Digital Sanskrit Buddhist Canon

३ अनित्यतापरिवर्तो नाम तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

3 anityatāparivarto nāma tṛtīyaḥ

३ अनित्यतापरिवर्तो नाम तृतीयः।



अथ खलु भगवान् पुनरपि महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-मनोमयकायगतिप्रभेदनयलक्षणं महामते उपदेक्ष्यामि। तच्छृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-त्रिप्रकारो महामते कायो मनोमयः। कतमस्त्रिप्रकारः ? यदुत समाधिसुखसमापत्तिमनोमयो धर्मस्वभावावबोधमनोमयो निकायसहजसंस्कारक्रियामनोमयश्च। प्रथमोत्तरोत्तरभूमिलक्षणपरिज्ञानादधिगच्छन्ति योगिनः। तत्र कतमो महामते समाधिसुखसमापत्तिमनोमयः कायः ? यदुत त्रिचतुर्थपञ्चम्यां भूमौ स्वचित्तविविधविवेकविहारेणचित्तोदधिप्रवृत्तितरंगविज्ञानलक्षणसुखसमापत्तिमनसोऽप्रवृत्तिः स्वचित्तदृश्यविषयाभावाभावपरिज्ञानान्मनसो मनोमयः काय इत्युच्यते। तत्र धर्मस्वभावावबोधमनोमयः कायः कतमः ? यदुत अष्टम्यां भूमौ मायादिधर्मनिराभासप्रविचयावबोधेन चित्ताश्रयपरावृत्तस्य मायोपमसमाधिप्रतिलम्भादन्येषां च समाधिमुखानां प्रतिलम्भादनेकलक्षणवशिताभिज्ञाकुसुमितं मनोजवसदृशं मायास्वप्नबिम्बप्रख्यमभौतिकं भूतभौतिकसदृशं सर्वरूपविचित्राङ्गसमुदितं सर्वबुद्धक्षेत्रपर्षन्मण्डलानुगतं कायं धर्मस्वभावगतिंगतत्वान्मनोमय इत्युच्यते। तत्र निकायसहजसंस्कारक्रियामनोमयः कायः कतमः ? यदुत सर्वबुद्धधर्मप्रत्यात्माधिगमसुखलक्षणावबोधान्निकायसहजसंस्कारक्रियामनोमय इत्युच्यते। अत्र ते महामते कायत्रयलक्षणप्रविचयावबोधे योगः करणीयः॥

तत्रेदमुच्यते -

न मे यानं महायानं न घोषो न च अक्षराः।

न सत्या न विमोक्षा वै न निराभासगोचरम्॥ १॥

किं तु यानं महायानं समाधिवशवर्तिता।

कायो मनोमयश्चित्रो वशितापुष्पमण्डितः॥ २॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-पञ्चानन्तर्याणि भगवता निर्दिष्टानि। कतमानि तानि भगवन् पञ्चानन्तर्याणि यान्यध्यापद्य कुलपुत्रो वा कुलदुहिता वा अवीचिको भवति ? भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवानेतदवोचत्-तत्र महामते पञ्चानन्तर्याणि कतमानि ? यदुत मातृपित्रर्हद्वधसंघभेदास्तथागतकाये दुष्टचित्तरुधिरोत्पादश्च॥



तत्र महामते माता कतमा सत्त्वानाम् ? यदुत तृष्णा पौनर्भविकी नन्दीरागसहगता मातृत्वेनोत्तिष्ठते। अविद्या पितृत्वेनायतनग्रामस्योत्पत्तये। अनयोरुभयोर्मातापित्रोरत्यन्तमूलोपच्छेदान्मातृपितृवधो भवति। तत्र अनुशयानामरिप्रख्याणां मूषिकाविषवत्प्रकोपधर्मिणामत्यन्तसमुद्धातादर्हद्वधो भवति। तत्र संधभेदः कतमः ? यदुत भिन्नान्योन्यलक्षणस्य स्कन्धसंघातस्यात्यन्तमूलोपघातात्संघभेद इत्युच्यते। स्वसामान्यबाह्यस्वचित्तदृश्यमात्रावबोधकानां महामते अष्टानां विज्ञानकायानां विमोक्षत्रयानास्रवदुष्टविकल्पेनात्यन्तोपघाताद्विज्ञानबुद्धस्य दुष्टचित्तरुधिरोत्पादनादानन्तर्यकारीत्युच्यते। एतानि महामते आध्यात्मिकानि पञ्चानन्तर्याणि यान्यध्यापद्य कुलपुत्रो वा कुलदुहिता वा आनन्तर्यकारी भवत्यभिसमितधर्मः॥



पुनरपरं महामते बाह्यानि ते आनन्तर्याण्युपदेक्ष्यामि, यैरुपदिष्टैस्त्वं च अन्ये च बोधिसत्त्वा अनागतेऽध्वनि संमोहं न गमिष्यन्ति। तत्र कतमानि तानि ? यदुत यानि देशनापाठेऽनुसंवर्णितान्यानन्तर्याणि, यान्यध्यापद्य तिसॄणां विमुक्तीनामन्यतरान्यतरस्यां नाभिसमेता भवन्ति अन्यत्र निर्मिताधिष्ठानाभिसमयात्। निर्मिताधिष्ठानश्रावको हि महामते बोधिसत्त्वाधिष्ठानेन वा तथागताधिष्ठानेन वा। यस्य कस्यचिदन्यस्यानन्तर्यकारिणः कौकृत्यं तस्य कौकृत्यदृष्टिविनिवर्तनार्थं निक्षिप्तधुरस्य कौकृत्यदृष्ट्यभावार्थम्। पुनरपि प्रोत्साहनां करिष्यत इति कृत्वा निर्मिताधिष्ठानाभिसमयः प्रदर्श्यते मया। नास्त्येकान्तेन महामते आनन्तर्यकारिणोऽभिसमयः अन्यत्र स्वचित्तदृश्यभावनामात्रतावबोधाद्देहभोगप्रतिष्ठागतिविकल्पात्मात्मीयग्राहविविक्तदर्शनात्कदाचित्कर्हिचित्कल्याणमित्रमासाद्य अन्यगतिसंधौ स्वविकल्पदोषैर्विमुच्यते॥

तत्रेदमुच्यते -

तृष्णा हि माता इत्युक्ता अविद्या च पिता तथा।

विषयावबोधाद्विज्ञानं बुद्ध इत्युपदिश्यते॥ ३॥

अर्हन्तो ह्यनुशयाः पञ्च संघाः स्कन्धकदम्बकः।

निरन्तरान्तरच्छेदात्कर्मस्यानन्तरं भवेत्॥ ४॥



पुनरपि महामतिराह-देशयतु मे भगवान् बुद्धानां भगवतां कथं भगवन् बुद्धानां बुद्धता भवति ? भगवानाह-धर्मपुद्गलनैरात्म्यावबोधान्महामते आवरणद्वयपरिज्ञानावबोधाच्च च्युतिद्वयाधिगमात्क्लेशद्वयप्रहाणाच्च महामते बुद्धानां भगवतां बुद्धता भवति। एतेषामेव महामते धर्माणामधिगमाच्छ्रावकप्रत्येकबुद्धसंबुद्धता भवति। अत एतस्मान्महामते एकयानं देशयामि॥

तत्रेदमुच्यते -

नैरात्म्यस्य द्वयं क्लेशास्तथैवावरणद्वयम्।

अचिन्त्यपरिणामिन्याश्च्युतेर्लाभात्तथागतः॥ ५॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-किं संधाय भगवता पर्षन्मध्यगतेन वाग्भाषिता-अहमेव सर्वबुद्धा येऽतीता जातकोपपत्तिवैचित्र्यं च। अहमेव च तेन कालेन तेन समयेन राजा मांधाता। गजः शुक इन्द्रो व्यासः सुनेत्रः, इत्येवमाद्यानि भगवता जातकशतसहस्राण्युपदिष्टानि ? भगवानाह-चतुर्विधां समतां संघाय महामते तथागता अर्हन्तः सम्यक्संबुद्धाः पर्षन्मध्यगता वाचं निश्चारयन्ति यदुत अहमेव तेन कालेन तेन समयेन क्रकुच्छन्दः कनकमुनिः काश्यपश्चाभवम्। कतमां चतुर्विधसमतां संधाय? यदुत अक्षरसमतां वाक्समतां धर्मसमतां कायसमतां च। इमां महामते चतुर्विधां समतां संघाय तथागता अर्हन्तः सम्यक्संबुद्धाः पर्षन्मध्यगता वाचं निश्चारयन्ति। तत्र महामते कतमा अक्षरसमता ? यदुत यैरक्षरैर्मम नाम बुद्ध इति, तैरेवाक्षरैस्तेषां बुद्धानां भगवतां तान्यक्षराणि महामते निर्विशिष्टान्यक्षराण्यक्षरस्वभावत्वेन। इयं महामते अक्षरसमता। तत्र महामते कतमा वाक्समता तथागतानामर्हता सम्यक्संबुद्धानाम् ? यदुत ममापि चतुष्षष्ट्याकारो ब्रह्मस्वररुतघोषवाग्विकल्पः प्रवर्तते, तेषामपि महामते तथागतानामर्हतां सम्यक्संबुद्धानामेवमेव चतुष्षष्ट्याकारो ब्रह्मस्वररुतघोषो वाग्विकल्पः प्रवर्ततेऽनूनानधिका निर्विशिष्टाः कलविङ्कब्रह्मस्वररुतघोषस्वभावेन। तत्र कतमा कायसमता ? यदुत अहं च ते च तथागता अर्हन्तः सम्यक्संबुद्धा धर्मकायेन च रूपलक्षणानुव्यञ्जनकायेन च समा निर्विशिष्टा अन्यत्र वैनेयवशमुपादाय। तत्र तत्र सत्त्वगतिविशेषेण तथागता रूपवैचित्र्यमादर्शयन्ति। तत्र धर्मसमता महामते कतमा ? यदुत ते च अहं च सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणामधिगन्तारः। इमां महामते चतुर्विधां समतां संधाय तथागता अर्हन्तः सम्यक्संबुद्धाः पर्षन्मध्यगता वाचं निश्चारयन्ति॥

तत्रेदमुच्यते -

काश्यपः क्रकुछन्दश्च कोनाकमुनिरप्यहम्।

भाषामि जिनपुत्राणां समतायां समुद्गतः॥ ६॥



पुनरपि महामतिराह-यदिदमुक्तं भगवता-यां च रात्रिं तथागतोऽभिसंबुद्धो यां च रात्रिं परिनिर्वास्यति, अत्रान्तरे एकमप्यक्षरं तथागतेन नोदाहृतम्, न प्रव्याहरिष्यति, अवचनं बुद्धवचनमिति, तत्किमिदं संधायोक्तं तथागतेनार्हता सम्यक्संबुद्धेन अवचनं बुद्धवचनमिति ? भगवानाह-धर्मद्वयं महामते संधाय मयैतदुक्तम्। कतमद्धर्मद्वयम् ? यदुत प्रत्यात्मधर्मतां च संधाय पौराणस्थितिधर्मतां च। इदं महामते धर्मद्वयं संधायेदमुक्तं मया। तत्र स्वप्रत्यात्मधर्मतानुसंधिः कतमः ? यत्तैस्तथागतैरधिगतं तन्मयाप्यधिगतमनूनमनधिकं स्वप्रत्यात्मगतिगोचरं वाग्विकल्परहितमक्षरगतिद्वयविनिर्मुक्तम्। तत्र पौराणस्थितिधर्मता कतमा ? यदुत पौराणमिदं महामते धर्मतावन्मे हिरण्यरजतमुक्ताकरवन्महामते धर्मधातुस्थितिता-उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामता। पौराणनगरपथवन्महामते। तद्यथा महामते कश्चिदेव पुरुषोऽटव्यां पर्यटन् पौराणं नगरमनुपश्येदविकलपथप्रवेशम्। स तं नगरमनुप्रविशेत्। तत्र प्रविश्य प्रतिनिविश्य नगरं नगरक्रियासुखमनुभवेत्। तत्किं मन्यसे महामते अपि नु तेन पुरुषेण स पन्था उत्पादितो येन पथा तं नगरमनुप्रविष्टो नगरवैचित्र्यं च (अनुभूतम्) ? आह-नो भगवन्। भगवानाह-एवमेव महामते यन्मया तैश्च तथागतैरधिगतम्-स्थितैवैषा धर्मता धर्मस्थितिता धर्मनियामता तथता भूतता सत्यता। अत एतस्मात्कारणान्महामते मयेदमुक्तम्-यां च रात्रिं तथागतोऽभिसंबुद्धो यां च रात्रिं परिनिर्वास्यति, अत्रान्तरे एकमप्यक्षरं तथागतेन नोदाहृतं नोदाहरिष्यति॥

तत्रेदमुच्यते -

यस्यां च रात्र्यां धिगमो यस्यां च परिनिर्वृतः।

एतस्मिन्नन्तरे नास्ति मया किंचित्प्रकाशितम्॥ ७॥

प्रत्यात्मधर्मस्थितितां संधाय कथितं मया।

तैश्च बुद्धैर्मया चैव न च किंचिद्विशेषितम्॥ ८॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म-देशयतु मे भगवान्नास्त्यस्तित्वलक्षणं सर्वधर्माणां यथा अहं च अन्ये च बोधिसत्त्वा महासत्त्वा नास्त्यस्तित्ववर्जिताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्। भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवानेतदवोचत्-द्वयनिश्रितोऽयं महामते लोको यदुत अस्तित्वनिश्रितश्च नास्तित्वनिश्रितश्च। भावाभावच्छन्ददृष्टिपतितश्च अनिःशरणे निःशरणबुद्धिः। तत्र महामते कथमस्तित्वनिश्रितो लोकः ? यदुत विद्यमानैर्हेतुप्रत्ययैर्लोक उत्पद्यते नाविद्यमानैः, विद्यमानं चोत्पद्यमानमुत्पद्यते नाविद्यमानम्। स चैवं ब्रुवन् महामते भावानामस्तित्वहेतुप्रत्ययानां लोकस्य च हेत्वस्तिवादी भवति। तत्र महामते कथं नास्तित्वनिश्रितो भवति ? यदुत रागद्वेषमोहाभ्युपगमं कृत्वा पुनरपि रागद्वेषमोहभावाभावं विकल्पयति। यश्च महामते भावानामस्तित्वं नाभ्युपैति भावलक्षणविविक्तत्वात्, यश्च बुद्धश्रावकप्रत्येकबुद्धानां रागद्वेषमोहान्नाभ्युपैति भावलक्षणविनिर्मुक्तत्वाद्विद्यन्ते नेति। कतमोऽत्र महामते वैनाशिको भवति ? महामतिराह-य एष भगवन् अभ्युपगम्य रागद्वेषमोहान् न पुनरभ्युपैति। भगवानाह-साधु साधु महामते, साधु खलु पुनस्त्वं महामते, यस्त्वमेवं प्रभाषितः। केवलं महामते न रागद्वेषमोहभावाभावाद्वैनाशिको भवति। बुद्धश्रावकप्रत्येकबुद्धवैनाशिकोऽपि भवति। तत्कस्य हेतोः ? यदुत अध्यात्मबहिर्धानुपलब्धित्वाच्च क्लेशानाम्। न हि महामते रागद्वेषमोहा अध्यात्मबहिर्धोपलभ्यन्तेऽशरीरत्वात्। अनभ्युपगमत्वाच्च महामते रागद्वेषमोहाभावानां बुद्धश्रावकप्रत्येकबुद्धवैनाशिको भवति। प्रकृतिविमुक्तास्ते बुद्धश्रावकप्रत्येकबुद्धा बन्ध्यबन्धहेत्वभावात्। बन्ध्ये सति महामते बन्धो भवति बन्धहेतुश्च। एवमपि ब्रुवन् महामते वैनाशिको भवति। इदं महामते नास्त्यस्तित्वस्य लक्षणम्। इदं च महामते संधायोक्तं मया-वरं खलु सुमेरुमात्रा पुद्गलदृष्टिर्न त्वेव नास्त्यस्तित्वाभिमानिकस्य शून्यतादृष्टिः। नास्त्यस्तित्वाभिमानिको हि महामते वैनाशिको भवति। स्वसामान्यलक्षणदृष्टिपतिताशयः स्वचित्तदृश्यमात्राभावान्न प्रतिजानन्, अप्रतिज्ञानाद्बाह्यभावान्नित्यदर्शनात्क्षणपरंपराभेदभिन्नानि स्कन्धधात्वायतनानि संततिप्रबन्धेन विनिवृत्य विनिवर्तन्त इति कल्पाक्षररहितानि प्रतिविकल्पयन् पुनरपि वैनाशिको भवति॥

तत्रेदमुच्यते -

अस्तिनास्तीत्युभावन्तौ यावच्चित्तस्य गोचरः।

गोचरेण निरुद्धेन सम्यक्चित्तं निरुध्यते ॥ ९॥

विषये ग्रहणाभावान्निरोधो न च नास्ति च।

विद्यते तथतावस्तु आर्याणां गोचरो यथा॥ १०॥

अभूत्वा यस्य उत्पादो भूत्वा वापि विनश्यति।

प्रत्ययैः सदसच्चापि न ते मे शासने स्थिताः॥ ११॥

न तीर्थकैर्न बुद्धैश्च न मया न च केनचित्।

प्रत्ययैः साध्यतेऽस्तित्वं कथं नास्ति भविष्यति॥ १२॥

केन प्रसाधितास्तित्वं प्रत्ययैर्यस्य नास्तिता।

उत्पादवाददुर्दृष्ट्या नास्त्यस्तीति विकल्प्यते॥ १३॥

यस्य नोत्पद्यते किंचिन्न च किंचिन्निरुध्यते।

तस्यास्तिनास्ति नोपैति विविक्तं पश्यतो जगत्॥ १४॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते-देशयतु मे भगवान्, देशयतु मे सुगतः, देशयतु मे तथागतोऽर्हन् सम्यक्संबुद्धो वदतां वरिष्ठः सिद्धान्तनयलक्षणम्, येन सिद्धान्तनयलक्षणेन सुप्रतिविभागविद्धेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः सिद्धान्तनयलक्षणगतिंगताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, अपरप्रणेयाश्च भविष्यन्ति सर्वतार्किकतीर्थकराणाम्। भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-द्विविधं महामते सिद्धान्तनयलक्षणं सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वानां यदुत सिद्धान्तनयश्च देशनानयश्च। तत्र सिद्धान्तनयो महामते यदुत प्रत्यात्माधिगमविशेषलक्षणं वाग्विकल्पाक्षररहितमनास्रवधातुगतिप्रापकं प्रत्यात्मगतिभूमिगतिस्वलक्षणं सर्वतर्कतीर्थ्यमारवर्जितम्। विनिहत्य च तांस्तीर्थ्यमारान् प्रत्यात्मगतिर्विराजते। एतन्महामते सिद्धान्तनयलक्षणम्। तत्र देशनानयः कतमः ? यदुत नवाङ्गशासनविचित्रोपदेशोऽन्यानन्यसदसत्पक्षवर्जितः उपायकुशलविधिपूर्वकः सत्त्वेषु दर्शनावतारः। यद्येनाधिमुच्यते तत्तस्य देशयेत्। एतन्महामते देशनानयलक्षणम्। अत्र महामते त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैर्योगः करणीयः॥

तत्रेदमुच्यते -

सिद्धान्तश्च नयश्चापि प्रत्यात्मशासनं च वै।

ये पश्यन्ति विभागज्ञा न ते तर्कवशं गताः॥ १५॥

न भावो विद्यते सत्यं यथा बालैर्विकल्प्यते।

अभावेन तु वै मोक्षं कथं नेच्छन्ति तार्किकाः॥ १६॥

उत्पादभङ्गसंबद्धं संस्कृतं प्रतिपश्यतः।

दृष्टिद्वयं प्रपुष्णन्ति न पश्यन्ति विपर्ययात्॥ १७॥

एकमेव भवेत्सत्यं निर्वाणं मनवर्जितम्।

कदलीस्कन्धमायाभं लोकं पश्येद्विकल्पितम्॥ १८॥

रागो न विद्यते द्वेषो मोहश्चापि न पुद्गलः।

तृष्णाया ह्युदिताः स्कन्धा विद्यन्ते स्वप्नसादृशाः॥ १९॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म-देशयतु मे भगवान्, देशयतु मे सुगतः अभूतपरिकल्पस्य लक्षणम्। कथं किं केन कस्य भगवन् अभूतपरिकल्पः प्रवर्तमानः प्रवर्तते ? अभूतपरिकल्पोऽभूतपरिकल्प इति भगवन्नुच्यते। कतमस्यैतद्भगवन् धर्मस्याधिवचनं यदुत अभूतपरिकल्प इति ? किं वा प्रतिविकल्पयन् अभूतपरिकल्पो भवति ? भगवानाह-साधु साधु महामते। साधु खलु पुनस्त्वं महामते, यत्त्वमेतमर्थमध्येषितव्यं मन्यसे। बहुजनहिताय त्वं महामते प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च। तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-अर्थविविधवैचित्र्याभूतपरिकल्पाभिनिवेशान्महामते विकल्पः प्रवर्तमानः प्रवर्तते। नृणां ग्राह्यग्राहकाभिनिवेशाभिनिविष्टानां च महामते स्वचित्तदृश्यमात्रानवधारितमतीनां च सदसद्दृष्टिपक्षपतितानां च महामते तीर्थकरदृष्टिप्रतिविकल्पवासनाप्रतिपुष्टानां बाह्यविचित्रार्थोपलम्भाभिनिवेशाच्चित्तचैत्तकलापो विकल्पसंशब्दितः प्रवर्तमानः प्रवर्तते आत्मात्मीयाभिनिवेशात्। महामतिराहतद्यदि भगवन्नर्थविविधवैचित्र्याभूतपरिकल्पाभिनिवेशान्नृणां विकल्पः प्रवर्तमानः प्रवर्तते सदसद्दृष्टिपक्षपतितानां ग्राह्यग्राहकतीर्थकरदृष्टिप्रतिविकल्पपुष्टानां बाह्यविचित्रार्थोपलम्भाभिनिवेशाच्चित्तचैत्तकलापो विकल्पसंशब्दितः स्वचित्तदृश्यमात्रानवबोधात्सन्तासन्तविचित्रभावाभिनिवेशात्प्रवर्तमानः प्रवर्तते। तद्यथैव भगवन् बाह्यार्थविचित्रलक्षणः सदसत्पक्षपतितलक्षणो भावाभावविविक्तो दृष्टिलक्षणविनिवृत्तः, तथैव भगवन् परमार्थप्रमाणेन्द्रियावयवदृष्टान्तहेतुलक्षणविनिवृत्तः। तत्कथं भगवन्नेकत्र विचित्रविकल्पोऽभूतार्थविचित्रभावाभिनिवेशं प्रतिविकल्पयन् प्रवर्तते, न पुनः परमार्थलक्षणाभिनिवेशं प्रतिविकल्पयन् प्रवर्तते विकल्पः ? ननु भगवन् विषमहेतुवादस्तव प्रसज्यते एकत्र प्रवर्तते एकत्र नेति ब्रुवतः, सदसत्पक्षाश्रयाभिनिवेशश्च अभूतप्रतिविकल्पदृष्टिप्रवृत्तिं ब्रुवतो विविधमायाङ्गपुरुषवैचित्र्यान्निष्पन्नैकरूपवत्प्रतिविकल्पयन् विकल्पेन लक्षणवैचित्र्यभावाभावं च विकल्पस्य विनिवृत्तेर्लोकायतिकदृष्ट्याशयपतितश्च। भगवानाह-न हि महामते विकल्पः प्रवर्तते निवर्तते वा। तत्कस्य हेतोः ? यदुत सदसतो विकल्पस्याप्रवृत्तित्वाद्बाह्यदृश्यभावाभावात्स्वचित्तदृश्यमात्रावबोधान्महामते विकल्पो न प्रवर्तते न निवर्तते। अन्यत्र महामते बालानां स्वचित्तवैचित्र्यविकल्पकल्पितत्वात्। क्रियाप्रवृत्तिपूर्वको विकल्पो वैचित्र्यभावलक्षणाभिनिवेशात्प्रवर्तत इति वदामि। कथं खलु महामते बालपृथग्जनाः स्वविकल्पचित्तमात्रावबोधादात्मात्मीयाभिविनिवृत्तदृष्टयः कार्यकारणप्रत्ययविनिवृत्तदोषाः स्वचित्तमात्रावबोधात्परावृत्तचित्ताश्रयाः सर्वासु भूमिषु कृतविद्यास्तथागतस्वप्रत्यात्मगतिगोचरं पञ्चधर्मस्वभाववस्तुदृष्टिविकल्पविनिवृत्तिं प्रतिलभेरन् ? अत एतस्मात्कारणान्महामते इदमुच्यते मया-विकल्पोऽभूतार्थवैचित्र्यादभिनिवेशात्प्रवर्तते, स्वविकल्पवैचित्र्यार्थयथाभूतार्थपरिज्ञानाद्विमुच्यत इति॥

तत्रेदमुच्यते -

कारणैः प्रत्ययैश्चापि येषां लोकः प्रवर्तते।

चातुष्कोटिकया युक्ता न ते मन्नयकोविदाः॥ २०॥

असन्न जायते लोको न सन्न सदसन् क्वचित्।

प्रत्ययैः कारणैश्चापि यथा बालैर्विकल्प्यते॥ २१॥

न सन्नासन्न सदसद्यदा लोकं प्रपश्यति।

तदा व्यावर्तते चित्तं नैरात्म्यं चाधिगच्छति॥ २२॥

अनुत्पन्नाः सर्वभावा यस्मात्प्रत्ययसंभवाः।

कार्यं हि प्रत्ययाः सर्वे न कार्याज्जायते भवः॥ २३॥

कार्यान्न जायते कार्यं द्वित्वं कार्ये प्रसज्यते।

न च द्वित्वप्रसङ्गेन कार्याद्भावोपलभ्यते॥ २४॥

आलम्बालम्ब्यविगतं यदा पश्यति संस्कृतम्।

निश्चितं चित्तमात्रं हि चित्तमात्रं वदाम्यहम्॥ २५॥

मात्रा स्वभावसंस्थानं प्रत्ययैर्भाववर्जितम्।

निष्ठाभावः परं ब्रह्म एतां मात्रां वदाम्यहम्॥ २६॥

प्रज्ञप्तिसत्यतो ह्यात्मा द्रव्यसन्न हि विद्यते।

स्कन्धानां स्कन्धता तद्वत्प्रज्ञप्त्या न तु द्रव्यतः॥ २७॥

चतुर्विधा वै समता लक्षणं हेतुभावजम्।

नैरात्म्यसमता चैव चतुर्थं योगयोगिनाम्॥ २८॥

व्यावृत्तिः सर्वदृष्टीनां कल्प्यकल्पनवर्जिता।

अनुपलम्भो ह्यजातिश्च चित्तमात्रं वदाम्यहम्॥ २९॥

न भावं नापि चाभावं भावाभावविवर्जितम्।

तथता चित्तविनिर्मुक्तं चित्तमात्रं वदाम्यहम्॥ ३०॥

तथताशून्यताकोटि निर्वाणं धर्मधातुकम्।

कायं मनोमयं चित्रं चित्तमात्रं वदाम्यहम्॥ ३१॥

विकल्पवासनाबद्धं विचित्रं चित्तसंभवम्।

बहिराख्यायते नृणां चित्तमात्रं हि लौकिकम्॥ ३२॥

दृश्यं न विद्यते बाह्यं चित्तं चित्रं हि दृश्यते।

देहभोगप्रतिष्ठानं चित्तमात्रं वदाम्यहम्॥ ३३॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-यत्पुनरेतदुक्तं भगवता-यथारुतार्थग्रहणं न कर्तव्यं बोधिसत्त्वेन महासत्त्वेन अन्यैश्चेति। कथं न भगवन् बोधिसत्त्वो महासत्त्वो यथारुतार्थग्राही न भवति ? किं च रुतम् ? कोऽर्थः ? भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु न च मनसि कुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-तत्र रुतं महामते कतमत् ? यदुत वागक्षरसंयोगविकल्पो दन्तहनुतालुजिह्वौष्ठपुटविनिःसृतपरस्परजल्पो विकल्पवासनाहेतुको रुतमित्युच्यते। तत्र अर्थः पुनर्महामते कतमः ? यदुत श्रुतचिन्ताभावनामय्या प्रज्ञया एको रहोगतो निर्वाणपुरगामिमार्गः स्वबुद्ध्या वासनाश्रयपरावृत्तिपूर्वकः स्वप्रत्यात्मगतिगोचरभूमिस्थानान्तरविशेषार्थलक्षणगतिं प्रविचारयन् बोधिसत्त्वो महासत्त्वोऽर्थकुशलो भवति॥



पुनरपरं महामते रूतार्थकुशलो बोधिसत्त्वो महासत्त्वो रुतमर्थादन्यन्नान्यदिति समनुपश्यति, अर्थं च रुतात्। यदि च पुनर्महामते अर्थो रुतादन्यः स्यात्, अरुतार्थाभिव्यक्तिहेतुकः स्यात्। स चार्थो रुतेनानुप्रविश्यते प्रदीपेनेव धनम्। तद्यथा महामते कश्चिदेव पुरुषः प्रदीपं गृहीत्वा धनमवलोकयेत्-इदं मे धनमेवंविधमस्मिन् प्रदेशे इति। एवमेव महामते वाग्विकल्परुतप्रदीपेन बोधिसत्त्वा महासत्त्वा वाग्विकल्परहिताः स्वप्रत्यात्मार्यगतिमनुप्रविशन्ति॥



पुनरपरं महामते अनिरुद्धा अनुत्पन्नाः प्रकृतिपरिनिर्वृतास्त्रियानमेकयानं च पञ्चचित्तस्वभावादिषु यथारुतार्थाभिनिवेशं प्रतीत्य अभिनिवेशतः समारोपापवाददृष्टिपतितो भवति। अन्यथा व्यवस्थितानन्यथा प्रतिविकल्पयन् मायावैचित्र्यदर्शनविकल्पनवत्। तद्यथा महामते अन्यथा हि मायावैचित्र्यं द्रष्टव्यमन्यथा प्रतिकल्प्यते बालैर्न त्वार्यैः॥

तत्रेदमुच्यते -

यथारुतं विकल्पित्वा समारोपेन्ति धर्मताम्।

ते च वै तत्समारोपात्पतन्ति नरकालये॥ ३४॥

न ह्यात्मा विद्यते स्कन्धैः स्कन्धाश्चैव हि नात्मनि।

न ते यथा विकल्प्यन्ते न च ते वै न सन्ति च॥ ३५॥

अस्तित्वं सर्वभावानां यथा बालैर्विकल्प्यते।

यदि ते भवेद्यथादृष्टाः सर्वे स्युस्तत्त्वदर्शिनः॥ ३६॥

अभावात्सर्वधर्माणां संक्लेशो नास्ति शुद्धितः।

न ते तथा यथा दृष्टा न च ते वै न सन्ति च॥ ३७॥

पुनरपरं महामते ज्ञानविज्ञानलक्षणं ते उपदेक्ष्यामि, येन ज्ञानविज्ञानलक्षणेन सुप्रतिविभागविद्धेन त्वं च अन्ये च बोधिसत्त्वा महासत्त्वा ज्ञानविज्ञानलक्षणगतिंगताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। तत्र महामते त्रिप्रकारं ज्ञानं लौकिकं लोकोत्तरं च लोकोत्तरतमं च। तत्रोत्पन्नप्रध्वंसि विज्ञानम्। अनुत्पन्नप्रध्वंसि ज्ञानम्। पुनरपरं महामते निमित्तानिमित्तपतितं विज्ञानं नास्त्यस्तिवैचित्र्यलक्षणहेतुकं च। निमित्तानिमित्तव्यतिक्रान्तलक्षणं ज्ञानम्। पुनरपरं महामते उपचयलक्षणं विज्ञानम्। अपचयलक्षणं ज्ञानम्। तत्र त्रिविधं ज्ञानं स्वसामान्यलक्षणावधारकं च उत्पादव्ययावधारकं च अनुत्पादानिरोधावधारकं च। तत्र लौकिकं ज्ञानं सदसत्पक्षाभिनिविष्टानां सर्वतीर्थकरबालपृथग्जनानां च। तत्र लोकोत्तरं ज्ञानं सर्वश्रावकप्रत्येकबुद्धानां च स्वसामान्यलक्षणपतिताशयाभिनिविष्टानाम्। तत्र लोकोत्तरतमं ज्ञानं बुद्धबोधिसत्त्वानां निराभासधर्मप्रविचयादनिरोधानुत्पाददर्शनात्सदसत्पक्षविगतं तथागतभूमिनैरात्म्याधिगमात्प्रवर्तते॥



पुनरपरं महामते असङ्गलक्षणं ज्ञानम्, विषयवैचित्र्यसङ्गलक्षणं च विज्ञानम्। पुनरपरं महामते त्रिसङ्गक्षयोत्पादयोगलक्षणं विज्ञानमसङ्गस्वभावलक्षणं ज्ञानम्। पुनरपरं महामते अप्राप्तिलक्षणं ज्ञानं स्वप्रत्यात्मार्यज्ञानगतिगोचरमप्रवेशानिर्गमत्वादुदकचन्द्रवज्जले॥

तत्रेदमुच्यते -

चित्तेन चीयते कर्म ज्ञानेन च विधीयते।

प्रज्ञया च निराभासं प्रभावं चाधिगच्छति॥ ३८॥

चित्तं विषयसंबद्धं ज्ञानं तर्के प्रवर्तते।

निराभासे विशेषे च प्रज्ञा वै संप्रवर्तते॥ ३९॥

चित्तं मनश्च विज्ञानं संज्ञावैकल्पवर्जिताः।

विकल्पधर्मतां प्राप्ताः श्रावका न जिनात्मजाः॥ ४०॥

शान्ते क्षान्तिविशेषे वै ज्ञानं ताथागतं शुभम्।

संजायते विशेषार्थं समुदाचारवर्जितम्॥ ४१॥

प्रज्ञा हि त्रिविधा मह्यं आर्या येन प्रभाविता।

लक्षणं कल्प्यते येन यश्च भावान् वृणोति च॥ ४२॥

यानद्वयविसंयुक्ता प्रज्ञा ह्यभाववर्जिता।

सद्भावाभिनिवेशेन श्रावकाणां प्रवर्तते।

चित्तमात्रावतारेण प्रज्ञा ताथागती मता॥ ४३॥



पुनरपरं महामते नवविधा परिणामवादिनां तीर्थकराणां परिणामदृष्टिर्भवति यदुत संस्थानपरिणामो लक्षणपरिणामो हेतुपरिणामो युक्तिपरिणामो दृष्टिपरिणाम उत्पादपरिणामो भावपरिणामः प्रत्ययाभिव्यक्तिपरिणामः क्रियाभिव्यक्तिपरिणामः। एता महामते नव परिणामदृष्टयः, याः संधाय सर्वतीर्थकराः सदसत्पक्षोत्पादपरिणामवादिनो भवन्ति॥



तत्र महामते संस्थानपरिणामो यदुत संस्थानस्यान्यथाभावदर्शनात्, सुवर्णस्य भूषणविकृतिवैचित्र्यदर्शनवत्। तद्यथा महामते सुवर्णं कटकरुचकस्वस्त्यादिपरिणामेन परिणाम्यमानं विचित्रसंस्थानपरिणतं दृश्यते। न सुवर्णं भावतः परिणमति। एवमेव महामते सर्वभावानां परिणामः कैश्चित्तीर्थकरैर्विकल्प्यते अन्यैश्च कारणतः। न च ते तथा, न चान्यथा परिकल्पमुपादाय। एवं सर्वपरिणामभेदो द्रष्टव्यो दधिक्षीरमद्यफलपाकवत्। तद्यथा महामते एवं दधिक्षीरमद्यफलादीनामेकैकस्य परिणामो विकल्पस्य परिणामो विकल्प्यते तीर्थकरैः, न चात्र कश्चित्परिणमति सदसतोः स्वचित्तदृश्यबाह्यभावाभावात्, एवमेव महामते बालपृथग्जनानां स्वचित्तविकल्पभावनाप्रवृत्तिर्द्रष्टव्या। नात्र महामते कश्चिद्धर्मः प्रवर्तते वा निवर्तते वा, मायास्वप्नप्रवृत्तरूपदर्शनवत्। तद्यथा महामते स्वप्ने प्रवृत्तिनिवृत्ती उपलभ्येते वन्ध्यापुत्रमृतजन्मवत्॥



तत्रेदमुच्यते -

परिणामं कालसंस्थानं भूतभावेन्द्रियेषु च।

अन्तराभवसंग्राह्यो ये कल्पेन्ति न ते बुधाः॥ ४४॥

न प्रतीत्यसमुत्पन्नं लोकं कल्पेन्ति वै जिनाः।

किं तु प्रत्यय एवेदं लोकं गन्धर्वसंनिभम्॥ ४५॥

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तं सर्वधर्मसंध्यर्थपरिमोचनार्थमध्येषते स्म-देशयतु मे भगवान्, देशयतु मे तथागतोऽर्हन् सम्यक्संबुद्धः सर्वधर्माणां संध्यसंधिलक्षणम्, येन संध्यसंधिलक्षणेन सुप्रतिविभागाभिविद्धेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः सर्वसंध्यसंध्युपायकुशला यथारुतार्थाभिनिवेशसंधौ न प्रपतेयुः। सर्वधर्माणां संध्यसंधिकौशलेन वागक्षरप्रतिविकल्पनं च विनिहत्य बुद्ध्या सर्वबुद्धक्षेत्रपर्षच्चारिणो बलवशिताभिज्ञाधारणीमुद्रासुमुद्रिता विचित्रैर्निर्माणकिरणैर्दशनिष्ठापादे सुनिबद्धबुद्धयोऽनाभोगचन्द्रसूर्यमणिमहाभूतचर्यागतिसमाः सर्वभूमिषु स्वविकल्पलक्षणविनिवृत्तदृष्टयः स्वप्नमायादिसर्वधर्मानुदर्शनाद्बुद्धभूम्याश्रयानुप्रविष्टाः सर्वसत्त्वधातुं यथार्हत्त्वधर्मदेशनया आकृष्य स्वप्नमायादिसर्वधर्मसदसत्पक्षवर्जिते भङ्गोत्पादविकल्परहिते रुतान्यथापर्यायवृत्त्याश्रयतया प्रतिष्ठापयेयुः। भगवानाह-साधु साधु महामते। तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-अपरिमितो महामते सर्वधर्माणां यथारुतार्थाभिनिवेशसंधिः, लक्षणाभिनिवेशसंधिः, प्रत्ययाभिनिवेशसंधिः, भावाभावाभिनिवेशसंधिः, उत्पादानुत्पादविकल्पाभिनिवेशसंधिः, निरोधानिरोधाभिनिवेशप्रतिविकल्पसंधिः, यानायानाभिनिवेशप्रतिविकल्पसंधिः, संस्कृतासंस्कृतप्रतिविकल्पाभिनिवेशसंधिः, भूम्यभूमिस्वलक्षणविकल्पाभिनिवेशसंधिः, स्वविकल्पाभिसमयविकल्पसंधिः, सदसत्पक्षतीर्थ्याश्रयप्रतिविकल्पसंधिः, त्रियानैकयानाभिसमयविकल्पसंधिः। एते चान्ये च महामते बालपृथग्जनानां स्वविकल्पसंधयः, यां संधिं संधाय बालपृथग्जनाः प्रतिविकल्पयमानाः कौशेयक्रिमय इव स्वविकल्पदृष्टिसंधिसूत्रेण आत्मानं परांश्च स्वविकल्पदृष्टिसंधिसूत्ररोचनतया परिवेष्टयन्ति भावाभावसंधिलक्षणाभिनिवेशाभिनिविष्टाः। न चात्र महामते कश्चित्संधिर्न संधिलक्षणं विविक्तदर्शनात्सर्वधर्माणाम्। विकल्पस्याप्रवृत्तत्वान्महामते बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु विविक्तदर्शी विहरति॥



पुनरपरं महामते बाह्यभावाभावस्वचित्तदृश्यलक्षणावबोधान्निराभासचित्तमात्रानुसारित्वात्सदसतोः सर्वभावविकल्पसंधिविविक्तदर्शनान्न संधिर्नासंधिलक्षणं सर्वधर्माणाम्। नात्र कश्चिन्महामते बध्यते न च मुच्यते, अन्यत्र वितथपतितया बुद्ध्या बन्धमोक्षौ प्रज्ञायेते। तत्कस्य हेतोः ? यदुत सदसतोः संध्यनुपलब्धित्वात्सर्वधर्माणाम्॥



पुनरपरं महामते त्रयः संधयो बालानां पृथग्जनानां यदुत रागो द्वेषो मोहश्च। तृष्णा च पौनर्भविकी नन्दीरागसहगता यां संधाय गतिसंधयः प्रजायन्ते। तत्र संधिसंधानं सत्त्वानां गतिपञ्चकं संधेर्व्युच्छेदान्महामते नसंधिर्नासंधिलक्षणं प्रज्ञायते। पुनरपरं महामते त्रिसंगतिप्रत्ययक्रियायोगाभिनिवेशाय संधिः। विज्ञानानां नैरन्तर्यात्प्रवृत्तियोगेनाभिनिवेशतो भवसंधिर्भवति। त्रिसंगतिप्रत्ययव्यावृत्तेर्विज्ञानानां विमोक्षत्रयानुदर्शनात्सर्वसंधयो न प्रवर्तन्ते॥

तत्रेदमुच्यते -

अभूतपरिकल्पो हि संधिलक्षणमुच्यते।

तस्य भूतपरिज्ञानात्संधिजालं प्रसीदति॥ ४६॥

भावज्ञानरुतग्राहात्कौशेयक्रिमयो यथा।

बध्यन्ते स्वविकल्पेन बालाः संध्यविपश्चितः॥ ४७॥

पुनरपि महामतिराह-यत्पुनरेतदुक्तं भगवता-येन येन विकल्पेन ये ये भावा विकल्प्यन्ते, न हि स तेषां स्वभावो भवति। परिकल्पित एवासौ। तद्यदि भगवन् परिकल्पित एवासौ न भावस्वभावलक्षणावधारणम्, ननु ते भगवन् एवं ब्रुवतः संक्लेशव्यवदानाभावः प्रसज्यते परिकल्पितस्वभावभावितत्वात्सर्वधर्माणाम्। भगवानाह-एवमेतन्महामते यथा वदसि। न महामते यथा बालपृथग्जनैर्भावस्वभावो विकल्प्यते, तथा भवति। परिकल्पित एवासौ महामते, न भावस्वभावलक्षणावधारणम्। किं तु यथा महामते आर्यैर्भावस्वभावोऽवधार्यते आर्येण ज्ञानेन आर्येण दर्शनेन आर्येण प्रज्ञाचक्षुषा तथा भावस्वभावो भवति॥



महामतिराह-तद्यदि भगवन् यथा आर्यैरार्येण ज्ञानेन आर्येण दर्शनेन आर्येण प्रज्ञाचक्षुषा न दिव्यमांसचक्षुषा भावस्वभावोऽवधार्यते तथा भवति, न तु यथा बालपृथग्जनैर्विकल्प्यते भावस्वभावः, तत्कथं भगवन् बालपृथग्जनानां विकल्पव्यावृत्तिर्भविष्यति आर्यभाववस्त्वनवबोधात् ? न च ते भगवन् विपर्यस्ताः नाविपर्यस्ताः। तत्कस्य हेतोः ? यदुत आर्यवस्तुस्वभावानवबोधात्सदसतोर्लक्षणस्य वृत्तिदर्शनात्। आर्यैरपि भगवन् यथा वस्तु विकल्प्यते, न तथा भवति स्वलक्षणविषयागोचरत्वात्। स तेषामपि भगवन् भावस्वभावलक्षणः परिकल्पितस्वभाव एव ख्यायते हेत्वहेतुव्यपदेशात्। यदुत भावस्वलक्षणदृष्टिपतितत्वादन्येषां गोचरो भवति न यथा तेषाम्। इत्येवमनवस्था प्रसज्यते भगवन् भावस्वभावलक्षणानवबोधात्। न च भगवन् परिकल्पितस्वभावहेतुको भावस्वभावलक्षणः। स च कथं परिकल्पेन प्रतिविकल्प्यमानो न तथा भविष्यति यथा परिकल्प्यते ? अन्यदेव भगवन् प्रतिविकल्पस्य लक्षणम्, अन्यदेव स्वभावलक्षणम्। विसदृशहेतुके च भगवन् विकल्पस्वभावलक्षणे। ते च परस्परं परिकल्प्यमाने बालपृथग्जनैर्न तथा भविष्यतः। किं तु सत्त्वानां विकल्पव्यावृत्त्यर्थमिदमुच्यते। यथा प्रतिविकल्पेन विकल्प्यन्ते तथा न विद्यन्ते॥



किमिदं भगवन् सत्त्वानां त्वया नास्त्यस्तित्वदृष्टिं विनिवार्य वस्तुस्वभावाभिनिवेशेन आर्यज्ञानगोचरविषयाभिनिवेशान्नास्तित्वदृष्टिः पुनर्निपात्यते, विविक्तधर्मोपदेशाभावश्च क्रियते आर्यज्ञानस्वभाववस्तुदेशनया ? भगवानाह-न मया महामते विविक्तधर्मोपदेशाभावः क्रियते, न चास्तित्वदृष्टिर्निपात्यते आर्यवस्तुस्वभावनिर्देशेन। किं तु उत्रासपदविवर्जनार्थं सत्त्वानां महामते मया अनादिकालभावस्वभावलक्षणाभिनिविष्टानामार्यज्ञानवस्तुस्वभावाभिनिवेशलक्षणदृष्ट्या विविक्तधर्मोपदेशः क्रियते। न मया महामते भावस्वभावोपदेशः क्रियते। किं तु महामते स्वयमेवाधिगतयाथातथ्यविविक्तधर्मविहारिणो भविष्यन्ति। भ्रान्तेर्निर्निमित्तदर्शनात् स्वचित्तदृश्यमात्रमवतीर्य बाह्यदृश्यभावाभावविनिवृत्तदृष्टयो विमोक्षत्रयाधिगतयाथातथ्यविविक्तधर्मविहारिणो भविष्यन्ति। भ्रान्तेर्निर्निमित्तदृष्टयो विमोक्षत्रयाधिगतयाथातथ्यमुद्रासुमुद्रिता भावस्वभावेषु प्रत्यात्माधिगतया बुद्ध्या प्रत्यक्षविहारिणो भविष्यन्ति नास्त्यस्तित्ववस्तुदृष्टिविवर्जिताः॥



पुनरपरं महामते अनुत्पन्नाः सर्वधर्मा इति बोधिसत्त्वेन महासत्त्वेन प्रतिज्ञा न करणीया। तत्कस्य हेतोः ? प्रतिज्ञायाः सर्वस्वभावभावित्वात्तद्धेतुप्रवृत्तिलक्षणत्वाच्च। अनुत्पन्नान् सर्वधर्मान् प्रतिज्ञाय प्रतिब्रुवन् महामते बोधिसत्त्वो महासत्त्वः प्रतिज्ञाया हीयते। या प्रतिज्ञा-अनुत्पन्नाः सर्वधर्मा इति, सास्य प्रतिज्ञा हीयते, प्रतिज्ञायास्तदपेक्षोत्पत्तित्वात्। अथ सापि प्रतिज्ञा अनुत्पन्ना सर्वधर्माभ्यन्तरादनुत्पन्नलक्षणानुत्पत्तित्वात्प्रतिज्ञायाः, अनुत्पन्नाः सर्वधर्मा इति स वादः प्रहीयते। प्रतिज्ञावयवकारणेन सदसतोऽनुत्पत्तिः प्रतिज्ञायाः। सा हि महामते प्रतिज्ञा सर्वभावाभ्यन्तरा सदसतोरनुत्पत्तिलक्षणात्। यदि महामते तया प्रतिज्ञया अनुत्पन्नया अनुत्पन्नाः सर्वभावा इति प्रतिज्ञां कुर्वन्ति, एवमपि प्रतिज्ञाहानिः प्रसज्यते। प्रतिज्ञायाः सदसतोरनुत्पत्तिभावलक्षणत्वात्प्रतिज्ञा न करणीया। अनुत्पन्नस्वभावलक्षणा हि महामते तेषां प्रतिज्ञा भवति। अतस्ते महामते प्रतिज्ञा न करणीया। बहुदोषदुष्टत्वादवयवानां परस्परहेतुविलक्षणकृतकत्वाच्च अवयवानां प्रतिज्ञा न करणीया-यदुत अनुत्पन्नाः सर्वधर्माः। एवं शून्या अस्वभावाः सर्वधर्मा इति महामते बोधिसत्त्वेन महासत्त्वेन प्रतिज्ञा न करणीया। किं तु महामते बोधिसत्त्वेन महासत्त्वेन मायास्वप्नवत्सर्वभावोपदेशः करणीयो दृश्यादृश्यलक्षणत्वात्। दृष्टिबुद्धिमोहनत्वाच्च सर्वधर्माणां मायास्वप्नवद्भावोपदेशः करणीयोऽन्यत्र बालानामुत्रासपदविवर्जनतया। बालाः पृथग्जना हि महामते। नास्त्यस्तित्वदृष्टिपतितानां तेषामुत्रासः स्यान्मा इति। उत्रास्यमाना महामते दूरीभवन्ति महायानात्॥

तत्रेदमुच्यते -

न स्वभावो न विज्ञप्तिर्न वस्तु न च आलयः।

बालैर्विकल्पिता ह्येते शवभूतैः कुतार्किकैः॥ ४८॥

अनुत्पन्नाः सर्वधर्माः सर्वतीर्थ्यप्रसिद्धये।

न हि कस्यचिदुत्पन्ना भावा वै प्रत्ययान्विताः॥ ४९॥

अनुत्पन्नाः सर्वधर्माः प्रज्ञया न विकल्पयेत्।

तद्धेतुमत्त्वात्तत्सिद्धेर्बुद्धिस्तेषां प्रहीयते॥ ५०॥

केशोण्डुकं यथा मिथ्या गृह्यते तैमिरैर्जनैः।

तथा भावविकल्पोऽयं मिथ्या बालैर्विकल्प्यते॥ ५१॥

प्रज्ञप्तिमात्रात्रिभवं नास्ति वस्तुस्वभावतः।

प्रज्ञप्तिवस्तुभावेन कल्पयिष्यन्ति तार्किकाः॥ ५२॥

निमित्तं वस्तु विज्ञप्तिं मनोविस्पन्दितं च तत्।

अतिक्रम्य तु पुत्रा मे निर्विकल्पाश्चरन्ति ते॥ ५३॥

अजले च जलग्राहो मृगतृष्णा यथा नभे।

दृश्यं तथा हि बालानामार्याणां च विशेषतः॥ ५४॥

आर्याणां दर्शनं शुद्धं विमोक्षत्रयसंभवम्।

उत्पादभङ्गनिर्मुक्तं निराभासप्रचारिणाम्॥ ५५॥

निराभासो हि भावानामभावे नास्ति योगिनाम्।

भावाभावसमत्वेन आर्याणां जायते फलम्।

कथं ह्यभावो भावानां कुरुते समतां कथम्॥ ५६॥

यदा चित्तं न जानाति बाह्यमाध्यात्मिकं चलम्।

तदा तु कुरुते नाशं समताचित्तदर्शनम्॥ ५७॥



पुनरपि महामतिराह-यत्पुनरिदमुक्तं भगवता-यदा त्वालम्ब्यमर्थं नोपलभते ज्ञानं तदा विज्ञप्तिमात्रव्यवस्थानं भवति। विज्ञप्तेर्ग्राह्याभावाद्ग्राहकस्याप्यग्रहणं भवति। तदग्रहणान्न प्रवर्तते ज्ञानं विकल्पसंशब्दितम्। तत्किं पुनर्भगवन् भावानां स्वसामान्यलक्षणानन्यवैचित्र्यानवबोधान्नोपलभते ज्ञानम् ? अथ स्वसामान्यलक्षणवैचित्र्यभावस्वभावाभिभवान्नोपलभते ज्ञानम्। अथ कुड्यकटवप्रप्राकारभूजलपवनाग्निव्यवहितातिदूरसामीप्यान्नोपलभते ज्ञानं ज्ञेयम्। अथ बालान्धवृद्धयोगादिन्द्रियाणां ज्ञेयार्थं नोपलभते ज्ञानम्। तद्यदि भगवन् स्वसामान्यलक्षणानन्यवैचित्र्यानवबोधान्नोपलभते ज्ञानम्, न तर्हि भगवन् ज्ञानं वक्तव्यम्। अज्ञानमेतद्भगवन् यद्विद्यमानमर्थं नोपलभते। अथ स्वसामान्यलक्षणवैचित्र्यभावस्वभावाभिभवान्नोपलभते ज्ञानम्, तदज्ञानमेव भगवन् न ज्ञानम्। ज्ञेये सति भगवन् ज्ञानं प्रवर्तते नाभावात्। तद्योगाच्च ज्ञेयस्य ज्ञानमित्युच्यते। अथ कुड्यकटवप्रप्राकारभूजलपवनाग्निव्यवहितातिदूरसामीप्यान्नोपलभते बालवृद्धान्धयोगवद्वैकल्यादिन्द्रियाणां ज्ञानं नोपलभते। तद्यदेवं नोपलभते, न तद्भगवन् ज्ञानम्। अज्ञानमेव तद्विद्यमानमर्थं बुद्धिवैकल्यात्॥



भगवानाह-न हि तन्महामते एवमज्ञानं भवति। ज्ञानमेव तन्महामते, नाज्ञानम्। न चैतत्संधायोक्तं मया-यदा त्वालम्ब्यमर्थं नोपलभते ज्ञानं तदा विज्ञप्तिमात्रव्यवस्थानं भवतीति। किं तु स्वचित्तदृश्यमात्रावबोधात्सदसतोर्बाह्यभावाभावाज्ज्ञानमप्यर्थं नोपलभते। तदनुपलम्भाज्ज्ञानज्ञेययोरप्रवृत्तिः। विमोक्षत्रयानुगमाज्ज्ञानस्याप्यनुपलब्धिः। न च तार्किका अनादिकालभावाभावप्रपञ्चवासितमतय एवं प्रजानन्ति। ते चाप्रजानन्तो बाह्यद्रव्यसंस्थानलक्षणभावाभावं कृत्वा विकल्पस्याप्रवृत्तिं चित्तमात्रतां निर्देक्ष्यन्ति। आत्मात्मीयलक्षणग्राहाभिनिवेशाभिनिविष्टाः स्वचित्तदृश्यमात्रानवबोधाज्ज्ञानं ज्ञेयं प्रतिविकल्पयन्ति। ते च ज्ञानज्ञेयप्रतिविकल्पनया बाह्यभावाभावप्रविचयानुपलब्धेरुच्छेददृष्टिमाश्रयन्ते॥

तत्रेदमुच्यते -

विद्यमानं हि आलम्ब्यं यदि ज्ञानं न पश्यति।

अज्ञानं तद्धि न ज्ञानं तार्किकाणामयं नयः॥ ५८॥

अनन्यलक्षणाभावाज्ज्ञानं यदि न पश्यति।

व्यवधानदूरसामीप्यं मिथ्याज्ञानं तदुच्यते॥ ५९॥

बालवृद्धान्धयोगाच्च ज्ञानं यदि न जायते।

विद्यमानं हि तज्ज्ञेयं मिथ्याज्ञानं तदुच्यते॥ ६०॥

पुनरपरं महामते बालपृथग्जना अनादिकालप्रपञ्चदौष्ठुल्यस्वप्रतिविकल्पना नाटके नृत्यन्तः स्वसिद्धान्तनयदेशनायामकुशलाः स्वचित्तदृश्यबाह्यभावलक्षणाभिनिविष्टा उपायदेशनापाठमभिनिविशन्ते, न स्वसिद्धान्तनयं चातुष्कोटिकनयविशुद्धं प्रतिविभावयन्ति। महामतिराह-एवमेतद्भगवन् यथा वदसि। देशयतु मे भगवान् देशनासिद्धान्तनयलक्षणं येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा अनागतेऽध्वनि देशनासिद्धान्तनयकुशला न विप्रलभ्येरन् कुतार्किकैस्तीर्थकरश्रावकप्रत्येकबुद्धयानिकैः। भगवानाह-येन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-द्विप्रकारो महामते अतीतानागतप्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां धर्मनयो यदुत देशनानयश्च सिद्धान्तप्रत्यवस्थाननयश्च। तत्र देशनापाठनयो महामते यदुत विचित्रसंभारसूत्रोपदेशः। यथाचित्ताधिमुक्तिकतया देशयन्ति सत्त्वेभ्यः। तत्र सिद्धान्तनयः पुनर्महामते कतमः ? येन योगिनः स्वचित्तदृश्यविकल्पव्यावृत्तिं कुर्वन्ति यदुत एकत्वान्यत्वोभयत्वानुभयत्वपक्षापतनताचित्तमनोमनोविज्ञानातीतं स्वप्रत्यात्मार्यगतिगोचरं हेतुयुक्तिदृष्टिलक्षणविनिवृत्तमनालीढं सर्वकुतार्किकैस्तीर्थकरश्रावकप्रत्येकबुद्धयानिकैर्नास्त्यस्तित्वान्तद्वयपतितैः, तमहं सिद्धान्त इति वदामि। एतन्महामते सिद्धान्तनयदेशनालक्षणं यत्र त्वया च अन्यैश्च बोधिसत्त्वैर्महासत्त्वैर्योगः करणीयः॥

तत्रेदमुच्यते -

नयो हि द्विविधो मह्यं सिद्धान्तो देशना च वै।

देशेमि या बालानां सिद्धान्तं योगिनामहम्॥ ६१॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-उक्तमेतद्भगवंस्तथागतेनार्हता सम्यक्संबुद्धेन एकस्मिन् काले एकस्मिन् समये यथा लोकायतिको विचित्रमन्त्रप्रतिभानो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः, यं च सेवमानस्य लोकामिषसंग्रहो भवति न धर्मसंग्रह इति। किं कारणं पुनर्भगवतेदमुक्तं लोकायतिको विचित्रमन्त्रप्रतिभानः, यं च सेवमानस्य लोकामिषसंग्रहो भवति न धर्मसंग्रहः ? भगवानाह-विचित्रमन्त्रप्रतिभानो महामते लोकायतिको विचित्रैर्हेतुपदव्यञ्जनैर्बालान् व्यामोहयति न युक्तियुक्तं नार्थोपसंहितम्। अथ यावदेव यत्किंचिद्बालप्रलापं देशयति। एतेन महामते कारणेन लोकायतिको विचित्रमन्त्रप्रतिभान इत्युच्यते। अक्षरवैचित्र्यसौष्ठवेन बालानाकर्षति, न तत्त्वनयप्रवेशेन प्रविशति। स्वयं सर्वधर्मानवबोधादन्तद्वयपतितया दृष्ट्या बालान् व्यामोहयति, स्वात्मानं च क्षिणोति। गतिसंध्यप्रमुक्तत्वात्स्वचित्तदृश्यमात्रानवबोधाद्बाह्यभावस्वभावाभिनिवेशाद्विकल्पस्य व्यावृत्तिर्न भवति। अत एतस्मात्कारणान्महामते लोकायतिको विचित्रमन्त्रप्रतिभानोऽपरिमुक्त एव जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासादिभ्यो विचित्रैः पदव्यञ्जनैर्हेतुदृष्टान्तोपसंहारैर्बालान् व्यामोहयति॥



इन्द्रोऽपि महामते अनेकशास्त्रविदग्धबुद्धिः स्वशब्दशास्त्रप्रणेता। तच्छिष्येण नागवेशरूपधारिणा स्वर्गे इन्दसभायां प्रतिज्ञां कृत्वा तव वा सहस्रारो रथो भज्यतां मम वा एकैकनागभावस्य फणाच्छेदो भवत्विति। सहधर्मेण च नागवेशधारिणा लोकायतिकशिष्येण देवानामिन्द्रं विजित्य सहस्रारं रथं भङ्क्त्वा पुनरपीमं लोकमागतः। एवमिदं महामते लोकायतिकविचित्रहेतुदृष्टान्तोपनिबद्धं येन तिर्यञ्चोऽप्यधीत्य देवासुरलोकं विचित्रपदव्यञ्जनैर्व्यामोहयति। आयव्ययदृष्टाभिनिवेशेनाभिनिवेशयति किमङ्ग पुनर्मानुषान्। अत एतस्मात्कारणान्महामते लोकायतिकः परिवर्जितव्यो दुःखजन्महेतुवाहकत्वात्, न सेवितव्यो न भजितव्यो न पर्युपासितव्यः। शरीरबुद्धिविषयोपलब्धिमात्रं हि महामते लोकायतिकैर्देश्यते विचित्रैः पदव्यञ्जनैः। शतसहस्रं महामते लोकायतम्। किं तु पश्चिमे लोके पश्चिमायां पञ्चाशत्यां भिन्नसंहितं भविष्यति कुतर्कहेतुदृष्टिप्रणीतत्वात्। भिन्नसंहितं भविष्यत्यशिष्यपरिग्रहात्। एवदेव महामते लोकायतं भिन्नसंहितं विचित्रहेतूपनिबद्धं तीर्थकरैर्देश्यते स्वकारणाभिनिवेशाभिनिविष्टैः, न स्वनयः। न च महामते कस्यचित्तीर्थकरस्य स्वशास्त्रनयः। अन्यत्र लोकायतमेव अनेकैराकारैः कारणमुखशतसहस्रैर्देशयन्ति। न स्वनयं च न प्रजानन्ति मोहोहाल्लोकायतमिदमिति॥



महामतिराह-यदि भगवन् सर्वतीर्थकरा लोकायतमेव विचित्रैः पदव्यञ्जनैर्दृष्टान्तोपसंहारैर्देशयन्ति, न स्वनयं स्वकारणाभिनिवेशाभिनिविष्टाः, अथ किं भगवानपि लोकायतमेव देशयति आगतागतानां नानादेशसंनिपतितानां देवासुरमनुष्याणां विचित्रैः पदव्यञ्जनैः, न स्वमतं सर्वतीर्थ्यमतोपदेशाभ्यन्तरत्वात् ? भगवानाह-नाहं महामते लोकायतं देशयामि न चायव्ययम्। किं तु महामते अनायव्ययं देशयामि। तत्र आयो नाम महामते उत्पादराशिः समूहागमादुत्पद्यते। तत्र व्ययो नाम महामते विनाशः। अनायव्यय इत्यनुत्पादस्यैतदधिवचनम्। नाहं महामते सर्वतीर्थकरविकल्पाभ्यन्तरं देशयामि। तत्कस्य हेतोः ? यदुत बाह्यभावाभावादनभिनिवेशात्स्वचित्तदृश्यमात्रावस्थानाद्दिधावृत्तिनोऽप्रवृत्तेर्विकल्पस्य। निमित्तगोचराभावात्स्वचित्तदृश्यमात्रावबोधनात्स्वचित्तदृश्यविकल्पो न प्रवर्तते। अप्रवृत्तिविकल्पस्यानिमित्तशून्यताप्रणिहितविमोक्षत्रयावतारान्मुक्त इत्युच्यते॥



अभिजानाम्यहं महामते अन्यतरस्मिन् पृथिवीप्रदेशे विहरामि। अथ येनाहं तेन लोकायतिको ब्राह्मण उपसंक्रान्तः। उपसंक्रम्य अकृतावकाश एव मामेवमाह-सर्वं भो गौतम कृतकम्। तस्याहं महामते एवमाह-सर्वं भो ब्राह्मण यदि कृतकम्, इदं प्रथमं लोकायतम्। सर्वं भो गौतम अकृतकम्। यदि ब्राह्मण सर्वमकृतकम् , इदं द्वितीयं लोकायतम्। एवं सर्वमनित्यं सर्वं नित्यं सर्वमुत्पाद्यं सर्वमनुत्पाद्यम्। इदं ब्राह्मण षष्ठं लोकायतम्। पुनरपि महामते मामेवमाह ब्राह्मणो लोकायतिकः-सर्वं भो गौतम एकत्वं सर्वमन्यत्वं सर्वमुभयत्वं सर्वमनुभयत्वं सर्वं कारणाधीनं विचित्रहेतूपपत्तिदर्शनात्। इदमपि ब्राह्मण एकादशं लोकायतम्। पुनरपि भो गौतम सर्वमव्याकृतं सर्वं व्याकृतम्, अस्त्यात्मा नास्त्यात्मा, अस्त्ययं लोको नास्त्ययं लोकः,अस्ति परो लोको नास्ति परो लोकः, नास्त्यस्ति च परो लोकः, अस्ति मोक्षो नास्ति मोक्षः, सर्वं क्षणिकं सर्वमक्षणिकम्, आकाशमप्रतिसंख्यानिरोधो निर्वाणं भो गौतम कृतकमकृतकम्, अस्त्यन्तराभवो नास्त्यन्तराभव इति। तस्यैतदुक्तं महामते महा-यदि भो ब्राह्मण एवम्, इदमपि ब्राह्मण लोकायतमेव भवतीति, न मदीयम्। त्वदीयमेतद्ब्राह्मण लोकायतम्। अहं भो ब्राह्मण अनादिकालप्रपञ्चविकल्पवासनादौष्ठुल्यहेतुकं त्रिभवं वर्णयामि। स्वचित्तदृश्यमात्रानवबोधाद्ब्राह्मण विकल्पः प्रवर्तते न बाह्यभावोपलम्भात्। यथा तीर्थकराणामात्मेन्द्रियार्थसंनिकर्षात्रयाणां न तथा मम। अहं भे ब्राह्मण न हेतुवादी नाहेतुवादी अन्यत्र विकल्पमेव ग्राह्यग्राहकभावेन प्रज्ञाप्य प्रतीत्यसमुत्पादं देशयामि। न च त्वादृशा अन्ये वा बुध्यन्ते आत्मग्राहपतितया संतत्या। निर्वाणाकाशनिरोधानां महामते तत्त्वमेव नोपलभ्यते संख्यायाम्, कुतः पुनः कृतकत्वम्॥
पुनरपि महामते लोकायतिको ब्राह्मण एवमाह-अज्ञानतृष्णाकर्महेतुकमिदं भो गौतम त्रिभवम्, अथाहेतुकम् ? द्वयमप्येतद्ब्राह्मण लोकायतम्। स्वसामान्यलक्षणपतिता भो गौतम सर्वभावाः। इदमपि ब्राह्मण लोकायतमेव भवति। यावद्ब्राह्मण मनोविस्पन्दितं बाह्यार्थाभिनिवेशविकल्पस्य तावल्लोकायतम्॥



पुनरपरं महामते लोकायतिको ब्राह्मणो मामेतदवोचत्-अस्ति भो गौतम किंचिद्यन्न लोकायतम् ? मदीयमेव भो गौतम सर्वतीर्थकरैः प्रसिद्धं विचित्रैः पदव्यञ्जनैर्हेतुदृष्टान्तोपसंहारैर्देश्यते। अस्ति भो ब्राह्मण यन्न त्वदीयं न च न प्रसिद्धं देश्यते न च न विचित्रैः पदव्यञ्जनैर्न च नार्थोपसंहितमेव। किं तदलोकायतं यन्न प्रसिद्धं देश्यते च ? अस्ति च भो ब्राह्मण अलोकायतं यत्र सर्वतीर्थकराणां तव च बुद्धिर्न गाहते बाह्यभावादसद्भूतविकल्पप्रपञ्चाभिनिविष्टानाम्। यदुत विकल्पस्याप्रवृत्तिः सदसतः स्वचित्तदृश्यमात्रावबोधाद्विकल्पो न प्रवर्तते। बाह्यविषयग्रहणाभावाद्विकल्पः स्वस्थानेऽवतिष्ठते दृश्यते। तेनेदमलोकायतं मदीयं न च त्वदीयम्। स्वस्थानेऽवतिष्ठत इति न प्रवर्तत इत्यर्थः। अनुत्पत्तिविकल्पस्याप्रवृत्तिरित्युच्यते। एवमिदं भो ब्राह्मण यन्न लोकायतम्। संक्षेपतो ब्राह्मण यत्र विज्ञानस्यागतिर्गतिश्च्युतिरुपपत्तिः प्रार्थनाभिनिवेशाभिष्वङ्गो दर्शनं दृष्टिः स्थानं परामृष्टिर्विचित्रलक्षणाभिनिवेशः संगतिः सत्त्वानां तृष्णायाः कारणाभिनिवेशश्च। एतद्भो ब्राह्मण त्वदीयं लोकायतं न मदीयम्। एवमहं महामते पृष्टो लोकायतिकेन ब्राह्मणेनागत्य। स च मयैवं विसर्जितस्तूष्णीभावेन प्रक्रान्तः॥



अथ खलु कृष्णपक्षिको नागराजो ब्राह्मणरूपेणागत्य भगवन्तमेतदवोचत्-तेन हि गौतम परलोक एव न संविद्यते। तेन हि माणव कुतस्त्वमागतः ? इहाहं गौतम श्वेतद्वीपादागतः। स एव ब्राह्मण परो लोकः। अथ माणवो निष्प्रतिभानो निगृहीतोऽन्तर्हितोऽपृष्ट्वैव मां स्वनयप्रत्यवस्थानकथां चिन्तयन् शाक्यपुत्रो मन्नयबहिर्धा वराकोऽप्रवृत्तिलक्षणहेतुवादी स्वविकल्पदृश्यलक्षणावबोधाद्विकल्पस्याप्रवृत्तिं वर्णयति। त्वं चैतर्हि महामते मां पृच्छसि-किं कारणं लोकायतिकविचित्रमन्त्रप्रतिभानं सेव्यमानस्यामिषसंग्रहो भवति न धर्मसंग्रह इति। महामतिराह-अथ धर्मामिषमिति भगवन् कः पदार्थः ? भगवानाह-साधु साधु महामते। पदार्थद्वयं प्रति मीमांसा प्रवृत्ता अनागतां जनतां समालोक्य। तेन हि महामते शृणु, साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्॥



भगवांस्तस्यैतदवोचत्-तत्र आमिषं महामते कतमत् ? यदुत आमिषमामृशमाकर्षणं निर्मृषं परामृष्टिः स्वादो बाह्यविषयाभिनिवेशोऽन्तद्वयप्रवेशः। कुदृष्ट्या पुनः स्कन्धप्रादुर्भावो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासप्रवृत्तिस्तृष्णायाः पौनर्भविक्या आदिं कृत्वा। आमिषमिदमित्युच्यते मया च अन्यैश्च बुद्धैर्भगवद्भिः। एष महामते आमिषसंग्रहो न धर्मसंग्रहो यं लोकायतिकं सेवमानो लभते लोकायतम्॥



तत्र महामते धर्मसंग्रहः कतमः ? यदुत स्वचित्तधर्मनैरात्म्यद्वयावबोधाद्धर्मपुद्गलनैरात्म्यलक्षणदर्शनाद्विकल्पस्याप्रवृत्तिः, भूम्युत्तरोपरिज्ञानाच्चित्तमनोमनोविज्ञानव्यावृत्तिः, सर्वबुद्धज्ञानाभिषेकगतिः अनधिष्ठापदपरिग्रहः सर्वधर्मानाभोगवशवर्तिता धर्म इत्युच्यते, सर्वदृष्टिप्रपञ्चविकल्पभावान्तद्वयापतनतया। प्रायेण हि महामते तीर्थकरवादो बालानन्तद्वये पातयति न तु विदुषाम्, यदुत उच्छेदे च शाश्वते च। अहेतुवादपरिग्रहाच्छाश्वतदृष्टिर्भवति, कारणविनाशहेत्वभावादुच्छेददृष्टिर्भवति। किं तु उत्पादस्थितिभङ्गदर्शनाद्धर्म इत्येवं वदामि। एष महामते धर्मामिषनिर्णयः, यत्र त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः शिक्षितव्यम्॥

तत्रेदमुच्यते -

संग्रहैश्च दमेत्सत्त्वान् शीलेन च वशीकरेत्।

प्रज्ञया नाशयेद्दृष्टिं विमोक्षैश्च विवर्धयेत्॥ ६२॥

लोकायतमिदं सर्वं यत्तीर्थ्यैर्देश्यते मृषा।

कार्यकारणसद्दृष्ट्या स्वसिद्धान्तो न विद्यते॥ ६३॥

अहमेकः स्वसिद्धान्तं कार्यकारणवर्जितम्।

देशेमि शिष्यवर्गस्य लोकायतविवर्जितम्॥ ६४॥

चित्तमात्रं न दृश्योऽस्ति द्विधा चित्तं हि दृश्यते।

ग्राह्यग्राहकभावेन शाश्वतोच्छेदवर्जितम्॥ ६५॥

यावत्प्रवर्तते चित्तं तावल्लोकायतं भवेत्।

अप्रवृत्तिर्विकल्पस्य स्वचित्तं पश्यते जगत्॥ ६६॥

आयं कार्यार्थनिर्वृत्तिं व्ययं कार्यस्य दर्शनम्।

आयव्ययपरिज्ञानाद्विकल्पो न प्रवर्तते॥ ६७॥

नित्यमनित्यं कृतकमकृतकं परापरम्।

एवमाद्यानि सर्वाणि लोकायतनयं भवेत्॥ ६८॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-निर्वाणं निर्वाणमिति भगवन्नुच्यते। कस्यैतदधिवचनं यदुत निर्वाणमिति यत्सर्वतीर्थकरैर्विकल्प्यते ? भगवानाह-तेन हि महामते शृणु, साधु व सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। यथा तीर्थकरा निर्वाणं विकल्पयन्ति, न च भवति तेषां विकल्पानुरुपं निर्वाणम्। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-तत्र केचित्तावन्महामते तीर्थकराः स्कन्धधात्वायतननिरोधाद्विषयवैराग्यान्निवैधर्म्यादर्शनाच्चित्तचैत्तकलापो न प्रवर्तते। अतीतानागतप्रत्युत्पन्नविषयाननुस्मरणाद्दीपबीजानलवदुपादानोपरमादप्रवृत्तिर्विकल्पस्येति वर्णयन्ति। अतस्तेषां तत्र निर्वाणबुद्धिर्भवति। न च महामते विनाशदृष्ट्या निर्वायते॥



अन्ये पुनर्देशान्तरस्थानगमनं मोक्ष इति वर्णयन्ति विषयविकल्पोपरमादिषु पवनवत्। अन्ये पुनर्वर्णयन्ति तीर्थकराः बुद्धिबोद्धव्यदर्शनविनाशान्मोक्ष इति। अन्ये विकल्पस्याप्रवृत्तेर्नित्यानित्यदर्शनान्मोक्षं कल्पयन्ति। अन्ये पुनर्वर्णयन्ति विविधनिमित्तविकल्पो दुःखजन्मवाहक इति स्वचित्तदृश्यमात्राकुशलाः। निमित्तभयभीता निमित्तदर्शनात्सुखाभिलाषनिमित्ते निर्वाणबुद्धयो भवन्ति। अन्ये पुनरध्यात्मबाह्यानां सर्वधर्माणां स्वसामान्यलक्षणावबोधादविनाशतोऽतीतानागतप्रत्युत्पन्नभावास्तितया निर्वाणं कल्पयन्ति। अन्ये पुनरात्मसत्त्वजीवपोषपुरुषपुद्गलसर्वधर्माविनाशतश्च निर्वाणं कल्पयति। अन्ये पुनर्महामते तीर्थकरा दुर्विदग्धबुद्धयः प्रकृतिपुरुषान्तरदर्शनाद्गुणपरिणामकर्तृत्वाच्च निर्वाणं कल्पयन्ति। अन्ये पुण्यापुण्यपरिक्षयात्। अन्ये क्लेशक्षयाज्ज्ञानेन च। अन्ये ईश्वरस्वतन्त्रकर्तृत्वदर्शनाज्जगतो निर्वाणं कल्पयन्ति। अन्ये अन्योन्यप्रवृत्तोऽयं संभवो जगत इति न कारणतः। स च कारणाभिनिवेश एव, न चावबुध्यन्ते मोहात्, तदनवबोधान्निर्वाणं कल्पयन्ति। अन्ये पुनर्महामते तीर्थकराः सत्यमार्गाधिगमान्निर्वाणं कल्पयन्ति। अन्ये गुणगुणिनोरभिसंबद्धादेकत्वान्यत्वोभयत्वानुभयत्वदर्शनान्निर्वाणबुद्धयो भवन्ति। अन्ये स्वभावतः प्रवृत्तितो मयूरवैचित्र्यविविधरत्नाकरकण्टकतैक्ष्ण्यवद्भावानां स्वभावं दृष्ट्वा निर्वाणं विकल्पयन्ति। अन्ये पुनर्महामते पञ्चविंशतितत्त्वावबोधात्, अन्ये प्रजापालेन षाड्गुण्योपदेशग्रहणान्निर्वाणं कल्पयन्ति। अन्ये कालकर्तृदर्शनात्कालायत्ता लोकप्रवृत्तिरिति तदवबोधान्निर्वाणं कल्पयन्ति। अन्ये पुनर्महामते भवेन, अन्येऽभवेन, अन्ये भवाभवपरिज्ञया, अन्ये भवनिर्वाणाविशेषदर्शनेन निर्वाणं कल्पयन्ति। अन्ये पुनर्महामते वर्णयन्ति सर्वज्ञसिंहनादनादिनो यथा स्वचित्तदृश्यमात्रावबोधाद्बाह्यभावाभावानभिनिवेशाच्चातुष्कोटिकरहिताद् यथाभूतावस्थानदर्शनात्स्वचित्तदृश्यविकल्पस्यान्तद्वयापतनतया ग्राह्यग्राहकानुपलब्धेः सर्वप्रमाणाग्रहणाप्रवृत्तिदर्शनात्तत्त्वस्य व्यामोहकत्वादग्रहणं तत्त्वस्य, तद्व्युदासात्स्वप्रत्यात्मार्यधर्माधिगमान्नैरात्म्यद्वयावबोधात्क्लेशद्वयविनिवृत्तेरावरणद्वयविशुद्धत्वाद्भूम्युत्तरोत्तरतथागतभूमिमाया-दिविश्वसमाधिचित्तमनोमनोविज्ञानव्यावृत्तेर्निर्वाणं कल्पयन्ति। एवमन्यान्यपि यानि तार्किकैः कुतीर्थ्यप्रणीतानि तान्ययुक्तियुक्तानि विद्वद्भिः परिवर्जितानि। सर्वेऽप्येते महामते अन्तद्वयपतितया संतत्या निर्वाणं कल्पयन्ति। एवमादिभिर्विकल्पैर्महामते सर्वतीर्थकरैर्निर्वाणं परिकल्प्यते। न चात्र कश्चित्प्रवर्तते वा निवर्तते वा। एकैकस्य महामते तीर्थकरस्य निर्वाणं तत्स्वशास्त्रमतिबुद्ध्या परीक्ष्यमाणं व्यभिचरति। तथा न तिष्ठते यथा तैर्विकल्प्यते। मनस आगतिगतिविस्पन्दनान्नास्ति कस्यचिन्निर्वाणम्। अत्र त्वया महामते शिक्षित्वा अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः सर्वतीर्थकरनिर्वाणदृष्टिर्व्यावर्तनीया॥

तत्रेदमुच्यते-

निर्वाणदृष्टयस्तीर्थ्या विकल्पेन्ति पृथक्पृथक्।

कल्पनामात्रमेवैषां मोक्षोपायो न विद्यते॥ ६९॥

बन्ध्यबन्धननिर्मुक्ता उपायैश्च विवर्जिताः।

तीर्थ्या मोक्षं विकल्पेन्ति न च मोक्षो हि विद्यते॥ ७०॥

अनेकभेदभिन्नो हि तीर्थ्यानां दृश्यते नयः।

अतस्तेषां न मोक्षोऽस्ति कस्मान्मूढैर्विकल्प्यते॥ ७१॥

कार्यकारणदुर्दुष्ट्या तीर्थ्याः सर्वे विमोहिताः।

अतस्तेषां न मोक्षोऽस्ति सदसत्पक्षवादिनाम्॥ ७२॥

जल्पप्रपञ्चाभिरता हि बाला-

स्तत्त्वे न कुर्वन्ति मतिं विशालाम्।

जल्पो हि त्रैधातुकदुःखयोनि-

स्तत्त्वं हि दुःखस्य विनाशहेतुः॥ ७३॥

यथा हि दर्पणे रूपं दृश्यते न च विद्यते।

वासनादर्पणे चित्तं द्विधा दृश्यति बालिशैः॥ ७४॥

चित्तदृश्यापरिज्ञानाद्विकल्पो जायते द्विधा।

चित्तदृश्यपरिज्ञानाद्विकल्पो न प्रवर्तते॥ ७५॥

चित्तमेव भवेच्चित्रं लक्ष्यलक्षणवर्जितम्।

दृश्याकारं न दृश्योऽस्ति यथा बालैर्विकल्प्यते॥ ७६॥

विकल्पमात्रं त्रिभवं बाह्यमर्थं न विद्यते।

विकल्पं दृश्यते चित्रं न च बालैर्विभाव्यते॥ ७७॥

सूत्रे सूत्रे विकल्पोक्तं संज्ञानामान्तरेण च।

अभिधानविनिर्मुक्तमभिधेयं न लक्ष्यते॥ ७८॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-देशयतु मे भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धः स्वबुद्धबुद्धताम्, येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वास्तथागतस्वकुशलाः स्वमात्मानं परांश्चावबोधयेयुः। भगवानाह-तेन हि महामते त्वमेव परिपृच्छ। यथा ते क्षमते, तथा विसर्जयिष्यामि। महामतिराह-किं पुनर्भगवन् तथागतोऽर्हन् सम्यक्संबुद्धोऽकृतकः कृतकः कार्यं कारणं लक्ष्यं लक्षणमभिधानमभिधेयं बुद्धिर्बोद्धव्यः, एवमाद्यैः पदनिरुक्तैः किं भगवानन्योऽनन्यः ?



भगवानाह-न महामते तथागतोऽर्हन् सम्यक्संबुद्ध एवमाद्यैः पदनिरुक्तैरकृतको न कृतकं न कार्यं न कारणम्। तत्कस्य हेतोः ? यदुत उभयदोषप्रसङ्गात्। यदि हि महामते तथागतः कृतकः स्यात्, अनित्यत्वं स्यात्। अनित्यत्वात्सर्वं हि कार्यं तथागतः स्यात्। अनिष्टं चैतन्मम च अन्येषां च तथागतानाम्। अथाकृतकः स्यात्, अलब्धात्मकत्वात्समुदागतसंभारवैयर्थ्यं स्यात्, शशविषाणवद्वन्ध्यापुत्रतुल्यश्च स्यादकृतकत्वात्। यच्च महामते न कार्यं न कारणं तन्न सन्नासत्। यच्च न सन्नासत्, तच्चातुष्कोटिकबाह्यम्। चातुष्कोटिकं च महामते लोकव्यवहारः। यच्च चातुष्कोटिकबाह्यं तद्वाग्मात्रं प्रसज्यते वन्ध्यापुत्रवत्। वन्ध्यापुत्रो हि महामते वाग्मात्रं न चातुष्कोटिकपतितः। अपतितत्वादप्रमाणं विदुषाम्। एवं सर्वतथागतपदार्था विद्वद्भिः प्रत्यवगन्तव्याः। यदप्युक्तं मया निरात्मानः सर्वधर्मा इति, तस्याप्यर्थं निबोद्धव्यं महामते। निरात्मभावो महामते नैरात्म्यम्। स्वात्मना सर्वधर्मा विद्यन्ते न परात्मना गोश्ववत्। तद्यथा महामते न गोभावोऽश्वात्मको न चाश्वभावो गवात्मकः, न सन्नासत्, न च तौ स्वलक्षणतो न, विद्येते एव तौ स्वलक्षणतः, एवमेव महामते सर्वधर्मा न च स्वलक्षणेन न संविद्यन्ते। विद्यन्त एव। तेन च बालपृथग्जनैर्निरात्मार्थता अवबुध्यते विकल्पमुपादाय, न त्वविकल्पम्। एवं शून्यानुत्पादास्वाभाव्यं सर्वधर्मणां प्रत्यवगन्तव्यम्। एवं स्कन्धेभ्यो नान्यो नानन्यस्तथागतः। यद्यनन्यः स्कन्धेभ्यः स्यात्, अनित्यः स्यात् कृतत्वात्स्कन्धानाम्। अथान्यः स्यात्, द्वये सत्यन्यथा भवति गोविषाणवत्॥



तत्र सादृश्यदर्शनादनन्यत्वं ह्रस्वदीर्घदर्शनादन्यत्वं सर्वभावानाम्। दक्षिणं हि महामते गोविषाणं वामस्यान्यद्भवति, वाममपि दक्षिणस्य। एवं ह्रस्वदीर्घत्वयोः परस्परतः। एवं वर्णवैचित्र्यतश्च। अतश्चापरस्परतोऽन्यः। न चान्यस्तथागतः स्कन्धधात्वायनेभ्यः। एवं विमोक्षात्तथागतो नान्यो नानन्यः। तथागत एव मोक्षशब्देन देश्यते। यदि अन्यः स्यान्मोक्षात्तथागतः, रूपलक्षणयुक्तः स्यात्। रूपलक्षणयुक्तत्वादनित्यः स्यात्। अथानन्यः स्यात्, प्राप्तिलक्षणविभागो न स्याद्योगिनाम्। दृष्टश्च महामते विभागो योगिभिः। अतो नान्यो नानन्यः। एवं ज्ञानं ज्ञेयान्नान्यन्नानन्यत्। यद्धि महामते न नित्यं नानित्यं न कार्यं न कारणं न संस्कृतं नासंस्कृतं न बुद्धिर्न बोद्धव्यं न लक्ष्यं न लक्षणं न स्कन्धा न स्कन्धेभ्योऽन्यत् नाभिधेयं नाभिधानं नैकत्वान्यत्वोभयत्वानुभयत्वसंबद्धम्, तत्सर्वप्रमाणविनिवृत्तम्। यत्सर्वप्रमाणविनिवृत्तं तद्वाङ्भात्रं संपद्यते। यद्वाङ्भात्रं तदनुत्पन्नम्। यदनुत्पन्नं तदनिरुद्धम्। यदनिरुद्धं तदाकाशसमम्। आकाशं च महामते न कार्यं न कारणम्। यच्च न कार्यं न कारणं तन्निरालम्ब्यम्। यन्निरालम्ब्यं तत्सर्वप्रपञ्चातीतम्। यत्सर्वप्रपञ्चातीतं स तथागतः। एतद्धि महामते सम्यक्संबुद्धत्वम्। एषा सा बुद्धबुद्धता सर्वप्रमाणेन्द्रियविनिवृत्ता॥



तत्रेदमुच्यते -

प्रमाणेन्द्रियनिर्मुक्तं न कार्यं नापि कारणम्।

बुद्धिबोद्धव्यरहितं लक्ष्यलक्षणवर्जितम्॥ ७९॥

स्कन्धान् प्रतीत्य संबुद्धो न दृष्टः केनचित्क्वचित्।

यो न दृष्टः क्वचित्केनचित्कथं तस्य विभावना॥ ८०॥

न कृतको नाकृतको न कार्यं नापि कारणम्।

न च स्कन्धा न चास्कन्धा न चाप्यन्यत्र संकरात्॥ ८१॥

न हि यो येन भावेन कल्प्यमानो न दृश्यते।

न तं नास्त्येव गन्तव्यं धर्माणामेव धर्मता॥ ८२॥

अस्तित्वपूर्वकं नास्ति अस्ति नास्तित्वपूर्वकम्।

अतो नास्ति न गन्तव्यमस्तित्वं न च कल्पयेत्॥ ८३॥

आत्मनैरात्म्यसंमूढाद्धोषमात्रावलम्बिनः।

अन्तद्वयनिमग्नास्ते नष्टा नाशेन्ति बालिशान्॥ ८४॥

सर्वदोषविनिर्मुक्तं यदा पश्यन्ति मन्नयम्।

तदा सम्यक्प्रपश्यन्ति न ते दूषेन्ति नायकान्॥ ८५॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-देशयतु मे भगवान्, देशयतु सुगतः, यद्देशनापाठे भगवता अनिरोधानुत्पादग्रहणं कृतम्। उक्तं च त्वया यथा तथागतस्यैतदधिवचनमनिरोधानुत्पाद इति। तत्किमयं भगवन् अभावोऽनिरोधानुत्पादः, उत तथागतस्यैतत्पर्यायान्तरम् ? यद्भगवानेवमाह-अनिरुद्धा अनुत्पन्नाश्च भगवता सर्वधर्मा देश्यन्ते सदसत्पक्षादर्शनात्। यद्यनुत्पन्नाः सर्वधर्मा इति भगवन् धर्मग्रहणं न प्राप्नोति, अजातत्वात्सर्वधर्माणाम्। अथ पर्यायान्तरमेतत्कस्यचिद्धर्मस्य, तदुच्यतां भगवन्। भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-न हि महामते अभावस्तथागतो न च सर्वधर्माणामनिरोधानुत्पादग्रहणम्। न प्रत्ययोऽपेक्षितव्यो न च निरर्थकमनुत्पादग्रहणं क्रियते मया। किं तु महामते मनोमयधर्मकायस्य तथागतस्यैतदधिवचनं यत्र सर्वतीर्थकरश्रावकप्रत्येकबुद्धसप्तभूमिप्रतिष्ठितानां च बोधिसत्त्वानामविषयः। सोऽनुत्पादस्तथागतस्य। एतन्महामते पर्यायवचनम्। तद्यथा महामते इन्द्रः शक्रः पुरंदरः, हस्यः करः पाणिः, तनुर्देहं शरीरम्, पृथिवी भूमिर्वसुंधरा, खमाकाशं गगनम्। इत्येवमाद्यानां भावानामेकैकस्य भावस्य बहवः पर्यायवाचकाः शब्दा भवन्ति विकल्पिताः। न चैषां नामबहुत्वाद्भावबहुत्वं विकल्प्यते। न च स्वभावो न भवति। एवं महामते अहमपि सहायां लोकधातौ त्रिभिर्नामासंख्येयशतसहस्रैर्बालानां श्रवणावभासमागच्छामि। तैश्चाभिलपन्ति माम्, न च प्रजानन्ति तथागतस्यैते नामपर्याया इति। तत्र केचिन्महामते तथागतमिति मां संप्रजानन्ति। केचित्स्वयंभुवमिति। नायकं विनायकं परिणायकं बुद्धमृषिं वृषभं ब्रह्माणं विष्णुमीश्वरं प्रधानं कपिलं भूतान्तमरिष्टनेमिनं सोमं भास्करं रामं व्यासं शुकमिन्द्रं बलिं वरुणमिति चैके संजानन्ति। अपरे अनिरोधानुत्पादं शून्यतां तथतां सत्यतां भूततां भूतकोटिं धर्मधातुं निर्वाणं नित्यं समतामद्वयमनिरोधमनिमित्तं प्रत्ययं बुद्धहेतूपदेशं विमोक्षं मार्गसत्यानि सर्वज्ञं जिनं मनोमयमिति चैके संजानन्ति। एवमादिभिर्महामते परिपूर्णं त्रिभिर्नामासंख्येयशतसहस्रैरनूनैरनधिकैरिहान्येषु च लोकधातुषु मां जनाः संजानन्ते उदकचन्द्र इवाप्रविष्टनिर्गतम्। न च बाला अवबुध्यन्ते द्वयान्तपतितया संतत्या। अथ च सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति च मां पदार्थनिरुक्त्यकुशला अभिन्नसंज्ञाः, न स्वनयं प्रजानन्तिं देशनारुतपाठाभिनिविष्टाः। अनिरोधानुत्पादमभावं कल्पयिष्यन्ति न च तथागतनामपदपर्यायान्तरमिन्द्रशक्रपुरंदरं न स्वनयप्रत्यवस्थानपाठमधिमोक्षन्ति, यथारुतार्थपाठानुसारित्वात्सर्वधर्माणाम्। एवं च महामते वक्ष्यन्ति ते मोहपुरुषाः-यथारुत एवार्थः, अनन्योऽर्थो रुतादिति। तत्कस्य हेतोः ? यदुत अर्थस्याशरीरत्वाद्रुतादन्योऽर्थो न भवति। किं तु रुतमेवार्थ इति रुतस्वभावापरिज्ञानादविदग्धबुद्धयः। न त्वेवं ज्ञास्यन्ति महामते यथा रुतमुत्पन्नप्रध्वंसि, अर्थोऽनुत्पन्नप्रध्वंसी। रुतं महामते अक्षरपतितम्, अर्थोऽनक्षरपतितः। भावाभावविवर्जितत्वादजन्माशरीरम्। न च महामते तथागता अक्षरपतितं धर्मं देशयन्ति। अक्षराणां सदसतोऽनुपलब्धेः। अन्यत्र अक्षरपतिताशयः पुनर्महामते योऽक्षरपतितं धर्मं देशयति, स च प्रलपति, निरक्षरत्वाद्धर्मस्य। अत एतस्मात्कारणान्महामते उक्तं देशनापाठे मया अन्यैश्च बुद्धबोधिसत्त्वैः यथैकमप्यक्षरं तथागता नोदाहरन्ति न प्रत्याहरन्तीति। तत्कस्य हेतोः ? यदुत अनक्षरत्वाद्धर्माणाम्। न च नार्थोपसंहितमुदाहरन्ति। उदाहरन्त्येव विकल्पमुपादाय। अनुपादानान्महामते सर्वधर्माणां शासनलोपः स्यात्। शासनानां लोपाच्च बुद्धप्रत्येकबुद्धश्रावकबोधिसत्त्वानामभावः स्यात्। तदभावात्किं कस्य देश्येत ? अत एतस्मात्कारणान्महामते बोधिसत्त्वेन महासत्त्वेन देशनापाठरुतानभिनिविष्टेन भवितव्यम्। स व्यभिचारी महामते देशनापाठः। सत्त्वाशयप्रवृत्तत्वान्नानाधिमुक्तिकानां सत्त्वानां धर्मदेशना क्रियते चित्तमनोमनोविज्ञानव्यावृत्त्यर्थं मया अन्यैश्च तथागतैरर्हद्भिः सम्यक्संबुद्धैः, न स्वप्रत्यात्मार्यज्ञानाधिगमप्रत्यवस्थानात् सर्वधर्मनिराभासस्वचित्तदृश्यमात्रावबोधाद्द्विधाविकल्पस्य व्यावृत्तितः। अर्थप्रतिशरणेन महामते बोधिसत्त्वेन महासत्त्वेन भवितव्यं न व्यञ्जनप्रतिशरणेन। व्यञ्जनानुसारी महामते कुलपुत्रो वा कुलदुहिता वा स्वात्मानं च नाशयति, परार्थांश्च नावबोधयति। कुदृष्टिपतितया संतत्या स्वपक्षं विभ्राम्यते कुतीर्थकैः सर्वधर्मभूमिस्वलक्षणाकुशलैः पदनिरुक्त्यनभिज्ञैः॥



अथ सर्वधर्मभूमिस्वलक्षणकुशला भवन्ति पदपर्यायनिरुक्तिगतिंगता भावार्थयुक्तिकुशलाः। ततः स्वात्मानं च सम्यगनिमित्तसुखेन प्रीणयन्ति, परांश्च सम्यङ्महायाने प्रतिष्ठापयन्ति। महायाने च महामते सम्यक्परिगृह्यमाणे बुद्धश्रावकप्रत्येकबुद्धबोधिसत्त्वानां परिग्रहः कृतो भवति। बुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धपरिग्रहात्सर्वसत्त्वपरिग्रहः कृतो भवति। सर्वसत्त्वपरिग्रहात्सद्धर्मपरिग्रहः कृतो भवति। सद्धर्मपरिग्रहाच्च महामते बुद्धवंशस्यानुपच्छेदः कृतो भवति। बुद्धवंशस्यानुपच्छेदादायतनविशेषप्रतिलम्भाः प्रज्ञायन्ते। अतस्तेषु विशिष्टायतनप्रतिलम्भेषु बोधिसत्त्वा महासत्त्वा उपपत्तिं परिगृह्य महायाने प्रतिष्ठापनतया दशवशिताविचित्ररूपवेशधारिणो भूत्वा सत्त्वविशेषानुशयलक्षणगतिभूतास्तथात्वाय धर्मं देशयन्ति॥



तत्र तथात्वमनन्यथात्वं तत्त्वम्। अनायूहानिर्यूहलक्षणं सर्वप्रपञ्चोपशमं तत्त्वमित्युच्यते। तेन न महामते कुलपुत्रेण वा कुलदुहित्रा वा यथारुतार्थाभिनिवेशकुशलेन भवितव्यम्। निरक्षरत्वात्तत्त्वस्य। न चाङ्गुलिप्रेक्षकेण भवितव्यम्। तद्यथा महामते अङ्गुल्या कश्चित्कस्यचित्किंचिदादर्शयेत्। स चाङ्गुल्यग्रमेव प्रतिसेरद्वीक्षितुम्। एवमेव महामते बालजातीया इव बालपृथग्जनवर्गा यथारुताङ्गुल्यग्राभिनिवेशाभिनिविष्टा एव कालं करिष्यन्ति, न यथारुताङ्गुल्यग्रार्थं हित्वा परमार्थमागमिष्यन्ति। तद्यथा महामते अन्नं भोज्यं बालानां च कश्चिदनभिसंस्कृतं परिभोक्तुम्। अथ कश्चिदनभिसंस्कृतं परिभुञ्जीत, स उन्मत्त इति विकल्प्येत अनुपूर्वसंस्कारानवबोधादन्नस्य, एवमेव महामते अनुत्पादोऽनिरोधो नानभिसंस्कृतः शोभते। अवश्यमेवात्राभिसंस्कारेण भवितव्यम्, न चात्मानमङ्गुल्यग्रग्रहणार्थदर्शनवत्। अत एतेन कारणेन महामते अर्थाभियोगः करणीयः। अर्थो महामते विविक्तो निर्वाणहेतुः। रुतं विकल्पसंबद्धं संसारावाहकम्। अर्थश्च महामते बहुश्रुतानां सकाशाल्लभ्यते। बाहुश्रुत्यं च नाम महामते यदुत अर्थकौशल्यं न रुतकौशल्यम्। तत्रार्थकौशल्यं यत्सर्वतीर्थकरवादासंसृष्टं दर्शनम्। यथा स्वयं च न पतति परांश्च न पातयति। एवं सत्यर्थे महामते बाहुश्रुत्यं भवति। तस्मादर्थकामेन ते सेवनीयाः। अतो विपरीता ये यथारुतार्थाभिनिविष्टास्ते वर्जनीयास्तत्त्वान्वेषिणा॥



पुनरपरं महामतिर्बुद्धाधिष्ठानाधिष्ठित एवमाह-न भगवता अनिरोधानुत्पाददर्शनेन किंचिद्विशिष्यते। तत्कस्य हेतोः ? सर्वतीर्थकराणामपि भगवन् कारणान्यनुत्पन्नान्यनिरुद्धानि। तवापि भगवन् आकाशमप्रतिसंख्यानिरोधो निर्वाणधातुश्चानिरोधोऽनुत्पन्नः। तीर्थकरा अपि भगवन् कारणप्रत्ययहेतुकीं जगत उत्पत्तिं वर्णयन्ति। भगवानपि अज्ञानतृष्णाकर्मविकल्पप्रत्ययेभ्यो जगत उत्पत्तिं वर्णयति। तस्यैव कारणस्य संज्ञान्तरविशेषमुत्पाद्य प्रत्यया इति। एवं बाह्यैः प्रत्ययैर्बाह्यानाम्। ते च त्वं च भावानामुत्पत्तये। अतो निर्विशिष्टोऽयं भगवन् वादस्तीर्थकरवादेन भवति। अणुप्रधानेश्वरप्रजापतिप्रभृतयो नवद्रव्यसहिता अनिरुद्धा अनुत्पन्नाः। तवापि भगवन् सर्वभावा अनुत्पन्नानिरुद्धाः सदसतोऽनुपलब्धेः। भूताविनाशाच्च स्वलक्षणं नोत्पद्यते, न निरुध्यते। यां तां गतिं गत्वा भूतो भूतस्वभावं न विजहाति। भूतविकल्पविकारोऽयं भगवन् सर्वतीर्थकरैर्विकल्प्यते त्वया च। अत एतेन कारणेन अविशिष्टोऽयं वादः। विशेषो वात्र वक्तव्यो येन तथागतवादो विशेष्यते, न सर्वतीर्थकरवादः। अविशिष्यमाणे भगवन् स्ववादे तीर्थकराणामपि बुद्धप्रसङ्गः स्यादनिरोधानुत्पादहेतुत्वात्। अस्थानमनवकाशं चोक्तं भगवता यदेकत्र लोकधातौ बहवस्तथागता उत्पद्येरन्निति। प्राप्तं चैतत्तथागतबहुत्वं सदसत्कार्यपरिग्रहाच्चाविशिष्यमाणे स्ववादे॥



भगवानाह-न मम महामते अनिरोधानुत्पादस्तीर्थकरानुत्पादानिरोधवादेन तुल्यो नाप्युत्पादानित्यवादेन। तत्कस्य हेतोः ? तीर्थकराणां हि महामते भावस्वभावो विद्यत एवानुत्पन्नाविकरलक्षणप्राप्तः। न त्वेवं मम सदसत्पक्षपतितः। मम तु महामते सदसत्पक्षविगत उत्पादभङ्गविरहितो न भावो नाभावः, मायास्वरूपवैचित्र्यदर्शनवन्नाभावः। कथं न भावः ? यदुत रूपस्वभावलक्षणग्रहणाभावाद्दृश्यादृश्यतो ग्रहणाग्रहणतः। अत एतस्मात्कारणात्सर्वभावा न भावा नाभावाः। किं तु स्वचित्तदृश्यमात्रावबोधाद्विकल्पस्याप्रवृत्तेः स्वस्थो लोको निष्क्रियः। बालाः क्रियावन्तं कल्पयन्ति, न त्वार्याः। अभूतार्थविकल्पार्थविभ्रम् एष महामते गन्धर्वनगरमायापुरुषवत्। तद्यथा महामते कश्चिद्गन्धर्वनगरे बालजातीयो मायापुरुषसत्त्वसार्थवैचित्र्यं प्रविशन्तं वा निर्गच्छन्तं वा कल्पयेत्-अमी प्रविष्टा अमी निर्गताः। न च तत्र कश्चित्प्रविष्टो वा निर्गतो वा। अथ यावदेव विकल्पविभ्रमभाव एषः, तेषामेवमेव महामते उत्पादानुत्पादविभ्रम एष बालानाम्। न चात्र कश्चित्संस्कृतोऽसंस्कृतो वा मायापुरुषोत्पत्तिवत्। न च मायापुरुष उत्पद्यते वा निरुध्यते वा भावाभावाकिंचित्करत्वात्। एवमेव सर्वधर्मा भङ्गोत्पादवर्जिताः। अन्यत्र वितथपतितया संज्ञया बाला उत्पादनिरोधं कल्पयन्ति न त्वार्याः। तत्र वितथमिति महामते न तथा यथा भावस्वभावः कल्प्यते। नाप्यन्यथा। अन्यथा कल्प्यमाने सर्वभावस्वभावाभिनिवेश एव स्यात्। न विविक्तदर्शनाविविक्तदर्शनाद्विकल्पस्य व्यावृत्तिरेव न स्यात्। अत एतस्मात्कारणान्महामते अनिमित्तदर्शनमेव श्रेयो न निमित्तदर्शनम्। निमित्तं पुनर्जन्महेतुत्वादश्रेयः। अनिमित्तमिति महामते विकल्पस्याप्रवृत्तिरनुत्पादो निर्वाणमिति वदामि। तत्र निर्वाणमिति महामते यथाभूतार्थस्थानदर्शनं विकल्पचित्तचैत्तकलापस्य परावृत्तिपूर्वकम्। तथागतस्वप्रत्यात्मार्यज्ञानाधिगमं निर्वाणमिति वदामि॥



तत्रेदमुच्यते-

उत्पादविनिवृत्त्यर्थमनुत्पादप्रसाधकम्।

अहेतुवादं देशेमि न च बालैर्विभाव्यते॥ ८६॥

अनुत्पन्नमिदं सर्वं न च भावा न सन्ति च।

गन्धर्वस्वप्नमायाख्या भावा विद्यन्त्यहेतुकाः॥ ८७॥

अनुत्पन्नस्वभावाश्च शून्याः केन वदाहि मे।

समवायाद्विनिर्मुक्तो बुद्ध्या भावो न गृह्यते।

तस्माच्छून्यमनुत्पन्नं निःस्वभावं वदाम्यहम्॥ ८८॥

समवायस्तथैकैकं दृश्याभावान्न विद्यते।

न तीर्थ्यदृष्ट्यप्रलयात्समवायो न विद्यते॥ ८९॥

स्वप्न केशोण्डुकं माया गन्धर्वं मृगतृष्णिका।

अहेतुकानि दृश्यन्ते तथा लोकविचित्रता॥ ९०॥

निगृह्याहेतुवादेन अनुत्पादं प्रसाधयेत्।

अनुत्पादे प्रसाध्यन्ते मम नेत्री न नश्यति।

अहेतुवादे देश्यन्ते तीर्थ्यानां जायते भयम्॥ ९१॥

कथं केन कुतः कुत्र संभवोऽहेतुको भवेत्।

नाहेतुको न हेतुभ्यो यदा पश्यन्ति संस्कृतम्।

तदा व्यावर्तते दृष्टिर्विभङ्गोत्पादवादिनी॥ ९२॥

किमभावो ह्यनुत्पाद उत प्रत्ययवीक्षणम्।

अथ भावस्य नामेदं निरर्थं वा ब्रवीहि मे॥ ९३॥

न चाभावो ह्यनुत्पादो न च प्रत्ययवीक्षणम्।

न च भावस्य नामेदं न च नाम निरर्थकम्॥ ९४॥

यत्र श्रावकप्रत्येकबुद्धानां तीर्थ्यानां च अगोचरः।

सप्तभूमिगतानां च तदनुत्पादलक्षणम्॥ ९५॥

हेतुप्रत्ययव्यावृत्तिं कारणस्य निरोधनम्।

चित्तमात्रव्यवस्थानमनुत्पादं वदाम्यहम्॥ ९६॥

अहेतुवृत्तिर्भावानां कल्प्यकल्पनवर्जितम्।

सदसत्पक्षनिर्मुक्तमनुत्पादं वदाम्यहम्॥ ९७॥

चित्तं दृश्यविनिर्मुक्तं स्वभावद्वयवर्जितम्।

आश्रयस्य परावृत्तिमनुत्पादं वदाम्यहम्॥ ९८॥

न बाह्यभावं नाभावं नापि चित्तपरिग्रहः।

स्वप्नं केशोण्डुकं माया गन्धर्वं मृगतृष्णिका।

सर्वदृष्टिप्रहाणं च तदनुत्पादलक्षणम्॥ ९९॥

एवं शून्यास्वभावाद्यान् पदान् सर्वान् विभावयेत्।

न जातु शून्यया शून्या किं त्वनुत्पादशून्यया॥ १००॥

कलापः प्रत्ययानां च प्रवर्तते निवर्तते।

कलापाच्च पृथग्भूतं न जातं न निरुध्यते॥ १०१॥

भावो न विद्यतेऽन्योऽन्यः कलापाच्च पृथक् क्वचित्।

एकत्वेन पृथक्त्वेन यथा तीर्थ्यैर्विकल्प्यते॥ १०२॥

असन्न जायते भावो नासन्न सदसत्क्वचित्।

अन्यत्र हि कलापोऽयं प्रवर्तते निवर्तते॥ १०३॥

संकेतमात्रमेवेदमन्योन्यापेक्षसंकला।

अन्यमर्थं न चैवास्ति पृथक्प्रत्ययसंकलात्॥ १०४॥

जन्याभावादनुत्पादं तीर्थ्यदोषविवर्जितम्।

देशेमि संकलामात्रं न च बालैर्विभाव्यते॥ १०५॥

यस्य जन्यो भवेद्भावः संकलायाः पृथक् क्वचित्।

अहेतुवादी विज्ञेयः संकलाया विनाशकः॥ १०६॥

प्रदीपो द्रव्यजातीनां व्यञ्जकः संकला भवेत्।

यस्य भावो भवेत्कश्चित्संकलायाः पृथक् क्वचित्॥ १०७॥

अस्वभावा ह्यनुत्पन्नाः प्रकृत्या गगनोपमाः।

संकलायाः पृथग्भूता ये धर्माः कल्पिताबुधैः॥ १०८॥

अन्यमन्यमनुत्पादमार्याणां प्राप्तिधर्मता।

यस्य जातिनमुत्पादं तदनुत्पादे क्षान्तिः स्यात्॥ १०९॥

यदा सर्वमिमं लोकं संकलामेव पश्यति।

संकलामात्रमेवेदं तदा चित्तं समाध्यते॥ ११०॥

अज्ञानतृष्णाकर्मादिः संकलाध्यात्मिको भवेत्।

खेजमृद्भाण्डचक्रादि बीजभूतादि बाहिरम्॥ १११॥

परतो यस्य वै भावः प्रत्ययैर्जायते क्वचित्।

न संकलामात्रमेवेदं न ते युक्त्यागमे स्थिताः॥ ११२॥

यदि जन्यो न भावोऽस्ति स्याद्बुद्धिः कस्य प्रत्ययात्।

अन्योन्यजनका ह्येते तेनैते प्रत्ययाः स्मृताः॥ ११३॥

उष्णद्रवचलकठिना धर्मा बालैर्विकल्पिताः।

कलापोऽयं न धर्मोऽस्ति अतो वै निःस्वभावता॥ ११४॥

वैद्या यथातुरवशात्क्रियाभेदं प्रकुर्वते।

न तु शास्त्रस्य भेदोऽस्ति दोषभेदात्तु भिद्यते॥ ११५॥

तथाहं सत्त्वसंतानं क्लेशदोषैः सदूषितैः।

इन्द्रियाणां बलं ज्ञात्वा नयं देशेमि प्राणिनाम्॥ ११६॥

न क्लेशेन्द्रियभेदेन शासनं भिद्यते मम।

एकमेव भवेद्यानं मार्गमष्टाङ्गिकं शिवम्॥ ११७॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-अनित्यता अनित्यतेति भगवन् सर्वतीर्थकरैर्विकल्प्यते। त्वया च सर्वदेशनापाठे देश्यते-अनित्या बत संस्कारा उत्पादव्ययधर्मिण इति। तत्किमियं भगवंस्तथ्या मिथ्येति ? कतिप्रकारा भगवन् अनित्यता ? भगवानाह-अष्टप्रकारा हि महामते सर्वतीर्थकरैरनित्यता कल्प्यते, न तु मया। कतमाष्टप्रकारा ? तत्र केचित्तावन्महामते आहुः-प्रारम्भविनिवृत्तिरनित्यतेति। प्रारम्भो नाम महामते उत्पादोऽनुत्पादोऽनित्यता। अन्ये संस्थानविनिवृत्तिमनित्यतां वर्णयन्ति। अन्ये रूपमेवानित्यमिति। अन्ये रूपस्य विकारान्तरमनित्यताम्। नैरन्तर्यप्रबन्धेन स्वरसभङ्गभेदं सर्वधर्माणां क्षीरदधिपरिणामविकारान्तरवददृष्टनष्टा सर्वभावेषु प्रवर्तते न नित्यतेति। अन्ये पुनर्भावमनित्यतां कल्पयन्ति। अन्ये भावाभावमनित्यतां कल्पयन्ति। अन्ये अनुत्पादानित्यतां सर्वधर्माणामनित्यतायाश्च तदन्तर्गतत्वात्। तत्र महामते भावाभावानित्यता नाम यदुत भूतभौतिकस्वलक्षणविनाशानुपलब्धिरप्रवृत्तिर्भूतस्वभावस्य। तत्र अनुत्पादानित्यता नाम यदुत नित्यमनित्यं सदसतोरप्रवृत्तिः सर्वधर्माणामदर्शनं परमाणुप्रविचयाददर्शनम्। अनुत्पादस्यैतदधिवचनं नोत्पादस्य। एतद्धि महामते अनुत्पादानित्यताया लक्षणं यस्यानवबोधात्सर्वतीर्थकरा उत्पादानित्यतावादे प्रपतन्ति॥



पुनरपरं महामते यस्य भावो नित्यता, तस्य स्वमतिविकल्पेनैव नित्यता नानित्यता भावः। तत्कस्य हेतोः ? यदुत स्वयमविनाशित्वादनित्यतायाः। इह महामते सर्वभावानामभावोऽनित्यतायाः कार्यम्। न चानित्यतामन्तरेण सर्वभावाभाव उपलभ्यते दण्डशिलामुद्गरान्यतरभेद्यभेदकवत्। अन्योन्याविशेषदर्शनं दृष्टम्। अतोऽनित्यता कारणं सर्वभावाभावः कार्यम्। न च कार्यकारणयोर्विशेषोऽस्ति इयमनित्यता इदं कार्यमिति। अविशेषात्कार्यकारणयोर्नित्याः सर्वभावा अहेतुकत्वाद्भावस्य। सर्वभावाभावो हि महामते अहेतुकः। न च बालपृथग्जना अवबुध्यन्ते। न च कारणं विसदृशं कार्यं जनयति। अथ जनयेत्, तेषामनित्यता सर्वभावानां विसदृशं कार्यं स्यात्, कार्यकारणविभागो न स्यात्। दृष्टश्च कार्यकारणविभागस्तेषाम्। यदि वा अनित्यता अभावः स्यात्, क्रियाहेतुभावलक्षणपतितश्च स्यात्, एकभावेन वा परिसमाप्तः स्यात्सर्वभावेषु। क्रियाहेतुभावलक्षणपतितत्वाच्च स्वयमेवानित्यता नित्या स्यात्, अनित्यत्वादयः सर्वभावा नित्याः स्युर्नित्या एव भवेयुः॥



अथ सर्वभावान्तर्गता अनित्यता, तेन त्र्यध्वपतिता स्यात्। तत्र यदतीतं रूपं तत्तेन सह विनष्टम्। अनागतमपि नोत्पन्नम्। रूपानुत्पत्तितया वर्तमानेनापि रूपेण सहाभिन्नलक्षणम्। रूपं च भूतानां संनिवेशविशेषः। भूतानां भौतिकस्वभावो न विनश्यते अन्यानन्यविवर्जितत्वात्। सर्वतीर्थकराणामविनाशात्सर्वभूतानां सर्वं त्रिभवं भूतभौतिकं यत्रोत्पादस्थितिविकारः प्रज्ञप्यते। किमन्यदनित्यं भूतभौतिकविनिर्मुक्तं यस्यानित्यता कल्प्यते तीर्थकरैः ? भूतानि च न प्रवर्तन्ते न निवर्तन्ते स्वभावलक्षणाभिनिवेशात्॥



तत्र प्रारम्भविनिवृत्तिर्नाम अनित्यता-न पुनर्भूतानि भूतान्तरमारभन्ते परस्परविलक्षणस्वलक्षणान्न विशेषः प्रारभ्यते। तदविशेषात्तेषामपुनरारम्भाद्द्विधायोगादनारम्भस्यानित्यताबुद्धयो भवन्ति॥



तत्र संस्थानविनिवृत्तिर्नाम अनित्यता-यदुत न भूतभौतिकं विनश्यति आ प्रलयात्। प्रलयो नाम महामते आ परमाणोः प्रविचयपरीक्षा विनाशो भूतभौतिकस्य संस्थानस्यान्यथाभूतदर्शनाद्दीर्घह्रस्वानुलब्धिः। न परमाणुभूतेषु विनाशाद्भूतानां संस्थानविनिवृत्तिदर्शनात्सांख्यवादे प्रपतन्ति॥



तत्र संस्थानानित्यता नाम-यदुत यस्य रूपमेवानित्यं तस्य संस्थानस्यानित्यता न भूतानाम्। अथ भूतानामनित्यता स्यात्, लोकसंव्यवहाराभावः स्यात्। लोकसंव्यवहाराभावाल्लोकायतिकदृष्टिपतितः स्यात्, वाग्मात्रत्वात्सर्वभावानाम्। न पुनः स्वलक्षणोत्पत्तिदर्शनात्॥



तत्र विकारानित्यता नाम-यदुत रूपस्यान्यथाभूतदर्शनं न भूतानां सुवर्णसंस्थानभूषणविकारदर्शनवत्। न सुवर्णं भावाद्विनश्यति किं तु भूषणसंस्थानविनाशो भवति॥



ये चान्ये विकारपतिताः, एवमाद्यादिभिः प्रकारैस्तीर्थकरैरनित्यतादृष्टिर्विकल्प्यते। भूतानि हि दह्यमानान्यग्निना स्वलक्षणत्वान्न दह्यन्ते। अन्योन्यतः स्वलक्षणविगमान्महाभूतभौतिकभावोच्छेदः स्यात्॥



मम तु महामते न नित्या नानित्या। तत्कस्य हेतोः ? यदुत बाह्यभावानभ्युपगमात्रिभवचित्तमात्रोपदेशाद्विचित्रलक्षणानुपदेशान्न प्रवर्तते न निवर्तते महाभूतसंनिवेशविशेषः। न भूतभौतिकत्वाद्विकल्पस्य द्विधा प्रवर्तते ग्राह्यग्राहकालक्षणता। विकल्पस्य प्रवृत्तिद्वयपरिज्ञानाद्बाह्यभावाभावदृष्टिविगमात्स्वचित्तमात्रावबोधाद्विकल्पो विकल्पाभिसंस्कारेण प्रवर्तते नानभिसंस्कुर्वतः। चित्तविकल्पभावाभावविगमाल्लौकिकलोकोत्तरतमानां सर्वधर्माणां न नित्यता नानित्यता। स्वचित्तदृश्यमात्रानवबोधात्कुदृष्ट्यान्तद्वयपतितया संतत्या सर्वतीर्थकरैः स्वविकल्पानवबोधात्कथापुरुषैरसिद्धपूर्वैरनित्यता कल्प्यते। त्रिविधं च महामते सर्वतीर्थकरलौकिकलोकोत्तरतमानां सर्वधर्माणां लक्षणं वाग्विकल्पविनिःसृतानाम्। न च बालपृथग्जना अवबुध्यन्ते॥



तत्रेदमुच्यते-

प्रारम्भविनिवृत्तिं च संस्थानस्यान्यथात्वताम्।

भावमनित्यतां रूपं तीर्थ्याः कल्पेन्ति मोहिताः॥ ११८॥

भावानां नास्ति वै नाशं भूता भूतात्मना स्थिताः।

नानादृष्टिनिमग्नास्ते तीर्थ्याः कल्पेन्ति नित्यताम्॥ ११९॥

कस्यचिन्न हि तीर्थ्यस्य विनाशो न च संभवः।

भूता भूतात्मना नित्याः कस्य कल्पेन्त्यनित्यताम्॥ १२०॥

चित्तमात्रमिदं सर्वं द्विधा चित्तं प्रवर्तते।

ग्राह्यग्राहकभावेन आत्मात्मीयं न विद्यते॥ १२१॥

ब्रह्मादिस्थानपर्यन्तं चित्तमात्रं वदाम्यहम्।

चित्तमात्रविनिर्मुक्तं ब्रह्मादिर्नोपलभ्यते॥ १२२॥



इति लङ्कावतारे महायानसूत्रे अनित्यतापरिवर्तस्तृतीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project