Digital Sanskrit Buddhist Canon

समाधिपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Samādhiparivartaḥ
समाधिपरिवर्तः।



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन इमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिपरिकर्म करणीयम्। तत्र कुमार कतमत् समाधिपरिकर्म ? इह कुमार बोधिसत्त्वो महाकरुणासंप्रस्थितेन चित्तेन तिष्ठतां वा तथागतानां परिनिर्वृतानां वा पूजाकर्मणे उद्युक्तो भवति, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्तूर्यतालावचरैर्वैजयन्तीभिः तच्च कुशलमूलं समाधिप्रतिलम्भाय परिणमयति। स न कंचिद्धर्ममाकाङ्क्षंस्तथागतं पूजयति न रूपं न कामान् न भोगान् न स्वर्गान् न परिवारान्। अपि तु खलु पुनर्धर्मचित्तको भवति। स आकाङ्क्षन् धर्मकायतोऽपि तथागतं नोपलभते, किमङ्ग पुना रूपकायत उपलप्स्यते। तस्मात्तर्हि कुमार एषां सा तथागताना पूजा यदुत तथागतस्यादर्शनमात्मनश्चानुपलब्धिः कर्मविपाकस्य चाप्रतिकाङ्क्षमाणता। अनया कुमार त्रिमण्डलपरिशुद्धया पूजया तथागतं पूजयित्वा बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते॥

अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव समाधिपरिकर्मनिर्देशं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशमति स्म-

अनन्तज्ञानस्य ददित्व गन्धान्

अनन्तगन्धो भवती नराणाम्।

न कल्पकोटीय व्रजन्ति दुर्गतिं

दुर्गन्धियं तेषु न जातु भोति॥ १॥

ते कल्पकोट्यश्चरमाणु चारिकां

पूजित्व बुद्धान सहस्रकोटियः।

ते ज्ञानगन्धेन समुद्गतेन

भवन्ति बुद्धा वरशीलगन्धिकाः॥ २॥

सचेत् पुनर्जानति वास्ति सत्त्वो

यो गन्ध देती तथ यस्य दीयते।

एतेन चित्तेन ददाति गन्ध-

मेषास्य क्षान्तिर्मृदु आनुलोमिकी॥ ३॥

तस्यैतं क्षान्तिमधिमात्र सेवतः

सचेन्नरः काकणिच्छेद्यु छिद्यते।

कल्पान कोट्यो यथ गङ्गवालिका

न तस्य चित्तं भवति विवर्तियम्॥ ४॥

किं कारणं वुच्यति क्षान्ति नाम

कथं पुनो वुच्यति आनुलोमिकी।

अविवर्तिको वुच्यति केन हेतुना

कथं पुनो वुच्यति बोधिसत्त्वः॥ ५॥

क्षान्त्यस्मि धर्मे प्रकृतौ निरात्मके

नैरात्म्यसंज्ञस्य किलेशु नास्ति।

खं यादृशं जानति सर्वधर्मा-

स्तस्मादिह स्या क्व तु क्षान्ति नाम॥ ६॥

आनुलोमि सर्वेष जिनान शिक्षतो

न चास्ति धर्मश्चरते विचक्षणः।

न बुद्धधर्मेषु जनेति संशया-

नियं स क्षान्तिर्भवतानुलोमिकी॥ ७॥

एवं चरन्तस्य य लोकि मारा-

स्ते बुद्धरूपेण भणेय्य वाचा।

सुदुर्लभा बोधि भवाहि श्रावका

न गृह्णोती वाक्यु न चो विवर्तते॥ ८॥

बोधेति सत्त्वान् विषमातु दृष्टितो

न एष मार्गो अमृतस्य प्राप्तये।

कुमार्ग वर्णित्व पथे स्थपेति

तं कारणमुच्यति बोधिसत्त्वः॥ ९॥

क्षमिष्यनूलोमपथे स्थितस्य

नैरात्म्यसङ्गाय विबोधितस्य।

स्वप्नान्तरेऽप्यस्य न जातु भोति

अस्ति नरो पुद्गल जीव सत्त्वः॥ १०॥

सचे मारकोट्यो यथ गङ्गवालुका-

स्ते बुद्धरूपेण उपागमित्वा।

भणेयुरभ्यन्तरकायु जीवो

ते मं वदे नास्ति न यूय बुद्धा॥ ११॥

ज्ञानेन जानाम्यहु स्कन्धशून्यकं

ज्ञात्वा च क्लेशेहि न संवसामि।

व्याहारमात्रेण च व्योहरामि

परिनिर्वृतो लोकमिमं चरामि॥ १२॥

यथा हि पुत्र पुरुषस्य जातु

कृतंसि नामा अयमेव नाम।

नामं न तस्यो दिशता सुलभ्यते

तथास्य नामं न कुतश्चिदागतम्॥ १३॥

तथैव नामं कृतु बोधिसत्त्वो

न चास्य नामं दिशता सुलभ्यते।

पर्येषमाणो अयु बोधिसत्त्वो

जानाति यो एष स बोधिसत्त्वः॥ १४॥

समुद्रमध्येऽपि ज्वलेत अग्नि-

र्न बोधिसत्त्वस्य सत्कायदृष्टिः।

यतोऽस्य बोधाय उत्पन्नु चित्त-

मत्रान्तरे तस्य न जीवदृष्टिः॥ १५॥

न ह्यत्र जातो न मृतो च कश्चि-

दुत्पन्न सत्त्वो मनुजो नरो वा।

मायोपमा धर्म स्वभावशून्या

न शक्यते जानितु तीर्थिकेहि॥ १६॥

न चापि आहारविमूर्छितेहि

लुब्धेहि गृद्धेहि च पात्रचीवरे।

न चोद्धतेहि नपि चोन्नतेहि

शक्या इयं जानितु बुद्धबोधिः॥ १७॥

न स्त्यानमिद्धाभिहतैः कुसीदैः

स्तब्धेहि मानीहि अनात्रपेहि।

येषां न बुद्धस्मि प्रसादु अस्ति

न शक्यते ही वरबोधि जानितुम्॥ १८॥

न भिन्नवृत्तेहि पृथग्जनेहि

येषां न धर्मस्मि प्रसादु अस्ति।

सब्रह्मचारीषु च नास्ति गौरवं

न शक्यते ही वरबोधि बुद्धितुम्॥ १९॥

अभिन्नवृत्ता हिरिमन्त लज्जिनो

येषां स्ति बुद्धे अपि धर्मे प्रेम।

सब्रह्मचारीषु च तीव्रगौरवं

ते प्रापुणन्ती वरबोधिमुत्तमाम्॥ २०॥

स्मृतेरुपस्थान इह येष गोचरः

प्रामोद्य प्रीति शयनमुपस्तृतम्।

ध्यानानि चाहारु समाधि पानियं

बुध्यन्ति तेऽपि वरबोधिमुत्तमाम्॥ २१॥

नैरात्म्यसंज्ञा च दिवाविहारो

अनुस्मृतिश्चंक्रमशून्यभावः।

बोध्यङ्गपुष्पा सुरभी मनोरमा

ते युज्यमाना वरबोधि प्रापयी॥ २२॥

या बोधिसत्त्वान चरी विदूना-

मभूमिरन्यस्य जनस्य तत्र।

प्रत्येकबुद्धान च श्रावकाण च

को वात्र विज्ञो न जनेय छन्दम्॥ २३॥

सचेन्ममा आयु भवेत एत्तकं

कल्पान कोट्यो यथ गङ्गवालुकाः।

एकस्य रोमस्य भणेय वर्णं

बौद्धेन ज्ञानेन पर्यन्तु नास्ति॥ २४॥

तस्माच्छुणित्वा इमु आनुशंसा-

मनाभिभूतेन जिनेन देशिताम्।

इमं समाधिं लघु उद्दिशेया

न दुर्लभा भेष्यति अग्रबोधिः॥ २५॥



इति श्रीसमाधिराजे समाधिपरिवर्तो नाम षष्ठः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project