Digital Sanskrit Buddhist Canon

१० सगाथकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

10 sagāthakam

१० सगाथकम्।



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-

उत्पादभङ्गरहितो लोकः खेपुष्पसंनिभः।

सदसन्नोपलब्धोऽयं प्रज्ञया कृपया च ते॥ १॥

शाश्वतोच्छेदवर्ज्यश्च लोकः स्वप्नोपमः सदा।

सदसन्नोपलब्धोऽयं प्रज्ञया कृपया च ते॥ २॥

मायोपमाः सर्वधर्माश्चित्तविज्ञानवर्जिताः।

सदसन्नोपलब्धास्ते प्रज्ञया कृपया च ते॥ ३॥

धर्मपुद्गलनैरात्म्यं क्लेशज्ञेयं च ते सदा।

विशुद्धमनिमित्तेन प्रज्ञया कृपया च ते॥ ४॥

न निर्वासि न निर्वाणे न निर्वाणं त्वयि स्थितम्।

बुद्धिबोद्धव्यरहितं सदसत्पक्षवर्जितम्॥ ५॥

ये पश्यन्ति मुनिं शान्तमेवमुत्पत्तिवर्जितम्।

ते भवन्त्यनुपादाना इहामुत्र निरञ्जनाः॥ ६॥

मृगतृष्णा यथा ग्रीष्मे स्पन्दते चित्तमोहनी।

मृगा गृह्णन्ति पानीयं वस्तु तस्य न विद्यते॥ ७॥

एवं विज्ञानबीजोऽयं स्पन्दते दृष्टिगोचरे।

बाला गृह्णन्ति जायन्तं तिमिरं तैमिरा यथा॥ ८॥

ध्याता ध्यानं च ध्येयं च प्रहाणं सत्यदर्शनम्।

कल्पनामात्रमेवेदं यो बुध्यति स मुच्यति॥ ९॥

असारका इमे धर्मा मन्यनायाः समुत्थिताः।

साप्यत्र मन्यना शून्या यया शून्येति मन्यते॥ १०॥

जलवृक्षच्छायासदृशाः स्कन्ध विज्ञानपञ्चमाः।

मायास्वप्नोपमं दृश्यं विज्ञप्त्या न विकल्पयेत्॥ ११॥

मायावेतालयन्त्राभं स्वप्नं विद्युद्धनं सदा।

त्रिसंततिव्यवच्छिन्नं जगत्पश्यन् विमुच्यते॥ १२॥

अयोनिशो विकल्पेन विज्ञानं संप्रवर्तते।

अष्टघा नवधा चित्रं तरंगाणि महोदधौ॥ १३॥

वासनैर्बृंहितं नित्यं बुद्ध्या मूलं स्थिराश्रयम्।

भ्रमते गोचरे चित्तमयस्कान्ते यथायसम्॥ १४॥

आश्रिता सर्वभूतेषु गोत्रभूस्तर्कवर्जिता।

निवर्तते क्रियामुक्ता ज्ञानज्ञेयविवर्जिता॥ १५॥

मायोपमं समाधिं च दशभूमिविनिर्गतम्।

पश्यथ चित्तराजानं संज्ञाविज्ञानवर्जितम्॥ १६॥

परावृत्तं यदा चित्तं तदा तिष्ठति शाश्वतम्।

विमाने पद्मसंकाशे मायागोचरसंभवे॥ १७॥

तस्मिन् प्रतिष्ठितो भवत्यनाभोगचरिं गतः।

करोति सत्त्वकार्याणि विश्वरूपामणिर्यथा॥ १८॥

संस्कृतासंस्कृतं नास्ति अन्यत्र हि विकल्पनात्।

बाला गृह्णन्ति धिङ्भूढा वन्ध्याः स्वप्ने यथा सुतम्॥ १९॥

नैःस्वाभाव्यमनुत्पादो पुद्गलः स्कन्ध संततिः।

प्रत्यया धातवो ज्ञेया शून्यता च भवाभवम्॥ २०॥

उपायदेशना मह्यं नाहं देशेमि लक्षणम्।

बाला गृह्णन्ति भावेन लक्षणं लक्ष्यमेव च॥ २१॥

सर्वस्य वेत्ता न च सर्ववेत्ता

सर्वस्य मध्ये न च सर्वमस्ति।

बाला विकल्पेन्ति बुधश्च लोको

न चापि बुध्यामि न च बोधयामि॥ २२॥

प्रज्ञप्तिर्नाममात्रेयं लक्षणेन न विद्यते।

स्कन्धाः केशोण्डुकाकारा यत्र बालैर्विकल्प्यते॥ २३॥

नाभूत्वा जायते किंचित्प्रत्ययैर्न विनश्यते।

वन्ध्यासुताकाशपुष्पं यदा पश्यति संस्कृतम्।

तदा ग्राहश्च ग्राह्यं च भ्रान्तिं दृष्ट्वा निवर्तते॥ २४॥

नाहं निर्वामि भावेन क्रियया लक्षणेन च।

विकल्पहेतुविज्ञाननिवृत्तेर्निर्वृतो ह्यहम्।

(न विनश्यति लक्षणं यत्र बालैर्विकल्प्यते)॥ २५॥

यथा क्षीणे महत्योघे तरंगाणामसंभवः।

तथा विज्ञानवैचित्र्यं निरुद्धं न प्रवर्तते॥ २६॥

शून्याश्च निःस्वभावाश्च मायोपमा अजातकाः।

सदसन्तो न विद्यन्ते भावाः स्वप्नोपमा इमे॥ २७॥

स्वभावमेकं देशेमि तर्कविज्ञप्तिवर्जितम्।

आर्याणां गोचरं दिव्यं स्वभावद्वयवर्जितम्॥ २८॥

खद्योता इव मत्तस्य यथा चित्रा न सन्ति च।

दृश्यन्ते धातुसंक्षोभादेवं लोकः स्वभावतः॥ २९॥

तृणकाष्ठकठल्लेषु यथा माया विराजते।

न चासौ विद्यते माया एवं धर्माः स्वभावतः॥ ३०॥

न ग्राहको न च ग्राह्यं न बन्ध्यो न च बन्धनम्।

मायामरीचिसदृशं स्वप्नाख्यं तिमिरं यथा॥ ३१॥

यदा पश्यति तत्त्वार्थी निर्विकल्पो निरञ्जनः।

तदा योगं समापन्नो द्रक्ष्यते मां न संशयः॥ ३२॥

न ह्यत्र काचिद्विज्ञप्तिर्नभे यद्वन्मरीचयः।

एवं धर्मान् विजानन्तो न किंचित्प्रतिजानति॥ ३३॥

सदसतः प्रत्ययेषु धर्माणां नास्ति संभवः।

भ्रान्तं त्रैधातुके चित्तं विचित्रं ख्यायते यतः॥ ३४॥

स्वप्नं च लोकं च समस्वभावं

रूपाणि चित्राणि हि तत्र चापि।

दृश्यन्ति भोगं स्परिशं समानं

देहान्तगं लोकगुरुं क्रियां च॥ ३५॥

चित्तं हि त्रैधातुकयोनिरेत-

द्भ्रान्तं हि चित्तमिहमुत्र दृश्यते।

न कल्पयेल्लोकमसत्त एषा-

मेतादृशीं लोकगतिं विदित्वा॥ ३६॥

संभवं विभवं चैव मोहात्पश्यन्ति बालिशाः।

न संभवं न विभवं प्रज्ञायुक्तो विपश्यति॥ ३७॥

अकनिष्ठभवने दिव्ये सर्वपापविवर्जिते।

निर्विकल्पाः सदा युक्ताश्चित्तचैत्तविवर्जिताः॥ ३८॥

बलाभिज्ञावशिप्राप्ताः तत्समाधिगतिंगताः।

तत्र बुध्यन्ति संबुद्धा निर्मितस्त्विह बुध्यते॥ ३९॥

निर्माणकोट्यो ह्यमिता बुद्धानां निश्चरन्ति च।

सर्वत्र बालाः शृण्वन्ति धर्मं तेभ्यः प्रतिश्रुत्वा (?)॥ ४०॥

आदिमध्यान्तनिर्मुक्तं भावाभावविवर्जितम्।

व्यापिनमचलं शुद्धमचित्रं चित्रसंभवम्॥ ४१॥

विज्ञप्तिगोत्रसंछन्नमालीनं सर्वदेहिनाम्।

भ्रान्तेश्च विद्यते माया न माया भ्रान्तिकारणम्॥ ४२॥

चित्तस्य मोहेनाप्यस्ति यत्किंचिदपि विद्यते।

स्वभावद्वयनिबद्धमालयविज्ञाननिर्मितम्।

लोकं विज्ञप्तिमात्रं च दृष्ट्यौघं धर्मपुद्गलम्॥ ४३॥

विभाव्य लोकमेवं तु परावृत्तो यदा भवेत्।

तदा पुत्रो भवेन्मह्यं निष्पन्नधर्मवर्तकः॥ ४४॥

उष्णद्रवचलकठिना धर्मा बालैर्विकल्पिताः।

असद्भूतसमारोपो नास्ति लक्ष्यं न लक्षणम्॥ ४५॥

अष्टद्रव्यकमेतत्तु कायसंस्थानमिन्द्रियम्।

रूपं कल्पन्ति वै बाला भ्रान्ताः संसारपञ्जरे॥ ४६॥

हेतुप्रत्ययसामग्र्या बालाः कल्पन्ति संभवम्।

अजानाना नयमिदं भ्रमन्ति त्रिभवालये॥ ४७॥

सर्वभावास्वभावा च वचनमपि नृणाम्।

कल्पनाच्चापि निर्माणं नास्ति स्वप्नोपमं भवम्।

परीक्षेन्न संसरेन्नापि निर्वायात्॥ ४८॥

चित्तं विचित्रं बीजाख्यं ख्यायते चित्तगोचरम्।

ख्यातौ कल्पन्ति उत्पत्तिं बालाः कल्पद्वये रताः॥ ४९॥

अज्ञान तृष्णा कर्मं च चित्तचैत्ता न मारकम्।

प्रवर्तति ततो यस्मात्पारतन्त्र्यं हि तन्मतम्॥ ५०॥

ते च कल्पन्ति यद्वस्तु चित्तगोचरविभ्रमम्।

कल्पनायामनिष्पन्नं मिथ्याभ्रान्तिविकल्पितम्॥ ५१॥

चित्तं प्रत्ययसंबद्धं प्रवर्तति शरीरिणाम्।

प्रत्ययेभ्यो विनिर्मुक्तं न पश्यामि वदाम्यहम्॥ ५२॥

प्रत्ययेभ्यो विनिर्मुक्तं स्वलक्षणविवर्जितम्।

न तिष्ठति यदा देहे तेन मह्यमगोचरम्॥ ५३॥

राजा श्रेष्ठी यथा पुत्रान् विचित्रैर्मृगसादृशैः।

प्रलोभ्य क्रीडति गृहे वने मृगसमागमम्॥ ५४॥

तथाहं लक्षणैश्चित्रैर्धर्माणां प्रतिबिम्बकैः।

प्रत्यात्मवेद्यां हि सुतां भूतकोटिं वदाम्यहम्॥ ५५॥

तरंगा ह्युदधेर्यद्वत्पवनप्रत्ययोदिताः।

नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्चः न विद्यते॥ ५६॥

आलयौघस्तथा नित्यं विषयपवनेरितः।

चित्रैस्तरंगविज्ञानैर्नृत्यमानः प्रवर्तते॥ ५७॥

ग्राह्यग्राहकभावेन चित्तं नमति देहिनाम्।

दृश्यस्य लक्षणं नास्ति यथा बालैर्विकल्प्यते॥ ५८॥

परमालयविज्ञानं विज्ञप्तिरालयं पुनः।

ग्राह्यग्राहकापगमात्तथतां देशयाम्यहम्॥ ५९॥

नास्ति स्कन्धेष्वात्मा न सत्त्वो न च पुद्गलः।

उत्पद्यते च विज्ञानं विज्ञानं च निरुध्यते॥ ६०॥

निम्नोन्नतं यथा चित्रे दृश्यते न च विद्यते।

तथा भावेषु भावत्वं दृश्यते न च विद्यते॥ ६१॥

गन्धर्वनगरं यद्वद्यथा च मृगतृष्णिका।

दृश्यं ख्याति तथा नित्यं प्रज्ञया च न विद्यते॥ ६२॥

प्रमाणेन्द्रियनिर्वृत्तं न कार्यं नापि कारणम्।

बुद्धिबोद्धव्यरहितं लक्ष्यलक्षणवर्जितम्॥ ६३॥

स्कन्धान् प्रतीत्य संबुद्धो न दृष्टः केनचित्क्वचित्।

यो न दृष्टः क्वचित्केन कुतस्तस्य विभावना॥ ६४॥

प्रत्ययैर्हेतुदृष्टान्तैः प्रतिज्ञा कारणेन च।

स्वप्नगन्धर्वचक्रेण मरीच्या सोमभास्करैः॥ ६५॥

अदृश्यं कुलादिदृष्टान्तैरुत्पत्तिं वादयाम्यहम्।

स्वप्नविभ्रममायाख्यं शून्यं वै कल्पितं जगत्॥ ६६॥

अनाश्रितश्च त्रैलोक्ये अध्यात्मं च बहिस्तथा।

अनुत्पन्नं भवं दृष्ट्वा क्षान्त्यनुत्पत्ति जायते॥ ६७॥

मायोपमसमाधिं च कायं मनोमयं पुनः।

अभिज्ञा वशिता तस्य बला चित्तस्य चित्रिता॥ ६८॥

भावा येषां ह्यनुत्पन्नाः शून्या वै अस्वभावकाः।

तेषामुत्पद्यते भ्रान्तिः प्रत्ययैश्च निरुध्यते॥ ६९॥

चित्तं हि ख्याति चित्तस्य बहिर्धा ख्याति रूपिणः।

अन्यन्न विद्यते दृश्यं यथा बालैर्विकल्प्यते॥ ७०॥

संकला बुद्धबिम्बं च भूतानां च विदारणम्।

अधिष्ठन्ति जगच्चित्रं प्रज्ञप्त्या वै सुशिक्षिताः॥ ७१॥

देहः प्रतिष्ठा भोगश्च ग्राह्यविज्ञप्तयस्त्रयः।

मन उद्ग्रहविज्ञप्तिविकल्पो ग्राहकास्त्रयः॥ ७२॥

विकल्पश्च विकल्प्यं च यावत्त्वक्षरगोचरम्।

तावत्तत्त्वं न पश्यन्ति तार्किकास्तर्कविभ्रमात्॥ ७३॥

नैःस्वभाव्यं हि भावानां यदा बुध्यन्ति प्रज्ञया।

तदा विश्रमति योगी आनिमित्तप्रतिष्ठितः॥ ७४॥

मसिम्रक्षितको यद्वद्गृह्यते कुर्कुटोऽबुधैः।

स एवायमजानानैर्बालैर्यानत्रयं तथा॥ ७५॥

न ह्यत्र श्रावकाः केचिन्नास्ति प्रत्येकयानिकाः।

यच्चैतद्दृश्यते रूपं श्रावकस्य जिनस्य च।

निर्माणं देशयन्त्येते बोधिसत्त्वाः कृपात्मकाः॥ ७६॥

विज्ञप्तिमात्रं त्रिभवं स्वभावद्वयकल्पितम्।

परावृत्तस्तु तथता धर्मपुद्गलसंचरात्॥ ७७॥

सोमभास्करदीपार्चिर्भूतानि मणयस्तथा।

निर्विकल्पाः प्रवर्तन्ते तथा बुद्धस्य बुद्धता॥ ७८॥

केशोण्डुकं यथा मिथ्या गृह्यते तैमिरैर्जनैः।

तथा भावविकल्पोऽयं मिथ्या बालैर्विकल्प्यते॥ ७९॥

स्थितिभङ्गोत्पत्तिरहिता नित्यानित्यविवर्जिताः।

संक्लेशव्यवदानाख्या भावाः केशोण्डुकोपमाः॥ ८०॥

पुत्तलिकं यथा कश्चित्कनकाभं पश्यते जगत्।

न ह्यस्ति कनकं तत्र भूमिश्च कनकायते॥ ८१॥

एवं हि दूषिता बालाश्चित्तचैत्तैरनादिकैः।

मायामरीचिप्रभवं भावं गृह्णन्ति तत्त्वतः॥ ८२॥

एकबीजमबीजं च समुद्रैकं च बीजकम्।

सर्वबीजकमप्येतच्चित्तं पश्यथ चित्रिकम्॥ ८३॥

एकं बीजं यदा शुद्धं परावृत्तमबीजकम्।

समं हि निर्विकल्पत्वादुद्रेकाज्जन्मसंकरः।

बीजमावहते चित्रं सर्वबीजं तदुच्यते॥ ८४॥

न ह्यत्रोत्पद्यते किंचित्प्रत्ययैर्न निरुध्यते।

उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव कल्पिताः॥ ८५॥

प्रज्ञप्तिमात्रं त्रिभवं नास्ति वस्तु स्वभावतः।

प्रज्ञप्तिवस्तुभावेन कल्पयिष्यन्ति तार्किकाः॥ ८६॥

भावस्वभावजिज्ञासा न हि भ्रान्तिर्निवार्यते।

भावस्वभावानुत्पत्तिरेवं दृष्ट्वा विमुच्यते॥ ८७॥

न माया नास्तिसाधर्म्याद्भावानां कथ्यतेऽस्तिता।

वितथाशुविद्युत्सदृशास्तेन मायोपमाः स्मृताः॥ ८८॥

न चोत्पद्या न चोत्पन्नाः प्रत्ययोऽपि न केचन।

संविद्यन्ते क्वचित्तेन व्यवहारं तु कथ्यते॥ ८९॥

न भङ्गोत्पादसंक्लेशः प्रत्ययानां निवार्यते।

यत्तु बाला विकल्पेन्ति प्रत्ययैः संनिवार्यते॥ ९०॥

न स्वभावो न विज्ञप्तिर्न वस्तु न च आलयः।

बालैर्विकल्पिता ह्येते वशभूतैः कुतार्किकैः॥ ९१॥

चित्तमात्रं यदा लोकं प्रपश्यन्ति जिनात्मजाः।

तदा नैर्वाणिकं कायं क्रियासंस्कारवर्जितम्।

लभन्ते ते बलाभिज्ञावशितैः सह संयुतम्॥ ९२॥

सर्वरूपावभासं हि यदा चित्तं प्रवर्तते।

नात्र चित्तं न रूपाणि भ्रान्तं चित्तमनादिकम्॥ ९३॥

तदा योगी ह्यनाभासं प्रज्ञया पश्यते जगत्।

निमित्तं वस्तुविज्ञप्तिर्मनोविस्पन्दितं च यत्।

अतिक्रम्य तु पुत्रा मे निर्विकल्पाश्चरन्ति ते॥ ९४॥

गन्धर्वनगरं माया केशोण्डुक मरीचिका।

असत्याः सत्यतः ख्यान्ति तथा भावेषु भावना॥ ९५॥

अनुत्पन्नाः सर्वभावा भ्रान्तिमात्रं हि दृश्यते।

भ्रान्तिं कल्पेन्ति उत्पन्नां बालां कल्पद्वये रताः॥ ९६॥

औपपत्त्यङ्गिकं चित्तं विचित्रं वासनासंभवम्।

प्रवर्तते तरंगौघं तच्छेदान्न प्रवर्तते॥ ९७॥

विचित्रालम्बनं चित्रं यथा चित्ते प्रवतते।

तथाकाशे च कुड्ये च कस्मान्नाभिप्रवर्तते॥ ९८॥

निमितं किंचिदालम्ब्य यदि चित्तं प्रवर्तते।

प्रत्ययैर्जनितं चित्तं चित्तमात्रं न युज्यते॥ ९९॥

चित्तेन गृह्यते चित्तं नास्ति किंचित्सहेतुकम्।

चित्तस्य धर्मता शुद्धा गगने नास्ति वासना॥ १००॥

स्वचित्ताभिनिवेशेन चित्तं वै संप्रवर्तते।

बहिर्धा नास्ति वै दृश्यमतो वै चित्तमात्रकम्॥ १०१॥

चित्तमालयविज्ञानं मनो यन्मन्यनात्मकम्।

गृह्णाति विषयान् येन विज्ञानं हि तदुच्यते॥ १०२॥

चित्तमव्याकृतं नित्यं मनो ह्युभयसंचरम्।

वर्तमानं हि विज्ञानं कुशलाकुशलं हि तत्॥ १०३॥

द्वारं हि परमार्थस्य विज्ञप्तिद्वयवर्जितम्।

यानत्रयव्यवस्थानं निराभासे स्थितं कुतः॥ १०४॥

चित्तमात्रं निराभासं विहारा बुद्धभूमिश्च।

एतद्धि भाषितं बुद्धैर्भाषन्ते भाषयन्ति च॥ १०५॥

चित्तं हि भूमयः सप्त निराभासा च अष्टमी।

द्वे भूमयो विहारश्च शेषा भूमिर्ममात्मिका॥ १०६॥

प्रत्यात्मवेद्या शुद्धा च भूमिश्चापि ममात्मिका।

माहेश्वरपरस्थानमकनिष्ठे विराजते॥ १०७॥

हुताशनस्यैव यथा निश्चेरुस्तस्य रश्मयः।

चित्रा मनोहराः सौम्यास्त्रिभवं निर्मिणन्ति ये॥ १०८॥

निर्माय त्रिभवं किंचित्किंचिद्वै पूर्वनिर्मितम्।

तत्र देशन्ति यानानि एषा भूमिर्ममात्मिका॥ १०९॥

नास्ति कालो ह्यधिगमे भूमीनां क्षत्रेसंक्रमे।

चित्तमात्रमतिक्रम्य निराभासे स्थितं फलम्॥ ११०॥

असत्ता चैव सत्ता च दृश्यते च विचित्रता।

बाला ग्राहविपर्यस्ता विपर्यासो हि चित्रता॥ १११॥

निर्विकल्पं यदि ज्ञानं वस्त्वस्तीति न युज्यते।

यस्माच्चित्तं न रूपाणि निर्विकल्पं हि तेन तत्॥ ११२॥

इन्द्रियाणि च मायाख्या विषयाः स्वप्नसंनिभाः।

कर्ता कर्म क्रिया चैव सर्वथापि न विद्यते॥ ११३॥

ध्यानानि चाप्रमाणानि आरूप्याश्च समाधयः।

संज्ञानिरोधो निखिलश्चित्तमात्रे न विद्यते॥ ११४॥

स्रोतापत्तिफलं चैव सकृदागामिफलं तथा।

अनागामिफलं चैव अर्हत्त्वं चित्तविभ्रमः॥ ११५॥

शून्यमनित्यं क्षणिकं बालाः कल्पन्ति संस्कृतम्।

नदीदीपादिदृष्टान्तैः क्षणिकार्थो विकल्प्यते॥ ११६॥

निर्व्यापारं तु क्षणिकं विविक्तं क्रियवर्जितम्।

अनुत्पत्तिं च धर्माणां क्षणिकार्थं वदाम्यह्यम्॥ ११७॥

सच्चासतो ह्यनुत्पादः सांख्यवैशेषिकैः स्मृतः।

अव्याकृतानि सर्वाणि तैरेव हि प्रकाशितम्॥ ११८॥

चतुर्विधं व्याकरणमेकांशपरिपृच्छनम्।

विभज्यस्थापनीयं च तीर्थवादनिवारणम्॥ ११९॥

सर्वं विद्यति संवृत्यां परमार्थे न विद्यते।

धर्माणां निःस्वभावत्वं परमार्थेऽपि दृश्यते।

उपलब्धिनिःस्वभावे संवृतिस्तेन उच्यते॥ १२०॥

अभिलापहेतुको भावः स्वभावो यदि विद्यते।

अभिलापसंभवो भावो नास्तीति च न विद्यते॥ १२१॥

निर्वस्तुको ह्यभिलापस्तत्संवृत्यापि न विद्यते।

विपर्यासस्य वस्तुत्वाच्चोपलब्धिर्न विद्यते॥ १२२॥

विद्यते चेद्विपर्यासो नैःस्वाभाव्यं न विद्यते।

विपर्यासस्य वस्तुत्वाद्यद्यदेवोपलभ्यते।

निःस्वभावं भवेत्तद्धि सर्वथापि न विद्यते॥ १२३॥

यदेतद्दृश्यते चित्रं चित्तं दौष्ठुल्यवासितम्।

रूपावभासग्रहणं बहिर्धा चित्तविभ्रमम्॥ १२४॥

विकल्पेनाविकल्पेन विकल्पो हि प्रहीयते।

विकल्पेनाविकल्पेन शून्यतातत्त्वदर्शनम्॥ १२५॥

मायाहस्ती यथा चित्रं पत्राणि कनका यथा।

तथा दृश्यं नृणां ख्याति चित्ते अज्ञानवासिते॥ १२६॥

आर्यो न पश्यते भ्रान्तिं नापि तत्त्वं तदन्तरे।

भ्रान्तिरेव भवेत्तत्त्वं यस्मात्तत्त्वं तदन्तरे॥ १२७॥

भ्रान्तिं विधूय सर्वां तु निमित्तं यदि जायते।

सैव चास्य भवेद्भ्रान्तिरशुद्धं तिमिरं यथा॥ १२८॥

केशोण्डुकं तैमिरिको यथा गृह्णाति विभ्रमात्।

विषयेषु तद्वद्बालानां ग्रहणं संप्रवर्तते॥ १२९॥

केशोण्डुकप्रख्यमिदं मरीच्युदकविभ्रमम्।

त्रिभवं स्वप्नमायाभं विभावेन्तो विमुच्यते॥ १३०॥

विकल्पश्च विकल्प्यश्च विकल्पस्य प्रवर्तते।

बन्धो बन्ध्यश्च बद्धश्च षडेते मोक्षहेतवः॥ १३१॥

न भूमयो न सत्यानि न क्षेत्रा न च निर्मिताः।

बुद्धाः प्रत्येकबुद्धाश्च श्रावकाश्चापि कल्पिताः॥ १३२॥

पुद्गलः संततिः स्कन्धाः प्रत्यया ह्यणवस्तथा।

प्रधानमीश्वरः कर्ता चित्तमात्रे विकल्प्यते॥ १३३॥

चित्तं हि सर्वं सर्वत्र सर्वदेहेषु वर्तते।

विचित्रं गृह्यतेऽसद्भिश्चित्तमात्रं ह्यलक्षणम्॥ १३४॥

न ह्यात्मा विद्यते स्कन्धे स्कन्धाश्चैव हि नात्मनि।

न ते यथा विकल्प्यन्ते न च ते वै न सन्ति च॥ १३५॥

अस्तित्वं सर्वभावानां यथा बालैर्विकल्प्यते।

यदि ते भवेद्यथादृष्टाः सर्वे स्युस्तत्त्वदर्शिनः॥ १३६॥

अभावात्सर्वधर्मणां संक्लेशो नास्ति शुद्धि च।

न च ते तथा यथादृष्टा न च ते वै न सन्ति च॥ १३७॥

भ्रान्तिर्निमित्तं संकल्पः परतन्त्रस्य लक्षणम्।

तस्मिन्निमित्ते यन्नाम तद्विकल्पितलक्षणम्॥ १३८॥

नामनिमित्तसंकल्पो यदा तस्य न जायते।

प्रत्ययावस्तुसंकेतं परिनिष्पन्नलक्षणम्॥ १३९॥

वैपाकिकाश्च ये बुद्धा जिना नैर्माणिकाश्च ये।

सत्त्वाश्च बोधिसत्त्वाश्च क्षेत्राणि च दिशे दिशे॥ १४०॥

निस्यन्दधर्मनिर्माणा जिना नैर्माणिकाश्च ये।

सर्वे ते ह्यमिताभस्य सुखावत्या विनिर्गताः॥ १४१॥

यच्च नैर्माणिकैर्भाष्टं यच्च भाष्टं विपाकजैः।

सूत्रान्तवैपुल्यनयं तस्य संधिं विजानथ॥ १४२॥

यद्भाषितं जिनसुतैर्यच्च भाषन्ति नायकाः।

यद्धि नैर्माणिकाभाष्टं न तु वैपाकिकैर्जिनैः॥ १४३॥

अनुत्पन्ना ह्यमी धर्मा न चैवैते न सन्ति च।

गन्धर्वनगरस्वप्नमायानिर्माणसादृशाः॥ १४४॥

चित्तं प्रवर्तते चित्तं चित्तमेव विमुच्यते।

चित्तं हि जायते नान्यच्चित्तमेव निरुध्यते॥ १४५॥

अर्थाभासं नृणां चित्तं चित्तं वै ख्याति कल्पितम्।

नास्त्यर्थश्चित्तमात्रेयं निर्विकल्पो विमुच्यते॥ १४६॥

अनादिकालप्रपञ्चदौष्ठुल्यं हि समाहितम्।

विकल्पो भावितस्तेन मिथ्याभासं प्रवर्तते॥ १४७॥

अर्थाभासे च विज्ञाने ज्ञानं तथतागोचरम्।

परावृत्तं निराभासमार्याणां गोचरे ह्यसौ॥ १४८॥

अर्थप्रविचयं ध्यानं ध्यानं बालोपचारिकम्।

तथतारम्बणं ध्यानं ध्यानं ताथागतं शुभम्॥ १४९॥

परिकल्पितं स्वभावेन सर्वधर्मा अजानकाः।

परतन्त्रं समाश्रित्य विकल्पो भ्रमते नृणाम्॥ १५०॥

परतन्त्रं यथा शुद्धं विकल्पेन विसंयुतम्।

परावृत्तं हि तथता विहारः कल्पवर्जितः॥ १५१॥

मा विकल्पं विकल्पेथ विकल्पो नास्ति सत्यतः।

भ्रान्तिं विकल्पयन्तस्य ग्राह्यग्राहकयोर्न तु।

बाह्यार्थदर्शनं कल्पं स्वभावः परिकल्पितः॥ १५२॥

येन कल्पेन कल्पेन्ति स्वभावः प्रत्ययोद्भवः।

बाह्यार्थदर्शनं मिथ्या नास्त्यर्थं चित्तमेव तु॥ १५३॥

युक्त्या विपश्यमानानां ग्राहग्राह्यं निरुध्यते।

बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते॥ १५४॥

वासनैर्लुलितं चित्तमर्थाभासं प्रवर्तते।

कल्पद्वयनिरोधेन ज्ञानं तथतगोचरम्॥ १५५॥

उत्पद्यते ह्यनाभासमचिन्त्यमार्यगोचरम्।

नामनिमित्तसंकल्पः स्वभावद्वयलक्षणम्।

सम्यग्ज्ञानं हि तथता परिनिष्पन्नलक्षणम्॥ १५६॥

मातापितृसमायोगादालयमनसंयुतम्।

घृतकुम्भे मूषिका यद्वत्सह शुक्रेण वर्धते॥ १५७॥

पेशीघनार्बुदं पिटकमशुभं कर्मचित्रितम्।

कर्मवायुमहाभूतैः फलवत्संप्रपद्यते॥ १५८॥

पञ्चपञ्चकपञ्चैव व्रणाश्चैव नवैव तु।

नखदन्तरोमसंछन्नः स्फुरमाणः प्रजायते॥ १५९॥

प्रजातमात्रं विष्ठाकृमिं सुप्तबुद्धेव मानवः।

चक्षुषा स्फुरते रूपं विवृद्धिं याति कल्पनात्॥ १६०॥

ताल्वोष्ठपुटसंयोगाद्विकल्पेनावधार्यते।

वाचा प्रवर्तते नॄणां शुकस्येव विकल्पना॥ १६१॥

निश्चितास्तीर्थ्यवादानां महायानमनिश्चितम्।

सत्त्वाश्रयप्रवृत्तोऽयं कुदृष्टीनामनास्पदम्॥ १६२॥

प्रत्यात्मवेद्ययानं मे तार्किकाणामगोचरम्।

पश्चात्काले गते नाथे ब्रूहि कोऽयं धरिष्यति॥ १६३॥

निर्वृते सुगते पश्चात्कालोऽतीतो भविष्यति।

महामते निबोध त्वं यो नेत्रीं धारयिष्यति॥ १६४॥

दक्षिणापथवेदल्यां भिक्षुः श्रीमान् महायशाः।

नागाह्वयः स नाम्ना तु सदसत्पक्षदारकः॥ १६५॥

प्रकाश्य लोके मद्यानं महायानमनुत्तरम्।

आसाद्य भूमिं मुदितां यास्यतेऽसौ सुखावतीम्॥ १६६॥

बुद्ध्या विवेच्यमानानां स्वभावो नावधार्यते।

यस्मात्तदनभिलाप्यास्ते निःस्वभावाश्च देशिताः॥ १६७॥

प्रत्ययोत्पादिते ह्यर्थे नास्त्यस्तीति न विद्यते।

प्रत्ययान्तर्गतं भावं ये कल्पेन्त्यस्ति नास्ति च।

दूरीभूता भवेन्मन्ये शासनात्तीर्थदृष्टयः॥ १६८॥

अभिधानं सर्वभावानां जन्मान्तरशतैः सदा।

अभ्यस्तमभ्यसन्तं च परस्परविकल्पया॥ १६९॥

अकथ्यमाने संमोहं सर्वलोक आपद्यते।

तस्मात्क्रियते नाम संमोहस्य व्युदासार्थम्॥ १७०॥

त्रिविधेन विकल्पेन बालैर्भावा विकल्पिताः।

भ्रान्तिर्नामविकल्पेन प्रत्ययैर्जनितेन च॥ १७१॥

अनिरुद्धा ह्यनुत्पन्नाः प्रकृत्या गगनोपमाः।

अभावस्वभावा ये तु ते विकल्पितलक्षणाः॥ १७२॥

प्रतिभासबिम्बमायाभमरीच्या सुपिनेन तु।

अलातचक्रगन्धर्वप्रतिश्रुत्कासमोद्भवाः॥ १७३॥

अद्वया तथता शून्या भूतकोष्टिश्च धर्मता।

निर्विकल्पश्च देशेमि ये ते निष्पन्नलक्षणाः॥ १७४॥

वाक्चित्तगोचरं मिथ्या सत्यं प्रज्ञा विकल्पिता।

द्वयान्तपतितं चित्तं तस्मात्प्रज्ञा न कल्पिता॥ १७५॥

अस्ति नास्ति च द्वावन्तौ यावच्चित्तस्य गोचरः।

गोचरेण विधूतेन सम्यक्चित्तं निरुध्यते॥ १७६॥

विषयग्रहणाभावान्निरोधेन च नास्ति च।

विद्यते तथतावस्था आर्याणां गोचरो यथा॥ १७७॥

बालानां न तथा ख्याति यथा ख्याति मनीषिणाम्।

मनीषिणां तथा ख्याति सर्वधर्मा अलक्षणाः॥ १७८॥

हारकूटं यथा बालैः सुवर्णं परिकल्प्यते।

असुवर्णं सुवर्णाभं तथा धर्माः कुतार्किकैः॥ १७९॥

अभूत्वा यस्य चोत्पादो भूत्वा चापि विनश्यति।

प्रत्ययैः सदसच्चापि न ते मे शासने स्थिताः॥ १८०॥

अनाद्यनिधनाभावाद्भूतलक्षणसंस्थिताः।

कारणकरवल्लोके न च बुध्यन्ति तार्किकाः॥ १८१॥

अतीतो विद्यते भावो विद्यते च अनागतः।

प्रत्यक्षो विद्यते यस्मात्तस्माद्भावा अजातकाः॥ १८२॥

परिणामकालसंस्थानं भूतभावेन्द्रियेषु च।

अन्तराभवसंग्राहं ये कल्पन्ति न ते बुधाः॥ १८३॥

न प्रतीत्यसमुत्पन्नं लोकं वर्णन्ति वै जिनाः।

किं तु प्रत्ययमेवायं लोको गन्धर्वसंनिभः॥ १८४॥

धर्मसंकेत एवायं तस्मिंस्तदिदमुच्यते।

संकेताच्च पृथग्भूतो न जातो न निरुध्यते॥ १८५॥

दर्पणे उदके नेत्रे भाण्डेषु च मणीषु च।

बिम्बं हि दृश्यते तेषु न च बिम्बोऽस्ति कुत्रचित्॥ १८६॥

भावाभासं तथा चित्तं मृगतृष्णा यथा नभे।

दृश्यते चित्ररूपेण स्वप्ने वन्ध्यौरसो यथा॥ १८७।

न मे यानं महायानं न घोषो न च अक्षराः।

न सत्या न विमोक्षा वै न निराभासगोचरम्॥ १८८॥

किं तु यानं महायानं समाधिवशवर्तिता।

कायं मनोमयं चित्रं वशितापुष्पमण्डितम्॥ १८९॥

एकत्वेन पृथक्त्वेन भावो वै प्रत्यये न तु।

जन्म समासमेवोक्तं निरोधो नाश एव हि॥ १९०॥

अजातशून्यता चैकमेकं जातेषु शून्यता।

अजातशून्यता श्रेष्ठा नश्यते जातशून्यता॥ १९१॥

तथता शून्यता कोटी निर्वाणं धर्मधातुवत्।

कायो मनोमयं चित्रं पर्यायैर्देशितं मया॥ १९२॥

सूत्रविनयाभिधर्मेण विशुद्धिं कल्पयन्ति ये।

ग्रन्थतो न तु अर्थेन न ते नैरात्म्यमाश्रिताः॥ १९३॥

न तीर्थिकैर्न बुद्धैश्च न मया न च केनचित्।

प्रत्ययैः साधितास्तित्वं कथं नास्तिर्भविष्यति॥ १९४॥

केन प्रसाधितास्तित्वं प्रत्ययैर्यस्य नास्तिता।

उत्पादवाददुर्दृष्ट्या नास्त्यस्तीति विकल्पयेत्॥ १९५॥

यस्य नोत्पद्यते किंचिन्न किंचित्तं निरुध्यते।

तस्यास्तिनास्ति नोपैति विविक्तं पश्यतो जगत्॥ १९६॥

दृश्यते शशविषाणाख्यं विकल्पो विद्यते नृणाम्।

ये तु कल्पेन्ति ते भ्रान्ता मृगतृष्णां यथा मृगाः॥ १९७॥

विकल्पाभिनिवेशेन विकल्पः संप्रवर्तते।

निर्हेतुकं विकल्पं हि विकल्पोऽपि न युज्यते॥ १९८॥

अजले च जलग्राहो मृगतृष्णा यथा नभे।

दृश्यतेऽर्थो हि बालानामार्याणां न विशेषतः॥ १९९॥

आर्याणां दर्शनं शुद्धं विमोक्षत्रयसंभवम्।

उत्पादभङ्गनिर्मुक्तं निराभासप्रचारिणम्॥ २००॥

गाम्भीर्योदार्यवैपुल्यं ज्ञानं क्षेत्रान् विभूति च।

देशेमि जिनपुत्राणां श्रावकाणामनित्यताम्॥ २०१॥

अनित्यं त्रिभवं शून्यमात्मात्मीयविवर्जितम्।

श्रावकाणां च देशेमि तथा सामान्यलक्षणम्॥ २०२॥

सर्वधर्मेष्वसंसक्तिर्विवेका ह्येकचारिका।

प्रत्येकजिनपुत्राणां फलं देशेम्यतर्किकम्॥ २०३॥

स्वभावकल्पितं बाह्यं परतन्त्रं च देहिनाम्।

अपश्यन्नात्मसंभ्रान्तिं ततश्चित्तं प्रवर्तते॥ २०४॥

दशमी तु भवेत्प्रथमी प्रथमी चाष्टमी भवेत्।

नवमी सप्तमी चापि सप्तमी चाष्टमी भवेत्॥ २०५॥

द्वितीया तु तृतीया स्याच्चतुर्थी पञ्चमी भवेत्।

तृतीया तु भवेत्षष्ठी निराभासे क्रमः कुतः॥ २०६॥

निराभासो हि भावानामभावो नास्ति योगिनाम्।

भावाभावसमत्वेन आर्याणां जायते फलम्॥ २०७॥

कथं ह्यभावो भावानां कुरुते समतां कथम्।

यदा चित्तं न जानाति बाह्यमध्यात्मिकं चलम्।

तदा तु कुरुते नाशं समताचित्तदर्शनात्॥ २०८॥

अनादिमति संसारे भावग्राहोपगूहितम्।

बालैः कील यथा कीलं प्रलोभ्य विनिवर्तते॥ २०९॥

तद्धेतुकं तदालम्ब्यं मनोगतिसमाश्रयम्।

हेतुं ददाति चित्तस्य विज्ञानं च समाश्रितम्॥ २१०॥

वैपाकिकादधिष्ठानां निकायगतिसंभवात्।

लभ्यन्ते येन वै स्वप्ने अभिज्ञाश्च चतुर्विधाः॥ २११॥

स्वप्ने च लभ्यते यच्च यच्च बुद्धप्रसादतः।

निकायगतिगोत्रा ये ते विज्ञानविपाकजाः॥ २१२॥

वासनैर्भावितं चित्तं भावाभासं प्रवर्तते।

बाला यदा न बुध्यन्ते उत्पादं देशयेत्तदा॥ २१३॥

यावद्वाक्यं विकल्पेति भावं वै लक्षणान्वितम्।

तावद्विबुध्यते चित्तमपश्यन् हि स्वविभ्रमम्॥ २१४॥

उत्पादो वर्ण्यते कस्मात्कस्माद्दृश्यं न वर्ण्यते।

अदृश्यं दृश्यमानं हि कस्य किं वर्ण्यते कुतः॥ २१५॥

स्वच्छं चित्तं स्वभावेन मनः कलुषकारकम्।

मनश्च सहविज्ञानैर्वासनां क्षिपते सदा॥ २१६॥

आलयो मुञ्चते कायं मनः प्रार्थयते गतिम्।

विज्ञानं विषयाभासं भ्रान्तिं दृष्ट्वा प्रलभ्यते॥ २१७॥

मदीयं दृश्यते चित्तं बाह्यमर्थं न विद्यते।

एवं विभावयेद्भ्रान्तिं तथतां चाप्यनुस्मरेत्॥ २१८॥

ध्यायिनां विषयः कर्म बुद्धमाहात्म्यमेव च।

एतानि त्रीण्यचिन्त्यानि अचिन्त्यं विज्ञानगोचरम्॥ २१९॥

अनागतमतीतं च निर्वाणं पुद्गलं वचः।

संवृत्या देशयाम्येतान् परमार्थस्त्वनक्षरः॥ २२०॥

नैकायिकाश्च तीर्थ्याश्च दृष्टिमेकांशमाश्रिताः।

चित्तमात्रे विसंमूढा भावं कल्पेन्ति बाहिरम्॥ २२१॥

प्रत्येकबोधिं बुद्धत्वमर्हत्त्वं बुद्धदर्शनम्।

गूढबीजं भवेद्बोधौ स्वप्ने वै सिध्यते तु यः॥ २२२॥

कुत्र केषां कथं कस्मात्किमर्थं च वदाहि मे।

मयाचित्तमतिशान्तं सदसत्पक्षदेशनाम्॥ २२३॥

चित्तमात्रे विमूढानां मायानास्त्यस्तिदेशनाम्।

उत्पादभङ्गसंयुक्तं लक्ष्यलक्षणवर्जितम्॥ २२४॥

विकल्पो मनो नाम विज्ञानैः पञ्चभिः सह।

बिम्बौघजलतुल्यादौ चित्तबीजं प्रवर्तते॥ २२५॥

यदा चित्तं मनश्चापि विज्ञानं न प्रवर्तते।

तदा मनोमयं कायं लभते बुद्धभूमि च॥ २२६॥

प्रत्यया धातवः स्कन्धा धर्माणां च स्वलक्षणम्।

प्रज्ञप्तिं पुद्गलं चित्तं स्वप्नकेशोण्डुकोपमाः॥ २२७॥

मायास्वप्नोपमं लोकं दृष्ट्वा तत्त्वं समाश्रयेत्।

तत्त्वं हि लक्षणैर्मुक्तं युक्तिहेतुविवर्जितम्॥ २२८॥

प्रत्यात्मवेद्यमार्याणां विहारं तु स्मरेत्सदा।

युक्तिहेतुविसंमूढं लोकं तत्त्वे निवेशयेत्॥ २२९॥

सर्वप्रपञ्चोपशमाद्भ्रान्तो नाभिप्रवर्तते।

प्रज्ञा यावद्विकल्पन्ते भ्रान्तिस्तावत्प्रवर्तते॥ २३०॥

नैःस्वभाव्यं च भावं च शून्या वै नित्यानित्यता।

उत्पादवादिनां दृष्टिर्न त्वनुत्पादवादिनाम्॥ २३१॥

एकत्वमन्यत्वोभयामीश्वराच्च यदृच्छया।

कालाप्रधानादन्येभिः प्रत्ययैः कल्प्यते जगत्॥ २३२॥

संसारबीजं विज्ञानं सति दृश्ये प्रवर्तते।

कुड्ये सति यथा चित्रं परिज्ञानान्निरुध्यते॥ २३३॥

मायापुरुषवन्नॄणां मृतजन्म प्रवर्तते।

मोहात्तथैव बालानां बन्धमोक्षं प्रवर्तते॥ २३४॥

अध्यात्मबाह्यं द्विविधं धर्माश्च प्रत्ययानि च।

एतद्विभावयन् योगी निराभासे प्रतिष्ठते॥ २३५॥

न वासनैर्भिद्यते चित्तं न चित्तं वासनैः सह।

अभिन्नलक्षणं चित्तं वासनैः परिवेष्टितम्॥ २३६॥

मलवद्वासना यस्य मनोविज्ञानसंभवा।

पटशुक्लोपमं चित्तं वासनैर्न विराजते॥ २३७॥

यथा न भावो नाभावो गगनं कथ्यते मया।

आलयं हि तथा काये भावाभावविवर्जितम्॥ २३८॥

मनोविज्ञानव्यावृत्तं चित्तं कालुष्यवर्जितम्।

सर्वधर्मावबोधेन चित्तं बुद्धं वदाम्यहम्॥ २३९॥

त्रिसंततिव्यवच्छिन्नं सत्तासत्ताविवर्जितम्।

चातुष्कोटिकया मुक्तं भवं मायोपमं सदा॥ २४०॥

द्वे स्वभावो भवेत्सप्त भूमयश्चित्तसंभवाः।

शेषा भवेयुर्निष्पन्ना भूमयो बुद्धभूमि च॥ २४१॥

रूपी चारूप्यधातुश्च कामधातुश्च निर्वृतिः।

अस्मिन् कलेवरे सर्वं कथितं चित्तगोचरम्॥ २४२॥

उपलभ्यते यदा यावद्भ्रान्तिस्तावत्प्रवर्तते।

भ्रान्तिः स्वचित्तसंबोधान्न प्रवर्तते न निवर्तते॥ २४३॥

अनुत्पादे कारणाभावो भावे संसारसंग्रहः।

मायादिसदृशं पश्यन् लक्षणं न विकल्पयेत्॥ २४४॥

त्रियानमेकयानं च अयानं च वदाम्यहम्।

बालानां मन्दबुद्धीनामार्याणां च विविक्तताम्॥ २४५॥

उत्पत्तिर्द्विविधा मह्यं लक्षणाधिगमौ च या।

चतुर्विधो नयविधिः सिद्धान्तं युक्तिदेशना॥ २४६॥

संस्थानाकृतिविशेषैर्भ्रान्तिं दृष्ट्वा विकल्प्यते।

नामसंस्थानविरहात्स्वभावमार्यगोचरम्॥ २४७॥

विकल्पेन कल्प्यते यावत्तावत्कल्पितलक्षणम्।

विकल्पकल्पनाभावात्स्वभावमार्यगोचरम्॥ २४८॥

नित्यं च शाश्वतं तत्त्वं गोत्रं वस्तुस्वभावकम्।

तथता चित्तनिर्मुक्तं कल्पनैश्च विवर्जितम्॥ २४९॥

यद्यद्वस्तु न शुद्धिः स्यात्संक्लेशो नापि कस्यचित्।

यस्माच्च शुंध्यते चित्तं संक्लेशश्चापि दृश्यते।

तस्मात्तत्त्वं भवेद्वस्तु विशुद्धमार्यगोचरम्॥ २५०॥

प्रत्ययैर्जनितं लोकं विकल्पैश्च विवर्जितम्।

मायादिस्वप्नसदृशं विपश्यन्तो विमुच्यते॥ २५१॥

दौष्ठुल्यवासनाश्चित्राश्चित्तेन सह संयुताः।

बहिर्धा दृश्यते नॄणां न हि चित्तस्य धर्मता॥ २५२॥

चित्तस्य धर्मता शुद्धा न चित्तं भ्रान्तिसंभवम्।

भ्रान्तिश्च दौष्ठुल्यमयी तेन चित्तं न दृश्यते॥ २५३॥

भ्रान्तिमात्रं भवेत्तत्त्वं तत्त्वं नान्यत्र विद्यते।

न संस्कारे न चान्यत्र किं तु संस्कारदर्शनात्॥ २५४॥

लक्ष्यलक्षणनिर्मुक्तं यदा पश्यति संस्कृतम्।

विधूतं हि भवेत्तेन स्वचित्तं पश्यतो जगत्॥ २५५॥

चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत्।

तथतालम्बने स्थित्वा चित्तमात्रमतिक्रमेत्॥ २५६॥

चित्तमात्रमतिक्रम्य निराभासमतिक्रमेत्।

निराभासस्थितो योगी महायानं स पश्यति॥ २५७॥

अनाभोगगतिः शान्ता प्रणिधानैर्विशोधिता।

ज्ञानमनात्मकं श्रेष्ठं निराभासे न पश्यति॥ २५८॥

चित्तस्य गोचरं पश्येत्पश्येज्ज्ञानस्य गोचरम्।

प्रज्ञाया गोचरं पश्येल्लक्षणे न प्रमुह्यते॥ २५९॥

चित्तस्य दुःखसत्यं समुदयो ज्ञानगोचरः।

द्वे सत्ये बुद्धभूमिश्च प्रज्ञा यत्र प्रवर्तते॥ २६०॥

फलप्राप्तिश्च निर्वाणं मार्गमष्टाङ्गिकं तथा।

सर्वधर्मावबोधेन बुद्धज्ञानं विशुध्यते॥ २६१॥

चक्षुश्च रूपमालोक आकाशश्च मनस्तथा।

एभिरुत्पद्यते नॄणां विज्ञानं ह्यालयोद्भवम्॥ २६२॥

ग्राह्यं ग्राहो ग्रहीता च नास्ति नाम ह्यवस्तुकम्।

निर्हेतुकं विकल्पं ये मन्यन्ति हि न ते बुधाः॥ २६३॥

अर्थे नाम ह्यसंभूतमर्थो नाम्नि तथैव च।

हेत्वहेतुसमुत्पन्नं विकल्पं न विकल्पयेत्॥ २६४॥

सर्वभावस्वभावोऽसन् वचनं हि तथाप्यसत्।

शून्यतां शून्यतार्थं वा बालोऽपश्यन् विधावति॥ २६५॥

सत्यस्थितिं मन्यनया दृष्ट्वा प्रज्ञप्तिदेशना।

एकत्वं पञ्चधासिद्धमिदं सत्यं प्रहीयते॥ २६६॥

प्रपञ्चमारभेद्यश्च अस्तिनास्ति व्यतिक्रमेत्।

नास्तिच्छन्दो भवे मिथ्यासंज्ञा नैरात्म्यदर्शनात्॥ २६७॥

शाश्वतं हि सकर्तृत्वं वादमात्रप्रवर्तितम्।

सत्यं परं ह्यवक्तव्यं निरोधे धर्मदर्शनम्॥ २६८॥

आलयं हि समाश्रित्य मनो वै संप्रवर्तते।

चित्तं मनश्च संश्रित्य विज्ञानं संप्रवर्तते॥ २६९॥

समारोपं समारोप्य तथता चित्तधर्मता।

एतद्विभावयन् योगी चित्तमात्रज्ञतां लभेत्॥ २७०॥

मनश्च लक्षणं वस्तु नित्यानित्ये न मन्यते।

उत्पादं चाप्यनुत्पादं योगी योगे न मन्यते॥ २७१॥

अर्थद्वयं न कल्पेन्ति विज्ञानं ह्यालयोद्भवम्।

एकमर्थं द्विचित्तेन न जानीते तदुद्भवम्॥ २७२॥

न वक्ता न च वाच्योऽस्ति न शून्यं चित्तदर्शनात्।

अदर्शनात्स्वचित्तस्य दृष्टिजालं प्रवर्तते॥ २७३॥

प्रत्ययागमनं नास्ति इन्द्रियाणि न केचन।

न धातवो न च स्कन्धा न रागो न च संस्कृतम्॥ २७४॥

कर्मणोऽग्निं न वै पूर्वं न कृतं न च संस्कृतम्।

न कोटि न च वै शक्तिर्न मोक्षो न च बन्धनम्॥ २७५॥

अव्याकृतो न भावोऽस्ति धर्माधर्मं न चैव हि।

न कालं न च निर्वाणं धर्मतापि न विद्यते॥ २७६॥

न च बुद्धो न सत्यानि न फलं न च हेतवः।

विपर्ययो न निर्वाणं विभवो नास्ति संभवः॥ २७७॥

द्वादशाङ्गं न चैवास्ति अन्तानन्तं न चैव हि।

सर्वदृष्टिप्रहाणाय चित्तमात्रं वदाम्यहम्॥ २७८॥

क्लेशाः कर्मपथा देहः कर्तारश्च फलं च वै।

मरीचिस्वप्नसंकाशा गन्धर्वनगरोपमाः॥ २७९॥

चित्तमात्रव्यवस्थानाद्वयावृत्तं भावलक्षणम्।

चित्तमात्रप्रतिष्ठानाच्छाश्वतोच्छेददर्शनम्॥ २८०॥

स्कन्धा न सन्ति निर्वाणे न चैवात्मा न लक्षणम्।

चित्तमात्रावतारेण मोक्षग्राहान्निवर्तते॥ २८१॥

भूदृश्यहेतुको दोषो बहिर्धा ख्यायते नृणाम्।

चित्तं ह्यदृश्यसंभूतं तेन चित्तं न दृश्यते॥ २८२॥

देहभोगप्रतिष्ठाना ख्यायते वासना नृणाम्।

चित्तं न भावो नाभावो वासने न विराजते॥ २८३॥

मलो वै ख्यायते शुक्ले न शुक्ले ख्यायते मलः।

घने हि गगनं यद्वत्तथा चित्तं न दृश्यते॥ २८४॥

चित्तेन चीयते कर्म ज्ञानेन च विचीयते।

प्रज्ञया च निराभासं प्रभावं चाधिगच्छति॥ २८५॥

चित्तं विषयसंबद्धं ज्ञानं तर्के प्रवर्तते।

निराभासे विशेषे च ज्ञानं वै संप्रवर्तते॥ २८६॥

चित्तं मनश्च विज्ञानं संज्ञा वै कल्पवर्जिता।

अविकल्पधर्मतां प्राप्ताः श्रावका न जिनात्मजाः॥ २८७॥

क्षान्ते क्षान्ते विशेषे वै ज्ञानं ताथागतं शुभम्।

संजायते विशेषार्थं समुदाचारवर्जितम्॥ २८८॥

परिकल्पितस्वभावोऽस्ति परतन्त्रो न विद्यते।

कल्पितं गृह्यते भ्रान्त्या परतन्त्रं न कल्प्यते॥ २८९॥

चित्तं ह्यभूतसंभूतं न चित्तं दृश्यते क्वचित्।

देहभोगप्रतिष्ठानं ख्यायते वासना नृणाम्॥ २९०॥

न सर्वभौतिकं रूपमस्ति रूपमभौतिकम्।

गन्धर्वस्वप्नमाया या मृगतृष्णा ह्यभौतिका॥ २९१॥

प्रज्ञा हि त्रिविधा मह्यमार्यं येन प्रभावितम्।

चित्तं ह्यदृश्यसंभूतं तेन चित्तं न दृश्यते॥ २९२॥

देहभोगप्रतिष्ठाना ख्यायते वासना नृणाम्।

लक्षणं कल्पते येन यः स्वभावान् वृणोति च॥ २९३॥

यानद्वयविसंयुक्ता प्रज्ञा ह्याभासवर्जिता।

संभवाभिनिवेशेन श्रावकाणां प्रवर्तते।

चित्तमात्रावतारेण प्रज्ञा ताथागतीऽमला॥ २९४॥

सतो हि असतश्चापि प्रत्ययैर्यदि जायते।

एकत्वान्यत्वदृष्टिश्च अवश्यं तैः समाश्रिता॥ २९५॥

विविधागतिर्हि निर्वृत्ता यथा माया न सिध्यति।

निमित्तं हि तथा चित्रं कल्प्यमानं न सिध्यति॥ २९६॥

निमित्तदौष्ठुल्यमयं बन्धनं चित्तसंभवम्।

परिकल्पितं ह्यजानानैः परतन्त्रं विकल्प्यते॥ २९७॥

य एव कल्पितो भावः परतन्त्रं तदेव हि।

कल्पितं हि विचित्राभं परतन्त्रं विकल्प्यते॥ २९८॥

संवृतिः परमार्थश्च तृतीयं नास्ति हेतुकम्।

कल्पितं संवृतिर्ह्युक्ता तच्छेदादार्यगोचरः॥ २९९॥

यथा हि योगिनां वस्तु चित्रमेकं विराजते।

न ह्यस्ति चित्रता तत्र तथा कल्पितलक्षणम्॥ ३००॥

यथा हि तैमिरैश्चित्रं कल्प्यते रूपदर्शनम्।

तिमिरं न रूपं नारूपं परतन्त्रं तथा बुधैः॥ ३०१॥

हेमं स्यात्तु यथा शुद्धं जलं कलुषवर्जितम्।

गगनं हि घनाभावात्तथा शुद्धं विकल्पितम्॥ ३०२॥

श्रावकस्त्रिविधो मह्यं निर्मितः प्रणिधानजः।

रागद्वेषविसंयुक्तः श्रावको धर्मसंभवः॥ ३०३॥

बोधिसत्त्वोऽपि त्रिविधो बुद्धानां नास्ति लक्षणम्।

चित्ते चित्ते तु सत्त्वानां बुद्धबिम्बं विदृश्यते॥ ३०४॥

नास्ति वै कल्पितो भावः परतन्त्रं च विद्यते।

समारोपापवादं च विकल्पं नो विनश्यति॥ ३०५॥

कल्पितं यद्यभावः स्यात्परतन्त्रस्वभावतः।

विनाभावेन वै भावं भावश्चाभावसंभवः॥ ३०६॥

परिकल्पितं समाश्रित्य परतन्त्रं प्रलभ्यते।

निमित्तनामसंबन्धाज्जायते परिकल्पितम्॥ ३०७॥

अत्यन्तं चाप्यनिष्पन्नं कल्पितेन परोद्भवम्।

तदा प्रज्ञायते शुद्धः स्वभावः पारमार्थिकः॥ ३०८॥

परिकल्पितं दशविधं परतन्त्रं च षड्विधम्।

तथता च प्रत्यात्मगतिमतो नास्ति विशेषणम्॥ ३०९॥

पञ्च धर्मा भवेत्तत्वं स्वभावा हि त्रयस्तथा।

एतद्विभावयन् योगी तथतां नातिवर्तते॥ ३१०॥

नक्षत्रमेघसंस्थानं सोमभास्करसंनिभम्।

चित्तं संदृश्यते नॄणां दृश्याभं वासनोदितम्॥ ३११॥

भूतालब्धात्मका ह्येते न लक्ष्यं न च लक्षणम्।

सर्वे भूतमया भूता यदि रूपं हि भौतिकम्॥ ३१२॥

असंभूता महाभूता नास्ति भूतेषु भौतिकम्।

कारणं हि महाभूताः कार्यं भूसलिलादयः॥ ३१३॥

द्रव्यप्रज्ञप्तिरूपं च मायाजातिकृतं तथा।

स्वप्नगन्धर्वरूपं च मृगतृष्णा च पञ्चमम्॥ ३१४॥

इच्छन्तिकं पञ्चविधं गोत्राः पञ्च तथा भवेत्।

पञ्च यानान्ययानं च निर्वाणं षड्विधं भवेत्॥ ३१५॥

स्कन्धभेदाश्चतुर्विशद्रूपं चाष्टविधं भवेत्।

बुद्धा भवेच्चतुर्विंशद्द्विविधाश्च जिनौरसाः॥ ३१६॥

अष्टोत्तरं नयशतं श्रावकाश्च त्रयस्तथा।

क्षेत्रमेकं हि बुद्धानां बुद्धश्चैकस्तथा भवेत्॥ ३१७॥

विमुक्तयस्तथा तिस्रश्चित्तधारा चतुर्विधा।

नैरात्म्यं षड्विधं मह्यं ज्ञेयं चापि चतुर्विधम्॥ ३१८॥

कारणैश्च विसंयुक्तं दृष्टिदोषविवर्जितम्।

प्रत्यात्मवेद्यमचलं महायानमनुत्तरम्॥ ३१९॥

उत्पादं चाप्यनुत्पादमष्टधा नवधा भवेत्।

एकानुपूर्वसमयं सिद्धान्तमेकमेव च॥ ३२०॥

आरूप्यधात्वष्टविधं ध्यानभेदश्च षड्विधः।

प्रत्येकजिनपुत्राणां निर्याणं सप्तधा भवेत्॥ ३२१॥

अध्वत्रयं न चैवास्ति नित्यानित्यं च नास्ति वै।

क्रिया कर्म फलं चैव स्वप्नकार्यं तथा भवेत्॥ ३२२॥

अन्ताद्यासंभवा बुद्धाः श्रावकाश्च जिनौरसाः।

चित्तं दृश्यविसंयुक्तं मायाधर्मोपमं सदा॥ ३२३॥

गर्भश्चक्रं तथा जातिर्नैष्क्रम्यं तुषितालयम्।

सर्वक्षेत्रगताश्चापि दृश्यन्ते न च योनिजाः॥ ३२४॥

संक्रान्तिं संचरं सत्त्वं देशना निर्वृतिस्तथा।

सत्यं क्षेत्रावबोधिश्च प्रत्ययप्रेरितो भवेत्॥ ३२५॥

लोका वनस्पतिर्द्वीपो नैरात्म्यतीर्थसंचरम्।

ध्यानं यानालयप्राप्तिरचिन्त्यफलगोचरम्॥ ३२६॥

चन्द्रनक्षत्रगोत्राणि नृपगोत्रा सुरालयम्।

यक्षगन्धर्वगोत्राणि कर्मजा तृष्णसंभवा॥ ३२७॥

अचिन्त्यपरिणामी च च्युतिर्वासनसंयुता।

व्युच्छिन्नच्युत्यभावेन क्लेशजालं निरुध्यते॥ ३२८॥

धनधान्यं सुवर्णं च क्षेत्रवस्तु विकल्प्यते।

गवैडकाश्च दासा वै तथा हयगजादयः॥ ३२९॥

तल्पविद्धे न स्वप्तव्यं भूमिश्चापि न लेपयेत्।

सौवर्णराजतं पात्रं कांसं ताम्रं न कारयेत्॥ ३३०॥

कम्बला नीलरक्ताश्च काषायो गोमयेन च।

कर्दमैः फलपत्रैश्च शुक्लान् योगी रजेत्सदा॥ ३३१॥

शैलीकं मृन्मयं लोहं शाङ्खं वै स्फटिकमयम्।

पात्रार्थं धारयेद्योगी परिपूर्णं च मागधम्॥ ३३२॥

चतुरङ्गुलं भवेच्छस्त्रं कुब्जं वै वस्तुच्छेदनः।

शिल्पविद्यां न शिक्षेत योगी योगपरायणः॥ ३३३॥

क्रयविक्रयो न कर्तव्यो योगिना योगिवाहिना।

आरामिकैश्च कर्तव्यमेतद्धर्मं वदाम्यहम्॥ ३३४॥

गुप्तेन्द्रियं तथार्थज्ञं सूत्रान्ते विनये तथा।

गृहस्थैर्न च संसृष्टं योगिनं तं वदाम्यहम्॥ ३३५॥

शून्यागारे श्मशाने वा वृक्षमूले गुहासु वा।

पलालेऽभ्यवकाशे च योगी वासं प्रकल्पयेत्॥ ३३६॥

त्रिवस्त्रप्रावृतो नित्यं श्मशानाद्यत्रकुत्रचित्।

वस्त्रार्थं संविधातव्यं यश्च दद्यात्सुखागतम्॥ ३३७॥

युगमात्रानुसारी स्यात्पिण्डभक्षपरायणः।

कुसुमेभ्यो यथा भ्रमरास्तथा पिण्डं समाचरेत्॥ ३३८॥

गणे च गणसंसृष्टे भिक्षुणीषु च यद्भवेत्।

तद्धि आजीवसंसृष्टं न तत्कल्पति योगिनाम्॥ ३३९॥

राजानो राजपुत्राश्च अमात्याः श्रेष्ठिनस्तथा।

पिण्डार्थे नोपदेशेत योगी योगपरायणः॥ ३४०॥

मृतसूतकुलान्नं च मित्रप्रीतिसमन्वितम्।

भिक्षुभिक्षुणिसंसृष्टं न तत्कल्पति योगिनाम्॥ ३४१॥

विहारे यत्र वै धूमः पच्यते विधिवत्सदा।

उद्दिश्य यत्कृतं चापि न तत्कल्पति योगिनाम्॥ ३४२॥

उत्पादभङ्गनिर्मुक्तं सदसत्पक्षवर्जितम्।

लक्ष्यलक्षणसंयुक्तं योगी लोकं विभावयेत्॥ ३४३॥

समाधिबलसंयुक्तमभिज्ञैर्वशितैश्च वै।

नचिरात्तु भवेद्योगी यद्युत्पादं न कल्पयेत्॥ ३४४॥

अणुकालप्रधानेभ्यः कारणेभ्यो न कल्पयेत्।

हेतुप्रत्ययसंभूतं योगी लोकं न कल्पयेत्॥ ३४५॥

स्वकल्पकल्पितं लोकं चित्रं वै वासनोदितम्।

प्रतिपश्येत्सदा योगी मायास्वप्नोपमं भवम्॥ ३४६॥

अपवादसमारोपवर्जितं दर्शनं सदा।

देहभोगप्रतिष्ठाभं त्रिभवं न विकल्पयेत्॥ ३४७॥

कृतभक्तपिण्डो निश्चितमृजुं संस्थाप्य वै तनुम्।

बुद्धांश्च बोधिसत्त्वांश्च नमस्कृत्य पुनः पुनः॥ ३४८॥

विनयात्सूत्रयुक्तिभ्यां तत्त्वं संहृत्य योगवित्।

पञ्चधर्मस्वचित्तं च नैरात्म्यं च विभावयेत्॥ ३४९॥

प्रत्यात्मधर्मताशुद्धा भूमयो बुद्धभूमि च।

एतद्विभावयेद्योगी महापद्मेऽभिषिच्यते॥ ३५०॥

विभ्राम्य गतयः सर्वा भवादुद्वेगमानसः।

योगानारभते चित्रां गत्वा शिवपथीं शुभाम्॥ ३५१॥

सोमभास्करसंस्थानं पद्मपत्रांशुसप्रभम्।

गगनाग्निचित्रसदृशं योगी पुञ्जान् प्रपश्यते॥ ३५२॥

निमित्तानि च चित्राणि तीर्थ्यमार्गं नयन्ति ते।

श्रावकत्वे निपात्यन्ति प्रत्येकजिनगोचरे॥ ३५३॥

विधूय सर्वाण्येतानि निराभासो यदा भवेत्।

तदा बुद्धकरादित्याः सर्वक्षेत्रसमागताः।

शिरो हि तस्य मार्जन्ति निमित्तं तथतानुगाः॥ ३५४॥

अस्त्यनाकारतो भावः शाश्वतोच्छेदवर्जितः।

सदसत्पक्षविगताः कल्पयिष्यन्ति मध्यमम्॥ ३५५॥

अहेतुवादे कल्प्यन्ते अहेतूच्छेददर्शनम्।

बाह्यभावापरिज्ञानान्नाशयिष्यन्ति मध्यमम्॥ ३५६॥

भावग्राहं न मोक्ष्यन्ते मा भूदुच्छेददर्शनम्।

समारोपापवादेन देशयिष्यन्ति मध्यमम्॥ ३५७॥

चित्तमात्रावबोधेन बाह्यभावा व्युदाश्रया।

विनिवृत्तिर्विकल्पस्य प्रतिपत् सैव मध्यमा॥ ३५८॥

चित्तमात्रं न दृश्यन्ति दृश्याभावान्न जायते।

प्रतिपन्मध्यमा चैषा मया चान्यैश्च देशिता॥ ३५९॥

उत्पादं चाप्यनुत्पादं भावाभावश्च शून्यता।

नैःस्वभाव्यं च भावानां द्वयमेतन्न कल्पयेत्॥ ३६०॥

विकल्पवृत्त्या भावो न मोक्षं कल्पेन्ति बालिशाः।

न चित्तवृत्त्यसंबोधाद्द्वयग्राहः प्रहीयते॥ ३६१॥

स्वचित्तदृश्यसंबोधाद्द्वयग्राहः प्रहीयते।

प्रहाणं हि परिज्ञानं विकल्प्यस्याविनाशकम्॥ ३६२॥

चित्तदृश्यपरिज्ञानाद्विकल्पो न प्रवर्तते।

अप्रवृत्तिर्विकल्पस्य तथता चित्तवर्जिता॥ ३६३॥

तीर्थ्यदोषविनिर्मुक्ता प्रवृत्तिर्यदि दृश्यते।

सा विद्वद्भिर्भवेद्धाह्या निवृत्तिश्चाविनाशतः॥ ३६४॥

अस्यावबोधाद्बुद्धत्वं मया बुद्धैश्च देशितम्।

अन्यथा कल्प्यमानं हि तीर्थ्यवादः प्रसज्यते॥ ३६५॥

अजाः प्रसूतजन्मा वै अच्युताश्च च्यवन्ति च।

युगपज्जलचन्द्राभा दृश्यन्ते क्षेत्रकोटिषु॥ ३६६॥

एकधा बहुधा भूत्वा वर्षन्ति च ज्वलन्ति वै।

चित्ते चिन्तमया भूत्वा चित्तमात्रं वदन्ति ते॥ ३६७॥

चित्तेषु चित्तमात्रं च अचित्ता चित्तसंभवा।

विचित्ररूपसंस्थानाश्चित्तमात्रे गतिंगताः॥ ३६८॥

मौनीन्द्रैः श्रावकै रूपैः प्रत्येकजिनसादृशैः।

अन्यैश्च विविधै रूपैश्चित्तमात्रं वदन्ति ते॥ ३६९॥

आरूप्यरूपं ह्यारूपैर्नारकाणां च नारकम्।

रूपं दर्श्यन्ति सत्त्वानां चित्तमात्रस्य कारणम्॥ ३७०॥

मायोपमं समाधिं च कायं चापि मनोमयम्।

दश भूमीश्च वशिताः परावृत्ता लभन्ति ते॥ ३७१॥

स्वविकल्पविपर्यासैः प्रपञ्चस्पन्दितैश्च वै।

दृष्टश्रुतमतज्ञाते बाला बध्यन्ति संज्ञया॥ ३७२॥

निमित्तं परतन्त्रं हि यन्नाम तत्र कल्पितम्।

परिकल्पितनिमित्तं पारतन्त्र्यात्प्रवर्तते॥ ३७३॥

बुद्ध्या विवेच्यमानं हि न तन्त्रं नापि कल्पितम्।

निष्पन्नो नास्ति वै भावः कथं बुद्ध्या प्रकल्प्यते॥ ३७४॥

निष्पन्नो विद्यते भावो भावाभावविवर्जितः।

भावाभावविनिर्मुक्तौ द्वौ स्वभावौ कथं भवेत्॥ ३७५॥

परिकल्पिते स्वभावे च स्वभावौ द्वौ प्रतिष्ठितौ।

कल्पितं दृश्यते चित्रं विशुद्धमार्यगोचरम्॥ ३७६॥

कल्पितं हि विचित्राभं परतन्त्रे विकल्प्यते।

अन्यथा कल्प्यमानं हि तीर्थ्यवादं समाश्रयेत्॥ ३७७॥

कल्पना कल्पनेत्युक्तं दर्शनाद्धेतुसंभवम्।

विकल्पद्वयनिर्मुक्तं निष्पन्नं स्यात्तदेव हि॥ ३७८॥

क्षेत्रं बुद्धाश्च निर्माणा एकं यानं त्रयं तथा।

न निर्वाणमहं सर्वे शून्या उत्पत्तिवर्जिताः॥ ३७९॥

षट्‍त्रिंशद्बुद्धभेदाश्च दश भेदाः पृथक्पृथक्।

सत्त्वानां चित्तसंताना एते क्षेत्राण्यभाजनम्॥ ३८०॥

यथा हि कल्पितं भावं ख्यायते चित्रदर्शनम्।

न ह्यस्ति चित्रता तत्र बुद्धधर्मं तथा जगत्॥ ३८१॥

धर्मबुद्धो भवेद्बुद्धः शेषा वै तस्य निर्मिताः।

सत्त्वाः स्वबीजसंतानं पश्यन्ते बुद्धदर्शनैः॥ ३८२॥

भ्रान्तिनिमित्तसंबन्धाद्विकल्पः संप्रवर्तते।

विकल्पा तथता नान्या न निमित्ता विकल्पना॥ ३८३॥

स्वाभाविकश्च संभोगो निर्मितं पञ्चनिर्मितम्।

षट्‍त्रिंशकं बुद्धगणं बुद्धः स्वाभाविको भवेत्॥ ३८४॥

नीले रक्तेऽथ लवणे शङ्खे क्षीरे च शार्करे।

कषायैः फलपुष्पाद्यैः किरणा यथ भास्करे॥ ३८५॥

न चान्ये न च नानन्ये तरंगा ह्युदधाविव।

विज्ञानानि तथा सप्त चित्तेन सह संयुता॥ ३८६॥

उदधेः परिणामोऽसौ तरंगाणां विचित्रता।

आलयं हि तथा चित्रं विज्ञानाख्यं प्रवर्तते॥ ३८७॥

चित्तं मनश्च विज्ञानं लक्षणार्थं प्रकल्प्यते।

अभिन्नलक्षणान्यष्टौ न च लक्ष्यं न लक्षणम्॥ ३८८॥

उदधेश्च तरंगाणां यथा नास्ति विशेषणम्।

विज्ञानानां तथा चित्ते परिणामो न लभ्यते॥ ३८९॥

चित्तेन चीयते कर्म मनसा च विचीयते।

विज्ञानेन विजानाति दृश्यं कल्पेति पञ्चभिः॥ ३९०॥

नीलरक्तप्रकार हि विज्ञानं ख्यायते नृणाम्।

तरंगचित्तसाधर्म्यं वद कस्मान्महामुने॥ ३९१॥

नीलरक्तप्रकारं हि तरंगेषु न विद्यते।

वृत्तिश्च वर्ण्यते चित्ते लक्षणार्थं हि बालिशाः॥ ३९२॥

न तस्य विद्यते वृत्तिः स्वचित्तं ग्राह्यवर्जितम्।

ग्राह्ये सति हि वै ग्राहस्तरंगैः सह साध्यते॥ ३९३॥

देहभोगप्रतिष्ठानं विज्ञानं ख्यायते नृणाम्।

तेनास्य दृश्यते वृत्तिस्तरंगैः सहसादृशा॥ ३९४॥

उदधिस्तरंगभावेन नृत्यमानो विभाव्यते।

आलयस्य तथा वृत्तिः कस्माद्बुद्ध्या न गृह्यते॥ ३९५॥

बालानां बुद्धिवैकल्यादालयं ह्युदधेर्यथा।

तरंगवृत्तिसाधर्म्या दृष्टान्तेनोपनीयते॥ ३९६॥

उदेति भास्करो यद्वत्समं हीनोत्तमे जने।

तथा त्वं लोकप्रद्योत तत्त्वं देशेसि बालिशान्॥ ३९७॥

कृत्वा धर्मेष्ववस्थानं कस्मात्तत्त्वं न भाषसे।

भाषसे यदि तत्त्वं वै तत्त्वं चित्ते न विद्यते॥ ३९८॥

उदधेर्यथा तरंगाणि दर्पणे सुपिने यथा।

दृश्यन्ते युगपत्काले तथा चित्तं स्वगोचरे।

वैकल्याद्विषयाणां हि क्रमवृत्त्या प्रवर्तते॥ ३९९॥

विज्ञानेन विजानाति मनसा मन्यते पुनः।

पञ्चानां ख्यायते दृश्यं क्रमो नास्ति समाहिते॥ ४००॥

चित्राचार्यो यथा कश्चिच्चित्रान्तेवासिकोऽपि वा।

चित्रार्थे नामयेद्रङ्गं देशनापि तथा मम॥ ४०१॥

रङ्गे न विद्यते चित्रं न कुड्ये न च भाजने।

सत्त्वानां कर्षणार्थाय रङ्गैश्चित्रं विकल्प्यते॥ ४०२॥

देशनाव्यभिचारी च तत्त्वं ह्यक्षरवर्जितम्।

कृत्वा धर्मे व्यवस्थानं तत्त्वं देशेमि योगिनाम्॥ ४०३॥

तत्त्वं प्रत्यात्मगतिकं कल्प्यकल्पनवर्जितम्।

देशेमि जिनपुत्राणां बालानां देशनान्यथा॥ ४०४॥

विचित्रा हि यथा माया दृश्यते न च विद्यते।

देशना हि तथा चित्रा दृश्यतेऽव्यभिचारिणी॥ ४०५॥

देशना हि यदन्यस्य तदन्यस्याप्यदेशना।

आतुरे आतुरे यद्वद्भिषग्द्रव्यं प्रयच्छति।

बुद्धा हि तद्वत्सत्त्वानां चित्तमात्रं वदन्ति ते॥ ४०६॥

बाह्यवासनबीजेन विकल्पः संप्रवर्तते।

तन्त्रं हि येन गृह्णाति यद्गृह्णाति स कल्पितम्॥ ४०७॥

बाह्यमालम्बनं गृह्यं चित्तं चाश्रित्य जायते।

द्विधा प्रवर्तते भ्रान्तिस्तृतीयं नास्ति कारणम्॥ ४०८॥

यस्माच्च जायते भ्रान्तिर्यदाश्रित्य च जायते।

षड्द्वादशाष्टादशकं चित्तमेव वदाम्यहम्॥ ४०९॥

स्वबीजग्राह्यसंबन्धादात्मग्राहः प्रहीयते।

चित्तकल्पावतारेण धर्मग्राहः प्रहीयते॥ ४१०॥

यत्तु आलयविज्ञानं तद्विज्ञानं प्रवर्तते।

आध्यात्मिकं ह्यायतनं भवेद्बाह्यं यदाभया॥ ४११॥

नक्षत्रकेशग्रहणं स्वप्नरूपं यथाबुधैः।

संस्कृतासंस्कृतं नित्यं कल्प्यते न च विद्यते॥ ४१२॥

गन्धर्वनगरं माया मृगतृष्णाम्भसां यथा।

असन्तो वा विदृश्यन्ते परतन्त्रं तथा भवेत्॥ ४१३॥

आत्मेन्द्रियोपचारं हि त्रिचित्ते देशयाम्यहम्।

चित्तं मनश्च विज्ञानं स्वलक्षणविसंयुता॥ ४१४॥

चित्तं मनश्च विज्ञानं नैरात्म्यं स्याद्द्वयं तथा।

पञ्च धर्माः स्वभावा हि बुद्धानां गोचरो ह्ययम्॥ ४१५॥

लक्षणेन भवेत्रीणी एकं वासनहेतुकाः।

रङ्गं हि यथाप्येकं कुड्ये चित्रं विदृश्यते॥ ४१६॥

नैरात्म्यमद्वयं चित्तं मनोविज्ञानमेव च।

पञ्च धर्माः स्वभावा हि मम गोत्रे न सन्ति ते॥ ४१७॥

चित्तलक्षणनिर्मुक्तं विज्ञानमनवर्जितम्।

धर्मस्वभावविरहं गोत्रं ताथागतं लभेत्॥ ४१८॥

कायेन वाचा मनसा न तत्र क्रियते शुभम्।

गोत्रं ताथागतं शुद्धं समुदाचारवर्जितम्॥ ४१९॥

अभिज्ञैर्वशितैः शुद्धं समाधिबलमण्डितम्।

कायं मनोमयं चित्तं गोत्रं ताथागतं शुभम्॥ ४२०॥

प्रत्यात्मवेद्यं ह्यमलं हेतुलक्षणवर्जितम्।

अष्टमी बुद्धभूमिश्च गोत्रं ताथागतं भवेत्॥ ४२१॥

दूरंगमा साधुमती धर्ममेघा तथागती।

एतद्धि गोत्रं बुद्धानां शेषा यानद्वयावहा॥ ४२२॥

सत्त्वसंतानभेदेन लक्षणार्थं च बालिशाम्।

देश्यन्ते भूमयः सप्त बुद्धैश्चित्तवशं गताः॥ ४२३॥

वाक्कायचित्तदौष्ठुल्यं सप्तम्यां न प्रवर्तते।

अष्टम्यां ह्याश्रयस्तस्य स्वप्नौघसमसादृशः॥ ४२४॥

भूम्यष्टम्यां च पञ्चम्यां शिल्पविद्याकलागमम्।

कुर्वन्ति जिनपुत्रा वै नृपत्वं च भवालये॥ ४२५॥

उत्पादमथ नोत्पादं शून्याशून्यं न कल्पयेत्।

स्वभावमस्वभावत्वं चित्तमात्रे न विद्यते॥ ४२६॥

इदं तथ्यमिदं तथ्यमिदं मिथ्या विकल्पयेत्।

प्रत्येकश्रावकाणां च देशना न जिनौरसाम्॥ ४२७॥

सच्चासच्च सतो नैव क्षणिकं लक्षणं न वै।

प्रज्ञप्तिद्रव्यसन्नैव चित्तमात्रे न विद्यते॥ ४२८॥

भावा विद्यन्ति संवृत्या परमार्थे न भावकाः।

निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत्॥ ४२९॥

असत्सु सर्वधर्मेषु प्रज्ञप्तिः क्रियते मया।

अभिलापो व्यवहारश्च बालानां तत्त्ववर्जितः॥ ४३०॥

अभिलापसंभवो भावो विद्यते ह्यर्थगोचरः।

अभिलापसंभवो भावो दृष्ट्वा वै नास्ति विद्यते॥ ४३१॥

कुड्याभावे यथा चित्रं छायायां स्थाणुवर्जिते।

आलयं तु तथा शुद्धं तरंगे न विराजते॥ ४३२॥

नटवत्तिष्ठते चित्तं मनो विदूषसादृशम्।

विज्ञानपञ्चकैः सार्धं दृश्यं कल्पति रङ्गवत्॥ ४३३॥

देशनाधर्मनिष्यन्दो यच्च निष्यन्दनिर्मितम्।

बुद्धा ह्येते भवेत्पौराः शेषा निर्माणविग्रहाः॥ ४३४॥

दृश्यं न विद्यते चित्तं चित्तं दृश्यात्प्रमुह्यते।

देहभोगप्रतिष्ठानमालयं ख्यायते नृणाम्॥ ४३५॥

चित्तं मनश्च विज्ञानं स्वभावं धर्मपञ्चकम्।

नैरात्म्यं द्वितयं शुद्धं प्रभाषन्ते विनायकाः॥ ४३६॥

तार्किकाणामविषयं श्रावकाणां न चैव हि।

यं देशयन्ति वै नाथा प्रत्यात्मगतिगोचरम्॥ ४३७॥

दीर्घह्रस्वादिसंबद्धमन्योन्यतः प्रवर्तते।

अस्तित्वसाधका नास्ति अस्ति नास्तित्वसाधकम्॥ ४३८॥

अणुशो विभज्य द्रव्यं न वै रूपं विकल्पयेत्।

चित्तमात्रव्यवस्थानं कुदृष्ट्या न प्रसीदति॥ ४३९॥

मा शून्यतां विकल्पेथ माशून्यमिति वा पुनः।

नास्त्यस्ति कल्पनैवेयं कल्प्यमर्थं न विद्यते॥ ४४०॥

गुणाणुद्रव्यसंघातै रूपं बालैर्विकल्प्यते।

एकैकमणुशो नास्ति अतोऽप्यर्थं न विद्यते॥ ४४१॥

स्वचित्तं दृश्यसंस्थानं बहिर्धा ख्यायते नृणाम्।

बाह्यं न विद्यते दृश्यमतोऽप्यर्थं न विद्यते॥ ४४२॥

चित्रं केशोण्डुकं मायां स्वप्न गन्धर्वमेव च।

अलातं मृगतृष्णा च असन्तं ख्यायते नृणाम्॥ ४४३॥

नित्यानित्यं तथैकत्वमुभयं नोभयं तथा।

अनादिदोषसंबद्धा बालाः कल्पेन्ति मोहिताः॥ ४४४॥

यानव्यवस्था नैवास्ति यानमेकं वदाम्यहम्।

परिकर्षणार्थं बालानां यानभेदं वदाम्यहम्॥ ४४५॥

विमुक्तयस्तथा तिस्रो धर्मनैरात्म्यमेव च।

समताज्ञानक्लेशाख्या विमुक्त्या ते विवर्जिताः॥ ४४६॥

यथा हि काष्ठमुदधौ तरंगैर्विप्रवाह्यते।

तथा च श्रावको मूढो लक्षणेन प्रवाह्यते॥ ४४७॥

निष्ठागतिर्न तत्तस्या न च भूयो निवर्तते।

समाधिकायं संप्राप्य आ कल्पान्न प्रबुध्यते॥ ४४८॥

वासनाक्लेशसंबद्धा पर्युत्थानैर्विसंयुताः।

समाधिमदमत्तास्ते धातौ तिष्ठन्त्यनास्रवे॥ ४४९॥

यथा हि मत्तः पुरुषो मद्याभावाद्विबुध्यते।

तथा ते बुद्धधर्माख्यं कायं प्राप्स्यन्ति मामकम्॥ ४५०॥

पङ्कमग्नो यथा हस्ती इतस्ततो न धावति।

समाधिमदमग्ना वै तथा तिष्ठन्ति श्रावकाः॥ ४५१॥

अधिष्ठानं नरेन्द्राणां प्रणीधानैर्विशोधितम्।

अभिषेकसमाध्याद्यं प्रथमा दशमी च वै॥ ४५२॥

आकाशं शशशृङ्गं च वन्ध्यायाः पुत्र एव च।

असन्तश्चाभिलप्यन्ते तथा भावेषु कल्पना॥ ४५३॥

वासनाहेतुकं लोकं नासन्न सदसत्क्वचित्।

ये पश्यन्ति विमुच्यन्ते धर्मनैरात्म्यकोविदाः॥ ४५४॥

स्वभावकल्पितं नाम परभावश्च तन्त्रजः।

निष्पन्नं तथतेत्युक्तं सूत्रे सूत्रे सदा मया॥ ४५५॥

व्यञ्जनं पदकायं च नाम चापि विशेषतः।

बालाः सजन्ति दुर्मेधा यथा पङ्के महागजाः॥ ४५६॥

देवयानं ब्रह्मयानं श्रावकीयं तथैव च।

ताथागतं च प्रत्येकं यानान्येतान् वदाम्यहम्॥ ४५७॥

यानानां नास्ति वै निष्ठा यावच्चित्तं प्रवर्तते।

चित्ते तु वै परावृत्ते न यानं न च यायिनः॥ ४५८॥

चित्तं विकल्पो विज्ञप्तिर्मनो विज्ञानमेव च।

आलयं त्रिभवश्चेष्टा एते चित्तस्य पर्ययाः॥ ४५९॥

आयुरुष्माथ विज्ञानमालयो जीवितेन्द्रियम्।

मनश्च मनविज्ञानं विकल्पस्य विशेषणम्॥ ४६०॥

चित्तेन धार्यते कायो मनो मन्यति वै सदा।

विज्ञानं चित्तविषयं विज्ञानैः सह छिन्दति॥ ५६१॥

तृष्णा हि माता इत्युक्ता अविद्या च तथा पिता।

विषयावबोधाद्विज्ञानं बुद्ध इत्युपदिश्यते॥ ४६२॥

अर्हन्तो ह्यनुशयाः स्कन्धाः संघः स्कन्धकपञ्चकः।

निरन्तरान्तरच्छेदात्कर्म ह्यानन्तरं भवेत्॥ ४६३॥

नैरात्म्यस्य द्वयं क्लेशास्तथैवावरणद्वयम्।

अचिन्त्यपरिणामिन्याश्च्युतेर्लाभास्तथागताः॥ ४६४॥

सिद्धान्तश्च नयश्चापि प्रत्यात्मं शासनं च वै।

ये पश्यन्ति विभागज्ञा न ते तर्कवशं गताः। ४६५॥

न भावो विद्यते सत्यं यथा बालैर्विकल्प्यते।

अभावेन तु वै मोक्षं कथं नेच्छन्ति तार्किकाः॥ ४६६॥

उत्पादभङ्गसंबद्धं संस्कृतं प्रतिपश्यतः।

दृष्टिद्वयं प्रपुष्णन्ति न च जानन्ति प्रत्ययान्॥ ४६७॥

एकमेव भवेत्सत्यं निर्वाणं मनवर्जितम्।

कदलीस्वप्नमायाभं लोकं पश्येद्विकल्पितम्॥ ४६८॥

रागो न विद्यते द्वेषो मोहश्चापि न पुद्गलः।

तृष्णाया ह्युदिताः स्कन्धा विद्यन्ते स्वप्नसादृशाः॥ ४६९॥

यस्यां च रात्र्यां धिगमो यस्यां च परिनिर्वृतः।

एतस्मिन्नन्तरे नास्ति मया किंचित्प्रकाशितम्॥ ४७०॥

प्रत्यात्मधर्मस्थितितां संधाय कथितं मया।

तैश्च बुद्धैर्मया चैव न च किंचिद्विशेषितम्॥ ४७१॥

द्रव्यवद्विद्यते ह्यात्मा स्कन्धा लक्षणवर्जिताः।

स्कन्धा विद्यन्ति भावेन आत्मा तेषु न विद्यते॥ ४७२॥

प्रतिपत्तिं विभावन्तो क्लेशैर्मानुषसंगमैः।

मुच्यते सर्वदुःखेभ्यः स्वचित्तं पश्यतो जगत्॥ ४७३॥

कारणैः प्रत्ययैश्चापि येषां लोकः प्रवर्तते।

चातुष्कोटिकया युक्तो न ते मन्नयकोविदाः॥ ४७४॥

सदसन्न जायते लोको नासन्न सदसत्क्वचित्।

प्रत्ययैः कारणैश्चापि कथं बालैर्विकल्प्यते॥ ४७५॥

न सन्नासन्न सदसद्यदा लोकं प्रपश्यति।

तदा व्यावर्तते चित्तं नैरात्म्यं चाधिगच्छति॥ ४७६॥

अनुत्पन्नाः सर्वभावा यस्मात्प्रत्ययसंभवाः।

कार्यं हि प्रत्ययाः सर्वे न कार्याज्जायते भवः॥ ४७७॥

कार्यं न जायते कार्यं द्वित्वं कार्ये प्रसज्यते।

न च द्वित्वप्रसङ्गेन कार्याभावोपलभ्यते॥ ४७८॥

आलम्बालम्बविगतं यदा पश्यति संस्कृतम्।

निमित्तं चित्तमात्रं हि चित्तमात्रं वदाम्यहम्॥ ४७९॥

मात्रास्वभावसंस्थानं प्रत्ययैर्भाववर्जितम्।

निष्ठाभावपरं ब्रह्म एतां मात्रां वदाम्यहम्॥ ४८०॥

प्रज्ञप्तिसत्यतो ह्यात्मा द्रव्यः स हि न विद्यते।

स्कन्धानां स्कन्धता तद्वत्प्रज्ञप्त्या न तु द्रव्यतः॥ ४८१॥

चतुर्विधा वै समता लक्षणं हेतुभाजनम्।

नैरात्म्यसमता चैव चतुर्था योगयोगिनाम्॥ ४८२॥

व्यावृत्तिः सर्वदृष्टीनां कल्प्यकल्पनवर्जिता।

अनुपलम्भो ह्यजातिश्च चित्तमात्रं वदाम्यहम्॥ ४८३॥

न भावं नापि चाभावं भावाभावविवर्जितम्।

तथता चित्तनिर्मुक्तं चित्तमात्रं वदाम्यहम्॥ ४८४॥

तथता शून्यता कोटी निर्वाणं धर्मधातुकम्।

कायं मनोमयं चित्तं चित्तमात्रं वदाम्यहम्॥ ४८५॥

विकल्पवासनाबद्धं विचित्रं चित्तसंभवम्।

बहिर्धा जायते नॄणां चित्तमात्रं हि लौकिकम्॥ ४८६॥

दृश्यं न विद्यते बाह्यं चित्तचित्रं विदृश्यते।

देहभोगप्रतिष्ठाभं चित्तमात्रं वदाम्यहम्॥ ४८७॥

श्रावकाणां क्षयज्ञानं बुद्धानां जन्मसंभवम्।

प्रत्येकजिनपुत्राणां असंक्लेशात्प्रवर्तते॥ ४८८॥

बहिर्धा नास्ति वै रूपं स्वचित्तं दृश्यते बहिः।

अनवबोधात्स्वचित्तस्य बालाः कल्पेन्ति संस्कृतम्॥ ४८९॥

बाह्यमर्थमजानानैः स्वचित्तचित्रदर्शनम्।

हेतुभिर्वार्यते मूढैश्चातुष्कोटिकयोजितैः॥ ४९०॥

न हेतवो न कोट्यो वै दृष्टान्तावयवानि च।

स्वचित्तं ह्यर्थसंक्रान्तं यदि जानन्ति पण्डिताः॥ ४९१॥

विकल्पैर्न विकल्पेत यद्विकल्पितलक्षणम्।

कल्पितं च समाश्रित्य विकल्पः संप्रवर्तते॥ ४९२॥

अन्योन्याभिन्नसंबन्धादेकवासनहेतुकाः।

आगन्तुकत्वात्तद्द्वयोर्न चित्तं जायते नृणाम्॥ ४९३॥

विकल्पं चित्तचैत्तार्थी त्रिभवे च प्रतिष्ठिताः।

यदर्थाभाः प्रवर्तन्ते स्वभावकल्पितो हि सः॥ ४९४॥

आभासबीजसंयोगाद्द्वादशायतनानि वै।

आश्रयालम्ब्यसंयोगात्प्रक्रिया वर्ण्यते मया॥ ४९५॥

यथा हि दर्पणे बिम्बं केशोण्डुस्तिमिरस्य वा।

तथा हि वासनैश्छन्नं चित्तं पश्यन्ति बालिशाः॥ ४९६॥

स्वविकल्पकल्पिते ह्यर्थे विकल्पः संप्रवर्तते।

अर्थो न विद्यते बाह्यो यथा तीर्थ्यैर्विकल्प्यते॥ ४९७॥

रज्जुं यथा ह्यजानानाः सर्पं गृह्णन्ति बालिशाः।

स्वचित्तार्थमजानाना ह्यर्थं कल्पेन्ति बाहिरम्॥ ४९८॥

तथा हि रज्जुं रज्जुत्वे एकत्वान्यत्ववर्जितम्।

किं तु स्वचित्तदोषोऽयं येन रज्जुर्विकल्प्यते॥ ४९९॥

न हि यो येन भावेन कल्प्यमानो न लक्ष्यते।

न तन्नास्त्यवगन्तव्यं धर्माणामेष धर्मता॥ ५००॥

अस्तित्वपूर्वकं नास्ति अस्ति नास्तित्वपूर्वकम्।

अतो नास्ति न गन्तव्यं अस्तित्वं न च कल्पयेत्॥ ५०१॥

कल्पितं कल्प्यमानं हि यदिदं न तदात्मकम्।

अनात्मकं कथं दृष्ट्वा विकल्पः संप्रवर्तते॥ ५०२॥

रूपं रूपात्मना नास्ति तथा घटपटादयः।

अविद्यमाने दृश्ये तु विकल्पस्तेन जायते॥ ५०३॥

विकल्पस्ते यदि भ्रान्तावनादिमति संस्कृते।

भावानां भावता केन भ्रामिता ब्रूहि मे मुने॥ ५०४॥

भावानां भावता नास्ति चित्तमात्रं च दृश्यते।

अपश्यमानः स्वचित्तं विकल्पः संप्रवर्तते॥ ५०५॥

कल्पितं यदि वै नास्ति यथा कल्पति बालिशः।

अन्यथा विद्यते चासौ न च बुद्ध्यावगम्यते॥ ५०६॥

आर्याणां यदि वा सोऽस्ति नासौ बालैर्विकल्पितः।

आर्याणामथ मिथ्यासौ आर्या बालैः समं गताः॥ ५०७॥

आर्याणां नास्ति वै भ्रान्तिर्यस्माच्चित्तं विशोधितम्।

अशुद्धचित्तसंताना बालाः कल्पेन्ति कल्पितम्॥ ५०८॥

माता यथा हि पुत्रस्य आकाशात्फलमानयेत्।

एतद्धि पुत्र मा क्रन्द गृह्ण चित्रमिदं फलम्॥ ५०९॥

तथाहं सर्वसत्त्वानां विचित्रैः कल्पितैः फलैः।

प्रलोभ्य देशेमि नयं सदसत्पक्षवर्जितम्॥ ५१०॥

अभूत्वा यस्य वै भावः प्रत्ययैर्न च संकुलः।

अजातपूर्वं तज्जातमलब्धात्मकमेव च॥ ५११॥

अलब्धात्मकं ह्यजातं च प्रत्ययैर्न विना क्वचित्।

उत्पन्नमपि ते भावो प्रत्ययैर्न विना क्वचित्॥ ५१२॥

एवं समासतः पश्यन् नासन्न सदसत्क्वचित्।

प्रत्ययैर्जायते भूतमविकल्प्यं हि पण्डितैः॥ ५१३॥

एकत्वान्यत्वकथाः कुतीर्थ्याः कुर्वन्ति बालिशाः।

प्रत्ययैर्न च जानन्ति मायास्वप्नोपमं जगत्॥ ५१४॥

अभिधानविषयं यानं महायानमनुत्तरम्।

अर्थं सुनीतं हि मया न च बुध्यन्ति बालिशाः॥ ५१५॥

मात्सर्यैर्ये प्रणीतानि श्रावकैस्तीर्थकैस्तथा।

व्यभिचरन्ति ते ह्यर्थं यस्मात्तर्केण देशिताः॥ ५१६॥

लक्षणं भाव संस्थानं नाम चैव चतुर्विधम्।

एतदालम्बनीकृत्य कल्पना संप्रवर्तते॥ ५१७॥

एकधा बहुधा ये तु ब्रह्मकायवशंगताः।

सोमभास्करयोर्भावा ये नाशेन्ति न ते सुताः॥ ५१८॥

आर्यदर्शनसंपन्ना यथाभूतगतिंगताः।

संज्ञाविवर्तकुशला विज्ञाने च परंगताः॥ ५१९॥

एषा हि मुद्रा मुक्तानां पुत्राणां मम शासने।

भावाभावविनिर्मुक्ता गत्यागतिविवर्जिता॥ ५२०॥

व्यावृत्ते रूपविज्ञाने यदि कर्म विनश्यति।

नित्यानित्यं न प्राप्नोति संसारश्च न विद्यते॥ ५२१॥

विनिर्वृत्तिकाले प्रध्वस्तं रूपं देशान्निवर्तते।

नास्त्यस्तिदोषनिर्मुक्तं कर्म तिष्ठति आलये॥ ५२२॥

प्रध्वंसि पतितं रूपं विज्ञानं च भवालये।

रूपविज्ञानसंबद्धं न च कर्म विनश्यति॥ ५२३॥

अथ तैः सह संबद्धं कर्म वै ध्वस्यते नृणाम्।

ध्वस्ते तु कर्मसंबन्धे न संसृतिर्न निर्वृतिः॥ ५२४॥

अथ ध्वस्तमपि तैः सार्धं संसारे यदि जायते।

रूपं च तेन संबद्धमभिन्नत्वाद्भविष्यति॥ ५२५॥

नाभिन्नं न च वै भिन्नं चित्तं रूपं विकल्पनात्।

प्रध्वंसो नास्ति भावानां सदसत्पक्षवर्जनात्॥ ५२६॥

कल्पितः परतन्त्रश्च अन्योन्याभिन्नलक्षणात्।

रूपे ह्यनित्यता यद्वदन्योन्यजनकाश्च वै॥ ५२७॥

अन्योऽनन्यविनिर्मुक्तंः कल्पितो नावधार्यते।

नास्त्यस्ति कथं भवति रूपे चानित्यता यथा॥ ५२८॥

कल्पितेन सुदृष्टेन परतन्त्रो न जायते।

परतन्त्रेण दृष्टेन कल्पितस्तथता भवेत्॥ ५२९॥

कल्पितं हि विनाशेते मम नेत्री विनश्यते।

समारोपापवादं च कुर्वते मम शासने॥ ५३०॥

एवंविधा यदा यस्मिन् काले स्युर्धर्मदूषकाः।

सर्वे च ते ह्यसंकथ्या मम नेत्रीविनाशकाः॥ ५३१॥

अनालप्याश्च विद्वद्भिर्भिक्षुकार्यं च वर्जयेत्।

कल्पितं यत्र नाशेन्ति समारोपापवादिनः॥ ५३२॥

केशोण्डुकमायाभं स्वप्नगन्धर्वसादृशम्।

मरीच्याभदृशकल्पो येषां नास्त्यस्तिदर्शनात्॥ ५३३॥

नासौ शिक्षति बुद्धानां यस्तेषां संग्रहे चरेत्।

द्वयान्तपतिता ह्येते अन्येषां च विनाशकाः॥ ५३४॥

विविक्तं कल्पितं भावं ये तु पश्यन्ति योगिनः।

भावाभावविनिर्मुक्तं तेषां वै संग्रहे चरेत्॥ ५३५॥

आकरा हि यथा लोके सुवर्णमणिमुक्तिजाः।

अकर्महेतुकाश्चित्रा उपजीव्याश्च बालिशाम्॥ ५३६॥

तथा हि सत्त्वगोत्राणि चित्रा वै कर्मवर्जिता।

दृश्याभावान्न कर्मास्ति न च वै कर्मजा गतिः॥ ५३७॥

भावानां भावता नास्ति यथा त्वार्यैर्विभाव्यते।

किं तु विद्यन्ति वै भावा यथा बालैर्विकल्पिताः॥ ५३८॥

यदि भावा व विद्यन्ते यथा बालैर्विकल्पिताः।

असत्सु सत्त्वभावेषु संक्लेशो नास्ति कस्यचित्॥ ५३९॥

भाववैचित्र्यसंक्लेशात्संसारं इन्द्रियोपगः।

अज्ञानतृष्णासंबद्धः प्रवर्तते शरीरिणाम्॥ ५४०॥

येषां तु भावो वै नास्ति यथा बालैर्विकल्पितः।

तेषां न विद्यते वृत्तिरिन्द्रियाणां न योगिनः॥ ५४१॥

यदि भावा न विद्यन्ते भावसंसारहेतवः।

अयं तेन भवेन्मोक्षो बालानां क्रियवर्जितः॥ ५४२॥

बालार्याणां विशेषस्ते भावाभावात्कथं भवेत्।

आर्याणां नास्ति वै भावो विमोक्षत्रयचारिणाम्॥ ५४३॥

स्कन्धाश्च पुद्गला धर्माः स्वसामान्या अलक्षणाः।

प्रत्ययानीन्द्रियाश्चैव श्रावकाणां वदाम्यहम्॥ ५४४॥

अहेतुचित्तमात्रं तु विभूति भूमयस्तथा।

प्रत्यात्मतथतां शुद्धां देशयामि जिनौरसाम्॥ ५४५॥

भविष्यन्त्यनागते काले मम शासनदूषकाः।

काषायवासोवसनाः सदसत्कार्यवादिनः॥ ५४६॥

असन्तः प्रत्ययैर्भावा विद्यन्ते ह्यार्यगोचरम्।

कल्पितो नास्ति वै भावः कल्पयिष्यन्ति तार्किकाः॥ ५४७॥

भविष्यन्त्यनागते काले कणभुग्बालजातिकाः।

असत्कार्यवाददुर्दृष्ट्या जनतां नाशयन्ति च॥ ५४८॥

अणुभ्यो जगदुत्पन्नमणवश्चाप्यहेतुकाः।

नव द्रव्याणि नित्यानि कुदृष्ट्या देशयिष्यति॥ ५४९॥

द्रव्यैरारभ्यते द्रव्यं गुणैश्चैव गुणास्तथा।

भावानां भावतामन्यां सतीं वै नाशयिष्यति॥ ५५०॥

आदिमान् हि भवेल्लोको यद्यभूत्वा प्रवर्तते।

पूर्वा च कोटिर्नैवास्ति संसारस्य वदाम्यहम्॥ ५५१॥

त्रिभवः सर्वसंख्यातं यद्यभूत्वा प्रवर्तते।

श्वानोष्ट्रखरशृङ्गाणामुत्पत्तिः स्यान्न संशयः॥ ५५२॥

यद्यभूत्वा भवेच्चक्षू रूपं विज्ञानमेव च।

कटमुकुटपटाद्यानां मृत्पिण्डात्संभवो भवेत्॥ ५५३॥

पटैश्च वै कटो नास्ति पटो वै वीरणैस्तथा।

एक एकत्रा संभूतः प्रत्ययैः किं न जायते॥ ५५४॥

तज्जीवं तच्छरीरं च यच्चाभूत्वा प्रवर्तते।

परवादा ह्यमी सर्वे मया च समुदाहृताः॥ ५५५॥

उच्चार्य पूर्वपक्षं च मतिस्तेषां निवार्यते।

निवार्य तु मतिस्तेषां स्वपक्षं देशयाम्यहम्॥ ५५६॥

अतोर्थं तीर्थवादानां कृतमुच्चारणं मया।

मा मे शिष्यगणो मूढः सदसत्पक्षमाश्रयेत्॥ ५५७॥

प्रधानाज्जगदुत्पन्नं कपिलाङ्गोऽपि दुर्मतिः।

शिष्येभ्यः संप्रकाशेति गुणानां च विकारिता॥ ५५८॥

न भूतं नापि चाभूतं प्रत्ययैर्न च प्रत्ययाः।

प्रत्ययानामसद्भावादभूतं न प्रवर्तते॥ ५५९॥

सदसत्पक्षविगतो हेतुप्रत्ययवर्जितः।

उत्पादभङ्गरहितः स्वपक्षो लक्ष्यवर्जितः॥ ५६०॥

मायास्वप्नोपमं लोकं हेतुप्रत्ययवर्जितम्।

अहेतुकं सदा पश्यन् विकल्पो न प्रवर्तते॥ ५६१॥

गन्धर्वमृगतृष्णाभं केशोण्डुकनिभं सदा।

सदसत्पक्षविगतं हेतुप्रत्ययवर्जितम्।

अहेतुकं भवं पश्यंश्चित्तधारा विशुध्यते॥ ५६२॥

वस्तु न विद्यते पश्यंश्चित्तमात्रं न विद्यते।

अवस्तुकं कथं चित्तं चित्तमात्रं न युज्यते॥ ५६३॥

वस्तुमालम्बनीकृत्य चित्तं संजायते नृणाम्।

अहेतुकं कथं चित्तं चित्तमात्रं न युज्यते॥ ५६४॥

तथता चित्तमात्रं च आर्यवस्तुनयस्य तु।

विद्यन्ते न च विद्यन्ते न ते मन्नयकोविदाः॥ ५६५॥

ग्राह्यग्राहकभावेन यदि चित्तं प्रवर्तते।

एतद्धि लौकिकं चित्तं चित्तमात्रं न युज्यते॥ ५६६॥

देहभोगप्रतिष्ठाभं स्वप्नवज्जायते यदि।

द्विचित्तता प्रसज्येत न च चित्तं द्विलक्षणम्॥ ५६७॥

स्वधारं हि यथा खड्गं स्वाग्रं वै अङ्गुलिर्यथा।

न छिन्दते न स्पृशते तथा चित्तं स्वदर्शने॥ ५६८॥

न परं न च वै तन्त्रं कल्पितं वस्तुमेव च।

पञ्च धर्मा द्विचित्तं च निराभासे न सन्ति वै॥ ५६९॥

उत्पादकं च उत्पाद्यं द्विविधं भावलक्षणम्।

उत्पादकं हि संधाय नैःस्वभाव्यं वदाम्यहम्॥ ५७०॥

अथ वैचित्र्यसंस्थाने कल्पा च यदि जायते।

आकाशे शशशृङ्गे च अर्थाभासं भविष्यति॥ ५७१॥

अर्थाभासं भवेच्चित्तं तदर्थः स्यादकल्पितः।

न च वै कल्पितो ह्यर्थश्चित्तादन्योऽभिलप्यते॥ ५७२॥

अनादिमति संसारे अर्थो वै नास्ति कुत्रचित्।

अपुष्टं हि कथं चित्तमर्थाभासं प्रवर्तते॥ ५७३॥

यद्यभावेन पुष्टिः स्याच्छशशृङ्गेऽपि तद्भवेत्।

न चाभावेन वै पुष्टो विकल्पः संप्रवर्तते॥ ५७४॥

यथापि दानीं नैवास्ति तथा पूर्वेऽपि नास्त्यसौ।

अनर्थे अर्थसंबद्धं कथं चित्तं प्रवर्तते॥ ५७५॥

तथता शून्यता कोटिर्निर्वाणं धर्मधातुकम्।

अनुत्पादश्च धर्माणां स्वभावः पारमार्थिकः॥ ५७६॥

नास्त्यस्तिपतिता बाला हेतुप्रत्ययकल्पनैः।

अहेतुकमनुत्पन्नं भवं वै अप्रजानतः॥ ५७७॥

चित्तं ख्याति न दृश्योऽस्ति विशेषोऽनादिहेतुकः।

अनादावपि नास्त्यर्थो विशेषः केन जायते॥ ५७८॥

यद्यभावेन पुष्टिः स्याद्दरिद्रो धनवान् भवेत्।

अर्थाभावे कथं चित्तं जायते ब्रूहि मे मुने॥ ५७९॥

अहेतुकमिदं सर्वं न चित्तं न च गोचरः।

न च वै पुष्यते चित्तं त्रिभवं क्रियवर्जितम्॥ ५८०॥

उत्पादविनिवृत्त्यर्थमनुत्पादप्रसाधनम्।

अहेतुवादं देशेमि न च बालैर्विभाव्यते।

अनुत्पन्नमिदं सर्वं न च भावा न सन्ति च॥ ५८१॥

गन्धर्वस्वप्नमायाख्या भावा विद्यन्त्यहेतुकाः।

अनुत्पन्नान् स्वभावांश्च शून्याः केन वदासि मे॥ ५८२॥

समवायविनिर्मुक्तो यदा भावो न दृश्यते।

तदा शून्यमनुत्पन्नमस्वभावं वदाम्यहम्॥ ५८३॥

स्वप्नकेशोण्डुकं माया गन्धर्व मृगतृष्णिका।

अहेतुका पि दृश्यन्ते तथा लोकविचित्रता॥ ५८४॥

समवायस्तथैवैको दृश्याभावान्न विद्यते।

न तु तीर्थ्यदृष्ट्या प्रलयो समवायो न विद्यते॥ ५८५॥

विगृह्याहेतुवादेन अनुत्पादं प्रसाधयेत्।

अनुत्पादैः प्रसाध्यन्ते मम नेत्री न नश्यति॥ ५८६॥

अहेतुवादैर्देश्यन्ते तीर्थ्यानां जायते भयम्।

कथं केन कुतः कुत्र संभवोऽहेतुको भवेत्॥ ५८७॥

नाहेतुकमहेतुत्वं यदा पश्यन्ति पण्डिताः।

तदा व्यावर्तते दृष्टिर्भङ्गोत्पादानुवादिनी॥ ५८८॥

किमभावो ह्यनुत्पाद उत्पादोत्पत्तिलक्षणम्।

अथ भावस्य नामेदं निरर्थं वा ब्रवीहि मे॥ ५८९॥

न च भावो ह्यनुत्पादो न च प्रत्ययलक्षणम्।

न च भावस्य नामेदं न च नाम निरर्थकम्॥ ५९०॥

यत्र श्रावकबुद्धानां तीर्थ्यानां च अगोचरः।

सप्तभूमिगतानां च तदनुत्पादलक्षणम्॥ ५९१॥

हेतुप्रत्ययव्यावृत्तिं कारणस्य निषेधनम्।

चित्तमात्रव्यवस्थानमनुत्पादं वदाम्यहम्॥ ५९२॥

अहेतुवृत्तिं भावानां कल्प्यकल्पविवर्जिताम्।

सदसत्पक्षनिर्मुक्तमनुत्पादं वदाम्यहम्॥ ५९३॥

चित्तदृश्यविनिर्मुक्तं स्वभावद्वयवर्जितम्।

आश्रयस्य परावृत्तिमनुत्पादं वदाम्यहम्॥ ५९४॥

न बाह्यभावं भावानां न च चित्तपरिग्रहम्।

सर्वदृष्टिप्रहाणं यत्तदनुत्पादलक्षणम्॥ ५९५॥

एवं शून्यास्वभावाद्यान् सर्वधर्मान् विभावयेत्।

न जातु शून्यया शून्या किं त्वनुत्पादशून्यया॥ ५९६॥

कलापः प्रत्ययानां हि प्रवर्तते निवर्तते।

कलपाच्च पृथग्भूतं न जातं न निरुध्यते॥ ५९७॥

भावो न विद्यते ह्यन्यः कलापाच्च पृथक् क्वचित्।

एकत्वेन पृथक्त्वेन यथा तीर्थ्यैर्विकल्प्यते॥ ५९८॥

सदसन्न जायते भावो नासन्न सदसत्क्वचित्।

अन्यत्र हि कलापोऽयं प्रवर्तते निवर्तते॥ ५९९॥

संकेतमात्रमेवेदमन्योन्यापेक्षसंकलात्।

जन्यमर्थं न चैवास्ति पृथक्प्रत्ययसंकलात्॥ ६००॥

जन्याभावो ह्यनुत्पादः तीर्थ्यदोषविवर्जितः।

देशेमि संकलामात्रं न च बालैर्विभाव्यते॥ ६०१॥

यस्य जन्यो हि भावोऽस्ति संकलायाः पृथक् क्वचित्।

अहेतुवादी विज्ञेयः संकलाया विनाशकः॥ ६०२॥

प्रदीपद्रव्यजातीनां व्यञ्जका संकला भवेत्।

यस्य भावो भवेत्कश्चित्संकलायाः पृथक् क्वचित्॥ ६०३॥

अस्वभावो ह्यनुत्पन्नः प्रकृत्या गगनोपमः।

संकलायाः पृथग्भूतो यो धर्मः कल्पितोऽबुधैः॥ ६०४॥

अयमन्यमनुत्पादमार्याणां प्राप्तिधर्मता।

यश्च तस्य अनुत्पादं तदनुत्पादक्षान्तिः स्यात्॥ ६०५॥

यदा सर्वमिमं लोकं संकलामेव पश्यति।

संकलामात्रमेवेदं तदा चित्तं समाध्यते॥ ६०६॥

अज्ञानतृष्णाकर्मादि संकलाध्यात्मिका भवेत्।

खजमृद्दण्डचक्रादि बीजभूतादि बाहिरम्॥ ६०७॥

परतो यस्य वै भावः प्रत्ययैर्जायते क्वचित्।

न संकलामात्रमेवेदं न ते युक्त्यागमे स्थिताः॥ ६०८॥

यदि जन्यो न भावोऽस्ति स्याद्बुद्धिः कस्य प्रत्ययात्।

अन्योन्यप्रत्यया ह्येते ते तेन प्रत्ययाः स्मृताः॥ ६०९॥

उष्णद्रवचलकठिना बालैर्धर्मा विकल्पिताः।

कलापोऽयं न धर्मोऽस्ति अतो वै निःस्वभावता॥ ६१०॥

वैद्या यथातुरवशात्क्रियाभेदं प्रकुर्वते।

न तु शास्त्रस्य भेदोऽस्ति दोषभेदस्तु विद्यते॥ ६११॥

तथाहं सत्त्वसंताने क्लेशदोषैः सुदूषितैः।

इन्द्रियाणां बलं ज्ञात्वा नयं देशेमि बालिशान्॥ ६१२॥

न क्लेशेन्द्रियभेदेन शासनं भिद्यते मम।

एकमेव भवेद्यानं मार्गमष्टाङ्गिकं शिवम्॥ ६१३॥

घटपटमुकुटविषाणहेतुकशशविषाणानास्तित्वम्।

यद्धेतुसमुत्पन्नं स च नास्ति तेऽवगन्तव्यम्॥ ६१४॥

अस्तित्वसाधकं नास्ति नास्ति नास्ति न युज्यते।

अस्तित्वं नास्त्यपेक्ष्यं हि अन्योन्यापेक्षकारणम्॥ ६१५॥

किंचिदाश्रित्य पुनः किंचित्ख्यायते यस्य वै मतम्।

अहेतुकं यदाश्रित्य किंचिच्चाहेतुकं न तु॥ ६१६॥

अथ तदन्यमाश्रित्य तदप्यन्यस्य ख्यायते।

अनवस्था प्रसज्येत किंचिच्च किं च नो भवेत्॥ ६१७॥

आश्रित्य पर्णकाष्ठादीन् यथा माया प्रसज्यते।

वस्तु तद्वत्समाश्रित्य वैचित्र्यं ख्यायते नृणाम्॥ ६१८॥

मायाजालं न पर्णानि न काष्ठं न च शर्करा।

मायैव दृश्यते बालैर्मायाकारेण चाश्रयम्॥ ६१९॥

तथा वस्तु समाश्रित्य यदि किंचिद्विनश्यति।

दृश्यकाले द्वयं नास्ति कथं किंचिद्विकल्प्यते॥ ६२०॥

विकल्पैर्विकल्पितं नास्ति विकल्पश्च न विद्यते।

विकल्पे ह्यविद्यमाने तु न संसृतिर्न निर्वृतिः॥ ६२१॥

विकल्पे ह्यविद्यमाने तु विकल्पो न प्रवर्तते।

अप्रवृत्तिं कथं चित्तं चित्तमात्रं न युज्यते॥ ६२२॥

अनेकमतिभिन्नत्वाच्छासने नास्ति सारता।

साराभावान्न मोक्षोऽस्ति न च लोकविचित्रता॥ ६२३॥

बाह्यं न विद्यते दृश्यं यथा बालैर्विकल्प्यते।

बिम्बवत्ख्यायते चित्तं वासनैर्भ्रमणीकृतम्॥ ६२४॥

सर्वभावा ह्यनुत्पन्ना असत्सदसंभवाः।

चित्तमात्रमिदं सर्वं कल्पनाभिश्च वर्जितम्॥ ६२५॥

बालैर्भावाः समाख्याताः प्रत्ययैर्न तु पण्डितैः।

स्वभावचित्तनिर्मुक्तश्चित्तमार्योपगं शिवम्॥ ६२६॥

सांख्या वैशेषिका नग्ना विप्राः पाशुपतास्तथा।

असत्सद्दृष्टिपतिता विविक्तार्थविवर्जिताः॥ ६२७॥

निःस्वभावा ह्यनुत्पन्नाः शून्या मायोपमामलाः।

कस्यैते देशिता बुद्धैस्त्वया च प्रतिवर्णिताः॥ ६२८॥

योगिनां शुद्धचित्तानां दृष्टितर्कविवर्जिताः।

बुद्धा देशेन्ति वै योगं मया च प्रतिवर्णिताः॥ ६२९॥

यदि चित्तमिदं सर्वं कस्मिंल्लोकः प्रतिष्ठितः।

गमनागमनं केन दृश्यते भूतले नृणाम्॥ ६३०॥

शकुनिर्यथा गगने विकल्पेन समीरितः।

अप्रतिष्ठमनालम्ब्यं चरते भूतले यथा॥ ६३१॥

तथा हि देहिनः सर्वे विकल्पेन समीरिताः।

स्वचित्ते चंक्रमन्ते ते गगने शुकनिर्यथा॥ ६३२॥

देहभोगप्रतिष्ठाभं ब्रूहि चित्तं प्रवर्तते।

आभा वृत्तिः कथं केन चित्तमात्रं वदाहि मे॥ ६३३॥

देहभोगप्रतिष्ठाश्च आभा वृत्तिश्च वासनैः।

संजायते अयुक्तानामाभा वृत्तिर्विकल्पनैः॥ ६३४॥

विषयो विकल्पितो भावश्चित्तं विषयसंभवम्।

दृश्यचित्तपरिज्ञानाद्विकल्पो न प्रवर्तते॥ ६३५॥

नाम नाम्नि विसंयुक्तं यदा पश्यति कल्पितम्।

बुद्धिबोद्धव्यरहितं संस्कृतं मुच्यते तदा॥ ६३६॥

एता बुद्धिर्भवेद्बोध्यं नाम नाम्नि विभावनम्।

ये त्वन्यथावबुध्यन्ते न ते बुद्धा न बोधकाः॥ ६३७॥

पञ्च धर्माः स्वभावाश्च विज्ञानान्यष्ट एव च।

द्वे नैरात्म्ये भवेत्कृत्स्नो महायानपरिग्रहः॥ ६३८॥

यदा बुद्धिश्च बोद्धव्यं विविक्तं पश्यते जगत्।

नास्ति नाम विकल्पश्च तदा नाभिप्रवर्तते॥ ३३९॥

क्रियाक्षरविकल्पानां निवृत्तिश्चित्तदर्शनात्।

अदर्शनात्स्वचित्तस्य विकल्पः संप्रवर्तते॥ ६४०॥

चत्वारोऽरूपिणः स्कन्धाः संख्या तेषां न विद्यते।

भूतैर्विलक्षणै रूपं कथं रूपबहुत्वता॥ ६४१॥

लक्षणस्य परित्यागान्न भूतं न च भौतिकम्।

अथान्यलक्षणै रूपं कस्मात्स्कन्धैर्न जायते॥ ६४२॥

विमुक्तायतनस्कन्धा यदा पश्यत्यलक्षणाः।

तदा निवर्तते चित्तं धर्मनैरात्म्यदर्शनात्॥ ६४३॥

विषयेन्द्रियभेदेन विज्ञानं जायतेऽष्टधा।

लक्षणेन भवेत्रीणि निराभासे निवर्तते॥ ६४४॥

आलयं हि मनस्यात्मा आत्मीयं ज्ञानमेव च।

प्रवर्तते द्वयग्राहात्परिज्ञानान्निवर्तते॥ ६४५॥

अन्यानन्यविनिर्मुक्तं यदा पश्यत्यसंचरम्।

तदा द्वयं न कल्पन्ति आत्मा चात्मीयमेव च॥ ६४६॥

अप्रवृत्तं न पुष्णाति न च विज्ञानकारणम्।

कार्यकारणनिर्मुक्तं निरुद्धं न प्रवर्तते॥ ६४७॥

विकल्पं चित्तमात्रं च लोकं केन वदाहि मे।

कारणैश्च विसंयुक्तं लक्ष्यलक्षणवर्जितम्॥ ६४८॥

स्वचित्तं दृश्यते चित्रं दृश्याकारं विकल्पितम्।

चित्तदृश्यापरिज्ञानादन्यं चित्तार्थसंग्रहात्॥ ६४९॥

नास्तित्वदृष्टिर्भवति यदा बुद्ध्या न पश्यति।

अस्तित्वं हि कथं तस्य चित्तग्राहान्न जायते॥ ६५०॥

विकल्पो न भावो नाभावो अतोऽस्तित्वं न जायते।

चित्तदृश्यपरिज्ञानाद्विकल्पो न प्रवर्तते॥ ६५१॥

अप्रवृत्ति विकल्पस्य परावृत्ति निराश्रयः।

निवार्य पक्षांश्चत्वारो यदि भावा सहेतुकाः॥ ६५२॥

संज्ञान्तरविशेषोऽयं कृतं केन न साधितः।

अर्थापत्तिर्भवेत्तेषां कारणाद्वा प्रवर्तते॥ ६५३॥

हेतुप्रत्ययसंयोगात्कारणप्रतिषेधतः।

नित्यदोषो निवार्यते अनित्या यदि प्रत्ययाः॥ ६५४॥

न संभवो न विभवो अनित्यत्वाद्धि बालिशाम्।

न हि नश्यमानं किंचिद्वै कारणत्वेन दृश्यते॥ ६५५॥

अदृष्टं हि कथं केन नानित्यो जायते भवः।

संग्रहैश्च दमेत्सत्त्वान् शीलेन च वशीकरेत्॥ ६५६॥

प्रज्ञया नाशयेद्दृष्टिं विमोक्षैश्च विवर्धयेत्।

लोकायतमिदं सर्वं यत्तीर्थ्यैर्देश्यते मृषा॥ ६५७॥

कार्यकारणसद्दृष्ट्या स्वसिद्धान्तं न विद्यते।

अहमेकं स्वसिद्धान्तं कार्यकारणवर्जितः॥ ६५८॥

देशेमि शिष्यवर्गस्य लोकायतविवर्जितः।

चित्तमात्रं न दृश्योऽस्ति द्विधा चित्तं विदृश्यते।

ग्राह्यग्राहकभावेन शाश्वतोच्छेदवर्जितम्॥ ६५९॥

यावत्प्रवर्तते चित्तं तावल्लोकायतं भवेत्।

अप्रवृत्तिर्विकल्पस्य स्वचित्तं पश्यतो जगत्॥ ६६०॥

आयं कार्याभिनिर्वृत्तिर्व्ययं कार्यस्य दर्शनम्।

आयव्ययपरिज्ञानाद्विकल्पो न प्रवर्तते॥ ६६१॥

नित्यमनित्यं कृतकमकृतकं परापरम्।

एवमाद्यानि सर्वाणि (तल्) लोकायतनं भवेत्॥ ६६२॥

देवासुरमनुष्याश्च तिर्यक्प्रेतयमालयाः।

गतयः षट् समाख्याता यत्र जायन्ति देहिनः॥ ६६३॥

हीन‍उत्कृष्टमध्येन कर्मणा तेषु जायते।

सरंक्ष्य कुशलान् सर्वान् विशेषो मोक्ष एव वा॥ ६६४॥

क्षणे क्षणे त्वया यन्मरणं उपपत्तिं च।

देश्यते भिक्षुवर्गस्य अभिप्रायं वदाहि मे॥ ६६५॥

रूपाद्रूपान्तरं यद्वच्चित्तं संभूय भज्यते।

तस्माद्देशेमि शिष्याणां क्षणजन्मपरंपराम्॥ ६६६॥

रूपे रूपे विकल्पस्य संभवो विभवस्तथा।

विकल्पो हि भवेज्जन्तुर्विकल्पोऽन्यो न विद्यते॥ ६६७॥

क्षणे क्षणे यन्न युक्तमिदंप्रत्ययभाषितम्।

रूपग्राहविनिर्मुक्तं न जन्म न च भज्यते॥ ६६८॥

प्रत्ययाः प्रत्ययोत्पन्ना अविद्यातथतादयः।

धर्मद्वयेन वर्तन्ते अद्वया तथता भवेत्॥ ६६९॥

प्रत्ययाः प्रत्ययोत्पन्ना यदि धर्मा विशेषिताः।

नित्यादयो भवेत्कार्यं कारणं प्रत्ययो भवेत्॥ ६७०॥

निर्विशिष्टं भवेत्तीर्थ्यैः कार्यकारणसंग्रहात्।

वादस्तव च बुद्धानां तस्मान्नार्यो महामुने॥ ६७१॥

शरीरे व्याममात्रे च लोकं वै लोकसमुदयम्।

निरोधगामिनी प्रतिपद्देशयामि जिनौरसान्॥ ६७२॥

स्वभावत्रयग्राहेण ग्राह्यग्राहविदृष्टयः।

लोक्यलोकोत्तरान् धर्मान् विकल्पेन्ति पृथग्जनाः॥ ६७३॥

अतः स्वभावग्रहणं क्रियते पूर्वपक्षया।

निवारार्थं तु दृष्टीनां स्वभावं न विकल्पयेत्॥ ६७४॥

छिद्रदोषान्न नियमो न वा चित्तं प्रवर्तते।

प्रवृत्तिद्वयग्राहेण अद्वया तथता भवेत्॥ ६७५॥

अज्ञान तृष्णा कर्म च विज्ञानाद्या अयोनिजाः।

अनवस्थाकृतकत्वं च न कृत्वा जायते भवः॥ ६७६॥

चतुर्विधश्च प्रध्वंसो भावानां कथ्यतेऽबुधैः।

द्विधावृत्तेर्विकल्पस्य भावाभावो न विद्यते।

चातुष्कोटिकनिर्मुक्तं दर्शनद्वयवर्जितम्॥ ६७७॥

द्विधावृत्तिविकल्पः स्याद्दृष्ट्वा नाभिप्रवर्तते।

अनुत्पन्नेषु भावेषु बुद्धेर्व्युत्थानभावतः॥ ६७८॥

उत्पन्नेष्वपि भावेषु तत्कल्पत्वान्न कल्पयेत्।

युक्तिं वदाहि मे नाथ द्विधादृष्टिनिवारणात्॥ ६७९॥

यथाहमन्ये च सदा नास्त्यस्ति न विसंकरेत्।

तीर्थवाद‍असंसृष्टाः श्रावकैर्जिनवर्जिताः।

जिनाभिसमयचर्यां च जिनपुत्राविनाशतः॥ ६८०॥

विमोक्षहेत्वहेतुश्चाप्यनुत्पादैकलक्षणः।

पर्यायैर्मोहयन्त्येतां वर्जनीयां सदा बुधैः॥ ६८१॥

मेघाभ्रकूटेन्द्रधनुःप्रकाशा

मरीचिकेशोण्डुकमायतुल्याः।

भावा हि सर्वे स्वविकल्पसंभवा-

स्तीर्थ्या विकल्पेन्ति जगत्स्वकारणैः॥ ६८२॥

अनुत्पादश्च तथता भूतकोटिश्च शून्यता।

रूपस्य नामान्येतानि अभावं न विकल्पयेत्॥ ६८३॥

हस्तः करो यथा लोके इन्द्रः शक्रः पुरंदरः।

तथा हि सर्वभावानामभावं न विकल्पयेत्॥ ६८४॥

रूपाच्च शून्यता नान्या अनुत्पादं तथैव च।

न कल्पयेदनन्यत्वाद्दृष्टिदोषः प्रसज्यते॥ ६८५॥

संकल्पश्च विकल्पश्च वस्तुलक्षणसंग्रहात्।

दीर्घह्रस्वादिमाण्डल्यं परिकल्पस्य संग्रहात्॥ ६८६॥

संकल्पो हि भवेच्चित्तं परिकल्पो मनस्तथा।

विकल्पो मनविज्ञानं लक्ष्यलक्षणवर्जितम्॥ ६८७॥

यच्च तीर्थ्यैरनुत्पादो यच्च मन्नयदृष्टिभिः।

कल्प्यते निर्विशिष्टोऽयं दृष्टिदोषः प्रसज्यते॥ ६८८॥

प्रयोजनमनुत्पादमनुत्पादार्थमेव च।

ये वै जानन्ति युक्तिज्ञास्तेऽभिबुध्यन्ति मन्नयम्॥ ६८९॥

प्रयोजनं दृष्टिसंकोचमनुत्पादमनालयम्।

अर्थद्वयपरिज्ञानादनुत्पादं वदाम्यहम्॥ ६९०॥

भावा विद्यन्त्यनुत्पन्ना न वा ब्रूहि महामुने।

अहेतुवादोऽनुत्पादो प्रवृत्तिस्तीर्थदर्शनम्॥ ६९१॥

अहेतुवादोऽनुत्पादो वैषम्यतीर्थदर्शनम्।

अस्तिनास्तिविनिर्मुक्तं चित्तमात्रं वदाम्यहम्॥ ६९२॥

उत्पादमनुत्पादं वर्जयेद्दृष्टिहेतुकम्।

अहेतुवादेऽनुत्पादे उत्पादे कारणाश्रयः॥ ६९३॥

अनाभोगक्रिया नास्ति क्रिया चेद्दृष्टिसंकरः।

उपायप्रणिधानाद्यैर्दृष्टिमेव वदाहि मे।

असत्त्वात्सर्वधर्माणां मण्डलं जायते कथम्॥ ६९४॥

ग्राह्यग्राहकविसंयोगान्न प्रवृत्तिर्न निर्वृतिः।

भावाद्भावान्तरं दृष्टिं चित्तं वै तत्समुत्थितम्॥ ६९५॥

अनुत्पादश्च धर्माणां कथमेतद्वदाहि मे।

सत्त्वाश्चेन्नावबुध्यन्ते अत एतत्प्रकाश्यते॥ ६९६॥

पूर्वोत्तरविरोधं च सर्वं भाष्य महामुने।

तीर्थदोषविनिर्मुक्तं विषमाहेतुवर्जितम्॥ ६९७॥

अप्रवृतिर्निवृत्तिश्च ब्रूहि मे वादिनांवर।

अस्तिनास्तिविनिर्मुक्तं फलहेत्वविनाशकम्। ६९८॥

भूमिक्रमानुसंधिश्च ब्रूहि मे धर्मलक्षणम्।

द्वयान्तपतितो लोको दृष्टिभिर्व्याकुलीकृतः॥ ६९९॥

अनुत्पादा उत्पादाद्यैः शमहेतुर्न बुध्यते।

मण्डलं हि न मे किंचिन्न च देशेमि धर्मताम्॥ ७००॥

द्वये सति हि दोषः स्याद्द्वयं बुद्धैर्विशोधितम्।

शून्याश्च क्षणिका भावा निःस्वभावा ह्यजातिकाः॥ ७०१॥

कुदृष्टिवादसंछन्नैः कल्प्यन्ते न तथागतैः।

प्रवृत्तिं च निवृत्तिं च विकल्पस्य वदाहि मे॥ ७०२॥

यथा येन प्रकारेण जायते विषयो मुखम्।

वर्णपुष्कलसंयोगात्प्रपञ्चैः समुदानितम्॥ ७०३॥

रूपं दृष्ट्वा बहिर्धा वै विकल्पः संप्रवर्तते।

तस्यैव हि परिज्ञानाद्यथाभूतार्थदर्शनात्।

आर्यगोत्रानुकूलं च चित्तं नाभिप्रवर्तते॥ ७०४॥

प्रत्याख्याय तु भूतानि भावोत्पत्तिर्न विद्यते।

भूताकारं सदा चित्तमनुत्पन्नं विभावयेत्॥ ७०५॥

मा विकल्पं विकल्पेथ निर्विकल्पा हि पण्डिताः।

विकल्पं विकल्पयंस्तस्य द्वयमेव न निर्वृतिः॥ ७०६॥

अनुत्पादप्रतिज्ञस्य माया च दृश्यते नयः।

मायानिर्हेतुसंभूतं हानिसिद्धान्तलक्षणम्॥ ७०७॥

बिम्बवद्दृश्यते चित्तमनादिमतिभावितम्।

अर्थाकारं न चार्थोऽस्ति यथाभूतं विभावयेत्॥ ७०८॥

यथा हि दर्पणे रूपमेकत्वान्यत्ववर्जितम्।

दृश्यते न च तन्नास्ति तथा चोत्पादलक्षणम्॥ ७०९॥

गन्धर्वमायादि यथा हेतुप्रत्ययलक्षणाः।

तथा हि सर्वभावानां संभवो न ह्यसंभवः॥ ७१०॥

विकल्पः पुरुषाकारो द्विधावृत्त्या प्रवर्तते।

आत्मधर्मोपचारैश्च न च बालैर्विभाव्यते॥ ७११॥

विपुलप्रत्ययाधीनः श्रावकोऽपि ह्यर्हंस्तथा।

स्वबलाधीनं जिनाधीनं पञ्चमं श्रावकं नयेत्॥ ७१२॥

कालान्तरं च प्रध्वस्तं परमार्थेतरेतरम्।

चतुर्विधमनित्यत्वं बालाः कल्पेन्त्यकोविदाः॥ ७१३॥

द्वयान्तपतिता बाला गुणाणुप्रकृतिकारणैः।

मोक्षोपायं न जानन्ति सदसत्पक्षसंग्रहात्॥ ७१४॥

अङ्गुल्यग्रं यथा बालैश्चन्द्रं गृह्णन्ति दुर्मतिः।

तथा ह्यक्षरसंसक्तास्तत्त्वं नावेन्ति मामकम्॥ ७१५॥

विलक्षणानि भूतानि रूपभावप्रवर्तका।

भूतानां संनिवेशोऽयं न भूतैर्भौतिकं कृतम्॥ ७१६॥

अग्निना दह्यते रूपमब्धातुः क्लेदनात्मकः।

वायुना कीर्यते रूपं कथं भूतैः प्रवर्तते॥ ७१७॥

रूपं स्कन्धश्च विज्ञानं द्वयमेतन्न पञ्चकम्।

पर्यायभेदं स्कन्धानां शतधा देशयाम्यहम्॥ ७१८॥

चित्तचैत्तस्य भेदेन वर्तमानं प्रवर्तते।

व्यतिभिन्नानि रूपाणि चित्तं रूपं न भौतिकम्॥ ७१९॥

नीलाद्यपेक्षणं श्वेतं श्वेतं नीलं ह्यपेक्षणम्।

कार्यकारणमुत्पाद्य शून्यता अस्ति नास्ति च॥ ७२०॥

साधनं साधकं साध्यं शीतोष्णे लक्ष्यलक्षणम्।

एवमाद्यानि सर्वाणि तार्किकैर्न प्रसाधिताः॥ ७२१॥

चित्तं मनश्च षड्वान्यविज्ञानान्यात्मसंयुता।

एकत्वान्यत्वरहिता आलयोऽयं प्रवर्तते॥ ७२२॥

सांख्या वैशेषिका नग्नास्तार्किका ईश्वरोदिताः।

सदसत्पक्षपतिता विविक्तार्थविवर्जिताः॥ ७२३॥

संस्थानाकृतिविशेषो भूतानां नास्ति भौतिकम्।

तीर्थ्या वदन्ति जन्म भूतानां भौतिकस्य च॥ ७२४॥

अनुत्पन्ना यतो येऽन्ये तीर्थ्याः कल्पन्ति कारणैः।

न च बुध्यन्ति मोहेन सदसत्पक्षमाश्रिताः॥ ७२५॥

चित्तेन सह संयुक्तं विसंयुक्तं मनादिभिः।

विशुद्धलक्षणं सत्त्वं ज्ञानेन सह तिष्ठति॥ ७२६॥

कर्म यच्च भवेद्रूपं स्कन्धविषयहेतुकाः।

सत्त्वाश्च निरुपादाना आरूप्ये नावतिष्ठति॥ ७२७॥

नैरात्म्यं सत्त्ववादित्वं सत्त्वाभावात्प्रसज्यते।

नैरात्म्यवादिनो च्छेदो विज्ञानस्याप्यसंभवः॥ ७२८॥

चत्वारः स्थितस्तस्य रूपाभावात्कथं भवेत्।

अध्यात्मबाह्याभावाद्विज्ञानं न प्रवर्तते॥ ७२९॥

अन्तराभविकाः स्कन्धाः यथैवेच्छन्ति तार्किकाः।

तथारूप्योपपन्नस्य भवोऽरूपो न चास्ति किम्॥ ७३०॥

अप्रयत्नेन मोक्षः स्यात्सत्त्वविज्ञानयोर्विना।

तीर्थ्यवादो न संदेहो न च बुध्यन्ति तार्किकाः॥ ७३१॥

रूपं च विद्यते तत्र आरूप्ये नास्ति दर्शनम्।

तदभावो न सिद्धान्तो न यानं न च यायिनम्॥ ७३२॥

इन्द्रियैः सह संयुक्तं विज्ञानं वासनोद्भवम्।

अष्टविधैकदेशं हि क्षणे काले न गृह्णन्ति॥ ७३३॥

न प्रवर्तति यदा रूपं इन्द्रिया न च इन्द्रियैः।

अतो हि देशेति भगवान् क्षणिका इन्द्रियादयः॥ ७३४॥

अनिर्धार्य कथं रूपं विज्ञानं संप्रवर्त्स्यते।

अप्रवृत्तं कथं ज्ञानं संसारं जनयिष्यति॥ ७३५॥

उत्पत्त्यनन्तरं भङ्गं न देशेन्ति विनायकाः।

नैरन्तर्यं न भावानां विकल्पस्पन्दिते गतौ॥ ७३६॥

इन्द्रिया इन्द्रियार्थाश्च मूढानां न तु पण्डिताः।

बाला गृह्णन्ति नामेन आर्या वै अर्थकोविदाः॥ ७३७॥

षष्ठं हि निरुपादानः सोपादानो न गृह्यते।

अनिर्धार्यं वदन्त्यार्यां अस्तिदोषैर्विवर्जिताः॥ ७३८॥

शाश्वतोच्छेदभीताश्च तार्किका ज्ञानवर्जिताः।

संस्कृतासंस्कृतात्मानं न विशेषन्ति बालिशाः॥ ७३९॥

एकत्वे विद्यते दानमन्यत्वे चापि विद्यते।

चित्तेन सह चैकत्वमन्यत्वं वै मनादिभिः॥ ७४०॥

निर्धार्यते यदा दानं चित्तं चैत्ताभिशब्दितम्।

उपादानात्कथं तत्र एकत्वेनावधार्यते॥ ७४१॥

सोपादानोपलब्धिश्च कर्मजन्मक्रियादिभिः।

अग्निवत्साधयिष्यन्ति सदृशासदृशैर्नर्यैः॥ ७४२॥

यथा हि अग्निर्युगपद्दह्यते दाह्यदाहकौ।

सोपादानस्तथा ह्यात्मा तार्किकैः किं न गृह्यते॥ ७४३॥

उत्पादाद्वाप्यनुत्पादाच्चित्तं वै भास्वरं सदा।

दृष्टान्तं किं न कुर्वन्ति तार्किका आत्मसाधकाः॥ ७४४॥

विज्ञानगह्वरे मूढास्तार्किका नयवर्जिताः।

इतस्ततः प्रधावन्ति आत्मवादचिकीर्षया॥ ७४५॥

प्रत्यात्मगतिगम्यश्च आत्मा वै शुद्धिलक्षणम्।

गर्भस्तथागतस्यासौ तार्किकाणामगोचरः॥ ७४६॥

उपादान‍उपादात्रोर्विभागस्कन्धयोस्तथा।

लक्षणं यदि जानाति ज्ञानं संजायते नयम्॥ ७४७॥

आलयं गर्भसंस्थानं मतं तीर्थ्यानुवर्णितम्।

आत्मना सह संयुक्तं न च धर्माः प्रकीर्तिताः॥ ७४८॥

एतेषां प्रविभागेन विमोक्षः सत्यदर्शनम्।

भावानां दर्श्यहेयानां क्लेशानां स्याद्विशोधनम्॥ ७४९॥

प्रकृतिप्रभास्वरं चित्तं गर्भं ताथागतं शुभम्।

उपादानं हि सत्त्वस्य अन्तानन्तविवर्जितम्॥ ७५०॥

कान्तिर्यथा सुवर्णस्य जातरूपं च शर्करम्।

परिकर्मेण पश्यन्ति सत्त्वं स्कन्धालयैस्तथा॥ ७५१॥

न पुद्गलो न च स्कन्धा बुद्धो ज्ञानमनास्रवम्।

सदाशान्तिं विभावित्वा गच्छामि शरणं ह्यहम्॥ ७५२॥

प्रकृतिप्रभास्वरं चित्तमुपक्लेशैर्मनादिभिः।

आत्मना सह संयुक्तं देशेति वदतांवरः॥ ७५३॥

प्रकृतिप्रभास्वरं चित्तं मनाद्यस्तस्य वै परः।

तैराचितानि कर्माणि यतः क्लिश्यन्ति तावुभौ॥ ७५४॥

आगन्तुकैरानाद्यैश्च क्लेशैरात्मा प्रभास्वरः।

संक्लिश्यते उपेतश्च वस्त्रवत्परिशुध्यते॥ ७५५॥

मलाभावाद्यथा वस्त्रं हेमं वा दोषवर्जितम्।

तिष्ठन्ति न च नश्यन्ते आत्मा दोषैस्तथा विना॥ ७५६॥

वीणाशङ्खेऽथ भेर्यां च माधुर्यस्वरसंपदा।

मृगयेद्ध्यकोविदः कश्चित्तथा स्कन्धेषु पुद्गलम्॥ ७५७॥

निधयो मणयश्चापि पृथिव्यामुदकं तथा।

विद्यमाना न दृश्यन्ति तथा स्कन्धेषु पुद्गलम्॥ ७५८॥

चित्तचैत्तकलापांश्च स्वगुणां स्कन्धसंयुतां।

अकोविदा न गृह्णन्ति तथा स्कन्धेषु पुद्गलम्॥ ७५९॥

यथा हि गर्भो गर्भिण्यां विद्यते न च दृश्यते।

आत्मा हि तद्वत्स्कन्धेषु अयुक्तिज्ञो न पश्यति॥ ७६०॥

औषधीनां यथा सारमग्निं वा इन्धनैर्यथा।

न पश्यन्ति अयुक्तिज्ञास्तथा स्कन्धेषु पुद्गलम्॥ ७६१॥

अनित्यतां सर्वभावेषु शून्यतां च यथाबुधाः।

विद्यमानां न पश्यन्ति तथा स्कन्धेषु पुद्गलम्॥ ७६२॥

भूमयो वशिताभिज्ञा अभिषेकं च उत्तरम्।

समाधयो विशेषाश्च असत्यात्मनि नास्ति वै॥ ७६३॥

वैनाशिको यदा गत्वा ब्रूयाद्यद्यस्ति देश्यताम्।

स वक्तव्यो भवेद्विज्ञः स्वविकल्पं प्रदर्शय॥ ७६४॥

नैरात्म्यवादिनोऽभाष्या भिक्षुकर्माणि वर्जय।

बाधका बुद्धधर्माणां सदसत्पक्षदृष्टयः॥ ७६५॥

तीर्थदोषैर्विनिर्मुक्तं नैरात्म्यवनदाहकम्।

जाज्वलत्यात्मवादोऽयं युगान्ताग्निरिवोत्थितः॥ ७६६॥

खण्डेक्षुशर्करमध्वादिदधितिलघृतादिषु।

स्वरसं विद्यते तेषु अनास्वाद्यं न गृह्यते॥ ७६७॥

पञ्चधा गृह्यमाणश्च आत्मा स्कन्धसमुच्छ्रये।

न च पश्यन्त्यविद्वांसो विद्वान् दृष्ट्वा विमुच्यते॥ ७६८॥

विद्यादिभिश्च दृष्टान्तैश्चित्तं नैवावधार्यते।

यत्र यस्माद्यदर्थं च समूहं नावधार्यते॥ ७६९॥

विलक्षणा हि वै धर्माश्चित्तमेकं न गृह्यते।

अहेतुरप्रवृत्तिश्च तार्किकाणां प्रसज्यते॥ ७७०॥

चित्तानुपश्यी च योगी चित्तं चित्ते न पश्यति।

पश्यको दृश्यनिर्जातो दृश्यं किं हेतुसंभवम्॥ ७७१॥

कात्यायनस्य गोत्रोऽहं शुद्धावासाद्विनिःसृतः।

देशेमि धर्मं सत्त्वानां निर्वाणपुरगामिनम्॥ ७७२॥

पौराणिकमिदं वर्त्म अहं ते च तथागताः।

त्रिभिः सहस्रैः सूत्राणां निर्वाणमत्यदेशयन्॥ ७७३॥

कामधातौ तथारूप्ये न वै बुद्धो विबुध्यते।

रूपधात्वकनिष्ठेषु वीतरागेषु बुध्यते॥ ७७४॥

न बन्धहेतुर्विषया हेतुर्विषयबन्धनम्।

ज्ञानबध्यानि क्लेशानि असिधारव्रतो ह्ययम्॥ ७७५॥

असत्यात्मनि मायाद्या धर्मा नास्त्यस्ति वै कथम्।

बालानां ख्याति तथता कथं नास्ति निरात्मिका॥ ७७६॥

कृतकाकृतकत्वाद्धि नास्ति हेतुः प्रवर्तकः।

अनुत्पन्नमिदं सर्वं न च बालैर्विभाव्यते॥ ७७७॥

कारणानि अनुत्पन्ना कृतकाः प्रत्ययाश्च ते।

द्वावप्येतौ न जनकौ कारणैः कल्प्यते कथम्॥ ७७८॥

प्राक्पश्चाद्युगपच्चापि हेतुं वर्णेन्ति तार्किकाः।

प्रकाशघटशिष्याद्यैर्भावानां जन्म कथ्यते॥ ७७९॥

नाभिसंस्कारिकैर्बुद्धा लक्षणैर्लक्षणान्विताः।

चक्रवर्तिगुणा ह्येते नैते बुद्धप्रभाषिताः॥ ७८०॥

बुद्धानां लक्षणं ज्ञानं दृष्टिदोषैर्विवर्जितम्।

प्रत्यात्मदृष्टिगतिकं सर्वदोषविघातकम्॥ ७८१॥

बधिरान्धकाणमूकानां वृद्धानां वैरवृत्तिनाम्।

बालानां च विशेषेण ब्रह्मचर्यं न विद्यते॥ ७८२॥

आवृतैर्व्यञ्जनैर्दिव्यैर्लक्षणैश्चक्रवर्तिनः।

व्यञ्जितैः प्रव्रजन्त्येके न चान्ये च प्रवादिनः॥ ७८३॥

व्यासः कणादः ऋषभः कपिलः शाक्यनायकः।

निर्वृते मम पश्चात्तु भविष्यन्त्येवमादयः॥ ७८४॥

मयि निर्वृते वर्षशते व्यासो वै भारतस्तथा।

पाण्डवाः कौरवा रामः पश्चान्मौरी भविष्यति॥ ७८५॥

मौर्या नन्दाश्च गुप्ताश्च ततो म्लेच्छा नृपाधमाः।

म्लेच्छान्ते शस्त्रसंक्षोभः शस्त्रान्ते च कलिर्युगः।

कलियुगान्ते लोकैश्च सद्धर्मो हि न भावितः॥ ७८६॥

एवमाद्यान्यतीतानि चक्रवद्भ्रमते जगत्।

वह्न्यादित्यसमायोगात्कामधातुर्विदीर्यते॥ ७८७॥

पुनः संस्थास्यते दिव्यं तस्मिँल्लोकः प्रवर्त्स्यते।

चातुं र्वर्णा नृपेन्द्राश्च ऋषयो धर्ममेव च॥ ७८८॥

वेदाश्च यज्ञं दानं च धर्मस्था वर्त्स्यते पुनः।

आख्यायिकेतिहासाद्यैर्गद्यचूर्णिकवार्तिकैः।

एवं मया श्रुतादिभ्यो लोको वै विभ्रमिष्यति॥ ७८९॥

सुरक्ताकोटितं कृत्वा उपरिष्टाद्विवर्णयेत्।

नीलकर्दमगोमयैः पटं वै संप्रचित्रयेत्।

सर्ववासैर्विचित्राङ्गस्तीर्थ्यलिङ्गविवर्जितः॥ ७९०॥

शासनं देशयेद्योगी बुद्धानामेष वै ध्वजः।

वस्त्रपूतं जलं पेयं कटिसूत्रं च धारयेत्।

उपपद्यमानं कालेन भैक्ष्यं वा नीचवर्जितम्॥ ७९१॥

दिव्यं संजायते स्वर्गाद्द्वौ चान्यौ मानुषोद्भवौ।

रत्नलक्षणसंपन्नो देवजन्मजगेश्वरः॥ ७९२॥

स्वर्गं प्रभुञ्जते द्वीपांश्चतुरो धर्मशासनः।

भुक्त्वा तु सुचिरं द्वीपांस्तृष्णया विप्रणश्यति॥ ७९३॥

कृतयुगश्च त्रेता च द्वापरं कलिनस्तथा।

अहं चान्ये कृतयुगे शाक्यसिंहः कलौ युगे॥ ७९४॥

सिद्धार्थः शाक्यतनयो विष्णुर्व्यासो महेश्वरः।

एवमाद्यानि तीर्थ्यानि निर्वृते मे भविष्यति॥ ७९५॥

एवं मया श्रुतादिभ्यः शाक्यसिंहस्य देशना।

इतिहासं पुरावृत्तं व्यासस्यैतद्भविष्यति॥ ७९६॥

विष्णुर्महेश्वरश्चापि सृष्टित्वं देशयिष्यति।

एवं मे निर्वृते पश्चादेवमाद्यं भविष्यति॥ ७९७॥

माता च मे वसुमतिः पिता विप्रः प्रजापतिः ।

कात्यायनसगोत्रोऽहं नाम्ना वै विरजो जिनः॥ ७९८॥

चम्पायां हं समुत्पन्नः पितापि च पितामहः।

सोमगुप्तेति नाम्नासौ सोमवंशसमुद्भवः॥ ७९९॥

चीर्णव्रतः प्रव्रजितः सहस्रं देशितं नयम्।

व्याकृत्य परिनिर्वास्ये अभिषिच्य महामतिम्॥ ८००॥

मतिर्दास्यति धर्माय धर्मो दास्यति मेखले।

मेखलः शिष्यो दौर्बल्यात्कल्पान्ते नाशयिष्यति॥ ८०१॥

काश्यपः क्रकुच्छन्दश्च कनकश्च विनायकः।

अहं च विरजोऽन्ये वै सर्वे ते कृतिनो जिनाः॥ ८०२॥

कृते युगे ततः पश्चान्मतिर्नामेन नायकः।

भविष्यति महावीरः पञ्चज्ञेयावबोधकः॥ ८०३॥

न द्वापरे न त्रेतायां न पश्चाच्च कलौ युगे।

संभवो लोकनाथानां संबुध्यन्ते कृते युगे॥ ८०४॥

अहार्या लक्षणायाश्च अच्छिन्नदशकैः सह।

मोरचन्द्रसमैश्चन्द्रैरुत्तरीयं विचित्रयेत्॥ ८०५॥

द्वयङ्गुलं त्र्यङ्गुलं वापि चन्द्रं चन्द्रान्तरं भवेत्।

अन्यथा चित्र्यमानं हि लोभनीयं हि बालिशान्॥ ८०६॥

रागाग्निं शमयेन्नित्यं स्नायाद्वै ज्ञानवारिणा।

त्रिशरणं त्रिसंध्यासु योगी कुर्यात्प्रयत्नतः॥ ८०७॥

इषुप्रस्तरकाष्ठाद्या उत्क्षेपाद्यैः समीरिताः।

एकः क्षिप्तः पतत्येकः कुशलाकुशलस्तथा॥ ८०८॥

एकं च बहुधा नास्ति वैलक्षण्यान्न कुत्रचित्।

वायुभा ग्राहकाः सर्वे क्षेत्रवद्दायका भवेत्॥ ८०९॥

यद्येकं बहुधा वै स्यात्सर्वे ह्यकृतका भवेत्।

कृतकस्य विनाशः स्यात्तार्किकाणामयं नयः॥ ८१०॥

दीपबीजवदेतत्स्यात्सादृश्याद्बहुधा कुतः।

एकं हि बहुधा भवति तार्किकाणामयं नयः॥ ८११॥

न तिलाज्जायते मुद्गो न व्रीहिर्यवहेतुकः।

गोधूमधान्यजातानि एकं हि बहुधा कथम्॥ ८१२॥

पाणिनिं शब्दनेतारमक्षपादो बृहस्पतिः।

लोकायतप्रणेतारो ब्रह्मा गर्भो भविष्यति॥ ८१३॥

कात्यायनः सूत्रकर्ता यज्ञवल्कस्तथैव च।

भुढुकज्योतिषाद्यानि भविष्यन्ति कलौ युगे॥ ८१४॥

बली पुण्यकृताल्लोकात्प्रजाभाग्याद्भविष्यति।

रक्षकः सर्वधर्माणां राजा बली महीपतिः॥ ८१५॥

वाल्मीको मसुराक्षश्च कौटिल्य आश्वलायनः।

ऋषयश्च महाभागा भविष्यन्ति अनागते॥ ८१६॥

सिद्धार्थः शाक्यतनयो भूतान्तः पञ्चचूडकः।

वाग्बलिरथ मेधावी पश्चात्काले भविष्यति॥ ८१७॥

अजिनं दण्डकाष्ठं च मेखलाचक्रमण्डलम्।

ददाति ब्रह्मा महेश्वरो वनभूमौ व्यवस्थिते॥ ८१८॥

भविष्यति महायोगी नाम्ना वै विरजो मुनिः।

मोक्षस्य देशकः शास्ता मुनीनामेष वै ध्वजः॥ ८१९॥

ब्रह्मा ब्रह्मशतैः सार्धं देवैश्च बहुभिर्मम।

अजिनं प्रपात्य गगनात्तत्रैवान्तर्हितो वशी॥ ८२०॥

सर्वचित्राणि वासांसि भैक्ष्यपात्रं सुरैः सह।

इन्द्रो विरूढकाद्याश्च वनभूमौ ददन्ति मे॥ ८२१॥

अनुत्पादवादहेत्विष्टोऽजातो जायेत वा पुनः।

साधयिष्यत्यनुत्पादं वाङ्भात्रं कीर्त्यते तु वै॥ ८२२॥

तस्याविद्या कारणं तेषां चित्तानां संप्रवर्तिता।

अन्तरा किमवस्थासौ यावद्रूपं न जानति॥ ८२३॥

समनन्तरप्रध्वस्तं चित्तमन्यत्प्रवर्तते।

रूपं न तिष्ठते किंचित्किमालम्ब्य प्रवर्त्स्यते॥ ८२४॥

यस्माद्यत्र प्रवर्तेत चित्तं वितथहेतुकम्।

न प्रसिद्धं कथं तस्य क्षणभङ्गोऽवधार्यते॥ ८२५॥

योगिनां हि समापत्तिः सुवर्णजिनधातवः।

आभास्वरविमानानि अभेद्या लोककारणात्॥ ८२६॥

स्थितयः प्राप्तिधर्माश्च बुद्धानां ज्ञानसंपदः।

भिक्षुत्वं समयप्राप्तिर्दृष्टा वै क्षणिका कथम्॥ ८२७॥

गन्धर्वपुरमायाद्या रूपा वै क्षणिका कथम्।

अभूतिका च भूतानि भूताः किंचित्क्व चागतौ॥ ८२८॥

अविद्याहेतुकं चित्तमनादिमतिसंचितम्।

उत्पादभङ्गसंबद्धं तार्किकैः संप्रकल्प्यते॥ ८२९॥

द्विविधः सांख्यवादश्च प्रधानात्परिणामिकम्।

प्रधाने विद्यते कार्यं कार्यं स्वात्मप्रसाधितम्॥ ८३०॥

प्रधानं सह भावेन गुणभेदः प्रकीर्तितः।

कार्यकारणवैचित्र्यं परिणामे न विद्यते॥ ८३१॥

यथा हि पारदः शुद्ध उपक्लेशैर्न लिप्यते।

आलयं हि तथा शुद्धमाश्रयः सर्वदेहिनाम्॥ ८३२॥

हिङ्गुगन्धः पलाण्डुश्च गर्भिण्या गर्भदर्शनम्।

लवणादिभिश्च लावण्यं बीजवत्किं न वर्तते॥ ८३३॥

अन्यत्वे च तदन्यत्वे उभयं नोभये तथा।

अस्तित्वं निरुपादानं न च नास्ति न संस्कृतम्॥ ८३४॥

अश्ववद्विद्यते ह्यात्मा स्कन्धैर्गोभाववर्जितम्।

संस्कृतासंस्कृतं वाच्यमवक्तव्यं स्वभावकम्॥ ८३५॥

युक्त्यागमाभ्यां दुर्दृष्ट्या तर्कदृष्ट्या मलीकृतम्।

अनिर्धार्यं वदन्त्यात्मा नोपादाने न चान्यतः॥ ८३६॥

दोषनिर्धारणा ह्येषां स्कन्धेनात्मा विभाव्यते।

एकत्वेन तदन्यत्वेन न च बुध्यन्ति तार्किकाः॥ ८३७॥

दर्पणे उदके नेत्रे यथ बिम्बं प्रदृश्यते।

एकत्वान्यत्वरहितस्तथा स्कन्धेषु पुद्गलः॥ ८३८॥

भाव्यं विभावनाध्याता मार्गः सत्या च दर्शनम्।

एतत्रयं विभावेन्तो मुच्यन्ते हि कुदर्शनैः॥ ८३९॥

दृष्टं नष्टं यथा विद्युच्चक्रं छिद्रगृहे यथा।

परिणामः सर्वधर्माणां बालैरिव न कल्पयेत्॥ ८४०॥

भावाभावेन निर्वाणं बालानां चित्तमोहनम्।

आर्यदर्शनसद्भावाद्यथावस्थानदर्शनात्॥ ८४१॥

उत्पादभङ्गरहितं भावाभावविवर्जितम्।

लक्ष्यलक्षणनिर्मुक्तं परिणामं विभावयेत्॥ ८४२॥

तीर्थ्यवादविनिर्मुक्तं नामसंस्थानवर्जितम्।

अध्यात्मदृष्टिनिलयं परिणामं विभावयेत्॥ ८४३॥

संस्पर्शपीडनाभ्यां वै देवानां नारकाणि च।

अन्तराभविका नास्ति विज्ञानेन प्रवर्तिता॥ ८४४॥

जरजाण्डजसंस्वेदाद्या अन्तराभवसंभवाः।

सत्त्वकाया यथा चित्रा गत्यागत्यां विभावयेत्॥ ८४५॥

युक्त्यागमव्यपेतानि निःक्लेशपक्षक्षयावहा।

तीर्थ्यदृष्टिप्रलापानि मतिमान्न समाचरेत्॥ ८४६॥

आदौ निर्धार्यते आत्मा उपादानाद्विशेषयेत्।

अनिर्धार्य विशेषन्ति वन्ध्यापुत्रं विशिष्यते॥ ८४७॥

पश्यामि सत्त्वान् दिव्येन प्रज्ञामांसविवर्जितम्।

संसारस्कन्धनिर्मुक्तं मूर्तिमान् सर्वदेहिनाम्॥ ८४८॥

दुर्वर्णसुवर्णगतं मुक्तामुक्तविशेषणम्।

दिव्यं संस्कारविगतं संस्कारस्थं प्रपश्यते॥ ८४९॥

मूर्तिमान् गतिसंधौ वै तार्किकाणामगोचरम्।

अतिक्रान्तमानुष्यगतिमहं नान्ये कुतार्किकाः॥ ८५०॥

नास्त्यात्मा जायते चित्तं कस्मादेतत्प्रवर्तते।

नदीदीपबीजवत्तस्य निर्गमः किं न कथ्यते॥ ८५१॥

अनुत्पन्ने च विज्ञाने अज्ञानादि न विद्यते।

तदभावे न विज्ञानं संतत्या जायते कथम्॥ ८५२॥

अध्वत्रयमनध्वश्च अवक्तव्यश्च पञ्चमः।

ज्ञेयमेतद्धि बुद्धानां तार्किकैः संप्रकीर्त्यते॥ ८५३॥

अवक्तव्यश्च संस्कारैर्ज्ञानं संस्कारहेतुकम्।

गृह्णाति संस्कारगतं ज्ञानं संस्कारशब्दितम्॥ ८५४॥

अस्मिन् सतीदं भवति प्रत्ययाश्चाप्यहेतुकाः।

व्यञ्जकेनोपदिश्यन्ते तदभावान्न कारकम्॥ ८५५॥

पवनं हि वह्नेर्दहनं प्रेरणे न तु संभवे।

प्रेर्य निर्वायते तेन कथं सत्त्वप्रसाधकाः॥ ८५६॥

संस्कृतासंस्कृतं वाच्यमुपादानविवर्जितम्।

कथं हि साधकस्तस्य वह्निर्बालैर्विकल्प्यते॥ ८५७॥

अन्योन्यस्य बलाधानाद्वह्निर्वै जायते नृणाम्।

सत्त्वः प्रवर्तितः केन वह्निवत्कल्प्यते यतः॥ ८५८॥

स्कन्धायतनकदम्बस्य मनाद्याकारणो नु वै।

नैरात्मा सार्थवन्नित्यं चित्तेन सह वर्तते॥ ८५९॥

द्वावेतौ भास्वरौ नित्यं कार्यकारणवर्जितौ।

अग्निर्ह्यसाधकस्तेषां न च बुध्यन्ति तार्किकाः॥ ८६०॥

चित्तं सत्त्वाश्च निर्वाणं प्रकृत्या भासुरा नु वै।

दोषैरनादिकैः क्लिष्टा अभिन्ना गगनोपमाः॥ ८६१॥

हस्तिशय्यादिवच्छाया(?) स्तीर्थ्यदृष्ट्या मलीकृताः।

मनोविज्ञानसंछन्ना अग्निराद्यैर्विशोधिताः॥ ८६२॥

दृष्टाश्च ते यथाभूतं दृष्ट्वा क्लेशा विदारिताः।

दृष्टान्तगहनं हित्वा गतास्ते आर्यगोचरम्॥ ८६३॥

ज्ञानज्ञेयविभागेन अन्यत्वं कल्प्यते यतः।

न च बुध्यन्ति दुर्मेधा अवक्तव्यश्च कथ्यते॥ ८६४॥

भेरी यथा चन्दनजा बालैः कुर्वन्ति नान्यथा।

चन्दनागरुसंकाशं तथा ज्ञानं कुतार्किकैः॥ ८६५॥

उत्थितः खलुभक्तश्च पात्रसंश्रितमात्रकम्।

दोषैर्मुखविकाराद्यैः शुद्धं भक्तं समाचरेत्॥ ८६६॥

इमं नयं योऽनुमिनोति युक्तितः

प्रसादवान् योगपरो ह्यकल्पनः।

अनाश्रितो ह्यर्थपरो भवेदसौ

हिरण्मयीं धर्मगतिं प्रदीपयेत्॥ ८६७॥

भावाभावप्रत्ययमोहकल्पना

कुदृष्टिजालं समलं हि तस्य तु।

सरागदोषप्रतिघं निवर्तते

निरञ्जनो बुद्धकरैश्च सिच्यते॥ ८६८॥

तीर्थ्या कारणदिग्मूढा अन्ये प्रत्ययविह्वलाः।

अन्ये अहेतुसद्भावादुच्छेदं आर्यमास्थिताः॥ ८६९॥

विपाकपरिणामश्च विज्ञानस्य मनस्य च।

मनो ह्यालयसंभूतं विज्ञानं च मनोभवम्॥ ८७०॥

आलयात्सर्वचित्तानि प्रवर्तन्ति तरंगवत्।

वासनाहेतुकाः सर्वे यथाप्रत्ययसंभवाः॥ ८७१॥

क्षणभेदसंकलाबद्धाः स्वचित्तार्थविग्राहिणः।

संस्थानलक्षणाकारा मनोचक्ष्वादिसंभवाः॥ ८७२॥

अनादिदोषसंबद्धमर्थाभावासनोदितम्।

बहिर्धा दृश्यते चित्तं तीर्थदृष्टिनिवारणम्॥ ८७३॥

तद्धेतुकमेवान्यत्तदालम्ब्य प्रवर्तते।

यदा संजायते दृष्टिः संसारश्च प्रवर्तते॥ ८७४॥

मायास्वप्ननिभा भावा गन्धर्वनगरोपमाः।

मरीच्युदकचन्द्राभाः स्वविकल्पं विभावयेत्॥ ८७५॥

वृत्तिभेदात्तु तथता सम्यग्ज्ञानं तदाश्रयम्।

मायाशूरंगमादीनि समाधीनि पराणि च॥ ८७६॥

भूमिप्रवेशाल्लभते अभिज्ञा वशितानि च।

ज्ञानमायोपमं कायमभिषिक्तं च सौगतम्॥ ८७७॥

निवर्तते यदा चित्तं निवृत्तं पश्यतो जगत्।

मुदितां लभते भूमिं बुद्धभूमिं लभन्ति च॥ ८७८॥

आश्रयेण निवृत्तेन विश्वरूपो मणिर्यथा।

करोति सत्त्वकृत्यानि प्रतिबिम्बं यथा जले॥ ८७९॥

सदसत्पक्षनिर्मुक्तमुभयं नोभयं न च।

प्रत्येकश्रावकीयाभ्यां निष्क्रान्ता सप्तमी भवेत्॥ ८८०॥

प्रत्यात्मदृष्टधर्माणां भूतभूमिविशोधितम्।

बाह्यतीर्थ्यविनिर्मुक्तं महायानं विनिर्दिशेत्॥ ८८१॥

परावृत्तिर्विकल्पस्य च्युतिनाशविवर्जितम्।

शशरोममणिप्रख्यं मुक्तानां देशयेन्नयम्॥ ८८२॥

यथा हि ग्रन्थो ग्रन्थेन युक्त्या युक्तिस्तथा यदि।

अतो युक्तिर्भवेद्युक्तिमन्यथा तु न कल्पयेत्॥ ८८३॥

चक्षुः कर्म च तृष्णा च अविद्यायोनिशस्तथा।

चक्षूरूपे मनश्चापि आविलस्य मनस्तथा॥ ८८४॥



इत्यार्यसद्धर्मलङ्कावतारो नाम महायानसूत्रं सगाथकं समाप्तमिति॥



ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोधो एवं वादी महाश्रमणः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project