Digital Sanskrit Buddhist Canon

६ क्षणिकपरिवर्तो नाम षष्ठः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 6 kṣaṇikaparivarto nāma ṣaṣṭhaḥ
६ क्षणिकपरिवर्तो नाम षष्ठः।



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म-देशयतु मे भगवान्, देशयतु मे सुगतः स्कन्धधात्वायतनानां प्रवृत्तिनिवृत्तिम्। असत्यात्मनि कस्य प्रवृत्तिर्वा निर्वृत्तिर्वा ? बालाश्च प्रवृत्तिनिवृत्त्याश्रिता दुःखक्षयानवबोधान्निर्वाणं न प्रजानन्ति। भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्॥



भगवांस्तस्यैतदवोचत्-तथागतगर्भो महामते कुशलाकुशलहेतुकः सर्वजन्मगतिकर्ता प्रवर्तते नटवद्गतिसंकट आत्मात्मीयवर्जितः। तदनवबोधात्रिसंगतिप्रत्ययक्रियायोगः प्रवर्तते। न च तीर्थ्या अवबुध्यन्ते कारणाभिनिवेशाभिनिविष्टाः। अनादिकालविविधप्रपञ्चदौष्ठुल्यवासनावासितः आलयविज्ञानसंशब्दितोऽविद्यावासनभूमिजैः सप्तभिर्विज्ञानैः सह महोदधितरंगवन्नित्यमव्युच्छिन्नशरीरः प्रवर्तते अनित्यतादोषरहित आत्मवादविनिवृत्तोऽत्यन्तप्रकृतिपरिशुद्धः। तदन्यानि विज्ञानान्युत्पन्नापवर्गानि मनोमनोविज्ञानप्रभृतीनि क्षणिकानि, सप्ताप्यभूतपरिकल्पहेतुजनितसंस्थानाकृतिविशेषसमवायावलम्बीनि नामनिमित्ताभिनिविष्टानि स्वचित्तदृश्यरूपलक्षणावबोधकानि सुखदुःखाप्रतिसंवेदकानि अमोक्षकारणानि नामनिमित्तपर्युत्थानरागजनितजनकतद्धेत्वालम्बानि। तेषां चोपात्तानामिन्द्रियाख्यानां परिक्षयनिरोधे समन्तरानुत्पत्तेरन्येषां स्वमतिविकल्पसुखदुःखाप्रतिसंवेदिनां संज्ञावेदितनिरोधसमापत्तिसमापन्नानां चतुर्ध्यानसत्यविमोक्षकुशलानां योगिनां विमोक्षबुद्धिर्भवत्यप्रवृत्तेः॥



अपरावृत्ते च तथागतगर्भशब्दसंशब्दिते आलयविज्ञाने नास्ति सप्तानां प्रवृत्तिविज्ञानानां निरोधः। तत्कस्य हेतोः ? तद्धेत्वालम्बनप्रवृत्तत्वाद्विज्ञानानाम्, अविषयत्वाच्च सर्वश्रावकप्रत्येकबुद्धतीर्थ्ययोगयोगिनां स्वपुद्गलनैरात्म्यावबोधात्स्वसामान्यलक्षणपरिग्रहात्स्कन्धधात्वायतनानां प्रवर्तते तथागतगर्भः। पञ्चधर्मस्वभावधर्मनैरात्म्यदर्शनान्निवर्तते भूमिक्रमानुसंधिपरावृत्त्या। नान्यतीर्थ्यमार्गदृष्टिभिर्विचारयितुं शक्यते। ततोऽचलायां भूमौ बोधिसत्त्वभूमौ प्रतिष्ठितो दशसमाधिसुखमुखमार्गान् प्रतिलभते। समाधिबुद्धैः संधार्यमाणोऽचिन्त्यबुद्धधर्मस्वप्रणिधानव्यवलोकनतया समाधिसुखभूतकोट्या विनिवार्य प्रत्यात्मार्यगतिगम्यैः सर्वश्रावकप्रत्येकबुद्धतीर्थकरासाधारणैर्योगमार्गैर्दशार्यगोत्रमार्गं प्रतिलभते, कायं च ज्ञानमनोमयं समाध्यभिसंस्काररहितम्। तस्मात्तर्हि महामते तथागतगर्भः आलयविज्ञानसंशब्दितो विशोधयितव्यो विशेषार्थिभिर्बोधिसत्त्वैर्महासत्त्वैः॥



यदि हि महामते आलयविज्ञानसंशब्दितस्तथागतगर्भोऽत्र न स्यादिति असति महामते तथागतगर्भे आलयविज्ञानसंशब्दिते न प्रवृत्तिर्न निवृत्तिः स्यात्। भवति च महामते प्रवृत्तिर्निवृत्तिश्च बालार्याणाम्। स्वप्रत्यात्मार्यगतिदृष्टधर्मसुखविहारेण च विहरन्ति योगिनोऽनिक्षिप्तधुरा दुष्प्रतिवेधाश्च। महामते अयं तथागतगर्भालयविज्ञानगोचरः सर्वश्रावकप्रत्येकबुद्धतीर्थ्यवितर्कदर्शनानां प्रकृतिपरिशुद्धोऽपि सन् अशुद्ध इवागन्तुक्लेशोपक्लिष्टतया तेषामाभाति न तु तथागतानाम्। तथागतानां पुनर्महामते करतलामलकवत्प्रत्यक्षगोचरो भवति। एतदेव महामते मया श्रीमालां देवीमधिकृत्य देशनापाठे अन्यांश्च सूक्ष्मनिपुणविशुद्धबुद्धीन् बोधिसत्त्वानधिष्ठाय तथागतगर्भ आलयविज्ञानसंशब्दितः सप्तभिर्विज्ञानैः सह प्रवृत्त्यभिनिविष्टानां श्रावकाणां धर्मनैरात्म्यप्रदर्शनार्थं श्रीमालां देवीमधिष्ठाय तथागतविषयो देशितो न श्रावकप्रत्येकबुद्धान्यतीर्थकरतर्कविषयोऽन्यत्र महामते तथागतविषय एव तथागतगर्भ आलयविज्ञानविषयस्त्वत्सदृशानां च सूक्ष्मनिपुणमतिबुद्धिप्रभेदकानां बोधिसत्त्वानां महासत्त्वानामर्थप्रतिशरणानां नो तु यथारुतदेशनापाठाभिनिविष्टानां सर्वान्यतीर्थ्यश्रावकप्रत्येकबुद्धानाम्। तस्मात्तर्हि महामते त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः सर्वतथागतविषयेऽस्मिंस्तथागतगर्भालयविज्ञानपरिज्ञाने योगः करणीयः। न श्रुतमात्रसंतुष्टैर्भवितव्यम्॥

तत्रेदमुच्यते -

गर्भस्तथागतानां हि विज्ञानैः सप्तभिर्युतः।

प्रवर्ततेऽद्वयो ग्राहात्परिज्ञानान्निवर्तते॥ १॥

बिम्बवद्दृश्यते चित्तमनादिमतिभावितम्।

अर्थाकारो न चार्थोऽस्ति यथाभूतं विपश्यतः॥ २॥

अङ्गुल्यग्रं यथा बालो न गृह्णाति निशाकरम्।

तथा ह्यक्षरसंसक्तस्तत्त्वं वेत्ति न मामकम्॥ ३॥

नटवन्नृत्यते चित्तं मनो विदूषसादृशम्।

विज्ञानं पञ्चभिः सार्धं दृश्यं कल्पेति रङ्गवत्॥ ४॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म-देशयतु मे भगवान्, देशयतु मे सुगतः पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयप्रभेदगतिलक्षणम्, येन नैरात्म्यद्वयप्रभेदगतिलक्षणेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः सर्वभूमिक्रमानुसंधिष्वेतान् धर्मान् विभावयेम, यथा तैर्धर्मैः सर्वबुद्धधर्मानुप्रवेशो भवेत्। सर्वबुद्धधर्मानुप्रवेशाच्च यावत्तथागतस्वप्रत्ययात्मभूमिप्रवेशः स्यादिति। भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयप्रभेदगतिलक्षणं ते महामते देशयिष्यामि। यदुत नाम निमित्तं विकल्पः सम्यग्ज्ञानं तथता च तथागतप्रत्यात्मार्यगतिप्रवेशः शाश्वतोच्छेदसदसद्दृष्टिविवर्जितो दृष्टधर्मसुखसमापत्तिसुखविहार आमुखीभवति योगयोगिनाम्। तत्र महामते पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयस्वचित्तदृश्यबाह्यभावाभावानवबोधाद्विकल्पः प्रवर्तते बालानां न त्वार्याणाम्॥



महामतिराह-कथं पुनर्भगवन् बालानां विकल्पः प्रवर्तते, न त्वार्याणाम् ? भगवानाह-नामसंज्ञासंकेताभिनिवेशेन महामते बालाश्चित्तमनुसरन्ति। अनुसरन्तो विविधलक्षणोपचारेण आत्मात्मीयदृष्टिपतिताशया वर्णपुष्कलतामभिनिविशन्ते। अभिनिविशन्तश्च अज्ञानावृताः संरज्यन्ते। संरक्ता रागद्वेषमोहजं कर्माभिसंस्कुर्वन्ति। अभिसंस्कृत्य पुनः पुनः कोशकारकीटका इव स्वविकल्पपरिवेष्टितमतयो गतिसमुद्रकान्तारप्रपतिता घटियन्त्रवन्नातिप्रवर्तन्ते। न च प्रजानन्ति मोहान्मायामरीच्युदकचन्द्रस्वभावकल्पनात्मात्मीयरहितान् सर्वधर्मानभूतविकल्पोदितांल्लक्ष्यलक्षणापगतान् भङ्गोत्पादस्थितिगतिविनिवृत्तान् स्वचित्तदृश्यविकल्पप्रभवानीश्वरकालाणुप्रधानप्रभवान्। नामनिमित्तानुप्लवेन महामते बाला निमित्तमनुसरन्ति॥



तत्र निमित्तं पुनर्महामते यच्चक्षुर्विज्ञानस्याभासमागच्छति रूपसंज्ञकम्। एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानानां शब्दगन्धरसस्प्रष्टव्यधर्मसंज्ञकमेतन्निमित्तमिति वदामि। तत्र विकल्पः पुनर्महामते येन नाम समुदीरयति। निमित्तव्यञ्जकमिदम्-एवमिदं नान्यथेति हस्त्यश्वरथपदातिस्त्रीपुरुषादिकसंज्ञकं तद्विकल्पः प्रवर्तते। सम्यग्ज्ञानं पुनर्महामते येन नामनिमित्तयोरनुपलब्धिः। अन्योन्यागन्तुकत्वादप्रवृत्तिर्विज्ञानस्य अनुच्छेदाशाश्वततः सर्वतीर्थकरश्रावकप्रत्येकबुद्धभूम्यपातनत्वात्सम्यग्ज्ञानमित्युच्यते। पुनरपरं महामते येन सम्यग्ज्ञानेन बोधिसत्त्वो महासत्त्वो न नाम भावीकरोति, न च निमित्तमभावीकरोति। समारोपापवादान्तद्वयकुदृष्टिविवर्जितं नामनिमित्तार्थयोरप्रवृत्तिविज्ञानम्। एवमेतां तथतां वदामि। तथताव्यवस्थितश्च महामते बोधिसत्त्वो महासत्त्वो निराभासगोचरप्रतिलाभित्वात्प्रमुदितां बोधिसत्त्वभूमिं प्रतिलभते॥



स प्रतिलभ्य प्रमुदितां बोधिसत्त्वभूमिं व्यावृत्तः सर्वतीर्थ्यापायगतिभ्यो भवति लोकोत्तरधर्मगतिसमवसृतः लक्षणपरिचयान्मायादिपूर्वकां सर्वधर्मगतिं विभावयन् स्वप्रत्यात्मार्यधर्मगतिलक्षणं तर्कदृष्टिविनिवृत्तकौतुकोऽनुपूर्वेण यावद्धर्ममेघा भूमिरिति। धर्ममेघानन्तरं यावत्समाधिबलवशिताभिज्ञाकुसुमितां तथागतभूमिं प्रतिलभते। स प्रतिलभ्य सत्त्वपरिपाचनतया विचित्रैर्निर्माणकिरणैर्विराजते जलचन्द्रवत्। अष्टापदसुनिबद्धधर्मा नानाधिमुक्तिकतया सत्त्वेभ्यो धर्मं देशयति। कायं मनोविज्ञप्तिरहितम्। एतन्महामते तथताप्रवेशात्प्रतिलभन्ते बोधिसत्त्वा महासत्त्वाः॥



पुनरपि महामतिराह-किं पुनर्भगवन् पञ्चसु धर्मेष्वन्तर्गतास्त्रयः, स्वभावा उत स्वलक्षणसिद्धाः ? भगवानाह-अत्रैव महामते त्रयः स्वभावा अन्तर्गताः, अष्टौ च विज्ञानानि, द्वे च नैरात्म्ये। तत्र नाम च निमित्तं च परिकल्पितः स्वभावो वेदितव्यः। यः पुनर्महामते तदाश्रयप्रवृत्तो विकल्पश्चित्तचैत्तसंशब्दितो युगपत्कालोदित आदित्य इव रश्मिसहितो विचित्रलक्षणस्वभावो विकल्पाधारकः, स महामते स्वभावः परतन्त्र इत्युच्यते। सम्यग्ज्ञानं तथता च महामते अविनाशत्वात्स्वभावः परिनिष्पन्नो वेदितव्यः॥



पुनरपरं महामते स्वचित्तदृश्यमभिनिविश्यमानं विकल्पोऽष्टधा भिद्यते। निमित्तस्याभूतलक्षणपरिकल्पितत्वादात्मात्मीयग्राहद्वयव्युपशमान्नैरात्म्यद्वयमाजायते। एषु महामते पञ्चसु धर्मेषु सर्वबुद्धधर्मा अन्तर्गताः, भूमिविभागानुसंधिश्च श्रावकप्रत्येकबुद्धबोधिसत्त्वानाम्, तथागतानां च प्रत्यात्मार्यज्ञानप्रवेशः॥



पुनरपरं महामते पञ्चधर्माः-निमित्तं नाम विकल्पस्तथता सम्यग्ज्ञानं च। तत्र महामते निमित्तं यत्संस्थानाकृतिविशेषाकाररूपादिलक्षणं दृश्यते तन्निमित्तम्। यत्तस्मिन्निमित्ते घटादिसंज्ञाकृतकम्-एवमिदं नान्यथेति, तन्नाम। येन तन्नाम समुदीरयति निमित्ताभिव्यञ्जकं समधर्मेति वा, स महामते चित्तचैत्तसंशब्दितो विकल्पः। यन्नामनिमित्तयोरत्यन्तानुपलब्धिता बुद्धिप्रलयादन्योन्याननुभूतापरिकल्पितत्वादेषां धर्माणां सा तथतेति। तत्त्वं भूतं निश्चतो निष्ठा प्रकृतिः स्वभावोऽनुपलब्धिस्तत्तथालक्षणम्। मया अन्यैश्च तथागतैरनुगम्य यथावद्देशितं प्रज्ञप्तं विवृतमुत्तानीकृतम्, यत्रानुगम्य सम्यगवबोधानुच्छेदाशाश्वततो विकल्पस्याप्रवृत्तिः स्वप्रत्यात्मार्यज्ञानानुकूलं तीर्थकरपक्षपरपक्षश्रावकप्रत्येकबुद्धागतिलक्षणं तत्सम्यग्ज्ञानम्। एते च महामते पञ्च धर्माः। एतेष्वेव त्रयः स्वभावाः, अष्टौ च विज्ञानानि, द्वे च नैरात्म्ये, सर्वबुद्धधर्माश्चान्तर्गताः। अत्र ते महामते स्वमतिकौशलं करणीयम्, अन्यैश्च कारयितव्यम्। न परप्रणेयेन भवितव्यम्॥



तत्रेदमुच्यते -

पञ्च धर्माः स्वभावश्च विज्ञानान्यष्ट एव च।

द्वे नैरात्म्ये भवेत्कृत्स्नो महायानपरिग्रहः॥ ५॥

नामनिमित्तसंकल्पाः स्वभावद्वयलक्षणम्।

सम्यग्ज्ञानं तथात्वं च परिनिष्पन्नलक्षणम्॥ ६॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-यत्पुनरेतदुक्तं भगवता देशनापाठे यथा गङ्गानदीवालुकासमास्तथागता अतीता अनागता वर्तमानाश्च। तत्किमिदं भगवन् यथारुतार्थग्रहणं कर्तव्यम्, आहोस्विदन्यः कश्चिदर्थान्तरविशेषोऽस्तीति ? तदुच्यतां भगवन्। भगवानाह-न महामते यथारुतार्थग्रहणं कर्तव्यम्। न च महामते गङ्गानदीवालुकाप्रमाणतया त्र्यध्वकबुद्धप्रमाणता भवति। तत्कस्य हेतोः ? यदुत लोकातिशयातिक्रान्तत्वान्महामते दृष्टान्तोऽदृष्टान्तः सदृशासदृशत्वात्। न च महामते तथागता अर्हन्तः सम्यक्संबुद्धाः सदृशासदृशं लोकातिशयातिक्रान्तं दृष्टान्तं प्राविष्कुर्वन्ति। अन्यत्र उपमामात्रमेतन्महामते मयोपन्यस्तम्, तैश्च तथागतैः। यथा गङ्गानदीवालुकासमास्तथागता अर्हन्तः सम्यक्संबुद्धा इति नित्यानित्याभिनिवेशाभिनिविष्टानां बालपृथग्जनानां तीर्थकराशयकुदृष्टियुक्तानां संसारभवचक्रानुसारिणामुद्वेजनार्थम्-कथमेते उद्विग्ना भवगतिचक्रसंकटाद्विशेषार्थिनो विशेषमारभेरन्निति सुलभबुद्धत्वप्रदर्शनार्थं न नोदुम्बरपुष्पतुल्यस्तथागतानामुत्पाद इति कृत्वा वीर्यमारप्स्यन्ते। देशनापाठे तु मया वैनेयजनतापेक्षया उदुम्बरपुष्पसुदुर्लभप्रादुर्भावास्तथागता इति देशितम्। न च महामते उदुम्बरपुष्पं केनचिद्दृष्टपूर्वं न द्रक्ष्यते। तथागताः पुनर्महामते लोके दृष्टाः, दृश्यन्ते चैतर्हि। न स्वनयप्रत्यवस्थानकथामधिकृत्य उदुम्बरपुष्पसुदुर्लभप्रादुर्भावास्तथागता इति। स्वनयप्रत्यवस्थानकथायां महामते निर्दिश्यमानायां लोकातिशयातिक्रान्ता दृष्टान्ता युक्ताः क्रियन्तेऽश्रद्धेयत्वात्। अश्रद्धेयं स्याद्बालपृथग्जनानां च। स्वप्रत्यात्मार्यज्ञानगोचरे न दृष्टान्ता न प्रवर्तन्ते। तत्त्वं च तथागताः। अतस्तेषु दृष्टान्ता नोपन्यस्यन्ते॥



किं तु उपमामात्रमेतन्महामते कृतं यदुत गङ्गानदीवालुकासमास्तथागताः समा न विषमा अकल्पाविकल्पनतः। तद्यथा महामते गङ्गायां नद्यां वालुका मीनकच्छपशिशुमारनक्रमहिषसिंहहस्त्यादिभिः संक्षोभ्यमाणा न कल्पयन्ति न विकल्पयन्ति-संक्षोभ्यामहे न वेति निर्विकल्पाः स्वच्छा मलव्यपेताः। एवमेव महामते तथागतानामर्हतां सम्यक्संबुद्धानां स्वप्रत्यात्मार्यज्ञानगङ्गामहानदीबलाभिज्ञावशितावालुकाः सर्वतीर्थकरबालमीनपरप्रवादिभिः संक्षोभ्यमाणा न कल्पयन्ति न विकल्पयन्ति। तथागतपूर्वप्रणिहितत्वात्सर्वसुखसमापत्तिपरिपूर्या सत्त्वानां न कल्पयन्ति न विकल्पयन्ति। अतस्ते गङ्गानदीवालुकासमास्तथागता निर्विशिष्टा अनुनयप्रतिघापगतत्वात्॥



तद्यथा महामते गङ्गायां नद्यां वालुका पृथिवीलक्षणस्वभावत्वात्पृथिवी, कल्पोद्दाहे दह्यमानापि न पृथिवीस्वभावं विजहाति। न च महामते पृथिवी दह्यते तेजोधातुप्रतिबद्धत्वादन्यत्र बालपृथग्जना वितथतापतितया संतत्या दह्यमानां कल्पयन्ति, न च दह्यते तदग्निहेतुभूतत्वात्। एवमेव महामते तथागतानां धर्मकायो गङ्गानदीवालुकासमोऽविनाशी। तद्यथा महामते नद्यां गङ्गायां वालुका अप्रमाणाः, एवमेव महामते तथागतानां रश्म्यालोकोऽप्रमाणः सत्त्वपरिपाकसंचोदनमुपादाय सर्वबुद्धपर्षन्मण्डलेषु प्रसर्प्यते तथागतैः। तद्यथा महामते गङ्गायां नद्यां वालुका न वालुकास्वभावान्तरमारभन्ते, वालुकावस्था एव वालुकाः, एवमेव महामते तथागतानामर्हतां सम्यक्संबुद्धानां संसारे न प्रवृत्तिर्न निवृत्तिः, भवप्रवृत्त्युच्छिन्नहेतुत्वात्। तद्यथा महामते गङ्गायां नद्यां वालुका अपकृष्टा अपि न प्रज्ञायन्ते, प्रक्षिप्ता अपि न प्रज्ञायन्ते, महामते एवमेव तथागतानां ज्ञानं सत्त्वपरिपाकयोगेन न क्षीयते न वर्धते, अशरीरत्वाद्धर्मस्य। शरीरवतां हि महामते नाशो भवति नाशरीरवताम्। धर्मश्चाशरीरः। तद्यथा महामते गङ्गायां नद्यां वालुका निष्पीड्यमाना घृततैलार्थिभिर्घृततैलादिविरहिताः, एवमेव महामते तथागताः सत्त्वदुःखैर्निष्पीड्यमाना धर्मधात्वीश्वरप्रणिधानसुखं न विजहति महामते महाकरुणोपेतत्वात्, यावत्सर्वसत्त्वा न निर्वाप्यन्ते तथागतैः। तद्यथा महामते गङ्गायां नद्यां वालुकाः प्रवाहानुकूलाः प्रवहन्ति नानुदके, एवमेव महामते तथागतानां सर्वबुद्धधर्मदेशना निर्वाणप्रवाहानुकूला संवर्तते। तेन गङ्गानदीवालुकासमास्तथागता इत्युच्यन्ते। नायं महामते गत्यर्थस्तथागतेषु प्रवर्तते। विनाशो महामते गत्यर्थो भवति। न च महामते संसारस्य पूर्वा कोटिः प्रज्ञायते। अप्रज्ञायमाना कथं गत्यर्थेन निर्देक्ष्यामि ? गत्यर्थो महामते उच्छेदः। न च बालपृथग्जनाः संप्रजानन्ति॥



महामतिराह-तद्यदि भगवन् पूर्वा कोटिर्न प्रज्ञायते सत्त्वानां संसरताम्, तत्कथं मोक्षः प्रज्ञायते प्राणिनाम् ? भगवानाह-अनादिकालप्रपञ्चदौष्ठुल्यविकल्पवासनाहेतुविनिवृत्तिर्महामते स्वचित्तदृश्यबाह्यार्थपरिज्ञानाद्विकल्पस्याश्रयपरावृत्तिर्महामते मोक्षो न नाशः। अतो नानन्तकथा महामते किंचित्कारी भवति। विकल्पस्यैव महामते पर्यायोऽनन्तकोटिरिति। न चात्र विकल्पादन्यत्किंचित्सत्त्वान्तरमस्ति, अध्यात्मं वा बहिर्धा वा परीक्ष्यमाणं बुद्ध्या। ज्ञानज्ञेयविविक्ता हि महामते सर्वधर्माः। अन्यत्र स्वचित्तविकल्पापरिज्ञानाद्विकल्पः प्रवर्तते, तदवबोधान्निवर्तते॥



तत्रेदमुच्यते -

गङ्गायां वालुकासमान् ये पश्यन्ति विनायकान्।

अनाशगतिनिष्ठान् वै ते पश्यन्ति तथागतान्॥ ७॥

गङ्गायां वालुका यद्वत्सर्वदोषैर्विवर्जिताः।

वाहानुकूला नित्याश्च तथा बुद्धस्य बुद्धता॥ ८॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-देशयतु भगवान्, देशयतु मे सुगतस्तथागतोऽर्हन् सम्यक्संबुद्धः सर्वधर्माणां क्षणभङ्गं भेदलक्षणं चैषाम्। तत्कथं भगवन् सर्वधर्माः क्षणिकाः ? भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-सर्वधर्माः सर्वधर्मा इति महामते यदुत कुशलाकुशलाः संस्कृतासंस्कृता लौकिकलोकोत्तराः सावद्यानवद्याः सास्रवानास्रवा उपात्तानुपात्ताः। संक्षेपेण महामते पञ्चोपादानस्कन्धाश्चित्तमनोमनोविज्ञानवासनाहेतुकाश्चित्तमनोमनोविज्ञानवासनापुष्टैर्बालपृथग्जनैः कुशलाकुशलेन परिकल्प्यन्ते। समाधिसुखसमापत्तयो महामते दृष्टधर्मसुखविहारभावेन आर्याणां कुशलानास्रवा इत्युच्यन्ते। कुशलाकुशलाः पुनर्महामते यदुत अष्टौ विज्ञानानि। कतमान्यष्टौ? यदुत तथागतगर्भ आलयविज्ञानसंशब्दितो मनो मनोविज्ञानं च पञ्च च विज्ञानकायास्तीर्थ्यानुवर्णिताः। तत्र महामते पञ्च विज्ञानकाया मनोविज्ञानसहिता कुशलाकुशलक्षणपरंपराभेदभिन्नाः संततिप्रबन्धनाभिन्नशरीराः प्रवर्तमानाः प्रवर्तन्ते। प्रवृत्य च विनश्यन्ति। स्वचित्तदृश्यानवबोधात्समनन्तरनिरोधेऽन्यद्विज्ञानं प्रवर्तते। संस्थानाकृतिविशेषग्राहकं मनोविज्ञानं पञ्चभिर्विज्ञानकायैः सह संप्रयुक्तं प्रवर्तते क्षणकालानवस्थायि। तत्क्षणिकमिति वदामि। क्षणिकं पुनर्महामते आलयविज्ञानं तथागतगर्भसंशब्दितं मनःसहितं प्रवृत्तिविज्ञानवासनाभिः क्षणिकमनास्रववासनाभिरक्षणिकम्। न च बालपृथग्जना अवबुध्यन्ते क्षणिकवादाभिनिविष्टा क्षणिकाक्षणिकतामिमां सर्वधर्माणाम्। तदनवबोधादुच्छेददृष्ट्या असंस्कृतानपि धर्मान्नाशयिष्यन्ति। असंसारिणो महामते पञ्च विज्ञानकाया अननुभूतसुखदुःखा अनिर्वाणहेतवः। तथागतगर्भः पुनर्महामते अनुभूतसुखदुःखहेतुसहितः प्रवर्तते निवर्तते च चतसृभिर्वासनाभिः संमूर्च्छितः। न च बाला अवबुध्यन्ते क्षणिकदृष्टिविकल्पवासितमतयः॥



पुनरपरं महामते समधारणं कल्पस्थिताः सुवर्णवज्रजिनधातुप्राप्तिविशेषा अभङ्गिनः। यदि पुनर्महामते अभिसमयप्राप्तिः क्षणिका स्यात्, अनार्यत्वमार्याणां स्यात्। न च अनार्यत्वमार्याणां भवति। सुवर्णं वज्रं च महामते समधारणं कल्पस्थिता अपि तुल्यमाना न हीयन्ते न वर्धन्ते। तत्कथं बालैः क्षणिकार्थे विकल्प्यते आध्यात्मिकबाह्यानां सर्वधर्माणामसंधाभाष्यकुशलैः ?

पुनरपि महामतिराह-यत्पुनरेतदुक्तं भगवता-षट्पारमितां परिपूर्य बुद्धत्वमवाप्यत इति। तत्कतमास्ताः षट्पारमिताः ? कथं च परिपूरिं गच्छन्ति ? भगवानाह-त्रय एते महामते पारमिताभेदाः। कतमे त्रयः ? यदुत लौकिकलोकोत्तरलोकोत्तरतमाः। तत्र महामते लौकिक्यः पारमिता आत्मात्मीयग्राहाभिनिवेशाभिनिविष्टाः। अन्तद्वयग्राहिणो विचित्रभवोपपत्त्यायतनार्थं रूपादिविषयाभिलाषिणो दानपारमितां परिपूरयन्ति। एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितां महामते परिपूरयन्ति बालाः। अभिज्ञाश्चाभिनिर्हरन्ति ब्रह्मत्वाय। तत्र लोकोत्तराभिः पारमिताभिः श्रावकप्रत्येकबुद्धा निर्वाणग्राहपतिताशया दानादिषु प्रयुज्यन्ते यथैव बाला आत्मसुखनिर्वाणाभिलाषिणः। लोकोत्तरतमाः पुनर्महामते स्वचित्तदृश्यविकल्पमात्रग्रहणात्स्वचित्तद्वयावबोधादप्रवृत्तेर्विकल्पस्य उपादानग्रहणाभावात्स्वचित्तरूपलक्षणानभिनिवेशाद्दानपारमिता सर्वसत्त्वहितसुखार्थमाजायते बोधिसत्त्वानां महासत्त्वानां परमयोगयोगिनाम्। यत्तत्रैवालम्बने विकल्पस्याप्रवृत्तिं शीलयन्ति, तच्छीलं पारमिता च सा। या तस्यैव विकल्पस्याप्रवृत्तिक्षमणता ग्राह्यग्राहकपरिज्ञया, सा क्षान्तिपारमिता।येन वीर्येण पूर्वरात्रापररात्रं घटते योगानुकूलदर्शनाद्विकल्पस्य व्यावृत्तेः, सा वीर्यपारमिता। यद्विकल्पनिवृत्तेस्तीर्थ्यनिर्वाणग्राहापतनं सा ध्यानपारमिता। तत्र प्रज्ञापारमिता यदा स्वचित्तविकल्पाभावादाबुद्धिप्रविचयात्प्रतिविचिन्वन् अन्तद्वये न पतति आश्रयपरावृत्तिपूर्वकर्मविनाशतः, स्वप्रत्यात्मार्यगतिप्रतिलम्भाय प्रयुज्यते, सा प्रज्ञापारमिता। एता महामते पारमिताः। एष पारमितार्थः।

तत्रेदमुच्यते -

शून्यमनित्यं क्षणिकं बालाः कल्पेन्ति संस्कृतम्।

नदीदीपबीजदृष्टान्तैः क्षणिकार्थो विकल्प्यते॥ ९॥

निर्व्यापारं क्षणिकं विविक्तं क्षयवर्जितम्।

अनुत्पत्तिश्च धर्माणां क्षणिकार्थं वदाम्यहम्॥ १०॥

उत्पत्त्यनन्तरं भङ्गं न वै देशेमि बालिशान्।

नैरन्तर्येण भावानां विकल्पः स्पन्दते गतौ॥ ११॥

सा विद्या कारणं तेषां चित्तानां संप्रवर्तिकम्।

अन्तरा किमवस्थासौ यावद्रूपं न जायते॥ १२॥

समनन्तरप्रध्वस्तं चित्तमन्यत्प्रवर्तते।

रूपं न तिष्ठते काले किमालम्ब्य प्रवर्त्स्यते॥ १३॥

यस्माद्यत्र प्रवर्तते चित्तं वितथहेतुकम्।

न प्रसिद्धं कथं तस्य क्षणभङ्गोऽवधार्यते॥ १४॥

योगिनां हि समापत्तिः सुवर्णं जिनधातवः।

आभास्वरविमानाश्च अभेद्या लोककारणात्॥ १५॥

स्थितयः प्राप्तिधर्माश्च बुद्धानां ज्ञानसंपदः।

भिक्षुत्वं समयप्राप्तिर्दृष्टा वै क्षणिकाः कथम्॥ १६॥

गन्धर्वपुरमायाद्या रूपा वै क्षणिका न किम्।

अभूतिकाश्च भूताश्च भूताः केचित्करागताः॥ १७॥



इति लङ्कावतारे क्षणिकपरिवर्तः षष्ठः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project