Digital Sanskrit Buddhist Canon

४ अभिसमयपरिवर्तो नाम चतुर्थः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

4 abhisamayaparivarto nāma caturthaḥ

४ अभिसमयपरिवर्तो नाम चतुर्थः।



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-देशयतु मे भगवान् सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धनिरोधक्रमानुसंधिलक्षणकौशल्यं येन क्रमानुसंधिलक्षणकौशल्येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा निरोधसुखसमापत्तिमुखेन न प्रतिमुह्येम, न च श्रावकप्रत्येकबुद्धतीर्थ्यकरव्यामोहे प्रपतेम। भगवानाह-तेन महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्॥



भगवांस्तस्यैतदवोचत्-षष्ठीं महामते भूमिमुपादाय बोधिसत्त्वा महासत्त्वाः सर्वश्रावकप्रत्येकबुद्धाश्च निरोधं समापद्यन्ते। सप्तम्यां भूमौ पुनश्चित्तक्षणे चित्तक्षणे बोधिसत्त्वा महासत्त्वाः सर्वभावस्वभावलक्षणव्युदासात्समापद्यन्ते, न तु श्रावकप्रत्येकबुद्धाः। तेषां हि श्रावकप्रत्येकबुद्धानामाभिसंस्कारिकी ग्राह्यग्राहकलक्षणपतिता च निरोधसमापत्तिः। अतस्ते सप्तम्यां भूमौ चित्तक्षणे चित्तक्षणे समापद्यन्ते-मा सर्वधर्माणामविशेषलक्षणप्राप्तिः स्यादिति। विचित्रलक्षणाभावश्च। कुशलाकुशलस्वभावलक्षणानवबोधात्सर्वधर्माणां समापत्तिर्भवति। अतः सप्तम्यां भूमौ चित्तक्षणे चित्तक्षणे समापत्तिकौशल्यं नास्ति येन समापद्येरन्॥



अष्टम्यां महामते भूमौ बोधिसत्त्वानां महासत्त्वानां श्रावकप्रत्येकबुद्धानां च चित्तमनोमनोविज्ञानविकल्पसंज्ञाव्यावृत्तिर्भवति। प्रथमषष्ठ्यां भूमौ चित्तमनोमनोविज्ञानमात्रं त्रैधातुकं समनुपश्यति आत्मात्मीयविगतं स्वचित्तविकल्पोद्भवम्, न च बाह्यभावलक्षणवैचित्र्यपतितमन्यत्र स्वचित्तमेव। द्विधा बालानां ग्राह्यग्राहकभावेन परिणाम्य स्वज्ञानं न चावबोध्यन्ते अनादिकालदौष्ठुल्यविकल्पप्रपञ्चवासनावासिताः॥



अष्टम्यां महामते निर्वाणं श्रावकप्रत्येकबुद्धबोधिसत्त्वानाम्। बोधिसत्त्वाश्च समाधिबुद्धैर्विधार्यन्ते तस्मात्समाधिसुखाद्, येन न परिनिर्वान्ति अपरिपूर्णत्वात्तथागतभूमेः। सर्वकार्यप्रतिप्रस्रम्भणं च स्यात्, यदि न संघारयेत्, तथागतकुलवंशोच्छेदश्च स्यात्। अचिन्त्यबुद्धमाहात्म्यं च देशयन्ति ते बुद्धा भगवन्तः। अतो न परिनिर्वान्ति। श्रावकप्रत्येकबुद्धास्तु समाधिसुखेनापह्रियन्ते। अतस्तेषां तत्र परिनिर्वाणबुद्धिर्भवति॥



सप्तसु महामते भूमिषु चित्तमनोमनोविज्ञानलक्षणपरिचयकौशल्यात्मात्मीयग्राह्यग्राहधर्मपुद्गलनैरात्म्यप्रवृत्तिनिवृत्तिस्वसामान्यलक्षणपरिचय-चतुःप्रतिसंविद्विनिश्चयकौशल्यवशितास्वादसुखभूमिक्रमानुप्रवेशबोधिपाक्षिकधर्मविभागः क्रियते मया-मा बोधिसत्त्वा महासत्त्वाः स्वसामान्यलक्षणानवबोधाद्भूमिक्रमानुसंध्यकुशलास्तीर्थकरकुदृष्टिमार्गे प्रपतेयुः, इत्यतो भूमिक्रमव्यवस्था क्रियते। न तु महामते अत्र कश्चित्प्रवर्तते वा निवर्तते वा अन्यत्र स्वचितदृश्यमात्रमिदं यदुत भूमिक्रमानुसंधिस्त्रैधातुकविचित्रोपचारश्च। न च बाला अवबुध्यन्ते। अनवबोधाद्बालानां भूमिक्रमानुसंधिव्यपदेशं त्रैधातुकविचित्रोपचारश्च व्यवस्थाप्यते बुद्धधर्मालया च॥



पुनरपरं महामते श्रावकप्रत्येकबुद्धा अष्टम्यां बोधिसत्त्वभूमौ निरोधसमापत्तिसुखमदमत्ताः स्वचित्तदृश्यमात्राकुशलाः स्वसामान्यलक्षणावरणवासनापुद्गलधर्मनैरात्म्यग्राहकदृष्टिपतिता विकल्पनिर्वाणमतिबुद्धयो भवन्ति, न विविक्तधर्ममतिबुद्धयः। बोधिसत्त्वाः पुनर्महामते निरोधसमाधिसुखमुखं दृष्ट्वा पूर्वप्रणिधानकृपाकरुणोपेता निष्ठपदगतिविभागज्ञा न परिनिर्वान्ति। परिनिर्वृताश्च ते विकल्पस्याप्रवृत्तत्वात्। ग्राह्यग्राहकविकल्पस्तेषां विनिवृत्तः। स्वचित्तदृश्यमात्रावबोधात् सर्वधर्माणां विकल्पो न प्रवर्तते। चित्तमनोमनोविज्ञानबाह्यभावस्वभावलक्षणाभिनिवेशं विकल्पयति। तेन पुनर्बुद्धधर्महेतुर्न प्रवर्तते, ज्ञानपूर्वकः प्रवर्तते तथागतस्वप्रत्यात्मभूम्यधिगमनतया स्वप्नपुरुषौघोत्तरणवत्॥



तद्यथा पुनर्महामते कश्चिच्छयितः स्वप्नान्तरे महाव्यायामौत्सुक्येन महौघादात्मानमुत्तारयेत्। स चानुत्तीर्ण एव प्रतिबुध्येत। प्रतिबुद्धश्च सन्नेवमुपपरीक्षेत-किमिदं सत्यमुत मिथ्येति। स एवं समनुपश्येत्-नेदं सत्यं न मिथ्या अन्यत्र दृष्टश्रुतमतविज्ञातानुभूतविकल्पवासनाविचित्ररूपसंस्थानानादिकालविकल्पपतिता नास्त्यस्तिदृष्टिविकल्पपरिवर्जिता मनोविज्ञानानुभूताः स्वप्ने दृश्यन्ते। एवमेव महामते बोधिसत्त्वा महासत्त्वा अष्टम्यां बोधिसत्त्वभूमौ विकल्पस्याप्रवृत्तिं दृष्ट्वा प्रथमसप्तमीभूमिसंचारात्सर्वधर्माभिसमयान्मायादिधर्मसमतया सर्वधर्मौत्सुक्यग्राह्यग्राहकविकल्पोपरतं चित्तचैतसिकविकल्पप्रसरं दृष्ट्वा बुद्धधर्मेषु प्रयुज्यन्ते। अनधिगतानामधिगमाय प्रयोग एष महामते निर्वाणं बोधिसत्त्वानां न विनाशः चित्तमनोमनोविज्ञानविकल्पसंज्ञाविगमाच्च अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो भवति। न चात्र महामते परमार्थे क्रमो न क्रमानुसंधिर्निराभासविकल्पविविक्तधर्मोपदेशात्॥



तत्रेदमुच्यते -

चित्तमात्रे निराभासे विहारा बुद्धभूमि च।

एतद्धि भाषितं बुद्धैर्भाषन्ते भाषयन्ति च॥ १॥

चित्तं हि भूमयः सप्त निराभासा त्विहाष्टमी।

द्वे हि भूमी विहारोऽत्र शेषा भूमिर्ममात्मिका॥ २॥

प्रत्यात्मवेद्या शुद्धा च भूमिरेषा ममात्मिका।

माहेश्वरं परं स्थानमकनिष्ठो विराजते॥ ३॥

हुताशनस्य हि यथा निश्चेरुस्तस्य रश्मयः।

चित्रा मनोहराः सौम्यास्त्रिभवं निर्मिणन्ति ते॥ ४॥

निर्माय त्रिभवं किंचित्किंचिद्वै पूर्वनिर्मितम्।

तत्र देशेमि यानानि एषा भूमिर्ममात्मिका॥ ५॥

दशमी तु भवेत्प्रथमा प्रथमा चाष्टमी भवेत्।

नवमी सप्तमी चापि सप्तमी चाष्टमी भवेत्॥ ६॥

द्वितीया च तृतीया स्याच्चतुर्थी पञ्चमी भवेत्।

तृतीया च भवेत्षष्ठी निराभासे क्रमः कुतः॥ ७॥



इति लङ्कावतारे अभिसमयपरिवर्तश्चतुर्थः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project