Digital Sanskrit Buddhist Canon

त्रिक्षान्त्यवतारपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Trikṣāntyavatāraparivartaḥ

त्रिक्षान्त्यवतारपरिवर्तः।



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मातर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन त्रिक्षान्तिज्ञानकुशलेन भवितव्यम्। तेन प्रथमा क्षान्तिः प्रज्ञातव्या। द्वितीया क्षान्तिः प्रज्ञातव्या। तृतीया क्षान्तिः प्रज्ञातव्या। त्रिक्षान्तिविशेषकुशलेन भवितव्यं त्रिक्षान्तिज्ञानविशेषकुशलेन च। तत् कस्य हेतोः ? तथाहि कुमार यदा बोधिसत्त्वो महासत्त्वस्त्रिक्षान्तिविशेषकुशलो भवति त्रिक्षान्तिज्ञानविशेषकुशलश्च भवति, तदायं कुमार बोधिसत्त्वो महासत्त्वः क्षिप्रं समाधिं प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते। तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं त्रिक्षान्त्यवतारो धर्मपर्याय उद्ग्रहीतव्यः। उद्गृह्य न परेभ्यो विस्तरेण संप्रकाशयितव्यः। तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां चेति॥

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्येमं त्रिक्षान्त्यवतारं धर्मपर्यायं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -

न केनचित् सार्धं करोति विग्रहं

न भाषते वाचमनर्थसंहिताम्।

अर्थे च धर्मे च सदा प्रतिष्ठितः

प्रथमाय क्षान्तीय सद निर्दिशीयति॥ १॥

मायोपमान् जानति सर्वधर्मान्

न चापि सो भोति निमित्तगोचरः।

न हीयते ज्ञानविवृद्धभूमेः

प्रथमाय क्षान्तीय इमे विशेषाः॥ २॥

स सर्वसूत्रान्तनयेषु कोविदः

सुभाषितेऽस्मिन्नधिमुक्तिपण्डितः।

अनन्तज्ञानी सुगतान ज्ञाने

प्रथमाय क्षान्तीय इमे विशेषाः॥ ३॥

यः कश्चि धर्मं शृणुते सुभाषितं

बुद्धान चो भाषित तन्न काङ्क्षति।

अधिमुच्यते सर्वजिनान धर्मतां

प्रथमाय क्षान्तीय इमे विशेषाः॥ ४॥

नीतार्थसूत्रान्तविशेष जानति

यथोपदिष्टा सुगतेन शून्यता।

यास्मिन् पुनः पुद्गल सत्त्व पूरुषो

नेयार्थतां जानति सर्वधर्मान्॥ ५॥

ये अस्मि लोके पृथु अन्यतीर्था

न तस्य तेषु प्रतिहन्यते मनः।

कारुण्यमेतेषु उपस्थपेति

प्रथमाय क्षान्तीय इमे विशेषाः॥ ६॥

आभासमागच्छति तस्य धारणी

तस्मिंश्च आभासि न जातु काङ्क्षति।

सत्यानुपरिवर्तिनि वाच भाषते

प्रथमाय क्षान्तीय इमे विशेषाः॥ ७॥

चतुर्ण धातून सियान्यथात्वं

वाय्वम्बुतेजःपृथिवीय चापि।

न चो विवर्तेत स बुद्धबोधेः

प्रथमाय क्षान्तीय इमे विशेषाः॥ ८॥

ये शिल्पस्थाना पृथु अस्ति लोके

सर्वेषु सो शिक्षितु बोधिसत्त्वः।

न चात्मन उत्तरि किंचि पश्यति

प्रथमाय क्षान्तीय इमे विशेषाः॥ ९॥

अकम्पियः समथबलेन भोति

शेलोपमो भोति विपश्यनाय।

न क्षोभितुं शक्यु स सर्वसत्त्वै-

र्द्वितीयाय क्षान्तीय स निर्दिशीयति॥ १०॥

समाहितस्तिष्ठति भाषते च

समाहितश्चंक्रमते निषीदति।

समाधिये पारमितागतो विदु

द्वितीयाय क्षान्तीय इमे विशेषाः॥ ११॥

समाहितो लभति अभिज्ञ पञ्च

क्षेत्रशतं गच्छति धर्मदेशकः।

नो चापि सो ऋद्धिबलात्तु हीयते

द्वितीयाय क्षान्तीय इमे विशेषाः॥ १२॥

स तादृशं शान्त समाधिमेषते

समाहितस्य न स अस्ति सत्त्वः।

यस्तस्य चित्तस्य प्रमाणु गृह्णीया

द्वितीयाय क्षान्तीय इमे विशेषाः॥ १३॥

ये लोकधातुष्विह केचि सत्त्वा-

स्ते बुद्धज्ञानेन भणेयु धर्मान्।

उद्गृह्णतो सर्व यतो हि भाषितं

द्वितीयाय क्षान्तीय इमे विशेषाः॥ १४॥

पुरिमोत्तरा दक्षिणपश्चिमासु

हेष्ठे तथोर्ध्वं विदिशासु चैव।

सर्वत्र सो पश्यति लोकनाथान्

तृतीयाय क्षान्तीय स निर्दिशीयति॥ १५॥

सुवर्णवर्णेन समुच्छ्रयेण

अचिन्तियां निर्मित निर्मिणित्वा।

देशेति धर्मं बहुप्राणिकोटिनां

तृतीयाय क्षान्तीय इमे विशेषाः॥ १६॥

य जम्बुद्वीप इह बुद्धक्षेत्रे

सर्वत्र सो दृश्यति बोधिसत्त्वः।

ज्ञातश्च भोती ससुरासुरे जगे

तृतीयाय क्षान्तीय इमे विशेषाः॥ १७॥

बुद्धान आचारु तथैव गोचरा

ईर्यापथो यादृश नायकानाम्।

सर्वत्र सो शिक्षितु भोति पण्डित-

स्तृतीयाय क्षान्तीय इमे विशेषाः॥ १८॥

ये लोकधातुष्विह केचि सत्त्वा-

स्ते बोधिसत्त्वस्य भणेयु वर्णम्।

सचेऽस्य तस्मिन् नानुनीयते मनो

न शिक्षितो उच्यति बुद्धज्ञाने॥ १९॥

ये लोकधातुष्विह केचि सत्त्वा-

स्ते बोधिसत्त्वस्य भणेयु वर्णम्।

सचेऽस्य तेषु प्रतिहन्यते मनो

न शिक्षितोऽद्यापि स बुद्धज्ञाने॥ २०॥

अर्थेन लब्धेन न भोति सूमनो

न चाप्यनर्थेन स भोति दुर्मनाः।

शैलोपमे चित्ति सदा प्रतिष्ठितो

अयं विशेषस्तृतीयाय क्षान्तियाः॥ २१॥

घोषानुगामी इय क्षान्तिरुक्ता

चिन्तामयी भावनानुलोमिकी।

श्रुतंमया सा अनुत्पत्तिका या

शिक्षा च अत्राप्ययु बोधिमार्गः॥ २२॥

तिस्रोऽपि क्षान्तीय सदा निरुत्तराः

स बोधिसत्त्वेन भवन्ति लब्धाः।

दृष्ट्वा ततस्तं सुगता नरोत्तमा

वियाकरोन्ति विरजाय बोधये॥ २३॥

ततोऽस्य तं व्याकरणं श्रुणित्वा

प्रकम्पिता मेदिनी षड्विकारम्।

आभाय क्षेत्रं भवते प्रभास्वरं

पुष्पाणि च वर्षिषु देवकोट्यः॥ २४॥

तस्यो च तं व्याकरणं श्रुणित्वा

सत्त्वान कोटी नियुता अचिन्तिया।

उत्पादयी चित्त वराग्रबोधये

वयं पि भेष्याम जिन आर्यचेतिकाः॥ २५॥

क्षान्त्या इमास्तिस्र निरुत्तरा यदा

संबोधिसत्त्वेन भवन्ति लब्धाः ।

न चापि सो जायति नापि म्रीयते

न चापि स च्यवति नोपपद्यते॥ २६॥

यदा इमा क्षान्ति त्रयो निरुत्तरा

संबोधिसत्त्वेन भवन्ति लब्धाः।

न पश्यतेः जायति यश्च म्रीयते

स्थितधर्मतां पश्यति सर्वधर्मान्॥ २७॥

तथाहि तेनो वितथेति ज्ञाता

मायोपमा धर्म स्वभावशून्याः।

न शून्यता जायति नो च म्रीयते

स्वभावशून्या इमि सर्वधर्माः॥ २८॥

यदात्त्यसौ सत्कृतु भोति केनचिद्

उपस्थितो मानितु पूजितोऽर्चितः।

न तस्य तस्मिन्ननुनीयते मनो

जानाति सो धर्मस्वभावशून्यताम्॥ २९॥

आक्रुष्ट सत्त्वेहि प्रहारतर्जितो

न तेषु क्रोधं कुरुते न मानम्।

मैत्रीं च तेषु दृढ संजनेति

तथैव सत्त्वान प्रमोचनाय॥ ३०॥

लोष्टेहि दण्डेहि च ताड्यमानः

प्रतिघातु तेषु न करोति पण्डितः।

नैरात्म्यक्षान्तीय प्रतिष्ठितस्य

न विद्यते क्रोधखिलं न मानः॥ ३१॥

तथाहि तेनो वितथेति ज्ञाता

मायोपमा धर्म स्वभावशून्याः।

स तादृशे धर्मनये प्रतिष्ठितः

सुसत्कृतो भोति सदेवलोके॥ ३२॥

यदापि सत्त्वाः प्रगृहीतशस्त्रा-

श्छिन्देयु तस्यो पृथु अङ्गमङ्गम्।

न तस्य तेषु प्रतिहन्यते मनो

न चापि मैत्री करुणा तु हीयते॥ ३३॥

एवं च सो तत्र जनेति चित्तं

छिन्दन्ति ते हि पृथु अङ्गमङ्गम्।

तथा न मह्यं शिव शान्ति निर्वृती

यावन्न स्थाप्ये इमि अग्रबोधये॥ ३४॥

एतादृशे क्षान्तिबले निरुत्तरे

नैरात्म्यक्षान्तीसमताविहारिणाम्।

संबोधिसत्त्वान महायशानां

कल्पान कोट्यः सततं सुभाविताः॥ ३५॥

ततोत्तरे यात्तिक गङ्गवालिका

न ताव बोधी भवतीह स्पर्शिता।

ये बुद्धज्ञानेन न करोति कार्यं

किं वा पुनर्ज्ञान तथागतानाम्॥ ३६॥

क्षपेतु वर्णं सुकरं न तेषां

प्रभाषता कल्पशतान्यचिन्तिया।

अनन्तकीर्तेन महायशानां

नैरात्म्यक्षान्तीय प्रतिष्ठितानाम्॥ ३७॥

तस्माद्धि यो इच्छति बोधि बुद्धितुं

तं ज्ञानस्कन्धं प्रवरं निरुत्तरम्।

स क्षान्ति भावेतु जिनेन वर्णितां

न दुर्लभा बोधि वरा भविष्यति॥ ३८॥



इति श्रीसमाधिराजे त्रिक्षान्त्यवतारपरिवर्तो नाम सप्तमः॥ ७॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project