Digital Sanskrit Buddhist Canon

८ मांसभक्षणपरिवर्तो नामाष्टमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
८ मांसभक्षणपरिवर्तो नामाष्टमः।



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तं गाथाभिः परिपृच्छय पुनरप्यध्येषते स्म-देशयतु मे भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो मांसभक्षणे गुणदोषम्, येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा अनागतप्रत्युत्पन्नकाले सत्त्वानां क्रव्यादसत्त्वगतिवासनावासितानां मांसभोजगृद्धाणां रसतृष्णाप्रहाणाय धर्मं देशयाम, यथा च ते क्रव्यादभोजिनः सत्त्वा विराग्य रसतृष्णां धर्मरसाहारकाङ्क्षया सर्वसत्त्वैकपुत्रकप्रेमानुगताः परस्परं महामैत्रीं प्रतिलभेरन्। प्रतिलभ्य सर्वबोधिसत्त्वभूमिषु कृतयोग्याः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्। श्रावकप्रत्येकबुद्धभूम्या वा विश्रम्य अनुत्तरां ताथागतीं भूमिमुपसर्पयेयुः। दुराख्यातधर्मैरपि तावद्भगवन्नन्यतीर्थिकैर्लोकायतदृष्ट्यभिनिविष्टैः सदसत्पक्षोच्छेदशाश्वतवादिभिर्मासं निवार्यते भक्ष्यमाणम्। स्वयं च न भक्ष्यते, प्रागेव कृपैकरसे सम्यक्संबुद्धे प्रणीते लोकनाथे। तव शासने मांसं स्वयं च भक्ष्यते, भक्ष्यमाणं च न निवार्यते। तत्साधु भगवान् सर्वलोकानुकम्पकः सर्वसत्त्वैपुत्रकसमदर्शी महाकारुणिकोऽनुकम्पामुपादाय मांसभक्षणे गुणदेषान् देशयतु मे, यथा अहं च अन्ये च बोधिसत्त्वास्तथत्वाय सत्त्वेभ्यो धर्मं देशयेम। भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्॥



भगवांस्तस्यैतदवोचत्-अपरिमितैर्महामते कारणैर्मांसं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य। तेभ्यस्तूपदेशमात्रं वक्ष्यामि। इह महामते अनेन दीर्घेणाध्वना संसरतां प्राणिनां नास्त्यसौ कश्चित्सत्त्वः सुलभरूपो यो न माताभूत्पिता वा भ्राता वा भगिनी वा पुत्रो वा दुहिता वा अन्यतरान्यतरो वा स्वजनबन्धुबन्धूभूतो वा। तस्य अन्यजन्मपरिवृत्ताश्रयस्य मृगपशुपक्षियोन्यन्तर्भूतस्य बन्धोर्बन्धुभूतस्य वा सर्वभूतात्मभूतानुपागन्तुकामेन सर्वजन्तुप्राणिभूतसंभूतं मांसं कथमिव भक्ष्यं स्याद्बुद्धधर्मकामेन बोधिसत्त्वेन महासत्त्वेन ? राक्षसस्यापि महामते तथागतानामिमां धर्मसुधर्मतामुपश्रुत्य उपगतरक्षभावाः कृपालवा भवन्ति मांसभक्षणविनिवृत्ताः, किमुत धर्मकामा जनाः। एवं तावन्महामते तेषु तेषु जातिपरिवर्तेषु सर्वसत्त्वाः स्वजनबन्धुभावसंज्ञाः सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं मांसं सर्वमभक्ष्यम्। कृपात्मनो बोधिसत्त्वस्याभक्ष्यं मांसम्। व्यभिचारादपि महामते मांसं सर्वमभक्ष्यं चारित्रवतो बोधिसत्त्वस्य। श्वखरोष्ट्राश्वबलीवर्दमानुषमांसादीनि हि महामते लोकस्याभक्ष्याणि मांसानि। तानि च महामते वीथ्यन्तरेष्वौरभ्रिका भक्ष्याणीति कृत्वा मूल्यहेतोर्विक्रीयन्ते यतः, ततोऽपि महामते मांसमभक्ष्यं बोधिसत्त्वस्य॥



शुक्रशोणितसंभवादपि महामते शुचिकामतामुपादाय बोधिसत्त्वस्य मांसमभक्ष्यम्। उद्वेजनकरत्वादपि महामते भूतानां मैत्रीमिच्छतो योगिनो मांसं सर्वमभक्ष्यं बोधिसत्त्वस्य। तद्यथापि महामते डोम्बचाण्डालकैवर्तादीन् पिशिताशिनः सत्त्वान् दूरत एव दृष्ट्वा श्वानः प्रभयन्ति भयेन, मरणप्राप्ताश्चैके भवन्ति-अस्मानपि मारयिष्यन्तीति। एवमेव महामते अन्येऽपि खभूजलसंनिश्रितान् सूक्ष्मजन्तवो ये मांसाशिनो दर्शनाद्दूरादेव पटुना घ्राणेनाघ्राय गन्धं राक्षसस्येव मानुषा द्रुतमपसर्पन्ति, मरणसंदेहाश्चैके भवन्ति। तस्मादपि च महामते उद्वेजनकरत्वान्महामैत्रीविहारिणो योगिनो मांसमभक्ष्यं बोधिसत्त्वस्य अनार्यजनजुष्टं दुर्गन्धम्। अकीर्तिकरत्वादपि महामते आर्यजनविवर्जितत्वाच्च मांसमभक्ष्यं बोधिसत्त्वस्य। ऋषिभोजनाहारो हि महामते आर्यजनो न मांसरुधिराहारः, इत्यतोऽपि बोधिसत्त्वस्य मांसमभक्ष्यम्॥



बहुजनचित्तानुरक्षणतयापि अपवादपरिहारं चेच्छतः शासनस्य महामते मांसमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य। तद्यथा महामते भवन्ति लोके शासनापवादवक्तारः। किंचित्तेषां श्रामण्यम्, कुतो वा ब्राह्मण्यम् ? यन्नामैते पूर्वर्षिभोजनान्यपास्य क्रव्यादा इवामिषाहाराः परिपूर्णकुक्षयः खभूमिजलसंनिश्रितान् सूक्ष्मांस्त्रासयन्तो जन्तून् समुत्रासयन्त इमं लोकं समन्ततः पर्यटन्ति। निहतमेषां श्रामण्यम्, ध्वस्तमेषां ब्राह्मण्यम्, नास्त्येषां धर्मो न विनयः, इत्यनेकप्रकारप्रतिहतचेतसः शासनमेवापवदन्ति। तस्माद्बहुजनचित्तानुरक्षणतयापि अपवादपरिहारं चेच्छतः शासनस्य महामते मांसंं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य॥



मृतशवदुर्गन्धप्रतिकूलसामान्यादपि महामते मांसमभक्ष्यं बोधिसत्त्वस्य। मृतस्यापि हि महामते मनुष्यस्य मांसे दह्यमाने तदन्यप्राणिमांसे च, न कश्चिद्गन्धविशेषः। सममुभयमांसयोर्दह्यमानयोर्दौर्गन्ध्यम्। अतोऽपि महामते शुचिकामस्य योगिनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य॥



श्मशानिकानां च महामते अरण्यवनप्रस्थान्यमनुष्यावचराणि प्रान्तानि शयनासनान्यध्यावसतां योगिनां योगाचाराणां मैत्रीविहारिणां विद्याधराणां विद्यां साधयितुकामानां विद्यासाधनमोक्षविघ्नकरत्वान्महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितॄणां च सर्वयोगसाधनान्तरायकरमित्यपि समनुपश्यतां महामते स्वपरात्महितकामस्य मांसं सर्वमभक्ष्यं बोधिसत्त्वस्य। रूपालम्बनविज्ञानप्रत्ययास्वादजनकत्वादपि सर्वभूतात्मभूतस्य कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य। देवता अपि चैनं परिवर्जयन्तीति कृत्वा महामते कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य। मुखं चास्य परमदुर्गन्धि इहैव तावज्जन्मनि, इत्यपि कृत्वा महामते कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य। दुःखं स्वपिति, दुःखं प्रतिबुध्यते। पापकांश्च रोमहर्षणान् स्वप्नान् पश्यन्ति। शून्यागारस्थितस्य चैकाकिनो रहोगतस्य विहरतोऽस्यामनुष्यास्तेजो हरन्ति। उत्रस्यन्त्यपि, कदाचित्संत्रस्यन्त्यपि, संत्रासमकस्माच्चापद्यन्ते, आहारे च मात्रां न जानाति नाप्यशितपीतखादिताखादितस्य सम्यग्रसपरिणामपुष्ट्यादि समासादयति, क्रिमिजन्तुप्रचुरकुष्ठनिदानकोष्ठश्च भवति व्याधिबहुलम्, न च प्रतिकूलसंज्ञां प्रतिलभते। पुत्रमांसभैषज्यवदाहारं देशयंश्चाहं महामते कथमिव अनार्यजनसेवितमार्यजनविवर्जितमेवमनेकदोषावहमनेकगुणविवर्जितमनृषिभोजनप्रणीतमकल्प्यं मांसरुधिराहारं शिष्येभ्योऽनुज्ञाप्यामि ?

अनुज्ञातवान् पुनरहं महामते सर्वार्यजनसेवितमनार्यजनविवर्जितमनेकगुणवाहकमनेकदोषविवर्जितं सर्वपूर्वर्षिप्रणीतं भोजनम्, यदुत शालियवगोधूममुद्गमाषमसूरादिसर्पिस्तैलमधुफाणितगुडखण्डमत्स्यण्डिकादिषु समुपपद्यमानं भोजनं कल्प्यमिति कृत्वा। न च महामते अनागतेऽध्वनि एकेषां मोहपुरुषाणां विविधविनयविकल्पवादिनां क्रव्यादकुलवासितावासितानां रसतृष्णाव्यवसितानामिदं प्रणीतं भोजनं प्रतिभाष्यते। न तु महामते पूर्वजिनकृताधिकाराणामवरोपितकुशलमूलानां श्राद्धानामविकल्पानां बहुलानां शाक्यकुलकुलीनानां कुलपुत्राणां कुलदुहितॄणां कायजीवितभोगानध्यवसितानामरसगृध्राणामलोलुपानां कृपालूनां सर्वभूतात्मभूततामुपगन्तुकामानां सर्वसत्त्वैकपुत्रकप्रियदर्शिनां बोधिसत्त्वानां महासत्त्वानमिति वदामि॥



भूतपूर्वं महामते अतीतेऽध्वनि राजाभूत्सिंहसौदासो नाम। स मांसभोजनाहारातिप्रसङ्गेन प्रतिसेवमानो रसतृष्णाध्यवसानपरमतया मांसानि मानुष्याण्यपि भक्षितवान्। तन्निदानं च मित्रामात्यज्ञातिबन्धुवर्गेणापि परित्यक्तः, प्रागेव पौरजानपदैः। स्वराज्यविषयपरित्यागाच्च महद्वयसनमासादितवान् मांसहेतोः॥



इन्द्रेणापि च महामते देवाधिपत्यं प्राप्तेन (पूर्वाभूत्वा) पूर्वजन्ममांसादवासनादोषाच्छ्येनरूपमास्थाय कपोतवेषरूपधारी विश्वकर्मा समभिद्रुतोऽभूत्। तुलायां चात्मानमारोपित आसीत्। यस्माद्राजा अनपराधिभूतानुकम्पकः शिबी दुःखेन महता लम्भितः। तदेवमनेकजन्माभ्यस्तमपि महामते देवेन्द्रभूतस्य शक्रस्यापि सतः स्वपरदोषावहनमभूत्, प्रागेव तदन्येषाम्॥



अन्येषां च महामते नरेन्द्रभूतानां सतामश्वेनापहृतानामटव्यां पर्यटमानानां सिंह्या सह मैथुनं गतवतां जीवितभयादपत्यानि चोत्पादितवन्तः सिंहसंवासान्वयात्कल्माषपादप्रभृतयो नृपपुत्राः पूर्वजन्ममांसाददोषवासनतया मनुष्येन्द्रभूता अपि सन्तो मांसादा अभूवन्। इहैव च महामते जन्मनि सप्तकुटीरकेऽपि ग्रामे प्रचुरमांसलौल्यादतिप्रसङ्गेन निषेवमाना मानुषमांसादा घोरा डाका वा डाकिन्यश्च संजायन्ते। जातिपरिवर्ते च महामते तथैव मांसरसाध्यवसानतया सिंहव्याघ्रद्वीपिवृकतरक्षुमार्जारजम्बुकोलूकादिप्रचुरमांसादयोनिषु प्रचुरतरपिशिताशना राक्षसादिघोरतरयोनिषु विनिपात्यन्ते। यत्र विनिपतितानां दुःखेन मानुष्ययोनिरपि समापद्यते, प्रागवे निर्वृतिः। इत्येवमादयो महामते मांसाददोषाः प्रागेव निषेवमानानां समुपजायन्ते, विपर्ययाच्च भूयांसो गुणाः। न च महामते बालपृथग्जना एतांश्चान्यांश्च गुणदोषानवबुध्यन्ते। एवमादिगुणदोषदर्शनान्महामते मांसं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्येति वदामि॥



यदि च महामते मांसं न कथंचन केचन भक्षयेयुः, न तन्निदानं घातेरन्। मूल्यहेतोर्हि महामते प्रायः प्राणिनो निरपराधिनो वध्यन्ते स्वल्पादन्यहेतोः। कष्टं महामते रसतृष्णायामतिसेवतां मांसानि मानुषान्यपि मानुषैर्भक्ष्यन्ते, किं पुनरितरमृगपक्षिप्राणिसंभूतमांसानि। प्रायो महामते मांसरसतृष्णार्तैरिदं तथा तथा जालयन्त्रमाविद्धं मोहपुरुषैः, यच्छाकुनिकौरभ्रककैवर्तादयः खेचरभूचरजलचरान् प्राणिनोऽनपराधिनोऽनेकप्रकारं मूल्यहेतोर्विशसन्ति। न चैषां महामते किंकनीकृतरूक्षचेतसां राक्षसानामिव गतघृणानां कदाचिदपि प्राणिषु प्राणिसंज्ञया घातयतां भक्षयतां न घृणोत्पद्यते॥



न च महामते अकृतकमकारितमसंकल्पितं नाम मांसं कल्प्यमस्ति यदुपादाय अनुजानीयां श्रावकेभ्यः। भविष्यन्ति तु पुनर्महामते अनागतेऽध्वनि ममैव शासने प्रव्रजित्वा शाक्यपुत्रीयत्वं प्रतिजानानाः काषायध्वजधारिणो मोहपुरुषा मिथ्यावितर्कोपहतचेतसो विविधविनयविकल्पवादिनः सत्कायदृष्टियुक्ता रसतृष्णाध्यवसितास्तां तां मांसभक्षणहेत्वाभासां ग्रन्थयिष्यन्ति। मम चाभूताभ्याख्यानं दातव्यं मंस्यन्ते। तत्तदर्थोत्पत्तिनिदानं कल्पयित्वा वक्ष्यन्ति-इयमर्थोत्पत्तिरस्मिन्निदाने, भगवता मांसभोजनमनुज्ञातं कल्प्यमिति। प्रणीतभोजनेषु चोक्तम्, स्वयं च किल तथागतेन परिभुक्तमिति। न च महामते कुत्रचित्सूत्रे प्रतिसेवितव्यमित्यनुज्ञातम्, प्रणीतभोजनेषु वा देशितं कल्प्यमिति॥



यदि तु महामते अनुज्ञातुकामता मे स्यात्, कल्प्यं वा मे श्रावकाणां प्रतिसेवितुं स्यात्, नाहं मैत्रीविहारिणां योगिनां योगाचाराणां श्मशानिकानां महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितॄणां च सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं सर्वामांसभक्षणप्रतिषेधं कुर्याम्, कृतवांश्च। अस्मिन् महामते धर्मकामानां कुलपुत्राणां कुलदुहितॄणां च सर्वयानसंप्रस्थितानां श्मशानिकानां मैत्रीविहारिणामारण्यकानां योगिनां योगाचाराणां सर्वयोगसाधनाय सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं सर्वमांसप्रतिषेधम्॥



तत्र तत्र देशनापाठे शिक्षापदानामनुपूर्वीबन्धं निःश्रेणीपदविन्यासयोगेन त्रिकोटिं बद्ध्वा न तदुद्दिश्य कृतानि प्रतिषिद्धानि। ततो दशप्रकृतिमृतान्यपि मांसानि प्रतिषिद्धानि। इह तु सूत्रे सर्वेण सर्वं सर्वथा सर्वं निरुपायेन सर्वं प्रतिषिद्धम्। यतोऽहं महामते मांसभोजनं न कस्यचिदनुज्ञातवान्, नानुजानामि, नानुज्ञास्यामि। अकल्प्यं महामते प्रव्रजितानां मांसभोजनमिति वदामि। यदपि च महामते ममाभ्याख्यानं दातव्यं मंस्यन्ते तथागतेनापि परिभुक्तमिति, तदन्येषां महामते मोहपुरुषाणां स्वकर्मदोषावरणावृतानां दीर्घरात्रमनर्थायाहिताय संवर्तकं भविष्यति। न हि महामते आर्यश्रावकाः प्राकृतमनुष्याहारमाहरन्ति, कुत एव मांसरुधिराहारमकल्प्यम्। धर्माहारा हि महामते मम श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वाश्च नामिषाहाराः, प्रागेव तथागताः। धर्मकाया हि महामते तथागता धर्माहारस्थितयो नामिषकाया न सर्वामिषाहारस्थितयो वान्तसर्वभवोपकरणतृष्णैषणावासनाः सर्वक्लेशदोषवासनापगताः सुविमुक्तचित्तप्रज्ञाः सर्वज्ञाः सर्वदर्शिनः सर्वसत्त्वैकपुत्रकसमदर्शिनो महाकारुणिकाः। सोऽहं महामते सर्वसत्त्वैकपुत्रकसंज्ञी सन् कथमिव स्वपुत्रमांसमनुज्ञास्यामि परिभोक्तुं श्रावकेभ्यः, कुत एव स्वयं परिभोक्तुम् ? अनुज्ञातवानस्मि श्रावकेभ्यः स्वयं वा परिभुक्तवानिति महामते नेदं स्थानं विद्यते॥



तत्रेदमुच्यते-

मद्यं मांसं पलाण्डुं न भक्षयेयं महामुने।

बोधिसत्त्वैर्महासत्त्वैर्भाषद्भिर्जिनपुंगवैः॥ १॥

अनार्यजुष्टदुर्गन्धमकीर्तिकरमेव च।

क्रव्यादभोजनं मांसं ब्रूह्यभक्ष्यं महामुने॥ २॥

भक्ष्यमाणे च ये देषा अभक्ष्ये तु गुणाश्च ये।

महामते निबोध त्वं ये दोषा मांसभक्षणे॥ ३॥

स्वाजन्याद्व्यभिचाराच्च शुक्रशोणितसंभवात्।

उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत्॥ ४॥

मांसानि च पलाण्डूंश्च मद्यानि विविधानि च।

गृञ्जनं लशुनं चैव योगी नित्यं विवर्जयेत्॥ ५॥

म्रक्षणं वर्जयेत्तैलं शल्यविद्धेषु न स्वपेत्।

छिद्राच्छिद्रेषु सत्त्वानां यच्च स्थानं महद्भयम्॥ ६॥

आहाराज्जायते दर्पः संकल्पो दर्पसंभवः।

संकल्पजनितो राजस्तस्मादपि न भक्षयेत्॥ ७॥

संकल्पाज्जायते रागश्चित्तं रागेण मुह्यते।

मूढस्य संगतिर्भवति जायते न च मुच्यते॥ ८॥

लाभार्थं हन्यते सत्त्वो मांसार्थं दीयते धनम्।

उभौ तौ पापकर्माणौ पच्येते रौरवादिषु॥ ९॥

योऽतिक्रम्य मुनेर्वाक्यं मांसं भक्षति दुर्मतिः।

लोकद्वयविनाशार्थं दीक्षितः शाक्यशासने॥ १०॥

ते यान्ति परमं घोरं नरकं पापकर्मिणः।

रौरवादिषु रौद्रेषु पच्यन्ते मांसखादकाः॥ ११॥

त्रिकोटिशुद्धमांसं वै अकल्पितमयाचितम्।

अचोदितं च नैवास्ति तस्मान्मांसं न भक्षयेत्॥ १२॥

मांसं न भक्षयेद्योगी मया बुद्धैश्च गर्हितम्।

अन्योन्यभक्षणाः सत्त्वाः क्रव्यादकुलसंभवाः॥ १३॥

दुर्गन्धिः कुत्सनीयश्च उन्मत्तश्चापि जायते।

चण्डालपुक्कसकुले डोम्बेषु च पुनः पुनः॥ १४॥

डाकिनीजातियोन्याश्च मांसादे जायते कुले।

राक्षसीमार्जारयोनौ च जायतेऽसौ नरोऽधमः॥ १५॥

हस्तिकक्ष्ये महामेधे निर्वाणाङ्गुलिमालिके।

लङ्कावतारसूत्रे च मया मांसं विवर्जितम्॥ १६॥

बुद्धैश्च बोधिसत्त्वैश्च श्रावकैश्च विगर्हितम्।

खादते यदि नैर्लज्ज्यादुन्मत्तो जायते सदा॥ १७॥

ब्राह्मणेषु च जायेत अथ वा योगिनां कुले।

प्रज्ञावान् धनवांश्चैव मांसाद्यानां विवर्जनात्॥ १८॥

दृष्टश्रुतविशङ्काभिः सर्वं मांसं विवर्जयेत्।

तार्किका नावबुध्यन्ते क्रव्यादकुलसंभवाः॥ १९॥

यथैव रागो मोक्षस्य अन्तरायकरो भवेत्।

तथैव मांसमद्याद्या अन्तरायकरो भवेत्॥ २०॥

वक्ष्यन्त्यनागते काले मांसादा मोहवादिनः।

कल्पिकं निरवद्यं च मांसं बुद्धानुवर्णितम्॥ २१॥

भैषज्यं मांसमाहारं पुत्रमांसोपमं पुनः।

मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत्॥ २२॥

मैत्रीविहारिणां नित्यं सर्वथां गर्हितं मया।

सिंहव्याघ्रवृकाद्यैश्च सह एकत्र संभवेत्॥ २३॥

तस्मान्न भक्षयेन्मांसमुद्वेजनकरं नृणाम्।

मोक्षधर्मविरुद्धत्वादार्याणामेष वै ध्वजः॥ २४॥



इति लङ्कावतारात्सर्वबुद्धप्रवचनहृदयान्मांसभक्षणपरिवर्तोऽष्टमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project