृत्यः कृतकरणीयोऽपहृतभारोऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशिपरमपारमिताप्राप्तः श्रमणः। ब्राह्मणः स्नातकः। पारगः वेदकः श्रोत्रियः। बुद्धपुत्रः। शाक्यपुत्रः। मर्दितकण्टकः। उत्क्षिप्तपरिखः। उदीर्णपरिखः। आक्षिप्तशल्यः। निर्जरः। भिक्षुः। अपरिवेष्टनः। पुरुषः। सत्पुरुषः। उत्तमपुरुषः। महापुरुषः। पुरुषसिंहः। पुरुषनागः। पुरुषाजानेयः। पुरुषधौरेयः पुरुषशूरः। पुरुषवीरः। पुरुषपुष्पः। पुरुषपद्मः। पुरुषपुण्डरीकः। पुरुषदमकः। पुरुषचन्द्रः। अकापुरुषः। पुरुषानुपलिप्तः इत्युच्यते। अथ खलु भगवास्तस्यां वेलायमिमा गाथा अभाषत-

यद लोकधातु न विवर्त भोति

आकाशु भोति अयु सर्वलोकः।

यथैव तं पूर्वु तथैव पश्चात्

तथोपमान् जानथ सर्वधर्मान्॥ १॥

इदं जगद् याव च किंचि वर्तते

अधस्तमेति अभूदापस्कन्धः।

यथैव तं हेष्ठे तथैव ऊर्ध्वं

तथोपमान् जानथ सर्वधर्मान्॥ २॥

यथान्तरीक्षस्मि न किंचिदभ्रं

क्षणेन चो दृश्यति अभ्रमण्डलम्।

पूर्वान्तु जानीय कुतः प्रसूतं

तथोपमान् जानथ सर्वधर्मान्॥ ३॥

तथागतस्यो यथ निर्वृतस्य

मनसि करोन्तः प्रतिबिम्बु दृश्यते।

यथैव तं पूर्वु तथैव पश्चात्

तथोपमान् जानथ सर्वधर्मान्॥ ४॥

यथैव फेनस्य महान्तु पिण्ड-

मोघेन उच्छेत्तु नरो निरीक्षते।

निरीक्ष्य सो तत्र न सारसंदर्शी

तथोपमान् जानथ सर्वधर्मान्॥ ५॥

देवे यथा वर्षति स्थूलबिन्दुके

पृथक् पृथग् बुद्बुद संभवन्ति।

उत्पन्नभग्ना न हि सन्ति बुद्बुदा-

स्तथोपमान् जानथ सर्वधर्मान्॥ ६॥

यथैव ग्रामान्तरि लेखदर्शनात्

क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः।

न लेखसंक्रान्ति गिराय विद्यते

तथोपमान् जानथ सर्वधर्मान्॥ ७॥

यथा नरो मानमदेन मोहितो

भ्रमन्ति संजानतिमां वसुंधराम्।

न चो महीया चलितं न कम्पितं

तथोपमान् जानथ सर्वधर्मान्॥ ८॥

आदर्शपृष्ठे तथ तैलपात्रे

निरीक्षते नारि मुखं स्वलंकृतम्।

सा तत्र रागं जनयित्व बाला

प्रधाविता काम गवेषमाणा॥ ९॥

मुखस्य संक्रान्ति यदा न विद्यते

बिम्बे मुखं नैव कदाचि लभ्यते।

यथा स मूढा जनयेत रागं

तथोपमान् जानथ सर्वधर्मान्॥ १०॥

यथैव गन्धर्वपुरं मरीचिका

यथैव माया सुपिनं यथैव।

स्वभावशून्या तु निमित्तभावना

तथोपमान् जानथ सर्वधर्मान्॥ ११॥

यथैव चन्द्रस्य नभे विशुद्धे

ह्रदे प्रसन्ने प्रतिबिम्ब दृश्यते।

शशिस्य संक्रान्ति जले न विद्यते

तल्लक्षणान् जानथ सर्वधर्मान्॥ १२॥

यथा नरः शैलवनान्तरे स्थितो

भणेय्य गायेय्य हसेय्य रोदये।

प्रतिश्रुत्का श्रूयति नो च दृश्यते

तथोपमान् जानथ सर्वधर्मान्॥ १३॥

गीते च वाद्ये च तथैव रोदिते

प्रतिश्रुत्का जायति तं प्रतीत्य।

गिराय घोषो न कदाचि विद्यते

तथोपमान् जानथ सर्वधर्मान्॥ १४॥

यथैव कामान् सुपिनन्त सेविय

प्रतिबुद्धसत्त्वः पुरुषो न पश्यति।

स बाल कामेष्वतिकामलोभी

तथोपमान् जानथ सर्वधर्मान्॥ १५॥

रूपान् यथा निर्मिणि मायकारो

हस्तीरथानश्वरथान् विचित्रान्।

न चात्र कश्चिद् रथ तत्र दृशते

तथोपमान् जानथ सर्वधर्मान्॥ १६॥

यथा कुमारी सुपिनान्तरस्मिन्

सा पुत्र जातं च मृतं च पश्यति।

जातेऽतितुष्टा मृते दौर्मनःस्थिता

तथोपमान् जानथ सर्वधर्मान्॥ १७॥

यथा मृतां मातरमात्मजं वा

स्वप्ने तु वै रोदिति उच्चशब्दम्।

न तस्य माता म्रियते न पुत्र-

स्तथोपमान् जानथ सर्वधर्मान्॥ १८॥

यथैव रात्रौ जल चन्द्र दृश्यते

अच्छस्मि वारिस्मि अनाविलस्मि।

अग्राह्य तुच्छो जल चन्द्रशून्य

तथोपमान् जानथ सर्वधर्मान्॥ १९॥

यथैव ग्रीष्माण मध्याह्नकाले

तृषाभितप्तः पुरुषो व्रजेत।

मरीचिकां पश्यति तोयराशिं

तथोपमान् जानथ सर्वधर्मान्॥ २०॥

मरीचिकायामुदकं न विद्यते

स मूढ सत्त्वः पिबितुं तदिच्छति।

अभूतवारिं पिबितुं न शक्यते

तथोपमान् जानथ सर्वधर्मान्॥ २१॥

यथैव आर्द्रं कदलीय स्कन्धं

सारार्थिकः पुरुषु विपाटयेत।

बहिर्वा अध्यात्म न सारमस्ति

तथोपमान् जानथ सर्वधर्मान्॥ २२॥

न चक्षुं प्रमाणं न श्रोत्र घ्राणं

न जिह्व प्रमाणं न कायचित्तम्।

प्रमाण यद्येत भवेयुरिन्द्रिया

कस्यार्यमार्गेण भवेत कार्यम्॥ २३॥

यस्मादिमे इन्द्रिय अप्रमाणा

जडाः स्वभावेन अव्याकृताश्व।

तस्माद् य निर्वाणपथैव अर्थिकः

स आर्यमार्गेण करोतु कार्यम्॥ २४॥

पूर्वान्तु कायस्य अवेक्षमाणो

नैवात्र कायो नपि कायसंज्ञा।

न यत्र कायो नपि कायसंज्ञा

असंस्कृतं गोत्रमिदं प्रवुच्यति॥ २५॥

निवृत्ति धर्माण न अस्ति धर्मा

येनेति नास्ति न ते जातु अस्ति।

अस्तीति नास्तीति च कल्पनावता-

मेवं चरन्तान न दुःख शाम्यति॥ २६॥

अस्तीति नास्तीति उभेऽपि अन्ता

शुद्धी अशुद्धीति इमेऽपि अन्ता।

तस्मादुभे अन्त विवर्जयित्वा

मध्येऽपि स्थानं न करोति पण्डितः॥ २७॥

अस्तीति नास्तीति विवाद एष

शुद्धी अशुद्धीति अयं विवादः।

विवादप्राप्तान न दुःख शाम्यति

अविवादप्राप्तान दुःखं निरुध्यते॥ २८॥

स्मृतेरुपस्थानकथां कथित्वा

मन्यन्ति बाला वय कायसाक्षी।

न कायसाक्षिस्य च अस्ति मन्यना

प्रहीण तस्यो पृथु सर्व मन्यना॥ २९॥

चतुर्षु ध्यानेषु कथां कथित्वा

वदन्ति बाला वयं ध्यानगोचराः।

न क्लेशध्यायि न च अस्ति मन्यना

विदित्व ज्ञानेन मदः प्रहीयते॥ ३०॥

चतुर्षु सत्त्वेषु कथां कथित्वा

वदन्ति बाला वय सत्यदर्शिनः।

न सत्यदर्शिस्य च काचि मन्यना

अमन्यना सत्य जिनेन देशिता॥ ३१॥

रक्षेत शीलं न च तेन मन्ये

श्रुणेय्य धर्मं न च तेन मन्ये।

यनैव सो मन्यति अल्पप्रज्ञो

तन्मूलकं दुःख विवर्धतेऽस्य॥ ३२॥

दुःखस्य मूलं मदु संनिदर्शितं

सर्वज्ञिना लोकविनायकेन

मदेन मत्तान दुःखं प्रवर्धते

अमन्यमानान दुखं निरुध्यते॥ ३३॥

कियद्बहून् धर्म पर्यापुणेय्या

शीलं न रक्षेत श्रुतेन मत्तः।

न बाहुश्रुत्येन स शक्यु तायितुं

दुःशील येन व्रजमान दुर्गतिम्॥ ३४॥

सचेत् पुनः शीलमदेन मत्तो

न बाहुश्रुत्यस्मि करोति योगम्।

क्षयेत्व सो शीलफलमशेषं

पुनोऽपि स प्रत्यनुभोति दुःखम्॥ ३५॥

किंचापि भावेय्य समाधि लोके

न चो विभावेय्य स आत्मसंज्ञाम्।

पुनः प्रकुप्यन्ति किलेशु तस्य

यथोद्रकस्येह समाधिभावना॥ ३६॥

नैरात्म्यधर्मान् यदि प्रत्यवेक्षते

तान् प्रत्यवेक्ष्य यदि भावयेत।

स हेतु निर्वाणफलस्य प्राप्तये

यो अन्यहेतुर्न स भोति शान्तये॥ ३७॥

यथा नरश्चौरगणैरुपद्रुतः

पलायितुमिच्छति जीवितार्थिकः।

न तस्य पादाः प्रभवन्ति गच्छितुं

गृहीत्व चौरेहि स तत्र हन्यते॥ ३८॥

एवं नरः शीलविहीन मूढः

पलायितुमिच्छति संस्कृतातः।

स शीलहीनो न प्रभोति गच्छितुं

जराय व्याध्या मरणेन हन्यते॥ ३९॥

यथैव चौराण बहू सहस्रो

नानामुखेहि प्रकरोति पापम्।

एवं किलेशा विविधैर्मुखेभि-

र्यथैव चौरो हनि शुक्लपाक्षम्॥ ४०॥

येन सुनिध्याप्तु निरात्मस्कन्धा

आक्रुष्ठु परिभाष्टु न शङ्कु भोति।

स क्लेशमारस्य वशं न गच्छते

यः शून्यतां जानति सो न कुप्यते॥ ४१॥

बहू जनो भाषति स्कन्धशून्यतां

न च प्रजानाति यथा निरात्मकाः।

ते अप्रजानन्त परेहि चोदिताः

क्रोधाभिभूताः परुषं वदन्ति॥ ४२॥

यथा नरो आतुरु कायदुःखितो

बहूहि वर्षेहि न जातु मुच्यते।

स दीर्घगैलान्यदुखेन पीडितः

पर्येषते वैद्यु चिकित्सनार्थिकः॥ ४३॥

पुनः पुनस्तेन गवेषता च

आसादितो वैद्य विदू विचक्षणः।

कारुण्यतां तेन उपस्थपेत्वा

प्रयुक्तु भैषज्यमिदं निषेव्यताम्॥ ४४॥

गृहीत्व भैषज्य पृथुं वरां वरां

न सेवते आतुरु येन मुच्यते।

न वैद्यदोषो न च भैषजानां

तस्यैव दोषो भवि आतुरस्य॥ ४५॥

एवमिह शासनि प्रव्रजित्वा

पर्यापुणित्वा बल ध्यान इन्द्रियान्।

न भावनायामभियुक्त भोन्ति

अयुक्तयोगीन कुतोऽस्ति निर्वृतिः॥ ४६॥

स्वभावशून्याः सद सर्वधर्मा

वस्तुं विभावेन्ति जिनान पुत्राः।

सर्वेण सर्वं भव सर्वशून्यं

प्रादेशिकी शून्यता तीर्थिकानाम्॥ ४७॥

न विज्ञ बालेहि करोन्ति विग्रहं

सत्कृत्य बालान् परिवर्जयन्ति।

ममान्तिके एन्ति प्रदुष्टचित्ता

न बालधर्मेहि करोति संस्तवम्॥ ४८॥

न विज्ञ बालान करोति सेवनां

विदित्व बालान स्वभावसंततिम्।

कियच्चिरं बालु सुसेवितोऽपि

पुनोऽपि ते भोन्ति अमित्रसंनिभाः॥ ४९॥

न विज्ञ बालेष्विह विश्वसन्ति

विज्ञाय बालान स्वभावधर्मताम्।

स्वभावभिन्न प्रकृतीय बाला

न चास्ति मित्रं हि पृथग्जनानाम्॥ ५०॥

सहधर्मिकेनो वचनेन उक्ताः

क्रोधं च दोषं च अप्रत्ययं च।

प्राविष्करोन्ति इमि बालधर्मान्

इममर्थु विज्ञाय न विश्वसन्ति॥ ५१॥

बाला हि बालेहि समं समेन्ति

यथा अमेध्येन अमेध्यु सार्धम्।

विज्ञाः पुनर्विज्ञजनेन सार्धं

समेन्ति सर्पिर्यथ सर्पिमण्डैः॥ ५२॥

संसारदोषाण अप्रत्यवेक्षणात्

कर्माण विपाकमनोतरन्तः।

बुद्धान चो वाक्यमश्रद्दधाना-

स्ते च्छेद्यभेद्यस्मि चरन्ति बालाः॥ ५३॥

सुदुर्लभं लभ्य मनुष्यलाभं

न शिल्पस्थानेषु भवन्ति कोविदाः।

दरिद्रभूतान धनं न विद्यते

अजीवमानास्तद प्रव्रजन्ति॥ ५४॥

ते प्रव्रजित्वा इह बुद्धशासने

अध्युषिता भोन्तिह पात्रचीवरे।

ते पापमित्रेहि परिगृहीता-

स्तां नाचरन्ते सुगतान शिक्षाम्॥ ५५॥

ते आत्मनः शीलमपश्यमाना-

श्चित्तव्यवस्थां न लभन्ति बालाः।

रात्रिंदिवं भोन्ति अयुक्तयोगा

न ते जुगुप्सन्ति च पापकर्मतः॥ ५६॥

कायेन चित्तेन असंयतानां

न किंचि वाचाय स जल्पितव्यम्।

सदा गवेषन्ति परस्य दोषान्

अपराद्धु किं केन वा चोदयिष्ये॥ ५७॥

आहारि अध्युषित भोन्ति बाला

न चास्ति मात्रज्ञतु भोजनस्मिन्।

बुद्धस्य पुण्येहि लभित्व भोजनं

तस्यैव बाला अकृतज्ञ भोन्ति॥ ५८॥

ते भोजनं स्वादुरसं प्रणीतं

लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः।

तेषां स आहारु वधाय भोति

यथ हस्तिपोतान बिसा अधौतकाः॥ ५९॥

किं चापि विद्वान् मतिमान् विचक्षणो

भुञ्जीत आहारु शुचि प्रणीतम्।

न चैव अध्युषित तत्र भोति

अगृघ्नु सो भुञ्जति युक्तयोगी॥ ६०॥

किं चापि विद्वान् मतिमान् विचक्षणो

आभाषते बालु कुतो हि स्वागतम्।

तथ संगृहीत्वा प्रियवद्यताय

कारुण्यतां तत्र उपस्थपेति॥ ६१॥

यो भोति बालान हितानुकम्पी

तस्यैव बाला व्यसनेन तुष्टाः।

एतेन दोषेण जहित्व बालान्

मृगोवदेको विहरेदरण्ये॥ ६२॥

इम ईदृशान् दोष विदित्व पण्डितो

न जातु बालेहि करोति संगतिम्।

विहीनप्रज्ञानुपसेवतो मे

स्वर्गात्तु हानिः कुत बोधि लप्स्ये॥ ६३॥

मैत्रीविहारी च भवन्ति पण्डिताः

करुणाविहारी मुदिताविहारी।

उपेक्षकाः सर्वभवेषु नित्यं

समाधि भावेत्व स्पृशन्ति बोधिम्॥ ६४॥

ते बोधि बुद्धित्व शिवामशोकां

विदित्व सत्त्वान् जनव्याधिपीडितान्।

कारुण्यतां तत्र उपस्थपेत्वा

कथां कथेन्ति परमार्थयुक्ताम्॥ ६५॥

ये तां विजानन्ति जिनान धर्मता-

मनाभिलप्यं सुगतान सत्यम्।

ते धर्म श्रुत्वा इम एवरूपां

लप्स्यन्ति क्षान्ति अरियां निरामिषाम्॥ ६६॥



इति श्रीसमाधिराजे गम्भीरधर्मक्षान्तिपरिवर्तो नाम नवमः॥ ९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project