Digital Sanskrit Buddhist Canon

अभावसमुद्गतपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Abhāvasamudgataparivartaḥ
अभावसमुद्गतपरिवर्तः।



तत्र पुनरपि भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-भूतपूर्वं कुमार अतीतेऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलरैप्रमेयैरचिन्त्यैरपरिमाणैर्यदासीत्। तेन कालेन तेन समयेन अभावसमुद्गतो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तत् किं मन्यसे कुमार केन कारणेन स तथागतोऽभावसमुद्गत इत्युच्यते ? स खलु पुनः कुमार तथागतो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा इमामेवंरूपां वाचमभाषत-अभावसमुद्गताः सर्वधर्माः, अभावसमुद्गताः सर्वधर्मा इति। तेन च कुमार शब्देन त्रिसाहस्रमहासाहस्रो लोकधातुः स्वरेणाभिविज्ञप्तोऽभूत्। तत्र भौमान् देवानुपादाय यावद् ब्रह्मलोकं परंपरया शब्दमुदीरयामासुः घोषमनुश्रावयामासुः-अभावसमुद्गतो बतायं तथागतो भविष्यति, यो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा अभावशब्दमुदीरयति। इति ह्यभावसमुद्गतोऽभावसमुद्गत इति तस्य तथागतस्य नामधेयमुदपादि। तस्य च भगवतो बोधिप्राप्तस्य सर्ववृक्षपत्रेभ्यः सर्वतृणगुल्मौषधिवनस्पतिभ्यः सर्वशैलशिखरेभ्यश्चाभावसमुद्गतशब्दो निश्चरति। यावति च तत्र लोकधातौ शब्दप्रज्ञप्तिः सर्वतोऽभावसमुद्गतविज्ञप्तिशब्दो निश्चरति। तेन च कुमार कालेन तेन समयेन तस्य भगवतोऽभावसमुद्गतस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने महाकरुणाचिन्ती नाम राजकुमारोऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः। अथ खलु कुमार स महाकरुणाचिन्ती नाम राजकुमारो येन भगवान् अभावसमुद्गतस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोसंक्रामत्। उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्तेऽस्थात्॥

अथ खलु कुमार स भगवान् अभावसमुद्गतस्तथागतोऽर्हन् सम्यक्संबुद्धो महाकरुणाचिन्तिनो राजकुमारस्याध्याशयं विदित्वा इमं समाधिं देशयामास। अथ खलु कुमार स महाकरुणाचिन्ती राजकुमारः इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रसीदति स्म। प्रसन्नचित्तश्च केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितोऽभूत्। स प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान्। उद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्तो व्यहार्षीत्। स तैनैव कुशलमूलेन विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत्। विंशतीनां कल्पानामत्ययेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽभूत्। सुविचिन्तितार्थो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि। सर्वेषु च तेषु कल्पेषु विशतिं च बुद्धकोटीरारागयामास। पश्य कुमार यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य बुद्धज्ञानस्य परिपूरणाय संवर्तते॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

स्मराम्यहं पूर्वमतीतमध्वनि

अचिन्तिये कल्पि नराणमुत्तमः।

उत्पन्नु लोकार्थकरो महर्षि-

र्नाम्ना हि सोऽभावसमुद्गतोऽभूत्॥ १॥

स जातमात्रो गगने स्थिहित्वा

सर्वेष धर्माण अभावु देशयी।

तदानुरूपं कृतु नामधेयं

शब्देन सर्वं त्रिसहस्र विज्ञपी॥ २॥

देवापि सर्वे प्रमुमोच शब्दं

अभावु नाम्नेति जिनो भविष्यति।

यो जातमात्रः पद सप्त प्रक्रम-

न्नभावु धर्माण ब्रवीति नायकः॥ ३॥

बुद्धो यदा भेष्यति धर्मराजः

सर्वेष धर्माण प्रकाशको मुनिः।

तृणवृक्षगुल्मौषधिशैलपर्वते

अभावु धर्माण रवो भविष्यति॥ ४॥

यावन्ति शब्दास्तहि लोकधातौ

सर्वे ह्यभावा न हि कश्चि भावः।

तावन्ति खो तस्य तथागतस्य

स्वरु निश्चरी लोकविनायकस्य॥ ५॥

तस्मिंश्च काले अभु राजपुत्रः

करुणाविचिन्ती सद नामधेयः।

अभिरूप प्रासादिक दर्शनीय

उपागमी तस्य जिनस्य अन्तिकम्॥ ६॥

वन्दित्व पादौ मुनिपुंगवस्य

प्रदक्षिणं कृत्य च गौरवेण।

प्रसन्नचित्तो निषसाद तत्र

श्रवणाय धर्मं विरजमनुत्तरम्॥ ७॥

स चो जिनो आशयु ज्ञात्व धीरः

प्रकाशयामास समाधिमेतम्।

श्रुत्वा च सो इमु विरजं समाधिं

लघु प्रव्रजी जिनवरशासनेऽस्मिन्॥ ८॥

स प्रव्रजित्वान इमं समाधिं

धारित्व वाचित्व पर्यापुणित्वा।

कल्पान कोट्यः परिपूर्ण विंशतिं

न जातु गच्छे विनिपातभूमिम्॥ ९॥

स तेन चैवं कुशलेन कर्मणा

आरागयी विंशति बुद्धकोट्यः।

तेषां च सर्वेषु जिनान अन्तिका-

दिमं वरं शान्त समाधि भावयी॥ १०॥

स पश्चिकाले अभु बुद्ध लोके

सुचिन्तितार्थो सदनामधेयः।

कृत्वा च अर्थं बहुप्राणकोटिनां

स पश्चकालस्मि शिखीव निर्वृतः॥ ११॥

तस्माद्धि य इच्छति बोधि बुद्धितुं

सत्त्वांश्च उत्तरायितुं भवार्णवात्।

धारेत सूत्रमिमु बुद्धवर्णितं

न दुर्लभा भेष्यति सोऽग्रबोधिः॥ १२॥



इति श्री समाधिराजे अभावसमुद्गतपरिवर्तो नामाष्टमः॥ ८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project