Digital Sanskrit Buddhist Canon

घोषदत्तपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ghoṣadattaparivartaḥ

घोषदत्तपरिवर्तः।



तत्र भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-भूतपूर्वं कुमार अतीतेऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुलेऽप्रमेयेऽचिन्त्येऽपरिमाणे यदासीत् तेन कालेन तेन समयेन भगवान् घोषदत्तो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तेन कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अशीतिः श्रावककोट्यः प्रथमसन्निपातोऽभूत् सर्वेषामर्हताम्। द्वितीयः श्रावकसन्निपातः सप्ततिकोट्योऽर्हतामभूत्। तृतीयः सन्निपातः षष्टिः श्रावककोट्योऽर्हतामभूत्। तेन खलु पुनः समयेन तस्य भगवतो घोषदत्तस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्वर्षसहस्राण्यायुःप्रमाणमभूत्। अयं च जम्बुद्वीप ऋद्धः स्फीतश्च क्षेमश्च सुभिक्षश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्चाभूत्। तेन खलु पुनः समयेन अस्मिन् जम्बुद्वीपे द्वौ राजानावभूताम्। दृढबलश्च नाम महाबलश्च नाम। तत्रैको राजा अर्धं जम्बुद्वीपं परिभुङ्क्ते, द्वितीयोऽप्यर्धं परिभुङ्क्ते ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं च बहुजनाकीर्णमनुष्यं च॥ तेन कालेन तेन समयेन राज्ञो महाबलस्य विजिते भगवान् घोषदत्तस्तथागतोऽर्हन् सम्यक्संबुद्ध उत्पन्नोऽभूत्। इति हि कुमार राज्ञा महाबलेन स घोषदत्तस्तथागतः परिपूर्णं वर्षसहस्रं निमन्त्रितोऽभूत् सार्धं बोधिसत्त्वसंघेन भिक्षुसंघेन च कल्पिकेन परिभोगेणानवद्येन चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेण। तेन च कुमार कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वसंघस्य सश्रावकसंघस्य चोत्सदो लाभसत्कारश्लोकोऽभूत्। श्राद्धाश्च ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सबोधिसत्त्वसंघस्य चोत्सदं लाभसत्कारमकार्षुः। ते च श्राद्धा ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य लाभसत्कारायोद्युक्ता अभूवन् लोकामिषपूजायै यदुत राज्ञ एव च महाबलस्यानुशिक्षमाणरूपम्। इति हि कुमार तस्य भगवतो घोषदत्तस्य एतदभूत्-परिहीयन्ते बतेमे सत्त्वाः शीलपोषधसमादानतस्तथागतानामुपसंक्रमणतस्तथागतपर्युपासनतो ब्रह्मचर्यावासतः प्रव्रज्योपसंपन्नभिक्षुभावतश्च। त एते सत्त्वास्तदनन्तरं सुखगुरुकाः। तत् कस्य हेतोः? तथा हि तदनन्तरं सुखमिदं यदुत लोकामिषपूजा। त एते सत्वा दृष्टधर्मगुरुकाश्च संपरायगुरुकाश्च नात्यन्तनिष्ठाः कुशलमूलाय। तत्रेयं कुमार कतमा दुष्टधर्मगुरुकता ? यदुत पञ्चकामगुणाभिप्रायता। तत्र कुमार कतमा सांपरायिकगुरुकता ? यदुत स्वर्गलोकाध्यालम्बनता। कतमा चात्यन्तनिष्ठकुशलमूलगुरुकता ? यदुतात्यन्तविशुद्धिः। अत्यन्तविमुक्तिः। अत्यन्तयोगक्षेमता। अत्यन्तब्रह्मचर्यावासः। अत्यन्तपर्यवसानम्। अत्यन्तकुशलमूलनिष्ठा। अत्यन्तपरिनिर्वाणम्। यन्नवहमेतेषां सत्त्वानां तथा तथा धर्मं देशयेयं यदमी सत्त्वा यथानुत्तरया धर्मपूजया धर्मप्रतिपत्त्या च तथागतं पूजयेयुः॥

अथ खलु कुमार घोषदत्तस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां राज्ञो महाबलस्य तेषां च ब्राह्मणगृहपतीनां संवेजनाभिप्राय इमा गाथा अभाषत -

दानप्रदानेन अन्योन्य सेवतां

तेषान्यमन्यस्मि न भोति गौरवम्।

ना तादृशीं सेवन वर्णयन्ति

बुद्धा विदू येष प्रहीण वासना॥ १॥

ते तादृशा भोन्ति नराः सुसेविता

ये धर्म देशेन्ति हिताय प्राणिनाम्।

तेषान्यमन्यस्मि अभेद्य प्रेम

यन्मारकोटीभिरशक्यु भिन्दितुम्॥ २॥

लोकामिषेणो नर सेवतां नृणां

सर्वेषं सांदृष्टिक भोति अर्थः।

निरामिषं धर्म निषेवतां हि

महान्त अर्थो भवती नराणाम्॥ ३॥

निरामिषं चित्तु उपस्थपित्वा

निरामिषं धर्म प्रकाशयित्वा।

निरामिषं येष भवेत प्रेम

ते तादृशाः क्षिप्र भवन्ति बुद्धाः॥ ४॥

न जातु कामान् प्रतिसेवमानः

पुत्रेषु दारेषु जनित्व तृष्णाम्।

गृहं च सेवन्तु जुगुप्सनीय-

मनुत्तरां प्राप्स्यति सोऽग्रबोधिम्॥ ५॥

ये काम वर्जेन्ति यथाग्निकर्षूं

पुत्रेषु दारेषु जहित्व तृष्णाम्।

उत्त्रस्तु गेहादभिनिष्क्रमन्ति

न दुर्लभा तेष्वियमग्रबोधिः॥ ६॥

न कश्चि बुद्धः पुरिमेण आसी

अनागते भेष्यति वावतिष्ठते।

येहि स्थितैरेवमगारमध्ये

प्राप्ता इयमुत्तम अग्रबोधिः॥ ७॥

प्रहाय राज्यं यथ खेटपिण्डं

वसेत रण्येषु विवेककामः।

क्लेशान् प्रहाय प्रतिहत्य मारं

बुद्ध्यन्ति बोधिं विरजामसंस्कृताम्॥ ८॥

यो बुद्धवीरान् यथ गङ्गवालुका

उपस्थिहेय्या बहुकल्पकोटियः।

यश्चो गृहातः परिखिन्नमानसो-

ऽभिनिष्क्रमेय्या अयु तत्र उत्तमः॥ ९॥

अन्नेहि पानेहि च चीवरेहि

पुष्पेहि गन्धेहि विलेपनेहि।

नोपस्थिता भोन्ति नरोत्तमा जिना

यथ प्रव्रजित्वा चरियाण धर्मम्॥ १०॥

यश्चैव बोधिं प्रतिकाङ्क्षमाणः

सत्त्वार्थ निर्विण्णु कुसंस्कृतातः।

रण्यामुखः सप्त पदानि प्रक्रमे

अयं ततः पुण्यविशिष्ट भोति॥ ११॥

अश्रौषीत् खलु पुनः कुमार राजा महाबलो भगवता घोषदत्तेन तथागतेनार्हता सम्यक्संबुद्धेन इमामेवंरूपां प्रवर्तितां नैष्क्रम्यप्रतिसंयुक्तां कथाम्। श्रुत्वा च विमृशति-यथाहं भगवतो भाषितस्यार्थमाजानामि, न भगवान् दानपारमितां वर्णयति, न शीलपारमितां वर्णयति। अत्यन्तनिष्ठां संवर्णयति। अत्यन्तविशुद्धिम्। अत्यन्तब्रह्मचर्यावासम्। अत्यन्तनिर्वाणं संवर्णयति। तस्यैतदभूत्-नेदं सुकरमगारमध्यावसता अनुत्तरधर्मप्रतिपत्तिं संपादयितुम्, अर्थं वा अनुप्राप्तुम्। परिहीणोऽस्म्यनुत्तराया धर्मप्रतिपत्तितः। यन्न्वहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयम्। इति हि कुमार राजा महाबलः सार्धमशीत्या ब्राह्मणगृहपतिशतसहस्रैः परिवृतः पुरस्कृतो येन भगवान् घोषदत्तो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामत्। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य एकान्तेऽस्थात्। अथ खलु कुमार भगवान् घोषदत्तो राज्ञो महाबलस्य अध्याशयं विदित्वा इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं देशयते। अथ खलु कुमार राजा महाबल इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः केशश्मश्रण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितोऽभूत्। स तथा प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान्। उद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्तो व्यहार्षीत्। स तेनैव कुशलमूलेन दशकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत्, विंशतिं च बुद्धकोटीरारागयामास। तेषां च तथागतानामन्तिकादिमं समाधिमश्रौषीत्। श्रुत्वा तेभ्यो बुद्धेभ्यस्तेनोद्गृहीतः पर्यवाप्तो धारितो वाचितो भावनायोगमनुयुक्तो व्यहार्षीत्। स ततः पश्चात् तेनैव कुशलमूलेन दशानां कल्पकोटीनामत्ययेन परिपूर्णेन कल्पशतसहस्रेण अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽभूत्। सोऽप्रमेयाणां सत्त्वानामर्थं कृत्वा पश्चाद् बुद्धपरिनिर्वाणेन परिनिर्वृतोऽभूत्। तत्र कुमार यान्यशीतिप्राणिशतसहस्राणि राज्ञा महाबलेन सार्धं भगवन्तं घोषदत्तं तथागतमुपसंक्रान्तानि, तेऽपि सर्वे इमं समाधिं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिता अभूवन्। तेऽपि तथा प्रव्रजिता इमं समाधिमुद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव कुशलमूलेन विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमन्। सर्वत्र च कल्पे कल्पे बुद्धकोटीर्बुद्धकोटीरारागयामास। सर्वेषां च तेषां तथागतानामन्तिके इमं समाधिं श्रुत्वोद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव पूर्वक्रेण कुशलमूलेन विंशतीनां कल्पकोटीनामत्ययेन ततः पश्चात् परिपूर्णदशभिः कल्पसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंबुद्धा दृढशूरनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पन्ना अभुवन्। तेऽप्यप्रमेयानसंख्येयान् सत्त्वान् परिपाच्य तेषां चार्थं कृत्वा बुद्धपरिनिर्वृता अभूवन्। तदनेनापि ते कुमार पर्यायेण एवं वेदितव्यं यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य सर्वज्ञज्ञानस्याहरणाय संवर्तत इति॥ अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तस्यां वेलायामेतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -

स्मराम्यहं पूर्वमतीतमध्वनि

अचिन्तिये कल्पि नराण उत्तमः।

उत्पन्नु लोकार्थकरो महर्षि

नामेन सो उच्यति घोषदत्तः॥ १२॥

अशीति कोट्यः परिपूर्ण तस्य

प्रथमो गणो आसि य श्रावकाणाम्।

द्वितीय चासीत् परिपूर्ण सप्तति-

स्तृतीय चो षष्ट्यरहन्तकोटियः॥ १३॥

सर्वे च क्षीणास्रव निष्किलेशाः

सर्वे च ऋद्धीबलपारमिं गताः।

वर्षं सहस्रा दुवि विशं चायुः

क्षेत्रं च आसीत् परिशुद्ध शोभनम्॥ १४॥

अभिषेकप्राप्ता परहित अप्रमेया

वशितेहि भूमिहि च सुप्रतिष्ठिताः।

आसन्न ते द्रुमवरि बोधि बोधितुं

ये बोधिसत्वास्त अभूषि तायिनः॥ १५॥

इह जम्बुद्वीपस्मि अभूषि राजा

दृढबलो नाम महाबलश्च।

उपार्धु राज्यस्य तदेकु भुञ्जते

द्वितीय चाधस्य अभूषि राजा॥ १६॥

महाबलस्यो विजितस्मि बुद्धो

उत्पन्न सो देवमनुष्यपूजितः।

लभित्व राजा सुगतस्मि श्रद्धाम्

उपस्थिही वर्षसहस्र पूर्णम्॥ १७॥

तस्यानुशिक्षी बहु अन्यसत्त्वाः

कुर्वन्ति सत्कार तथागतस्य।

लोकामिषेणैव हि धर्मपूजया

सश्रावकस्य अतुलोऽभू उत्सदः॥ १८॥

अभूषि चित्तं पुरुषोत्तमस्य

देशिष्य धर्ममिमि धर्मकामाः।

यन्नून सर्वे प्रजहित्व कामा-

निह प्रव्रजेयुर्मम शासनस्मिन्॥ १९॥

स भाषते गाथ नराणमुत्तमः

संलेखिधर्मं सुगतान शिक्षाम्।

गृहवासदोषांश्च अनन्तदुःखान्

प्रतिपत्ति धर्मेष्विह धर्मपूजा॥ २०॥

श्रुणित्व गाथां तद राजपार्थिवो

एको विचिन्तेति रहोगतो नृपः।

न शक्य गेहस्मि स्थिहित्व सर्वे

प्रतिपद्यितुमुत्तधर्मपूजा॥ २१॥

स राज्य त्यक्त्वा यथ खेटपिण्डं

प्राणिसहस्रेभिरशीतिभिः सह।

उपसंक्रमी तस्य जिनस्य अन्तिकं

वन्दित्व पादौ पुरतः स्थितोऽभूत्॥ २२॥

तेषां जिनो आशयु जानमानो

देशेतिमं शान्त समाधि दुर्दृशम्।

ते प्रीतिप्रामोद्यसुखेन प्रीणिता-

स्तुष्टा उदग्रास्तद प्रव्रजिंसु॥ २३॥

ते प्रव्रजित्वान इमं समाधिं

धारित्व वाचित्व पर्यापुणित्व।

न जातु गच्छे विनिपातदुर्गतिं

कल्पान कोट्यः परिपूर्ण विंशतिम्॥ २४॥

ते तेन सर्वे कुशलेन कर्मणा

अद्राक्षु बुद्धान सहस्रकोटियः।

सर्वेषु चो तेषु जिनानुशासने

ते प्रव्रजित्वेमु समाधि भावयी॥ २५॥

ते पश्चिमे कालि अभूषि बुद्धा

दृढशूरनामान अनन्तवीर्याः।

कृत्वा च अर्थं बहुप्राणिकोटिनां

ते पश्चिकालेस्मि शिखीव निर्वृताः॥ २६॥

महाबलो राजा य आसि पूर्वं

स ज्ञानशूरो अभु बुद्ध लोके।

तदा बहु प्राणिसहस्रकोटियः

स्थपेत्व बोधाय स पश्चि निर्वृतः॥ २७॥

तस्माच्छ्रुणित्वा इमु पश्चिकाले

धारेय सूत्रमिमु बुद्धवर्णितम्।

धारेत्विममीदृश धर्मकोषं

भविष्यथा क्षिप्र नराणमुत्तमाः॥ २८॥



इति श्रीसमाधिराजे घोषदत्तपरिवर्तो नाम पञ्चमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project