Digital Sanskrit Buddhist Canon

५ तथागतनित्यानित्यप्रसङ्गपरिवर्तो नाम पञ्चमः

Technical Details
५ तथागतनित्यानित्यप्रसङ्गपरिवर्तो नाम पञ्चमः।



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-किं भगवंस्तथागतोऽर्हन् सम्यक्संबुद्धो नित्य उताहोऽनित्यः ? भगवानाह-न महामते तथागतो नित्यो नानित्यः। तत्कस्यः हेतोः ? यदुत उभयदोषप्रसङ्गात्। उभयथा हि महामते दोषप्रसङ्गः स्यात्। नित्ये सति कारणप्रसङ्गः स्यात्। नित्यानि हि महामते सर्वतीर्थकराणां कारणान्यकृतकानि च। अतो न नित्यस्तथागतोऽकृतकनित्यत्वात्। अनित्ये सति कृतकप्रसङ्गः स्यात्। स्कन्धलक्ष्यलक्षणाभावात्स्कन्धविनाशादुच्छेदः स्यात्। न चोच्छेदो भवति तथागतः। सर्वं हि महामते कृतकमनित्यं घटपटतृणकाष्ठेष्टकादि। सर्वानित्यत्वप्रसङ्गात् सर्वज्ञज्ञानसंभारवैयर्थ्यं भवेत्कृतकत्वात्। सर्वं हि कृतकं तथागतः स्याद्विशेषहेत्वभावात्। अत एतस्मात्कारणान्महामते न नित्यो नानित्यस्तथागतः॥



पुनरपि महामते न नित्यस्तथागतः। कस्मात् ? आकाशसंभारवैयर्थ्यप्रसङ्गात्। तद्यथा महामते आकाशं न नित्यं नानित्यं नित्यानित्यव्युदासादेकत्वान्यत्वोभयत्वानुभयत्वनित्यानित्यत्वदोषैरवचनीयः॥



पुनरपरं महामते शशहयखरोष्ट्रमण्डूकसर्पमक्षिकामीनविषाणतुल्यः स्यादनुत्पादनित्यत्वात्। अतोऽनुत्पादनित्यत्वप्रसङ्गान्न नित्यस्तथागतः॥



पुनरपरं महामते अस्त्यसौ पर्यायो येन नित्यस्तथागतः। तत्कस्य हेतोः ? यदुत अभिसमयाधिगमज्ञाननित्यत्वान्नित्यस्तथागतः। अभिसमयाधिगमज्ञानं हि महामते नित्यं तथागतानामर्हतां सम्यक्संबुद्धानाम्। उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मनियामता धर्मस्थितिता सर्वश्रावकप्रत्येकबुद्धतीर्थकराभिसमयेषु। न तु गगने धर्मस्थितिर्भवति। न व बालपृथग्जना अवबुध्यन्ते। अधिगमज्ञानं च महामते तथागतानां प्रज्ञाज्ञानप्रभावितम्। न महामते तथागता अर्हन्तः सम्यक्संबुद्धाश्चित्तमनोमनोविज्ञानस्कन्धधात्वायतनाविद्यावासनाप्रभाविताः। सर्वं हि महामते त्रिभवमभूतविकल्पप्रभवम्। न च तथागता अभूतविकल्पप्रभवाः। द्वये हि सति महामते नित्यता चानित्यता च भवति, नाद्वयात्। द्वयं हि महामते विविक्तमद्वयानुत्पादलक्षणात्सर्वधर्माणाम्। अत एतस्मात्कारणान्महामते तथागता अर्हन्तः सम्यक्संबुद्धा न नित्या नानित्याः। यावन्महामते वाग्विकल्पः प्रवर्तते, तावन्नित्यानित्यदोषः प्रसज्यते। विकल्पबुद्धिक्षयान्महामते नित्यानित्यग्राहो निवार्यते बालानां न तु विविक्तदृष्टिबुद्धिक्षयात्॥

तत्रेदमुच्यते -

नित्यानित्यविनिर्मुक्तान् नित्यानित्यप्रभावितान्।

ये पश्यन्ति सदा बुद्धान् न ते दृष्टिवशं गताः॥ १॥

समुदागमवैयर्थ्यं नित्यानित्ये प्रसज्यते।

विकल्पबुद्धिवैकल्यान्नित्यानित्यं निवार्यते॥ २॥

यावत्प्रतिज्ञा क्रियते तावत्सर्वं ससंकरम्।

स्वचित्तमात्रं संपश्यन् न विवादं समारभेत्॥ ३॥



इति लङ्कावतारे तथागतनित्यानित्यत्वप्रसङ्गपरिवर्तः पञ्चमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project