Digital Sanskrit Buddhist Canon

२ षट्‍त्रिंशत्साहस्रसर्वधर्मसमुच्चयो नाम द्वितीयः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२ षट्‍त्रिंशत्साहस्रसर्वधर्मसमुच्चयो नाम द्वितीयः परिवर्तः।



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो महामतिबोधिसत्त्वसहितः सर्वबुद्धक्षेत्रानुचारी बुद्धानुभावेन उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिरभ्यष्टावीत् -

उत्पादभङ्गरहितो लोकः खपुष्पसंनिभः।

सदसन्नोपलब्धस्ते प्रज्ञया कृपया च ते॥ १॥

मायोपमाः सर्वधर्माः चित्तविज्ञानवर्जिताः।

सदसन्नोपलब्धास्ते प्रज्ञया कृपया च ते॥ २॥

शाश्वतोच्छेदवर्ज्यश्च लोकः स्वप्नोपमः सदा।

सदसन्नोपलब्धस्ते प्रज्ञया कृपया च ते॥ ३॥

मायास्वप्नस्वभावस्य धर्मकायस्य कः स्तवः।

भावानां निःस्वभावानां योऽनुत्पादः स संभवः॥ ४॥

इन्द्रियार्थविसंयुक्तमदृश्यं यस्य दर्शनम्।

प्रशंसा यदि वा निन्दा तस्योच्येत कथं मुने॥ ५॥

धर्मपुद्गलनैरात्म्यं क्लेशज्ञेयं च ते सदा।

विशुद्धमानिमित्तेन प्रज्ञया कृपया च ते॥ ६॥

न निर्वासि निर्वाणेन निर्वाणं त्वयि संस्थितम्।

बुद्धबोद्धव्यरहितं सदसत्पक्षवर्जितम्॥ ७॥

ये पश्यन्ति मुनिं शान्तमेवमुत्पत्तिवर्जितम्।

ते भोन्ति निरुपादाना इहामुत्र निरञ्जनाः॥ ८॥

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य स्वनामगोत्रं भगवते संश्रावयति स्म -

महामतिरहं भगवन् महायानगतिं गतः।

अष्टोत्तरं प्रश्नशतं पृच्छामि वदतां वरम्॥ ९॥

तस्य तद्वचनं श्रुत्वा बुद्धो लोकविदां वरः।

निरीक्ष्य परिषदं सर्वामलपी सुगतात्मजम्॥ १०॥

पृच्छन्तु मां जिनसुतास्त्वं च पृच्छ महामते।

अहं ते देशयिष्यामि प्रत्यात्मगतिगोचरम्॥ ११॥

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवता कृतावकाशो भगवतश्चरणयोर्निपत्य भगवन्तं प्रश्नं परिपृच्छति स्म -

कथं हि शुध्यते तर्कः कस्मात्तर्कः प्रवर्तते।

कथं हि दृश्यते भ्रान्तिः कस्माद्भ्रान्तिः प्रवर्तते॥ १२॥

कस्मात्क्षेत्राणि निर्माणा लक्षणं तीर्थिकाश्च ये।

निराभासः क्रमः केन जिनपुत्राश्च ते कुतः॥ १३॥

मुक्तस्य गमनं कुत्र बद्धः कः केन मुच्यते।

ध्यायिनां विषयः कोऽसौ कथं यानत्रयं भवेत्॥ १४॥

प्रत्यते जायते किं तत्कार्यं किं कारणं च किम्।

उभयान्तकथा केन कथं वा संप्रवर्तते॥ १५॥

आरूप्या च समापत्तिर्निरोधश्च कथं भवेत्।

संज्ञानिरोधश्च कथं कथं कस्माद्धि मुच्यते॥ १६॥

क्रिया प्रवर्तते केन गमनं देहधारिणाम्।

कथं दृश्यं विभावो कथं कथं भूमिषु वर्तते॥ १७॥

निर्भिद्येन्त्रिभवं कोऽसौ किं स्थानं का तनुर्भवेत्।

स्थितः प्रवर्तते कुत्र जिनपुत्रः कथं भवेत्॥ १८॥

अभिज्ञा लभते केन वशिताश्च समाधयः।

समाध्यते कथं चित्तं ब्रूहि मे जिनपुंगव॥ १९॥

आलयं च कथं कस्मान्मनोविज्ञानमेव च।

कथं प्रवर्तते दृश्यं कथं दृश्यान्निवर्तते॥ २०॥

गोत्रागोत्रं कथं केन चित्तमात्रं भवेत्कथम्।

लक्षणस्य व्यवस्थानं नैरात्म्यं च कथं भवेत्॥ २१॥

कथं न विद्यते सत्त्वः संवृत्या देशना कथम्।

कथं शाश्वत‍उच्छेददर्शनं न प्रवर्तते॥ २२॥

कथं हि तीर्थिकास्त्वं च लक्षणैर्न विरुध्यसे।

नैयायिकाः कथं ब्रूहि भविष्यन्ति अनागते॥ २३॥

शून्यता च कथं केन क्षणभङ्गश्च ते कथम्।

कथं प्रवर्तते गर्भः कथं लोको निरीहिकः॥ २४॥

मायास्वप्नोपमः केन कथं गन्धर्वसंनिभः।

मरीचिदकचन्द्राभः केन लोको ब्रवीहि मे॥ २५॥

बोध्यङ्गानां कथं केन बोधिपक्षा भवेत्कुतः।

मराश्च देशसंक्षोभो भवदृष्टिः कथं भवेत्॥ २६॥

अजातमनिरुद्धं च कथं खपुष्पसंनिभम्।

कथं च बुध्यसे लोकं कथं ब्रूषे निरक्षरम्॥ २७॥

निर्विकल्पा भवेत्केन कथं च गगनोपमाः।

तथता भवेत्कतिविधा चित्तं पारमिताः कति॥ २८॥

भूमिक्रमो भवेत्केन निराभासगतिश्च का।

नैरात्म्यं च द्विधा केन कथं ज्ञेयं विशुध्यति॥ २९॥

ज्ञानं कतिविधं नाथ शीलं सत्त्वाकराणि च।

केन प्रवर्तिता गोत्राः सुवर्णमणिमुक्तजाः॥ ३०॥

अभिलापो जानिकः केन वैचित्रसत्त्वभावयोः।

विद्यास्थानकलाश्चैव कथं केन प्रकाशितम्॥ ३१॥

गाथा भवेत्कतिविधा गद्यं पद्यं भवेत्कथम्।

कथं युक्तिः कतिविधा व्याख्यानं च कथंविधम्॥ ३२॥

अन्नपानं च वैचित्र्यं मैथुनं जायते कथम्।

राजा च चक्रवर्ती च मण्डली च कथं भवेत्॥ ३३॥

रक्ष्यं भवेत्कथं राज्यं देवकायाः कथंविधाः।

भूनक्षत्रगणाः केन सोमभास्करयोः कथम्॥ ३४॥

विद्यास्थानं भवेत्किं च मोक्षो योगी कतिविधः।

शिष्यो भवेत्कतिविध आचार्यश्च भवेत्कथम्॥ ३५॥

बुद्धो भवेत्कतिविधो जातकाश्च कथंविधाः।

मारो भवेत्कतिविधः पाषण्डाश्च कतिविधाः॥ ३६॥

स्वभावस्ते कतिविधश्चित्तं कतिविधं भवेत्।

प्रज्ञप्तिमात्रं च कथं ब्रूहि मे वदतांवर॥ ३७॥

घनाः खे पवनं केन स्मृतिर्मेघो कथं भवेत्।

तरुवल्ल्यः कथं केन ब्रूहि मे त्रिभवेश्वर॥ ३८॥

हया गजा मृगाः केन ग्रहणं यान्ति बालिशाः।

उहोडिमा नराः केन ब्रूहि मे चित्तसारथे॥ ३९॥

षड्‍ऋतुग्रहणं केन कथमिच्छन्तिको भवेत्।

स्त्रीपुंनपुंसकानां च कथं जन्म वदाहि मे॥ ४०॥

कथं व्यावर्तते योगात्कथं योगः प्रवर्तते।

कथं चैवंविधा योगे नराः स्थाप्या वदाहि मे॥ ४१॥

गत्यागतानां सत्त्वानां किं लिङ्गं किं च लक्षणम्।

धनेश्वरो कथं केन ब्रूहि मे गगनोपम॥ ४२॥

शाक्यवंशः कथं केन कथमिक्ष्वाकुसंभवः।

ऋषिर्दीर्घपताः केन कथं तेन प्रभावितम्॥ ४३॥

त्वमेव कस्मात्सर्वत्र सर्वक्षेत्रेषु दृश्यसे।

नामैश्चित्रैस्तथारूपैर्जिनपुत्रैः परीवृतः॥ ४४॥

अभक्ष्यं हि कथं मांसं कथं मांसं निषिध्यते।

क्रव्यादगोत्रसंभूता मासं भक्ष्यन्ति केन वै॥ ४५॥

सोमभास्करसंस्थाना मेरुपद्मोपमाः कथम्।

श्रीवत्ससिंहसंस्थानाः क्षेत्राः केन वदाहि मे॥ ४६॥

व्यत्यस्ता अधमूर्धाश्च इन्द्रजालोपमाः कथम्।

सर्वरत्नमया क्षेत्राः कथं केन वदाहि मे॥ ४७॥

वीणापणवसंस्थाना नानापुष्पफलोपमाः।

आदित्यचन्द्रविरजाः कथं केन वदाहि मे॥ ४८॥

केन निर्माणिका बुद्धाः केन बुद्धा विपाकजाः।

तथता ज्ञानबुद्धा वै कथं केन वदाहि मे॥ ४९॥

कामधातौ कथं केन न विबुद्धो वदाहि मे।

अकनिष्ठे किमर्थं तु वीतरागेषु बुध्यसे॥ ५०॥

निर्वृते सुगते कोऽसौ शासनं धारयिष्यति।

कियत्स्थायी भवेच्छास्ता कियन्तं स्थास्यते नयः॥ ५१॥

सिद्धान्तस्ते कतिविधो दृष्टिश्चापि कथंविधा।

विनयो भिक्षुभावश्च कथं केन वदाहि मे॥ ५२॥

परावृत्तिगतं केन निराभासगतं कथम्।

प्रत्येकजिनपुत्राणां श्रावकाणां वदाहि मे॥ ५३॥

अभिज्ञा लौकिकाः केन भवेल्लोकोत्तरा कथम्।

चित्तं हि भूमयः सप्त कथं केन वदाहि मे॥ ५४॥

संघस्ते स्यात्कतिविधः संघभेदः कथं भवेत्।

चिकित्साशास्त्रं सत्त्वानां कथं केन वदाहि मे॥ ५५॥

काश्यपः क्रकुछन्दश्च कोनाकमुनिरप्यहम्।

भाषसे जिनपुत्राणां वद कस्मान्महामुने॥ ५६॥

असत्यात्मकथा केन नित्यनाशकथा कथम्।

कस्मात्तत्त्वं न सर्वत्र चित्तमात्रं प्रभाषसे॥ ५७॥

नरनारीवनं केन हरीतक्यामलीवनम्।

कैलासश्चक्रवालश्च वज्रसंहनना कथम्॥ ५८॥

अचलास्तदन्तरे वै के नानारत्नोपशोभिताः।

ऋषिगन्धर्वसंकीर्णाः कथं केन वदाहि मे॥ ५९॥

इदं श्रुत्वा महावीरो बुद्धो लोकविदां वरः।

महायानमयं चित्तं बुद्धानां हृदयं बलम्॥ ६०॥

साधु साधु महाप्रज्ञ महामते निबोधसे।

भाषिष्याम्यनुपूर्वेण यत्त्वया परिपृच्छितम्॥ ६१॥

उत्पादमथ नोत्पादं निर्वाणं शून्यलक्षणम्।

संक्रान्तिमस्वभावत्वं बुद्धाः पारमितासुताः॥ ६२॥

श्रावका जिनपुत्राश्च तीर्थ्या ह्यारूप्यचारिणः।

मेरुसमुद्रा ह्यचला द्वीपा क्षेत्राणि मेदिनी॥ ६३॥

नक्षत्रा भास्करः सोमस्तीर्थ्या देवासुरास्तथा।

विमोक्षा वशिताभिज्ञा बला ध्याना समाधयः॥ ६४॥

निरोधा ऋद्धिपादाश्च बोध्यङ्गा मार्ग एव च।

ध्यानानि चाप्रमाणानि स्कन्धा गत्यागतानि च॥ ६५॥

समापत्तिर्निरोधाश्च व्युत्थानं चित्तदेशना।

चित्तं मनश्च विज्ञानं नैरात्म्यं धर्मपञ्चकम्॥ ६६॥

स्वभावः कल्पना कल्प्यं दृश्यं दृष्टिद्वयं कथम्।

यानाकराणि गोत्राणि सुवर्णमणिमुक्तिजाः॥ ६७॥

इच्छन्तिका महाभूता भ्रमरा एकबुद्धता।

ज्ञानं ज्ञेयो गमं प्राप्तिः सत्त्वानां च भवाभवम्॥ ६८॥

हया गजा मृगाः केन ग्रहणं ब्रूहि मे कथम्।

दृष्टान्तहेतुभिर्युक्तः सिद्धान्तो देशना कथम्॥ ६९॥

कार्यं च कारणं केन नानाभ्रान्तिस्तथा नयम्।

चित्तमात्रं न दृश्योऽस्ति भूमीनां नास्ति वै क्रमः॥ ७०॥

निराभासपरावृत्तिशतं केन ब्रवीषि मे।

चिकित्सशास्त्रं शिल्पाश्च कलाविद्यागमं तथा॥ ७१॥

अचलानां तथा मेरोः प्रमाणं हि क्षितेः कथम्।

उदधेश्चन्द्रसूर्याणां प्रमाणं ब्रूहि मे कथम्॥ ७२॥

सत्त्वदेहे कति रजांसि हीनोत्कृष्टमध्यमाः।

क्षेत्रे क्षेत्रे रजाः कृत्तो धन्वो धन्वे भवेत्कति॥ ७३॥

हस्ते धनुःक्रमे क्रोशे योजने ह्यर्धयोजने।

शशवातायनं लिक्षा एडकं हि यवाः कति॥ ७४॥

प्रस्थे हि स्याद्यवाः क्यन्तः प्रस्थार्धे च यवाः कति।

द्रोणे खार्यां तथा लक्षाः कोट्यो वै बिंबराः कति॥ ७५॥

सर्षपे ह्यणवः क्यन्तो रक्षिका सर्षपाः कति।

कतिरक्षिको भवेन्माषो धरणं माषकाः कति॥ ७६॥

कर्षो हि धरणाः क्यन्तः पलं वै कति कार्षिका।

एतेन पिण्डलक्षणं मेरुः कतिपलो भवेत्।

एवं हि पृच्छ मां पुत्र अन्यथा किं नु पृच्छसि॥ ७७॥

प्रत्येकश्रावकाणां हि बुद्धानां च जिनौरसाम्।

कत्यणुको भवेत्कायः किं नु एवं न पृच्छसि॥ ७८॥

वह्नेः शिखा कत्यणुका पवने ह्यणवः कति।

इन्द्रिये इन्द्रिये क्यन्तो रोमकूपे भ्रुवोः कति॥७९॥

धनेश्वरा नराः केन राजानश्चक्रवर्तिनः।

राज्यं च तैः कथं रक्ष्यं मोक्षश्चैषां कथं भवेत्॥ ८०॥

गद्यं पद्यं कथं ब्रूषे मैथुनं लोकविश्रुता।

अन्नपानस्य वैचित्र्यं नरनारिवनाः कथम्॥ ८१॥

वज्रसंहननाः केन ह्यचला ब्रूहि मे कथम्।

मायास्वप्ननिभाः केन मृगतृष्णोपमाः कथम्॥ ८२॥

घनानां संभवः कुत्र ऋतूनां च कुतो भवेत्।

रसानां रसता कस्मात्कस्मात्स्त्रीपुंनपुंसकम्॥ ८३॥

शोभाश्च जिनपुत्राश्च कुत्र मे पृच्छ मां सुत।

कथं हि अचला दिव्या ऋषिगन्धर्वमण्डिताः॥ ८४॥

मुक्तस्य गमनं कुत्र बद्धः कः केन मुच्यते।

ध्यायिनां विषयः कोऽसौ निर्माणस्तीर्थकानि च॥ ८५॥

असत्सदक्रिया केन कथं दृश्यं निवर्तते।

कथं हि शुध्यते तर्कः केन तर्कः प्रवर्तते॥ ८६॥

क्रिया प्रवर्तते केन गमनं ब्रूहि मे कथम्।

संज्ञायाश्छेदनं केन समाधिः केन चोच्यते॥८७॥

विदार्थ त्रिभवं कोऽसौ किं स्थानं का तनुर्भवेत्।

असत्यात्मकथा केन संवृत्या देशना कथम्॥ ८८॥

लक्षणं पृच्छसे केन नैरात्म्यं पृच्छसे कथम्।

गर्भा नैयायिकाः केन पृच्छसे मां जिनौरसाः॥ ८९॥

शाश्वतोच्छेददृष्टिश्च केन चित्तं सभाध्यते।

अभिलापस्तथा ज्ञानं शीलं गोत्रं जिनौरसाः॥ ९०॥

युक्तव्याख्या गुरुशिष्यः सत्त्वानां चित्रता कथम्।

अन्नपानं नभो मेघा माराः प्रज्ञप्तिमात्रकम्॥ ९१॥

तरुवल्ल्यः कथं केन पृच्छसे मां जिनौरस।

क्षेत्राणि चित्रता केन ऋषिर्दीर्घतपास्तथा॥ ९२॥

वंशः कस्ते गुरुः केन पृच्छसे मां जिनौरस।

उहोडिमा नरा योगे कामधातौ न बुध्यसे॥ ९३॥

सिद्धान्तो ह्यकनिष्ठेषु युक्तिं पृच्छसि मे कथम्।

अभिज्ञां लौकिकां केन कथं भिक्षुत्वमेव च॥ ९४॥

नैर्माणिकान् विपाकस्थान् बुद्धान् पृच्छसि मे कथम्।

तथताज्ञानबुद्धा वै संघाश्चैव कथं भवेत्॥ ९५॥

वीणापणवपुष्पाभाः क्षेत्रा लोकविवर्जिताः।

चित्तं हि भूमयः सप्त पृच्छसे मां जिनौरस।

एतांश्चान्यांश्च सुबहून् प्रश्नान् पृच्छसि मां सुत॥ ९६॥

एकैकं लक्षणैर्युक्तं दृष्टिदोषविवर्जितम्।

सिद्धान्तं देशनां वक्ष्ये सहसा त्वं शृणोहि मे॥ ९७॥

उपन्यासं करिष्यामि पदानां शृणु मे सुत।

अष्टोत्तरं पदशतं यथा बुद्धानुवर्णितम्॥ ९८॥

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-कतमद्भगवन् अष्टोत्तरपदशतम् ? भगवानाह-उत्पादपदम् अनुत्पादपदम्, नित्यपदम् अनित्यपदम्, लक्षणपदम् अलक्षणपदम्, स्थित्यन्यथात्वपदम् अस्थित्यन्यथात्वपदम्, क्षणिकपदम् अक्षणिकपदम्, स्वभावपदम् अस्वभावपदम्, शून्यतापदम् अशून्यतापदम्, उच्छेदपदम् अनुच्छेदपदम्, चित्तपदम् अचित्तपदम्, मध्यमपदम् अमध्यमपदम्, शाश्वतपदम् अशाश्वतपदम्, प्रत्ययपदम् अप्रत्ययपदम्, हेतुपदम् अहेतुपदम्, क्लेशपदम् अक्लेशपदम्, तृष्णापदम् अतृष्णापदम्, उपायपदम् अनुपायपदम्, कौशल्यपदम् अकौशल्यपदम्, शुद्धिपदम् अशुद्धिपदम्, युक्तिपदम् अयुक्तिपदम्, दृष्टान्तपदम् अदृष्टान्तपदम्, शिष्यपदम् अशिष्यपदम्, गुरुपदम् अगुरुपदम्, गोत्रपदम् अगोत्रपदम्, यानत्रयपदम् अयानत्रयपदम्, निराभासपदम् अनिराभासपदम्, प्रणिधानपदम् अप्रणिधानपदम्, त्रिमण्डलपदम्, अत्रिमण्डलपदम्, निमित्तपदम् अनिमित्तपदम्, सदसत्पक्षपदम् असदसत्पक्षपदम्, उभयपदम् अनुभयपदम्, स्वप्रत्यात्मार्यज्ञानपदम् अस्वप्रत्यात्मार्यज्ञानपदम्, दृष्टधर्मसुखपदम् अदृष्टधर्मसुखपदम्, क्षेत्रपदम् अक्षेत्रपदम्, अणुपदम् अनणुपदम्, जलपदम् अजलपदम्, धन्वपदम् अधन्वपदम्, भूतपदम् अभूतपदम्, संख्यागणितपदम् असंख्यागणितपदम्, अभिज्ञापदम् अनभिज्ञापदम्, खेदपदम् अखेदपदम्, घनपदम् अघनपदम्, शिल्पकलाविद्यापदम् अशिल्पकलाविद्यापदम्, वायुपदम् अवायुपदम्, भूमिपदम् अभूमिपदम्, चिन्त्यपदम् अचिन्त्यपदम्, प्रज्ञप्तिपदम् अप्रज्ञप्तिपदम्, स्वभावपदम् अस्वभावपदम्, स्कन्धपदम् अस्कन्धपदम्, सत्त्वपदम् असत्त्वपदम्, बुद्धिपदम् अबुद्धिपदम्, निर्वाणपदम् अनिर्वाणपदम्, ज्ञेयपदम् अज्ञेयपदम्, तीर्थ्यपदम् अतीर्थ्यपदम्, डमरपदम् अडमरपदम्, मायापदम् अमायापदम्, स्वप्नपदम् अस्वप्नपदम्, मरीचिपदम् अमरीचिपदम्, बिम्बपदम् अबिम्बपदम्, चक्रपदम् अचक्रपदम्, गन्धर्वपदम् अगन्धर्वपदम्, देवपदम् अदेवपदम्, अन्नपानपदम् अनन्नपानपदम्, मैथुनपदम् अमैथुनपदम्, दृष्टपदम् अदृष्टपदम्, पारमितापदम् अपारमितापदम्, शीलपदम् अशीलपदम्, सोभभास्करनक्षत्रपदम् असोमभास्करनक्षत्रपदम्, सत्यपदम् असत्यपदम्, फलपदम् अफलपदम्, निरोधपदम् अनिरोधपदम्, निरोधव्युत्थानपदम् अनिरोधव्युत्थानपदम्, चिकित्सापदम् अचिकित्सापदम्, लक्षणपदम् अलक्षणपदम्, अङ्गपदम् अनङ्गपदम्, कलाविद्यापदम् अकलाविद्यापदम्, ध्यानपदम् अध्यानपदम्, भ्रान्तिपदम् अभ्रान्तिपदम्, दृश्यपदम् अदृश्यपदम्, रक्ष्यपदम् अरक्ष्यपदम्, वंशपदम् अवंशपदम्, ऋषिपदम् अनर्षिपदम्, राज्यपदम् अराज्यपदम्, ग्रहणपदम् अग्रहणपदम्, रत्नपदम् अरत्नपदम्, व्याकरणपदम् अव्याकरणपदम्, इच्छन्तिकपदम् अनिच्छन्तिकपदम्, स्त्रीपुंनपुंसकपदम् अस्त्रीपुंनपुंसकपदम्, रसपदम् अरसपदम्, क्रियापदम् अक्रियापदम्, देहपदम् अदेहपदम्, तर्कपदम् अतर्कपदम्, चलपदम् अचलपदम्, इन्द्रियपदम् अनिन्द्रियपदम्, संस्कृतपदम् असंस्कृतपदम्, हेतुफलपदम् अहेतुफलपदम्, कनिष्ठपदम् अकनिष्ठपदम्, ऋतुपदम् अनृतुपदम्, द्रुमगुल्मलतावितानपदम् अद्रुमगुल्मलतावितानपदम्, वैचित्र्यपदम् अवैचित्र्यपदम्, देशनावतारपदम् अदेशनावतारपदम्, विनयपदम् अविनयपदम्, भिक्षुपदम् अभिक्षुपदम्, अधिष्ठानपदम् अनधिष्ठानपदम्, अक्षरपदम् अनक्षरपदम्। इदं तन्महामते अष्टोत्तरं पदशतं पूर्वबुद्धानुवर्णितम्॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-कतिविधो भगवन् विज्ञानानामुत्पादस्थितिनिरोधो भवति ? भगवानाह-द्विविधो महामते विज्ञानानामुत्पत्तिस्थितिनिरोधो भवति, न च तार्किका अवबुध्यन्ते यदुत प्रबन्धनिरोधो लक्षणनिरोधश्च। द्विविध उत्पादो विज्ञानानाम्, प्रबन्धोत्पदो लक्षणोत्पादश्च। द्विविधा स्थितिः प्रबन्धस्थितिर्लक्षणस्थितिश्च। त्रिविधं विज्ञानं प्रवृत्तिलक्षणं कर्मलक्षणं जातिलक्षणं च। द्विविधं महामते विज्ञानं संक्षेपेण अष्टलक्षणोक्तं ख्यातिविज्ञानं वस्तुप्रतिविकल्पविज्ञानं च। यथा महामते दर्पणस्य रूपग्रहणम्, एवं ख्यातिविज्ञानस्याख्यास्यति। ख्यातिविज्ञानं च महामते वस्तुप्रतिविकल्पविज्ञानं च। द्वेऽप्येतेऽभिन्नलक्षणेऽन्योन्यहेतुके। तत्र ख्यातिविज्ञानं महामते अचिन्त्यवासनापरिणामहेतुकम्। वस्तुप्रतिविकल्पविज्ञानं च महामते विषयविकल्पहेतुकमनादिकालप्रपञ्चवासनाहेतुकं च॥



तत्र सर्वेन्द्रियविज्ञाननिरोधो महामते यदुत आलयविज्ञानस्य अभूतपरिकल्पवासनावैचित्र्यनिरोधः। एष हि महामते लक्षणनिरोधः। प्रबन्धनिरोधः पुनर्महामते यस्माच्च प्रवर्तते। यस्मादिति महामते यदाश्रयेण यदालम्बनेन च। तत्र यदाश्रयमनादिकालप्रपञ्चदौष्ठुल्यवासना यदालम्बनं स्वचित्तदृश्यविज्ञानविषये विकल्पाः। तद्यथा महामते मृत्परमाणुभ्यो मृत्पिण्डः, न चान्यो नानन्यः, तथा सुवर्णं भूषणात्। यदि च महामते मृत्पिण्डो मृत्परमाणुभ्योऽन्यः स्यात्, तैर्नारब्धः स्यात्। स चारब्धस्तैर्मृत्परमाणुभिः, तस्मान्नान्यः। अथानन्यः स्यात्, मृत्पिण्डपरमाण्वोः प्रतिभागो न स्यात्। एवमेव महामते प्रवृत्तिविज्ञानान्यालयविज्ञानजातिलक्षणादन्यानि स्युः, अनालयविज्ञानहेतुकानि स्युः। अथानन्यानि प्रवृत्तिविज्ञाननिरोधे आलयविज्ञानविरोधः स्यात्, स च न भवति स्वजातिलक्षणनिरोधः। तस्मान्महामते न स्वजातिलक्षणनिरोधो विज्ञानानां किं तु कर्मलक्षणनिरोधः। स्वजातिलक्षणे पुनर्निरुध्यमाने आलयविज्ञाननिरोधः स्यात्। आलयविज्ञाने पुनर्निरुध्यमाने निर्विशिष्टस्तीर्थकरोच्छेदवादेनायं वादः स्यात्। तीर्थकराणां महामते अयं वादो यदुत विषयग्रहणोपरमाद्विज्ञानप्रबन्धोपरमो भवति। विज्ञानप्रबन्धोपरमादनादिकालप्रबन्धव्युच्छित्तिः स्यात्। कारणतश्च महामते तीर्थकराः प्रबन्धप्रवृत्तिं वर्णयन्ति। न चक्षुर्विज्ञानस्य रूपालोकसमुदयत उत्पत्तिं वर्णयन्ति अन्यत्र कारणतः। कारणं पुनर्महामते प्रधानपुरुषेश्वरकालाणुप्रवादाः॥



पुनरपरं महामते सप्तविधो भावस्वभावो भवति यदुत समुदयस्वभावो भावस्वभावो लक्षणस्वभावो महाभूतस्वभावो हेतुस्वभावः प्रत्ययस्वभावो निष्पत्तिस्वभावश्च सप्तमः॥



पुनरपरं महामते सप्तविधः परमार्थो यदुत चित्तगोचरो ज्ञानगोचरः प्रज्ञागोचरो दृष्टिद्वयगोचरो दृष्टिद्वयातिक्रान्तगोचरः सुतभूम्यनुक्रमणगोचरस्तथागतस्य प्रत्यात्मगतिगोचरः॥



एतन्महामते अतीतानागतप्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां भावस्वभावपरमार्थहृदयं येन समन्वागतास्तथागता लौकिकलोकोत्तरतमान् धर्मानार्येण प्रज्ञाचक्षुषा स्वसामान्यलक्षणपतितान् व्यवस्थापयन्ति। तथा च व्यवस्थापयन्ति यथा तीर्थकरवादकुदृष्टिसाधारणा न भवन्ति। कथं च महामते तीर्थकरवादकुदृष्टिसाधारणा भवन्ति ? यदुत स्वचित्तविषयविकल्पदृष्ट्यनवबोधनाद्विज्ञानानाम्। स्वचित्तदृश्यमात्रानवतारेण महामते बालपृथग्जना भावाभावस्वभावपरमार्थदृष्टिद्वयवादिनो भवन्ति॥



पुनरपरं महामते विकल्पभवत्रयदुःखविनिवर्तनमज्ञानतृष्णाकर्मप्रत्ययविनिवृत्तिं स्वचित्तदृश्यमायाविषयानुदर्शनं भाषिष्ये। ये केचिन्महामते श्रमणा वा ब्राह्मणा वा अभूत्वा श्रद्धाहेतुफलाभिव्यक्तिद्रव्यं च कालावस्थितं प्रत्ययेषु च स्कन्धधात्वायतनानामुत्पादस्थितिं चेच्छन्ति, भूत्वा च व्ययम्, ते महामते संततिक्रियोत्पादभङ्गभवनिर्वाणमार्गकर्मफलसत्यविनाशोच्छेदवादिनो भवन्ति। तत्कस्य हेतोः ? यदिदं प्रत्यक्षानुपलब्धेराद्यदर्शनाभावात् । तद्यथा महामते घटकपालाभावो घटकृत्यं न करोति, नापि दग्धबीजमङ्कुरकृत्यं करोति, एवमेव महामते ये स्कन्धधात्वायतनभावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते, स्वचित्तदृश्यविकल्पदर्शनाहेतुत्वान्नास्ति नैरन्तर्यप्रवृत्तिः॥



यदि पुनर्महामते अभूत्वा श्रद्धाविज्ञानानां त्रिसंगतिप्रत्ययक्रियायोगेनोत्पत्तिरभविष्यत्, असतामपि महामते कूर्मरोम्नामुत्पत्तिरभविष्यत्, सिकताभ्यो वा तैलस्य। प्रतिज्ञाहानिर्नियमनिरोधश्च महामते प्रसज्यते, क्रियाकर्मकरणवैयर्थ्यं च सदसतो ब्रुवतः। तेषामपि महामते त्रिसंगतिप्रत्ययक्रियायोगेनोपदेशो विद्यते हेतुफलस्वलक्षणतया अतीतानागतप्रत्युत्पन्नासत्सल्लक्षणास्तितां युक्त्यागमैस्तर्कभूमौ वर्तमानाः स्वदृष्टिदोषवासनतया निर्देक्ष्यन्ति। एवमेव महामते बालपृथग्जनाः कुदृष्टिदष्टा विषममतयोऽज्ञैः प्रणीतं सर्वप्रणीतमिति वक्ष्यन्ति॥



ये पुनरन्ये महामते श्रमणा वा ब्राह्मणा वा निःस्वभावघनालातचक्रगन्धर्वनगरानुत्पादमायामरीच्युदकचन्द्रस्वप्न-

स्वभावबाह्यचित्तदृश्यविकल्पानादिकालप्रपञ्चदर्शनेन स्वचित्तविकल्पप्रत्ययविनिवृत्तिरहिताः परिकल्पिताभिधानलक्ष्यलक्षणाभिधेयरहिता देहभोगप्रतिष्ठासमालयविज्ञानविषयग्राह्यग्राहकविसंयुक्तं निराभासगोचरमुत्पादस्थितिभङ्गवर्ज्यं स्वचित्तोत्पादानुगतं विभावयिष्यन्ति, नचिरात्ते महामते बोधिसत्त्वा महासत्त्वाः संसारनिर्वाणसमताप्राप्ता भविष्यन्ति। महाकरुणोपायकौशल्यानाभोगगतेन महामते प्रयोगेन सर्वसत्त्वमायाप्रतिबिम्बसमतया अनारब्धप्रत्ययतया अध्यात्मबाह्यविषयविमुक्ततया चित्तबाह्यादर्शनतया अनिमित्ताधिष्ठानानुगता अनुपूर्वेण भूमिक्रमसमाधिविषयानुगमनतया त्रैधातुकस्वचित्ततया अधिमुक्तितः प्रतिविभावयमाना मायोपमसमाधिं प्रतिलभन्ते। स्वचित्तनिराभासमात्रावतारेण प्रज्ञापारमिताविहारानुप्राप्ता उत्पादक्रियायोगविरहिताः समाधिवज्रबिम्बोपमं तथागतकायानुगतं तथतानिर्माणानुगतं बलाभिज्ञावशिताकृपाकरुणोपायमण्डितं सर्वबुद्धक्षेत्रतीर्थ्यायतनोपगतं चित्तमनोमनोविज्ञानरहितं परावृत्त्यानुश्रयानुपूर्वकं तथागतकायं महामते ते बोधिसत्त्वाः प्रतिलप्स्यन्ते। तस्मात्तर्हि महामते बोधिसत्त्वैर्महासत्त्वैस्तथागतकायानुगमेन प्रतिलाभिना स्कन्धधात्वायतनचित्तहेतुप्रत्ययक्रियायोगोत्पादस्थितिभङ्गविकल्पप्रपञ्चरहितैर्भवितव्यं चित्तमात्रानुसारिभिः॥



अनादिकालाप्रपञ्चदौष्ठुल्यविकल्पवासनहेतुकं त्रिभवं पश्यतो निराभासबुद्धभूम्यनुत्पादस्मरणतया प्रत्यात्मार्यधर्मगतिंगतः स्वचित्तवशवर्ती अनाभोगचर्यागतिंगतो विश्वरूपमणिसदृशः सूक्ष्मैः सत्त्वचित्तानुप्रवेशकैर्निर्माणविग्रहैश्चित्तमात्रावधारणतया भूमिक्रमानुसंघौ प्रतिष्ठापयति। तस्मात्तर्हि महामते बोधिसत्त्वेन महासत्त्वेन स्वसिद्धान्तकुशलेन भवितव्यम्॥



पुनरपि महामतिराह-देशयतु मे भगवान् चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावलक्षणकुसुमधर्मपर्यायं बुद्धबोधिसत्त्वानुयातं स्वचित्तदृश्यगोचरविसंयोजनं सर्वभाष्ययुक्तितत्त्वलक्षणविदारणं सर्वबुद्धप्रवचनहृदयं लङ्कापुरिगिरिमलये निवासिनो बोधिसत्त्वानारभ्योदधितरंगालयविज्ञानगोचरं धर्मकायं तथागतानुगीतं प्रभाषस्व॥



अथ खलु भगवान् पुनरेव महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-चतुर्भिर्महामते कारणैश्चक्षुर्विज्ञानं प्रवर्तते। कतमैश्चतुर्भिः ? यदुत स्वचित्तदृश्यग्रहणानवबोधतोऽनादिकालप्रपञ्चदौष्ठुल्यरूपवासनाभिनिवेशतो विज्ञानप्रकृतिस्वभावतो विचित्ररूपलक्षणकौतूहलतः। एभिर्महामते चतुर्भिः कारणैरोघान्तरजलस्थानीयादालयविज्ञानात्प्रवृत्तिविज्ञानतरंग‍उत्पद्यते। यथा महामते चक्षुर्विज्ञाने, एवं सर्वन्द्रियपरमाणुरोमकूपेषु युगपत्प्रवृत्तिक्रमविषयादर्शबिम्बदर्शनवत् उदधेः पवनाहता इव महामते विषयपवनचित्तोदधितरंगा अव्युच्छिन्नहेतुक्रियालक्षणा अन्योन्यविनिर्मुक्ताः कर्मजातिलक्षणसुविनिबद्धरूपस्वभावानवधारिणो महामते पञ्च विज्ञानकायाः प्रवर्तन्ते। सह तैरेव महामते पञ्चभिर्विज्ञानकायैर्हेतुविषयपरिच्छेदलक्षणावधारकं नाम मनोविज्ञानं तद्धेतुजशरीरं प्रवर्तते। न च तेषां तस्य चैवं भवति-वयमत्रान्योन्यहेतुकाः स्वचित्तदृश्यविकल्पाभिनिवेशप्रवृत्ता इति॥



अथ च अन्योन्याभिन्नलक्षणसहिताः प्रवर्तन्ते विज्ञप्तिविषयपरिच्छेदे। तथा च प्रवर्तमानाः प्रवर्तन्ते यथा समापन्नस्यापि योगिनः सूक्ष्मगतिवासनाप्रवृत्ता न प्रज्ञायन्ते। योगिनां चैवं भवति-निरोध्य विज्ञानानि समापत्स्यामहे इति। ते चानिरुद्धैरेव विज्ञानैः समापद्यन्ते वासनाबीजानिरोधादनिरुद्धाः, विषयप्रवृत्तग्रहणवैकल्यान्निरुद्धाः। एवं सूक्ष्मो महामते आलयविज्ञानगतिप्रचारो यत्तथागतं स्थापयित्वा भूमिप्रतिष्ठितांश्च बोधिसत्त्वान्, न सुकरमन्यैः श्रावकप्रत्येकबुद्धतीर्थ्ययोगयोगिभिरधिगन्तुं समाधिप्रज्ञाबलाधानतोऽपि वा परिच्छेत्तुम्। अन्यत्र भूमिलक्षणप्रज्ञाज्ञानकौशलपदप्रभेदविनिश्चयजिनानन्तकुशलमूलोपचयस्वचित्तदृश्यविकल्पप्रपञ्चविरहितैर्वनगहनगुहालयान्तर्गतैर्महामते हीनोत्कृष्टमध्यमयोगयोगिभिर्न शक्यं स्वचित्तविकल्पदृश्यधाराद्रष्ट्रनन्तक्षेत्रजिनाभिषेकवशिताबलाभिज्ञासमाधयः प्राप्तुम्। कल्याणमित्रजिनपुरस्कृतैर्महामते शक्यं चित्तमनोविज्ञानं स्वचित्तदृश्यस्वभावगोचरविकल्पसंसारभवोदधिं कर्मतृष्णाज्ञानहेतुकं तर्तुम्। अत एतस्मात्कारणान्महामते योगिना कल्याणमित्रजिनयोगे योगः प्रारब्धव्यः॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

तरंगा ह्युदधेर्यद्वत्पवनप्रत्ययेरिताः।

नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते॥ ९९॥

आलयौघस्तथा नित्यं विषयपवनेरितः।

चित्रैस्तरंगविज्ञानैर्नृत्यमानः प्रवर्तते॥ १००॥

नीले रक्तेऽथ लवणे शङ्खे क्षीरे च शार्करे।

कषायैः फलपुष्पाद्यैः किरणा यथ भास्करे॥ १०१॥

न चान्येन च नानन्येन तरंगा ह्युदधेर्मताः।

विज्ञानानि तथा सप्त चित्तेन सह संयुताः॥ १०२॥

उदधेः परिणामोऽसौ तरंगाणां विचित्रता।

आलयं हि तथा चित्रं विज्ञानाख्यं प्रवर्तते॥ १०३॥

चित्तं मनश्च विज्ञानं लक्षणार्थं प्रकल्प्यते।

अभिन्नलक्षणा ह्यष्टौ न लक्ष्या न च लक्षणम्॥ १०४॥

उदधेश्च तरंगाणां यथा नास्ति विशेषणम्।

विज्ञानानां तथा चित्तैः परिणामो न लभ्यते॥ १०५॥

चित्तेन चीयते कर्म मनसा च विचीयते।

विज्ञानेन विजानाति दृश्यं कल्पेति पञ्चभिः॥ १०६॥

नीलरक्तप्रकारं हि विज्ञानं ख्यायते नृणाम्।

तरंगचित्तसाधर्म्यं वद कस्मान्महामते॥ १०७॥

नीलरक्तप्रकारं हि तरंगेषु न विद्यते।

वृत्तिश्च वर्ण्यते चित्तं लक्षणार्थं हि बालिशान्॥ १०८॥

न तस्य विद्यते वृत्तिः स्वचित्तं ग्राह्यवर्जितम्।

ग्राह्ये सति हि वै ग्राहस्तरंगैः सह साध्यते॥ १०९॥

देहभोगप्रतिष्ठानं विज्ञानं ख्यायते नृणाम्।

तेनास्य दृश्यते वृत्तिस्तरंगैः सह सादृशा॥ ११०॥

उदधिस्तरंगभावेन नृत्यमानो विभाव्यते।

आलयस्य तथा वृत्तिः कस्माद्बुद्ध्या न गम्यते॥ १११॥

बालानां बुद्धिवैकल्यादालयं ह्युदधिर्यथा।

तरंगवृत्तिसाधर्म्यं दृष्टान्तेनोपनीयते॥ ११२॥

उदेति भास्करो यद्वत्समहीनोत्तमे जिने।

तथा त्वं लोकप्रद्योत तत्त्वं देशेसि बालिशान्॥ ११३॥

कृत्वा धर्मेष्ववस्थानं कस्मात्तत्त्वं न भाषसे।

भाषसे यदि वा तत्त्वं चित्ते तत्त्वं न विद्यते॥ ११४॥

उदधेर्यथा तरंगा हि दर्पणे सुपिने यथा।

दृश्यन्ति युगपत्काले तथा चित्तं स्वगोचरे॥ ११५॥

वैकल्याद्विषयाणां हि क्रमवृत्त्या प्रवर्तते।

विज्ञानेन विजानाति मनसा मन्यते पुनः॥ ११६॥

पञ्चानां ख्यायते दृश्यं क्रमो नास्ति समाहिते।

चित्राचार्यो यथा कश्चिच्चित्रान्तेवासिकोऽपि वा।

चित्रार्थे नामयेद्रङ्गान् देशयामि तथा ह्यहम्॥ ११७॥

रङ्गे न विद्यते चित्रं न भूमौ न च भाजने।

सत्त्वानां कर्षणार्थाय रङ्गैश्चित्रं विकल्प्यते।

देशना व्यभिचारं च तत्त्वं ह्यक्षरवर्जितम्॥ ११८॥

कृत्वा धर्मेष्ववस्थानं तत्त्वं देशेमि योगिनाम्।

तत्त्वं प्रत्यात्मगतिकं कल्प्यकल्पेन वर्जितम्।

देशेमि जिनपुत्राणां नेयं बालान देशना॥ ११९॥

विचित्रा हि यथा माया दृश्यते न च विद्यते।

देशनापि तथा चित्रा देश्यतेऽव्यभिचारिणी।

देशना हि यदन्यस्य तदन्यस्याप्यदेशना॥ १२०॥

आतुरे आतुरे यद्वद्भिषद्रग्व्यं प्रयच्छति।

बुद्धा हि तद्वत्सत्त्वानां चित्तमात्रं वदन्ति वै॥ १२१॥

तार्किकाणामविषयं श्रावकाणां न चैव हि।

यं देशयन्ति वै नाथाः प्रत्यात्मगतिगोचरम्॥ १२२॥



पुनरपरं महामते बोधिसत्त्वेन स्वचित्तदृश्यग्राह्यग्राहकविकल्पगोचरं परिज्ञातुकामेन संगणिकासंसर्गमिद्धनिवरणविगतेन भवितव्यम्। प्रथममध्यमपश्चाद्रात्रजागरिकायोगनुयुक्तेन भवितव्यम्। कुतीर्थ्यशास्त्राख्यायिकाश्रावकप्रत्येकबुद्धयानलक्षणविरहितेन च भवितव्यम्। स्वचित्तदृश्यविकल्पलक्षणगतिंगतेन च भवितव्यं बोधिसत्त्वेन महासत्त्वेन॥



पुनरपरं महामते बोधिसत्त्वेन महासत्त्वेन चित्तविज्ञानप्रज्ञालक्षणव्यवस्थायां स्थित्वा उपरिष्टादार्यज्ञानलक्षणत्रययोगः करणीयः। तत्रोपरिष्टादार्यज्ञानलक्षणत्रयं महामते कतमत् ? यदुत निराभासलक्षणं सर्वबुद्धस्वप्रणिधानाधिष्ठानलक्षणं प्रत्यात्मार्यज्ञानगतिलक्षणं च। यान्यधिगम्य योगी खञ्जगर्दभ इव चित्तप्रज्ञाज्ञानलक्षणं हित्वा जिनसुताष्टमीं प्राप्य भूमिं तदुत्तरे लक्षणत्रये योगमापद्यते॥



तत्र निराभासलक्षणं पुनर्महामते सर्वश्रावकप्रत्येकबुद्धतीर्थलक्षणपरिचयात्प्रवर्तते। अधिष्ठानलक्षणं पुनर्महामते पूर्वबुद्धस्वप्रणिधानाधिष्ठानतः प्रवर्तते। प्रत्यात्मार्यज्ञानगतिलक्षणं पुनर्महामते सर्वधर्मलक्षणानभिनिवेशतो मायोपमसमाधिकायप्रतिलम्भाद्बुद्धभूमिगतिगमनप्रचारात् प्रवर्तते। एतन्महामते आर्याणां लक्षणत्रयं येनार्येण लक्षत्रयेण समन्वागता आर्याः स्वप्रत्यात्मार्यज्ञानगतिगोचरमधिगच्छन्ति। तस्मात्तर्हि महामते आर्यज्ञानलक्षणत्रययोगः करणीयः॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरेव तस्या बोधिसत्त्वपर्षदश्चित्ताशयविचारमाज्ञाय आर्यज्ञानवस्तुप्रविचयं नाम धर्मपर्यायं सर्वबुद्धाधिष्ठानाधिष्ठितो भगवन्तं परिपृच्छति स्म-देशयतु मे भगवानार्यज्ञानवस्तुप्रविचयं नाम धर्मपर्यायमष्टोत्तरपदशतप्रभेदाश्रयम्, यमाश्रित्य तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां स्वसामान्यलक्षणपतितानां परिकल्पितस्वभावगतिप्रभेदं देशयन्ति, येन परिकल्पितस्वभावगतिप्रभेदेन सुप्रतिविभागविद्धेन पुद्गलधर्मनैरात्म्यप्रचारं प्रतिविशोध्य भूमिषु कृतविद्याः सर्वश्रावकप्रत्येकबुद्धतीर्थकरध्यानसमाधिसमापत्तिसुखमतिक्रम्य तथागताचिन्त्यविषयप्रचारगतिप्रचारं पञ्चधर्मस्वभावगतिविनिवृत्तं तथागतं धर्मकायं प्रज्ञाज्ञानसुनिबद्धधर्मं मायाविषयाभिनिवृत्तं सर्वबुद्धक्षेत्रतुषितभवनाकनिष्ठालयोपगं तथागतकायं प्रतिलभेरन्॥



भगवानाह-इह महामते एके तीर्थ्यातीर्थ्यदृष्टयो नास्तित्वाभिनिविष्टा विकल्पबुद्धिहेतुक्षयस्वभावाभावान्नास्ति शशस्य विषाणं विकल्पयन्ति। यथा शशविषाणं नास्ति, एवं सर्वधर्माः। अन्ये पुनर्महामते भूतगुणाणुद्रव्यसंस्थानसंनिवेशविशेषं दृष्ट्वा नास्तिशशशृङ्गाभिनिवेशाभिनिविष्टा अस्ति गोशृङ्गमिति कल्पयन्ति । ते महामते अन्तद्वयदृष्टिपतिताश्चित्तमात्रानवधारितमतयः। स्वचित्तधातुविकल्पेन ते पुष्णन्ति। देहभोगप्रतिष्ठागतिविकल्पमात्रे महामते शशशृङ्गं नास्त्यस्तिविनिवृत्तं न कल्पयेत्तथा महामते सर्वभावानां नास्त्यस्तिविनिवृत्तं न कल्पयितव्यम्॥



ये पुनर्महामते नास्त्यस्तिविनिवृत्ता नास्ति शशशृङ्गं न कल्पयन्ति, तैरन्योन्यापेक्षहेतुत्वान्नास्ति शशविषाणमिति न कल्पयितव्यम्। आपरमाणुप्रविचयाद्वस्त्वनुपलब्धभावान्महामते आर्यज्ञानगोचरविनिवृत्तमस्ति गोशृङ्गमिति न कल्पयितव्यम्॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-ननु भगवन् विकल्पस्याप्रवृत्तिलक्षणं दृष्ट्वा अनुमिमीमहे विकल्पाप्रवृत्त्यपेक्षं तस्य नास्तित्वम्। भगवानाह- न हि महामते विकल्पाप्रवृत्त्यपेक्षं तस्य नास्तित्वम्। तत्कस्य हेतोः ? विकल्पस्य तत्प्रवृत्तिहेतुत्वात्। तद्विषाणाश्रयप्रवृत्तो हि महामते विकल्पः। यस्माद्विषाणाश्रयप्रवृत्तो महामते विकल्पः, तस्मादाश्रयहेतुत्वादन्यानन्यविवर्जितत्वान्न हि तदपेक्षं नास्तित्वं शशविषाणस्य। यदि पुनर्महामते विकल्पोऽन्यः स्याच्छशविषाणादविषाणहेतुकः स्यात्। अथानन्यः स्यात्, तद्धेतुकत्वादापरमाणुप्रविचयानुपलब्धेर्विषाणादनन्यत्वात्तदभावः स्यात्। तदुभयभावाभावात्कस्य किमपेक्ष्य नास्तित्वं भवति ? अथ न भवति महामते अपेक्ष्य नास्तित्वं शशविषाणस्य अस्तित्वमपेक्ष्य नास्तित्वं शशविषाणं न कल्पयितव्यं विषमहेतुत्वान्महामते नास्त्यस्तित्वम् सिद्धिर्न भवति नास्त्यस्तित्ववादिनाम्। अन्ये पुनर्महामते तीर्थकरदृष्टयो रूपकारणसंस्थानाभिनिवेशाभिनिविष्टा आकाशभावापरिच्छेदकुशला रूपमाकाशभावविगतं परिच्छेदं दृष्ट्वा विकल्पयन्ति। आकाशमेव च महामते रूपम्। रूपभूतानुप्रवेशान्महामते रूपमेवाकाशम्। आधेयाधारव्ययस्थानभावेन महामते रूपाकाशकारणयोः प्रविभागः प्रत्येतव्यः। भूतानि महामते प्रवर्तमानानि परस्परस्वलक्षणभेदभिन्नानि आकाशे चाप्रतिष्ठितानि। न च तेष्वाकाशं नास्ति। एवमेव शशस्य विषाणं महामते गोविषाणमपेक्ष्य भवति। गोविषाणं पुनर्महामते अणुशो विभज्यमानं पुनरप्यणवो विभज्यमाना अणुत्वलक्षणे नावतिष्ठन्ते। तस्य किमपेक्ष्य नास्तित्वं भवति ? अथान्यदपेक्ष्य वस्तु, तदप्येवंधर्मि॥



अथ खलु भगवान् पुनरपि महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-शशगोशृङ्गाकाशरूपपदृष्टिविकल्पविगतेन महामते भवितव्यम्, तदन्यैश्च बोधिसत्त्वैः॥ स्वचित्तदृश्यविकल्पानुगममनसा च महामते भवितव्यम्। सर्वजिनसुतक्षेत्रमण्डले च त्वया स्वचित्तदृश्ययोगोपदेशः करणीयः॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

दृश्यं न विद्यते चित्तं चित्तं दृश्यात्प्रवर्तते।

देवभोगप्रतिष्ठानमालयं ख्यायते नृणाम्॥ १२३॥

चित्तं मनश्च विज्ञानं स्वभावं धर्मपञ्चकम्।

नैरात्म्यं द्वितयं शुद्धं प्रभाषन्ते विनायकाः॥ १२४॥

दीर्घह्रस्वादिसंबन्धमन्योन्यतः प्रवर्तते।

अस्तित्वसाधकं नास्ति अस्ति नास्तित्वसाधकम्॥ १२५॥

अणुशो भज्यमानं हि नैव रूपं विकल्पयेत्।

चित्तमात्रं व्यवस्थानं कुदृष्ट्या न प्रसीदति॥ १२६॥

तार्किकाणामविषयः श्रावकाणां न चैव हि।

यं देशयन्ति वै नाथाः प्रत्यात्मगतिगोचरम्॥ १२७॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि स्वचित्तदृश्यधाराविशुद्ध्यर्थं भगवन्तमध्येषते स्म-कथं भगवन् स्वचित्तदृश्यधारा विशुध्यति युगपत्क्रमवृत्त्या वा ? भगवानाह-क्रमवृत्त्या महामते स्वचित्तदृश्यधारा विशुध्यति न युगपत्। तद्यथा महामते आम्रफलानि क्रमशः पच्यन्ते न युगपत्, एवमेव महामते स्वचित्तदृश्यधारा सत्त्वानां क्रमशो विशुध्यति न युगपत्। तद्यथा महामते कुम्भकारः क्रमशो भाण्डानि कुरुते न युगपत्, एवमेव महामते तथागतः सत्त्वानां स्वचित्तदृश्यधारां क्रमशो विशोधयति न युगपत्। तद्यथा महामते पृथिव्यां तृणगुल्मौषधिवनस्पतयः क्रमवृत्त्या विरोहन्ति न युगपत्, एवमेव महामते सत्त्वानां तथागतः क्रमशः स्वचित्तदृश्यधारां विशोधयति न युगपत्। तद्यथा महामते हास्यलास्यगीतवादित्रवीणालेख्ययोग्याः क्रमशः प्रवर्तन्ते न युगपत्, एवेमेव महामते तथागतः सर्वसत्त्वानां क्रमशः स्वचित्तदृश्यधारां विशोधयति न युगपत्। तद्यथा महामते दर्पणान्तर्गताः सर्वरूपावभासाः संदृश्यन्ते निर्विकल्पा युगपत्, एवमेव महामते स्वचित्तदृश्यधारां युगपत्तथागतः सर्वसत्त्वानां विशोधयति निर्विकल्पां निराभासगोचराम्। तद्यथा महामते सोमादित्यमण्डलं युगपत्सर्वरूपावभासान् किरणैः प्रकाशयति, एवमेव महामते तथागतः स्वचित्तदृश्यदौष्ठुल्यवासनाविगतानां सत्त्वानां युगपदचिन्त्यज्ञानजिनगोचरविषयं संदर्शयति। तद्यथा महामते आलयविज्ञानं स्वचित्तदृश्यदेहप्रतिष्ठाभोगविषयं युगपद्विभावयति, एवमेव महामते निष्यन्दबुद्धो युगपत्सत्त्वगोचरं परिपाच्य आकनिष्ठभवनविमानालययोगं योगिनामर्पयति। तद्यथा महामते धर्मताबुद्धो युगपन्निष्यन्दनिर्माणकिरणैर्विराजते, एवमेव महामते प्रत्यात्मार्यगतिधर्मलक्षणं भावाभावकुदृष्टिविनिवर्तनतया युगपद्विराजते॥



पुनरपरं महामते धर्मतानिष्यन्दबुद्धः स्वसामान्यलक्षणपतितात्सर्वधर्मात्स्वचित्तदृश्यवासनाहेतुलक्षणोपनिबद्धात्परिकल्पितस्वभावाभिनिवेशहेतुकानतदात्मक-विविधमायारङ्गपुरुषवैचित्र्याभिनिवेशानुपलब्धितो महामते देशयति। पुनरपरं महामते परिकल्पितस्वभाववृत्तिलक्षणं परतन्त्रस्वभावाभिनिवेशतः प्रवर्तते। तद्यथा तृणकाष्ठगुल्मलताश्रयान्मायाविद्यापुरुषसंयोगात्सर्वसत्त्वरूपधारिणं मायापुरुषविग्रहमभिनिष्पन्नैकसत्त्वशरीरं विविधकल्पविकल्पितं ख्यायते, तथा ख्यायन्नपि महामते तदात्मको न भवति, एवमेव महामते परतन्त्रस्वभावे परिकल्पितस्वभावे विविधविकल्पचित्तविचित्रलक्षणं ख्यायते। वस्तुपरिकल्पलक्षणाभिनिवेशवासनात्परिकल्पयन् महामते परिकल्पितस्वभावलक्षणं भवति। एषा महामते निष्यन्दबुद्धदेशना। धर्मताबुद्धः पुनर्महामते चित्तस्वभावलक्षणविसंयुक्तां प्रत्यात्मार्यगतिगोचरव्यवस्थां करोति। निर्मितनिर्माणबुद्धः पुनर्महामते दानशीलध्यानसमाधिचित्रप्रज्ञाज्ञानस्कन्धधात्वायतनविमोक्षविज्ञानगतिलक्षणप्रभेदप्रचारं व्यवस्थापयति। तीर्थ्यदृष्ट्या च रूप्यसमतिक्रमणलक्षणं देशयति। धर्मताबुद्धः पुनर्महामते निरालम्बः। आलम्बविगतं सर्वक्रियेन्द्रियप्रमाणलक्षणविनिवृत्तमविषयं बालश्रावकप्रत्येकबुद्धतीर्थकरात्मकलक्षणाभिनिवेशाभिनिविष्टानाम्। तस्मात्तर्हि महामते प्रत्यात्मार्यगतिविशेषलक्षणे योगः करणीयः। स्वचित्तलक्षणदृश्यविनिवृत्तिदृष्टिना च ते भवितव्यम्॥



पुनरपरं महामते द्विविधं श्रावकयाननयप्रभेदलक्षणं यदुत प्रत्यात्मार्याधिगमविशेषलक्षणं च भावविकल्पस्वभावाभिनिवेशलक्षणं च। तत्र महामते प्रत्यात्मार्याधिगमविशेषलक्षणं श्रावकाणां कतमत् ? यदुत शून्यतानात्मदुःखानित्यविषयसत्यवैराग्योपशमात्स्कन्धधात्वायतनस्वसामान्यलक्षणबाह्यार्थविनाशलक्षणाद्यथाभूतपरिज्ञानाच्चित्तं समाधीयते। स्वचित्तं समाधाय ध्यानविमोक्षसमाधिमार्गफलसमापत्तिविमुक्तिवासनाचिन्त्यपरिणतिच्युतिविगतं प्रत्यात्मार्यगतिलक्षणसुखविहारं महामते अधिगच्छन्ति श्रावकाः। एतन्महामते श्रावकाणां प्रत्यात्मार्यगतिलक्षणम्। एतद्धि महामते श्रावकाणां प्रत्यात्मार्याधिगमविहारसुखमधिगम्य बोधिसत्त्वेन महासत्त्वेन निरोधसुखं समापत्तिसुखं च सत्त्वक्रियापेक्षया पूर्वस्वप्रणिधानाभिनिर्हृततया च न साक्षात्करणीयम्। एतन्महामते श्रावकाणां प्रत्यात्मार्यगतिलक्षणसुखं यत्र बोधिसत्त्वेन महासत्त्वेन प्रत्यात्मार्यगतिलक्षणसुखे न शिक्षितव्यम्। भावविकल्पस्वभावाभिनिवेशः पुनर्महामते श्रावकाणां कतमः? यदुत नीलपीतोष्णद्रवचलकठिनानि महाभूतान्यक्रियाप्रवृत्तानि स्वसामान्यलक्षणयुक्त्यागमप्रमाणसुविनिबद्धानि दृष्ट्वा तत्स्वभावाभिनिवेशविकल्पः प्रवर्तते। एतन्महामते बोधिसत्त्वेनाधिगम्य व्यावर्तयितव्यम्। धर्मनैरात्म्यलक्षणानुप्रवेशतया पुद्गलनैरात्म्यलक्षणदृष्टिं निवार्य भूमिक्रमानुसंघौ प्रतिष्ठापयितव्यम्। एतन्महामते श्रावकाणां भावविकल्पस्वभावाभिनिवेशलक्षणं यदुक्तम्, इदं तत्प्रत्युक्तम्॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-नित्यमचिन्त्यं च भगवता प्रत्यात्मार्यगतिगोचरं परमार्थगोचरं च प्रभाषितम्। ननु भगवंस्तीर्थकरा अपि नित्याचिन्त्यवादिनः कारणानाम् ? भगवानाह-न महामते तीर्थकराणां कारणस्य नित्याचिन्त्यतां प्राप्नोति। तत्कस्य हेतोः ? तीर्थकराणां महामते नित्याचिन्त्यं न हेतुस्वलक्षणयुक्तम्। यस्य महामते नित्याचिन्त्यं न हेतुस्वलक्षणयुक्तम्, तत्कथं केनाभिव्यज्यते नित्यमचिन्त्यमिति ? नित्याचिन्त्यवादः पुनर्महामते यदि हेतुस्वलक्षणयुक्तः स्यात्, नित्यं कारणाधीनहेतुलक्षणत्वान्नित्यमचिन्त्यं न भवति। मम तु महामते परमार्थनित्याचिन्त्यं परमार्थलक्षणहेतुयुक्तं भावाभावविगतं प्रत्यात्मार्याधिगमलक्षणत्वाल्लक्षणवत्परमार्थज्ञानहेतुत्वाच्च हेतुमद्भावाभावविगतत्वादकृतकाकाशनिर्वाणनिरोधदृष्टान्तसाधर्म्यान्नित्यम्। अत एतन्महामते तीर्थकरनित्याचिन्त्यवादतुल्यं न भवति। नित्याचिन्त्यतैवेयं महामते तथागतानां प्रत्यात्मार्यज्ञानाधिगमतथता। तस्मात्तर्हि महामते बोधिसत्त्वेन महासत्त्वेन नित्याचिन्त्यप्रत्यात्मार्यज्ञानाधिगमाय योगः करणीयः॥



पुनरपरं महामते नित्याचिन्त्यता तीर्थकराणामनित्यभावविलक्षणहेतुत्वात्। न स्वकृतहेतुलक्षणप्रभावितत्वान्नित्यम्। यदि पुनर्महामते तीर्थकराणां नित्याचिन्त्यता कृतकभावाभावादनित्यतां दृष्ट्वा अनुमानबुद्ध्या नित्यं समाप्यते, तेनैव हेतुना ममापि महामते कृतकभावाभावादनित्यतां दृष्ट्वा नित्यमहेतूपदेशात्॥



यदि पुनर्महामते हेतुलक्षणसंयुक्तं नित्याचिन्त्यता, तीर्थकराणां हेतुभावस्वलक्षणभावाभावाच्छशविषाणतुल्या महामते नित्याचिन्त्यता, वाग्विकल्पमात्रा च महामते तीर्थकराणां प्रसज्यते। तत्कस्य हेतोः ? यदुत वाग्विकल्पमात्रं हि महामते शशविषाणं स्वहेतुलक्षणाभावात्। मम तु महामते नित्याचिन्त्यता प्रत्यात्मार्याधिगमलक्षणहेतुत्वात्कृतकभावाभाववर्जितत्वान्नित्यम्, न बाह्यभावाभावनित्यानित्यानुप्रमाणान्नित्यम्। यस्य पुनर्महामते बाह्याभावान्नित्यानुमानान्नित्याचिन्त्यत्वान्नित्यम्, तस्या नित्याचिन्त्यतायाः स्वहेतुलक्षणं न जानीते। प्रत्यात्माधिगमार्यज्ञानगोचरलक्षणं बहिर्धा ते महामते असंकथ्याः॥



पुनरपरं महामते संसारविकल्पदुःखभयभीता निर्वाणमन्वेषन्ते। संसारनिर्वाणयोरविशेषज्ञाः सर्वभावविकल्पाभावादिन्द्रियाणामनागतविषयोपरमाच्च महामते निर्वाणं विकल्पयन्ति न प्रत्यात्मगतिविज्ञानालयं परावृत्तिपूर्वकं महामते। अतस्ते महामते मोहपुरुषा यानत्रयवादिनो भवन्ति, न चित्तमात्रगतिनिराभासवादिनः। अतस्ते महामते अतीतानागतप्रत्युत्पन्नानां तथागतानां स्वचित्तदृश्यगोचरानभिज्ञा बाह्यचित्तदृश्यगोचराभिनिविष्टाः। ते संसारगतिचक्रे पुनर्महामते चंक्रम्यन्ते॥



पुनरपरं महामते अनुत्पन्नान् सर्वधर्मानतीतानागतप्रत्युत्पन्नास्तथागता भाषन्ते। तत्कस्य हेतोः ? यदुत स्वचित्तदृश्यभावाभावात्सदसतोरुत्पत्तिविरहितत्वान्महामते अनुत्पन्नाः सर्वभावाः। शशहयखरोष्ट्रविषाणतुल्या महामते सर्वधर्माः। बालपृथग्जनाभूतपरिकल्पितस्वभावविकल्पितत्वान्महामते अनुत्पन्नाः सर्वभावाः। प्रत्यात्मार्यज्ञानगतिगोचरो हि महामते सर्वभावस्वभावलक्षणोत्पादः, न बालपृथग्जनविकल्पद्वयगोचरस्वभावः। देहभोगप्रतिष्ठागतिस्वभावलक्षणं महामते आलयविज्ञानं ग्राह्यग्राहकलक्षणेन प्रवर्तमानं बाला उत्पादस्थितिभङ्गदृष्टिद्वयपतिताशया उत्पादं सर्वभावानां सदसतोर्विकल्पयन्ति। अत्र ते महामते योगः करणीयः॥



पुनरपरं महामते पञ्चाभिसमयगोत्राणि। कतमानि पञ्च ? यदुत श्रावकयानाभिसमयगोत्रं प्रत्येकबुद्धयानाभिसमयगोत्रं तथागतयानाभिसमयगोत्रम् अनियतैकतरगोत्रम् अगोत्रं च पञ्चमम्। कथं पुनर्महामते श्रावकयानाभिसमयगोत्रं प्रत्येतव्यम् ? यः स्कन्धधात्वायतनस्वसामान्यलक्षणपरिज्ञानाधिगमे देश्यमाने रोमाञ्चिततनुर्भवति। लक्षणपरिचयज्ञाने चास्य बुद्धिः प्रस्कन्दति, न प्रतीत्यसमुत्पादाविनिर्भागलक्षणपरिचये। इदं महामते श्रावकयानाभिसमयगोत्रम्। यः श्रावकयानाभिसमयं दृष्ट्वा षट्पञ्चम्यां भूमौ पर्युत्थानक्लेशप्रहीणो वासनक्लेशाप्रहीणोऽचिन्त्याच्युतिगतः सम्यक्सिंहनादं नदति-क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, इत्येवमादि निगद्य पुद्गलनैरात्म्यपरिचयाद्यावन्निर्वाणबुद्धिर्भवति॥



अन्ये पुनर्महामते आत्मसत्त्वजीवपोषपुरुषपुद्गलसत्त्वावबोधान्निर्वाणमन्वेषन्ते। अन्ये पुनर्महामते कारणाधीनान् सर्वधर्मान् दृष्ट्वा निर्वाणगतिबुद्धयो भवन्ति। धर्मनैरात्म्यदर्शनाभावान्नास्ति मोक्षो महामते। एषा महामते श्रावकयानाभिसमयगोत्रकस्यानिर्याणनिर्याणबुद्धिः। अत्र ते महामते कुदृष्टिव्यावृत्त्यर्थं योगः करणीयः॥



तत्र महामते प्रत्येकबुद्धयानाभिसमयगोत्रकः, यः प्रत्येकाभिसमये देश्यमाने अश्रुहृष्टरोमाञ्चिततनुर्भवति। असंसर्गप्रत्ययाद्भावाभिनिवेशबहुविविधस्वकायवैचित्र्यर्द्धिव्यस्तयमकप्रातिहार्यदर्शने निर्दिश्यमानेऽनुनीयते, स प्रत्येकबुद्धयानाभिसमयगोत्रक इति विदित्वा प्रत्येकबुद्धयानाभिसमयानुरूपा कथा करणीया। एतन्महामते प्रत्येकबुद्धयानाभिसमयगोत्रकस्य लक्षणम्॥



तत्र महामते तथागतयानाभिसमयगोत्रं त्रिविधम्-यदुत स्वभावनिःस्वभावधर्माभिसमयगोत्रम्, अधिगमस्वप्रत्यात्मार्याभिसमयगोत्रम्, बाह्यबुद्धक्षेत्रौदार्याभिसमयगोत्रं च। यदा पुनर्महामते त्रयाणामप्येषामन्यतमे देश्यमाने स्वचित्तदृश्यदेहालभोगप्रतिष्ठाचिन्त्यविषये देश्यमाने नोत्रसति न संत्रसति न संत्रासमापद्यते, वेदितव्यमयं तथागतयानाभिसमयगोत्रक इति। एतन्महामते तथागतयानाभिसमयगोत्रकस्य लक्षणम्॥



अनियतगोत्रकः पुनर्महामते त्रिष्वप्येतेषु देश्यमानेषु यत्रानुनीयते तत्रानुयोज्यः स्यात्। परिकर्मभूमिरियं महामते गोत्रव्यवस्था। निराभासभूम्यवक्रमणतया व्यवस्था क्रियते। प्रत्यात्मालये तु स्वक्लेशवासनाशुद्धस्य धर्मनैरात्म्यदर्शनात्समाधिसुखविहारं प्राप्य श्रावको जिनकायतां प्रतिलप्स्यते॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत् -

स्रोतापत्तिफलं चैव सकृदागामिनस्तथा।

अनागामिफलं चैव अर्हत्त्वं चित्तविभ्रमम्॥ १२८॥

त्रियानमेकयानं च अयानं च वदाम्यहम्।

बालानां मन्दबुद्धीनामार्याणां च विविक्तताम्॥ १२९॥

द्वारं हि परमार्थस्य विज्ञप्तिर्द्वयवर्जिता।

यानत्रयव्यवस्थानं निराभासे स्थिते कुतः॥ १३०॥

ध्यानानि चाप्रमाणानि आरूप्याश्च समाधयः।

संज्ञानिरोधो निखिलं चित्तमात्रे न विद्यते॥ १३१॥



तत्रेच्छन्तिकानां पुनर्महामते अनिच्छन्तिकतामोक्षं केन प्रवर्तते ? यदुत सर्वकुशलमूलोत्सर्गतश्च सत्त्वानादिकालप्रणिधानतश्च। तत्र सर्वकुशलमूलोत्सर्गः कतमः ? यदुत बोधिसत्त्वपिटकनिक्षेपोऽभ्याख्यानं च नैते सूत्रान्ता विनयमोक्षानुकूला इति ब्रुवतः सर्वकुशलमूलोत्सर्गत्वान्न निर्वायते। द्वितीयः पुनर्महामते बोधिसत्त्वो महासत्त्व एवं भवप्रणिधानोपायपूर्वकत्वान्नापरिनिर्वृतैः सर्वसत्त्वैः परिनिर्वास्यामीति ततो न परिनिर्वाति। एतन्महामते अपरिनिर्वाणधर्मकाणां लक्षणं येनेच्छन्तिकगतिं समाधिगच्छन्ति॥



पुनरपि महामतिराह-कतमोऽत्र भगवन् अत्यन्ततो न परिनिर्वाति ? भगवानाह-बोधिसत्त्वेच्छन्तिकोऽत्र महामते आदिपरिनिर्वृतान् सर्वधर्मान् विदित्वा अत्यन्ततो न परिनिर्वाति। न पुनः सर्वकुशलमूलोत्सर्गेच्छन्तिकः। सर्वकुशलमूलोत्सर्गेच्छन्तिको हि महामते पुनरपि तथागताधिष्ठानात्कदाचित्कर्हिचित्कुशलमूलान् व्युत्थापयति। तत्कस्य हेतोः ? यदुत अपरित्यक्ता हि महामते तथागतानां सर्वसत्त्वाः। अत एतस्मात्कारणान्महामते बोधिसत्त्वेच्छन्तिको न परिनिर्वातीति॥



पुनरपरं महामते बोधिसत्त्वेन महासत्त्वेन स्वभावलक्षणत्रयकुशलेन भवितव्यम्। तत्र महामते परिकल्पितस्वभावो निमित्तात्प्रवर्तते। कथं पुनर्महामते परिकल्पितस्वभावो निमित्तात्प्रवर्तते ? तत्र महामते परतन्त्रस्वभावो वस्तुनिमित्तलक्षणाकारः ख्यायते। तत्र महामते वस्तुनिमित्तलक्षणाभिनिवेशः पुनर्द्विप्रकारः। परिकल्पितस्वभावं व्यवस्थापयन्ति तथागता अर्हन्तः सम्यक्संबुद्धा नामाभिनिवेशलक्षणेन च नामवस्तुनिमित्ताभिनिवेशलक्षणेन च। तत्र वस्तुनिमित्ताभिनिवेशलक्षणं पुनर्महामते यदुत अध्यात्मबाह्यधर्माभिनिवेशः। निमित्तलक्षणाभिनिवेशः पुनर्यदुत तेष्वेव आध्यात्मिकबाह्येषु धर्मेषु स्वसामान्यलक्षणपरिज्ञानावबोधः। एतन्महामते द्विप्रकारं परिकल्पितस्वभावस्य लक्षणम्। यदाश्रयालम्बनात्प्रवर्तते तत्परतन्त्रम्। तत्र महामते परिनिष्पन्नस्वभावः कतमः ? यदुत निमित्तनामवस्तुलक्षणविकल्पविरहितं तथतार्यज्ञानगतिमनप्रत्यात्मार्यज्ञानगतिगोचरः। एष महामते परिनिष्पन्नस्वभावस्तथागतगर्भहृदयम्॥



अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत-

निमित्तं नाम संकल्पः स्वभावद्वयलक्षणम्।

सम्यग्ज्ञानं हि तथता परिनिष्पन्नलक्षणम्॥ १३२॥

एष महामते पञ्चधर्मस्वभावलक्षणप्रविचयो नाम धर्मपर्यायः प्रत्यात्मार्यज्ञानगतिगोचरः, यत्र त्वया अन्यैश्च बोधिसत्त्वैः शिक्षितव्यम्॥



पुनरपरं महामते बोधिसत्त्वेन महासत्त्वेन नैरात्म्यद्वयलक्षणप्रविचयकुशलेन भवितव्यम्। तत्र महामते कतमन्नैरात्म्यद्वयलक्षणम् ? यदुत आत्मात्मीयरहितस्कन्धधात्वायतनकदम्बमज्ञानकर्मतृष्णाप्रभवं चक्षुषा रूपादिग्रहणाभिनिवेशात्प्रवर्तमानं विज्ञानं सर्वेन्द्रियैः स्वचित्तदृश्यभाजनदेहालयस्वचित्तविकल्पविकल्पितं विज्ञापयति। नदीबीजदीपवायुमेघसदृशक्षणपरंपराभेदभिन्नं चपलं वानरमक्षिकासदृशमचौक्षमचौक्षविषयचार्यनाथोऽनल इवातृप्तमनादिकालप्रपञ्चविषयवासनारहितमरघट्टचक्रयन्त्रचक्रवत्संसारभवगतिचक्रे विचित्रदेहरूपधारिमायावेतालयन्त्रप्रतिमं प्रवर्तमानं प्रवर्तते। यदत्र महामते लक्षणकौशलज्ञानम्, इदमुच्यते पुद्गलनैरात्म्यज्ञानम्॥



तत्र महामते धर्मनैरात्म्यज्ञानं कतमत् ? यदुत स्कन्धधात्वायतनानां परिकल्पितलक्षणस्वभावावबोधः। यथा महामते स्कन्धधात्वायतनान्यात्मविरहितानि स्कन्धसमूहमात्रं हेतुकर्मतृष्णासूत्रोपनिबद्धमन्योन्यप्रत्ययतया प्रवर्तते निरीहम्, तथा स्कन्धा अपि महामते स्वसामान्यलक्षणविरहिता अभूतपरिकल्पलक्षणविचित्रप्रभाविता बालैर्विकल्प्यन्ते न त्वार्यैः। चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावरहितान् महामते सर्वधर्मान् विभावयन् बोधिसत्त्वो महासत्त्वो धर्मनैरात्म्यकुशलो भवति। धर्मनैरात्म्यकुशलः पुनर्महामते बोधिसत्त्वो महासत्त्वो नचिरात्प्रथमां बोधिसत्त्वभूमिं निराभासप्रविचयां प्रतिलभते। भूमिलक्षणप्रविचयावबोधात्प्रमुदितानन्तरमनुपूर्वं नवसु भूमिषु कृतविद्यो महाधर्ममेघा प्रतिलभते। स तस्यां प्रतिष्ठितोऽनेकरत्नमुक्तोपशोभिते महापद्मराजे पद्मकृतौ महारत्नविमाने मायास्वभावगोचरपरिचयाभिनिर्वृत्ते निषण्णः तदनुरूपैर्जिनपुत्रैः परिवृतः सर्वबुद्धक्षेत्रागतैर्बुद्धपाण्यभिषेकैश्चक्रवर्तिपुत्रवदभिषिच्यते। बुद्धसुतभूमिमतिक्रम्य प्रत्यात्मार्यधर्मगतिगमनत्वात्तथागतो धर्मकायवशवर्ती भविष्यति धर्मनैरात्म्यदर्शनात्। एतन्महामते सर्वधर्मनैरात्म्यलक्षणम्। अत्र ते महामते शिक्षितव्यम्, अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-समारोपापवादलक्षणं मे भगवान् देशयतु यथाहं च अन्ये च बोधिसत्त्वाः समारोपापवादकुदृष्टिवर्जितमतयः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्। अभिसंबुध्य शाश्वतसमारोपापवादोच्छेददृष्टिविवर्जितास्तव बुद्धनेत्रीं नापवदिष्यन्ते॥



अथ खलु भगवान् पुनरपि महामतेर्बोधिसत्त्वस्य महासत्त्वस्याध्येषणां विदित्वा इमां गाथामभाषत -

समारोपापवादो हि चित्तमात्रे न विद्यते।

देहभोगप्रतिष्ठाभं ये चित्तं नाभिजानते।

समारोपापवादेषु ते चरन्त्यविपश्चितः॥ १३३॥

अथ खलु भगवानेतमेव गाथार्थमुद्द्योतयन् पुनरप्येतदवोचत्-चतुर्विधो महामते असत्समारोपः। कतमश्चतुर्विधः ? यदुत असल्लक्षणसमारोपोऽसद्दृष्टिसमारोपोऽतद्धेतुसमारोपोऽसद्भावसमारोपः। एष हि महामते चतुर्विधः समारोपः॥



अपवादः पुनर्महामते कतमः ? यदुत अस्यैव कुदृष्टिसमारोपस्यानुपलब्धिप्रविचयाभावादपवादो भवति। एतद्धि महामते समारोपापवादस्य लक्षणम्॥



पुनरपरं महामते असल्लक्षणसमारोपस्य लक्षणं कतमत् ? यदुत स्कन्धधात्वायतनानामसत्स्वसामान्यलक्षणाभिनिवेशः-इदमेवमिदं नान्यथेति। एतद्धि महामते असल्लक्षणसमारोपस्य लक्षणम्। एष हि महामते असल्लक्षणसमारोपविकल्पोऽनादिकालप्रपञ्चदौष्ठुल्यविचित्रवासनाभिनिवेशात्प्रवर्तते। एतद्धि महामते असल्लक्षणसमारोपस्य लक्षणम्॥



असद्दृष्टिसमारोपः पुनर्महामते यस्तेष्वेव स्कन्धधात्वायतनेष्वात्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलदृष्टिसमारोपः। अयमुच्यते महामते असद्दृष्टिसमारोपः॥



असद्धेतुसमारोपः पुनर्महामते यदुत अहेतुसमुत्पन्नं प्राग्विज्ञानं पश्चादभूत्वा मायावदनुत्पन्नं पूर्वं चक्षूरूपालोकस्मृतिपूर्वकं प्रवर्तते। प्रवृत्य भूत्वा च पुनर्विनश्यति। एष महामते असद्धेतुसमारोपः॥



असद्धावसमारोपः पुनर्महामते यदुत आकाशनिरोधनिर्वाणाकृतकभावाभिनिवेशसमारोपः। एते च महामते भावाभावविनिवृत्ताः। शशहयखरोष्ट्रविषाणकेशोण्डुकप्रख्या महामते सर्वधर्माः सदसत्पक्षविगताः। समारोपापवादाश्च। बालैर्विकल्प्यन्ते स्वचित्तदृश्यमात्रानवधारितमतिभिर्न त्वार्यैः। एतन्महामते असद्भावविकल्पसमारोपापवादस्य लक्षणम्। तस्मात्तर्हि महामते समारोपापवाददृष्टिविगतेन भवितव्यम्॥



पुनरपरं महामते बोधिसत्त्वाश्चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावनैरात्म्यलक्षणद्वयगतिंगत्वा परहितहेतोरनेकरूपवेशधारिणो भवन्ति। परिकल्पितस्वभावा इव परतन्त्राशया विश्वरूपचिन्तामणिसदृशाः सर्वबुद्धक्षेत्रपर्षन्मण्डलगता मायास्वप्नप्रतिभासप्रतिबिम्बोदकचन्द्रगतिसमानुत्पादभङ्गशाश्वतोच्छेदरहितान् सर्वधर्मान् संमुखं सर्वतथागतेभ्यः सर्वश्रावकप्रत्येकबुद्धयानविरहान् धर्मदेशनां शृण्वन्ति, समाधिमुखशतसहस्राणि च प्रतिलभन्ते। यावदनेकानि समाधिकोटीनियुतशतसहस्राणि प्रतिलभ्यः तैः समाधिभिः क्षेत्रात्क्षेत्रं संक्रामन्ति। बुद्धपूजाभियुक्ताश्च सर्वोपपत्तिदेवभवनालयेषु रत्नत्रयमुपदेश्य बुद्धरूपमास्थाय श्रावकगणबोधिसत्त्वगणपरिवृताः स्वचित्तदृश्यमात्रावतारणतया बाह्यभावाभावोपदेशं कुर्वन्ति सदसत्पक्षविनिवृत्त्यर्थम्॥

अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत -

चित्तमात्रं यदा लोकं प्रपश्यन्ति जिनात्मजाः।

तदा नैर्माणिकं कायं क्रियासंस्कारवर्जितम्।

लभन्ते ते बलाभिज्ञावशितैः सह संयुतम्॥ १३४॥
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म-देशयतु भगवान् शून्यतानुत्पादाद्वयनिःस्वभावलक्षणं सर्वधर्माणाम्, येन शून्यतानुत्पादाद्वयनिःस्वभावलक्षणावबोधेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा नास्त्यस्तिविकल्पवर्जिताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्॥



अथ खलु भगवान् महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-तेन हि महामते शृणु, तत्साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवानेतदवोचत्-शून्यता शून्यतेति महामते परिकल्पितस्वभावपदमेतत्। परिकल्पितस्वभावाभिनिवेशेन पुनर्महामते शून्यतानुत्पादाभावाद्वयनिःस्वभावभाववादिनो भवन्ति। तत्र महामते संक्षेपेण सप्तविधा शून्यता। यदुत लक्षणशून्यता भावस्वभावशून्यता अप्रचरितशून्यता प्रचरितशून्यता सर्वधर्मनिरभिलाप्यशून्यता परमार्थार्यज्ञानमहाशून्यता इतरेतरशून्यता च सप्तमी॥



तत्र महामते लक्षणशून्यता कतमा ? यदुत स्वसामान्यलक्षणशून्याः सर्वभावाः। परस्परसमूहापेक्षितत्वात्प्रविचयविभागाभावान्महामते स्वसामान्यलक्षणस्याप्रवृत्तिः। स्वपरोभयाभावाच्च महामते लक्षणं नावतिष्ठते। अतस्तदुच्यते स्वलक्षणशून्याः सर्वभावा इति॥



भावस्वभावशून्यता पुनर्महामते कतमा ? यदुत स्वयं स्वभावाभावोत्पत्तितो महामते भावस्वभावशून्यता भवति सर्वधर्माणाम्। तेनोच्यते भावस्वभावशून्यतेति॥



अप्रचरितशून्यता पुनर्महामते कतमा ? यदुत अप्रचरितपूर्वं निर्वाणं स्कन्धेषु। तेनोच्यते अप्रचरितशून्यतेति॥



प्रचरितशून्यता पुनर्महामते कतमा ? यदुत स्कन्धा आत्मात्मीयरहिता हेतुयुक्तिक्रियाकर्मयोगैः प्रवर्तमानाः प्रवर्तन्ते। तेनोच्यते प्रचरितशून्यतेति॥



सर्वधर्मनिरभिलाप्यशून्यता पुनर्महामते कतमा ? यदुत परिकल्पितस्वभावानभिलाप्यत्वान्निरभिलाप्यशून्याः सर्वधर्माः। तेनोच्यते निरभिलाप्यशून्यतेति॥



परमार्थार्यज्ञानमहाशून्यता पुनर्महामते कतमा ? यदुत स्वप्रत्यात्मार्यज्ञानाधिगमः सर्वदृष्टिदोषवासनाभिः शून्यः। तेनोच्यते परमार्थार्यज्ञानमहाशून्यतेति॥



इतरेतरशून्यता पुनर्महामते कतमा ? यदुत यद्यत्र नास्ति तत्तेन शून्यमित्युच्यते। तद्यथा महामते शृगालमातुः प्रासादे हस्तिगवैडकाद्या न सन्ति। अशून्यं च भिक्षुभिरिति भाषितं मया। स च तैः शून्य इत्युच्यते। न च पुनर्महामते प्रासादः प्रासादभावतो नास्ति, भिक्षवश्च भिक्षुभावतो न सन्ति। न च तेऽन्यत्र हस्तिगवैडकाद्या भावा नावतिष्ठन्ते। इदं महामते स्वसामान्यलक्षणं सर्वधर्माणाम्। इतरेतरं तु न संविद्यते। तेनोच्यते इतरेतरशून्यतेति। एषा महामते सप्तविधा शून्यता। एषा च महामते इतरेतरशून्यता सर्वजघन्या। सा च त्वया परिवर्जयितव्या॥



न स्वयमुत्पद्यते, न च पुनर्महामते ते नोत्पद्यन्ते अन्यत्र समाध्यवस्थायाम्। तेनोच्यन्ते अनुत्पन्ना निःस्वभावाः। अनुत्पत्तिं संघाय महामते निःस्वभावाः सर्वभावाः। क्षणसंततिप्रबन्धाभावाच्च अन्यथाभावदर्शनान्महामते निःस्वभावाः सर्वभावाः। तेनोच्यते निःस्वभावाः सर्वभावा इति॥



अद्वयलक्षणं पुनर्महामते कतमत् ? यदुत च्छायातपवद्दीर्घह्रस्वकृष्णशुक्लवन्महामते द्वयप्रभाविता न पृथक्पृथक्। एवं संसारनिर्वाणवन्महामते सर्वधर्मा अद्वयाः। न यत्र महामते निर्वाणं तत्र संसारः। न च यत्र संसारस्तत्र निर्वाणम्, विलक्षणहेतुसद्भावात्। तेनोच्यते अद्वया संसारपरिनिर्वाणवत्सर्वधर्मा इति। तस्मात्तर्हि महामते शून्यतानुत्पादाद्वयनिःस्वभावलक्षणे योगः करणीयः॥



अथ खलु भगवांस्तस्यां वेलायामिमे गाथे अभाषत -

देशेमि शून्यतां नित्यं शाश्वतोच्छेदवर्जिताम्।

संसारं स्वप्नमायाख्यं न च कर्म विनश्यति॥ १३५॥

आकाशमथ निर्वाणं निरोधं द्वयमेव च।

बालाः कल्पेन्त्यकृतकानार्या नास्त्यस्तिवर्जितान्॥ १३६॥



अथ खलु भगवान् पुनरपि महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-एतद्धि महामते शून्यतानुत्पादाद्वयनिःस्वभावलक्षणं सर्वबुद्धानां सर्वसूत्रान्तगतम्। यत्र क्वचित्सूत्रान्तेऽयमेवार्थो विभावयितव्यः। एष हि महामते सूत्रान्तः सर्वसत्त्वाशयदेशनार्थव्यभिचारणी, न सा तत्त्वप्रत्यवस्थानकथा। तद्यथा महामते मृगतृष्णिका मृगोल्लापिनी उदकभावाभिनिवेशेनाभिनिवेश्यते, तस्यां चोदकं नास्ति, एवमेव महामते सर्वसूत्रान्तदेशना धर्मा बालानां स्वविकल्पसंतोषणम्, न तु सा तत्त्वार्यज्ञानव्यवस्थानकथा। तस्मात्तर्हि महामते अर्थानुसारिणा भवितव्यं न देशनाभिलापाभिनिविष्टेन॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-तथागतगर्भः पुनर्भगवता सूत्रान्तपाठेऽनुवर्णितः। स च किल त्वया प्रकृतिप्रभास्वरविशुद्ध्यादिविशुद्ध एव वर्ण्यते द्वात्रिंशल्लक्षणधरः सर्वसत्त्वदेहान्तर्गतः। महार्घमूल्यरत्नं मलिनवस्तुपरिवेष्टितमिव स्कन्धधात्वायतनवस्तुवेष्टितो रागद्वेषमोहाभूतपरिकल्पमलमलिनो नित्यो ध्रुवः शिवः शाश्वतश्च भगवता वर्णितः। तत्कथमयं भगवंस्तीर्थकरात्मवादतुल्यस्तथागतगर्भवादो न भवति ? तीर्थकरा अपि भगवन् नित्यः कर्ता निर्गुणो विभुरव्यय इत्यात्मवादोपदेशं कुर्वन्ति॥



भगवानाह-न हि महामते तीर्थकरात्मवादतुल्यो मम तथागतगर्भोपदेशः। किं तु महामते तथागताः शून्यताभूतकोटिनिर्वाणानुत्पादानिमित्ताप्रणिहिताद्यानां महामते पदार्थानां तथागतगर्भोपदेशं कृत्वा तथागता अर्हन्तः सम्यक्संबुद्धा बालानां नैरात्म्यसंत्रासपदविवर्जनार्थं निर्विकल्पनिराभासगोचरं तथागतगर्भमुखोपदेशेन देशयन्ति। न चात्र महामते अनागतप्रत्युत्पन्नैः बोधिसत्त्वैर्महासत्त्वैरात्माभिनिवेशः कर्तव्यः। तद्यथा महामते कुम्भकार एकस्मान्मृत्परमाणुराशेर्विविधानि भाण्डानि करोति हस्तशिल्पदण्डोदकसूत्रप्रयत्नयोगात्, एवमेव महामते तथागतास्तदेव धर्मनैरात्म्यं सर्वविकल्पलक्षणविनिवृत्तं विविधैः प्रज्ञोपायकौशल्ययोगैर्गर्भोपदेशेन वा नैरात्म्योपदेशेन वा कुम्भकारवच्चित्रैः पदव्यञ्जनपर्यायैर्देशयन्ते। एतस्मात्कारणान्महामते तीर्थकरात्मवादोपदेशतुल्यस्तथागतगर्भोपदेशो न भवति। एवं हि महामते तथागतगर्भोपदेशमात्मवादाभिनिविष्टानां तीर्थकराणामाकर्षणार्थं तथागतगर्भोपदेशेन निर्दिशन्ति-कथं बत अभूतात्मविकल्पदृष्टिपतिताशया विमोक्षत्रयगोचरपतिताशयोपेताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्निति। एतदर्थं महामते तथागता अर्हन्तः सम्यक्संबुद्धास्तथागतगर्भोपदेशं कुर्वन्ति। अत एतन्न भवति तीर्थकरात्मवादतुल्यम्। तस्मात्तर्हि महामते तीर्थकरदृष्टिविनिवृत्त्यर्थं तथागतनैरात्म्यगर्भानुसारिणा च ते भवितव्यम्॥



अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत-

पुद्गलः संततिः स्कन्धाः प्रत्यया अणवस्तथा।

प्रधानमीश्वरः कर्ता चित्तमात्रं विकल्प्यते॥ १३७॥

अथ खलु महामतिर्बोधिसत्त्वोऽनागतां जनतां समालोक्य पुनरपि भगवन्तमध्येषते स्म-देशयतु मे भगवान् योगाभिसमयं यथा बोधिसत्त्वा महासत्त्वा महायोगयोगिनो भवन्ति। भगवानाह-चतुर्भिर्महामते धर्मैः समन्वागता बोधिसत्त्वा महायोगयोगिनो भवन्ति। कतमैश्चतुर्भिः ? यदुत स्वचित्तदृश्यविभावनतया च उत्पादस्थितिभङ्गदृष्टिविवर्जनतया च बाह्यभावाभावोपलक्षणतया च स्वप्रत्यात्मार्यज्ञानाधिगमाभिलक्षणतया च। एभिर्महामते चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा महासत्त्वा महायोगयोगिनो भवन्ति॥



तत्र कथं महामते बोधिसत्त्वो महासत्त्वः स्वचित्तदृश्यविभावनाकुशलो भवति ? यदुत स एवं प्रत्यवेक्षते-स्वचित्तमात्रमिदं त्रैधातुकमात्मात्मीयरहितं निरीहमायूहनियूहविगतमनादिकालप्रपञ्चदौष्ठुल्यवासनाभिनिवेशवासितं त्रैधातुकविचित्ररूपोपचारोपनिबद्धं देहभोगप्रतिष्ठागतिविकल्पानुगतं विकल्प्यते ख्यायते च। एवं हि महामते बोधिसत्त्वो महासत्त्वः स्वचित्तदृश्यविभावनाकुशलो भवति॥



कथं पुनर्महामते बोधिसत्त्वो महासत्त्व उत्पादस्थितिभङ्गदृष्टिविवर्जितो भवति ? यदुत मायास्वप्नरूपजन्मसदृशाः सर्वभावाः स्वपरोभयाभावान्नोत्पद्यन्ते। स्वचित्तमात्रानुसारित्वाद्बाह्यभावाभावदर्शनाद्विज्ञानानामप्रवृत्तिं दृष्ट्वा प्रत्ययानामकूटराशित्वं च विकल्पप्रत्ययोद्भवं त्रैधातुकं पश्यन्तोऽध्यात्मबाह्यसर्वधर्मानुपलब्धिभिर्निःस्वभावदर्शनादुत्पाददृष्टिविनिवृत्तौ मायादिधर्मस्वभावानुगमादनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते। अष्टम्यां भूमौ स्थिताः चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावनैरात्म्यद्वयगतिपरावृत्त्यधिगमान्मनोमयकायं प्रतिलभन्ते॥



महामतिराह-मनोमयकाय इति भगवन् केन कारणेन ? भगवानाह-मनोमय इति महामते मनोवदप्रतिहतशीघ्रगाभित्वान्मनोमय इत्युच्यते। तद्यथा महामते मनोऽप्रतिहतं गिरिकुड्यनदीवृक्षादिष्वनेकानि योजनशतसहस्राणि पूर्वदृष्टानुभूतान् विषयाननुस्मरन् स्वचित्तप्रबन्धाविच्छिन्नशरीरमप्रतिहतगति प्रवर्तते, एवमेव महामते मनोमयकायसहप्रतिलम्भेन मायोपमसमेन समाधिना बलवशिताभिज्ञानलक्षणकुसुमितमार्यगतिनिकायसहजो मन इव प्रवर्ततेऽप्रतिहतगतिः पूर्वप्रणिधानविषयाननुस्मरन् सत्त्वपरिपाकार्थम्। एवं हि महामते बोधिसत्त्वो महासत्त्व उत्पादस्थितिभङ्गदृष्टिविवर्जितो भवति॥



तत्र कथं महामते बोधिसत्त्वो महासत्त्वो बाह्यभावाभावोपलक्षणकुशलो भवति ? यदुत मरीचिस्वप्नकेशोण्डुकप्रख्या महामते सर्वभावाः। अनादिकालप्रपञ्चदौष्ठुल्यविचित्रविपाकविकल्पवासनाभिनिवेशहेतुकाः सर्वभावस्वभावा इति संपश्यन् प्रत्यात्मार्यज्ञानगतिविषयमभिलषते। एभिर्महामते चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा महासत्त्वा महायोगयोगिनो भवन्ति। अत्र ते महामते योगः करणीयः॥



अथ खलु महामतिर्बोधिसत्त्वः पुनरपि भगवन्तमध्येषते स्म-देशयतु मे भगवान् हेतुप्रत्ययलक्षणं सर्वधर्माणाम्, येन हेतुप्रत्ययलक्षणावबोधेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा सदसद्दृष्टिविकल्परहिताः सर्वभावनाक्रमं युगपदुत्पत्तिं न कल्पयेयुः॥



भगवानाह-द्विप्रकारं महामते प्रतीत्यसमुत्पादहेतुलक्षणं सर्वधर्माणां यदुत बाह्यं च आध्यात्मिकं च। तत्र बाह्यप्रतीत्यसमुत्पादो महामते। मृत्पिण्डदण्डचक्रसूत्रोदकपुरुषप्रयत्नादिप्रत्ययैर्महामते घट उत्पद्यते। यथा च महामते घटो मृत्पिण्डादेव, तन्तुभ्यः पटाः, वीरणेभ्यः कटाः, बीजादङ्कुरः, मन्थादिपुरुषप्रयत्नयोगाद्दध्नो नवनीत उत्पद्यते, एवमेव महामते बाह्यः प्रतीत्यसमुत्पादः पूर्वोत्तरोत्तरो द्रष्टव्यम्॥



तत्र आध्यात्मिकः प्रतीत्यसमुत्पादो यदुत अविद्या तृषा कर्मेत्येवमाद्या महामते धर्माः प्रतीत्यसमुत्पादसंज्ञां प्रतिलभन्ते। एभ्य उत्पन्ना महामते स्कन्धधात्वायतनाख्या धर्माः प्रतीत्यसमुत्पादसंज्ञां प्रतिलभन्ते। ते चाविशिष्टाः, कल्प्यन्ते च बालैः॥



तत्र हेतुर्महामते षडूविधः। यदुत भविष्यद्धेतुः संबन्धहेतुर्लक्षणहेतुः कारणहेतुर्व्यञ्जनहेतुरुपेक्षाहेतुर्महामते षष्ठः। तत्र भविष्यद्धेतुर्महामते हेतुकृत्यं करोत्यध्यात्मबाह्योत्पत्तौ धर्माणाम्। संबन्धहेतुः पुनर्महामते आलम्बनकृत्यं करोत्यध्यात्मिकबाह्योत्पत्तौ स्कन्धबीजादीनाम्। लक्षणहेतुः पुनरपरं महामते अनन्तरक्रियालक्षणोपरिबद्धं जनयति। कारणहेतुः पुनर्महामते आधिपत्याधिकारकृत्यं करोति चक्रवर्तिनृपवत्। व्यञ्जनहेतुः पुनर्महामते उत्पन्नस्य विकल्पस्य भावस्य लक्षणोद्द्योतनकृत्यं करोति प्रदीपवद्रूपादीनाम्। उपेक्षाहेतुः पुनर्महामते विनिवृत्तिकाले प्रबन्धक्रियाव्युच्छित्तिं करोत्यविकल्पोत्पत्तौ॥



एते हि महामते स्वविकल्पकल्पिता बालपृथग्जनैर्न क्रमवृत्त्या न युगपत्प्रवर्तन्ते। तत्कस्य हेतोः ? यदि पुनर्महामते युगपत्प्रवर्तेरन्, कार्यकारणविभागो न स्यादप्रतिलब्धहेतुलक्षणत्वात्। अथ क्रमवृत्त्या प्रवर्तेरन्, अलब्धस्य लक्षणात्मकत्वात्क्रमवृत्त्या न प्रवर्तते। अजातपुत्रपितृशब्दवन्महामते क्रमवृत्तिसंबन्धयोगा न घटन्ते। तार्किकाणां हेत्वारम्बणनिरन्तराधिपतिप्रत्ययादिभिर्जन्यजनकत्वान्महामते क्रमवृत्त्या नोत्पद्यन्ते। परिकल्पितस्वभावाभिनिवेशलक्षणान्महामते युगपन्नोत्पद्यन्ते। स्वचित्तदृश्यदेहभोगप्रविष्ठानत्वात्स्वसामान्यलक्षणबाह्यभावाभावान्महामते क्रमेण युगपद्वा नोत्पद्यन्ते। अन्यत्र स्वचित्तदृश्यविकल्पविकल्पितत्वाद्विज्ञानं प्रवर्तते। तस्मात्तर्हि महामते हेतुप्रत्ययक्रियायोगलक्षणक्रमयुगपद्दृष्टिविगतेन ते भवितव्यम्॥

तत्रेदमुच्यते -

न ह्यत्रोत्पद्यते किंचित्प्रत्ययैर्न निरुध्यते।

उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव कल्पिताः॥ १३८॥

न भङ्गोत्पादसंक्लेशः प्रत्ययानां निवार्यते।

यत्र बाला विकल्पन्ति प्रत्ययैः स निवार्यते॥ १३९॥

यच्चासतः प्रत्ययेषु धर्माणां नास्ति संभवः।

वासनैर्भ्रामितं चित्तं त्रिभवे ख्यायते यतः।

नाभूत्वा जायते किंचित्प्रत्ययैर्न विरुध्यते॥ १४०॥

वन्ध्यासुताकाशपुष्पं यदा पश्यन्ति संस्कृतम्।

तदा ग्राहश्च ग्राह्यं च भ्रान्तिं दृष्ट्वा निवर्तते॥ १४१॥

न चोत्पाद्यं न चोत्पन्नः प्रत्ययोऽपि न किंचन।

संविद्यते क्वचित्केचिद्वयवहारस्तु कथ्यते॥ १४२॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-देशयतु मे भगवान् वाग्विकल्पलक्षणहृदयं नाम धर्मपर्यायं येन वाग्विकल्पलक्षणहृदयेन भगवन् सुप्रतिविभागविनिबद्धेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा अभिलापाभिलाप्यार्थद्वयगतिंगताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्य अभिलापाभिलाप्यार्थद्वयगतिं सर्वसत्त्वानां विशोधयेयुः। भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन् इति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवानस्यैतदवोचत्- चतुर्विधं महामते वाग्विकल्पलक्षणं भवति। यदुत लक्षणवाक् स्वप्नवाक् दौष्ठुल्यविकल्पाभिनिवेशवाक् अनादिविकल्पवाक्॥



तत्र महामते लक्षणवाक् स्वविकल्परूपनिमित्ताभिनिवेशात्प्रवर्तते। स्वप्नवाक् पुनर्महामते पूर्वानुभूतविषयानुस्मरणात्प्रतिविबुद्धविषयाभावाच्च प्रवर्तते। दौष्ठुल्यविकल्पाभिनिवेशवाक् पुनर्महामते शत्रुपूर्वकृतकर्मानुस्मरणात्प्रवर्तते। अनादिकालविकल्पवाक् पुनर्महामते अनादिकालप्रपञ्चाभिनिवेशदौष्ठुल्यस्वबीजवासनातः प्रवर्तते। एतद्धि महामते चतुर्विधं वाग्विकल्पलक्षणमिति मे यदुक्तम्, इदं तत्प्रत्युक्तम्॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतमेवार्थमध्येषते स्म-देशयतु मे भगवान् पुनरपि वाग्विकल्पाभिव्यक्तिगोचरम्। कुत्र कस्मात् कथं केन भगवन् नृणां वाग्विज्ञप्तिविकल्पः प्रवर्तते ? भगवानाह-शिर‍उरोनासाकण्ठताल्वोष्ठजिह्वादन्तसमवायान्महामते वाक् प्रवर्तमाना प्रवर्तते। महामतिराह-किं पुनर्भगवन् वाग् विकल्पादन्या उत अनन्या ? भगवानाह-न हि महामते वाग् विकल्पादन्या नानन्या। तत्कस्य हेतोः ? यदुत तद्धेतूत्पत्तिलक्षणत्वान्महामते वाग्विकल्पः प्रवर्तते। यदि पुनर्महामते वाग् विकल्पादन्या स्यात्, अविकल्पहेतुकी स्यात्। अथानन्या स्यात्, अर्थाभिव्यक्तित्वाद्वाग् न कुर्यात्। सा च कुरुते। तस्मान्नान्या नानन्या॥



पुनरपि महामतिराह-किं पुनर्भगवन् वचनमेव परमार्थः, उत यद्वचनेनाभिलप्यते स परमार्थः ? भगवानाह-न महामते वचनं परमार्थः, न च यद्वचनेनाभिलप्यते स परमार्थः। तत्कस्य हेतोः? यदुत परमार्थार्यसुखाभिलापप्रवेशित्वात्परमार्थस्य वचनं न परमार्थः। परमार्थस्यु महामते आर्यज्ञानप्रत्यात्मगतिगम्यो न वाग्विकल्पबुद्धिगोचरः। तेन विकल्पो नोद्भावयति परमार्थम्। वचनं पुनर्महामते उत्पन्नप्रध्वंसि चपलं परस्परप्रत्ययहेतुसमुत्पन्नम्। यच्च महामते परस्परप्रत्ययहेतुसमुत्पन्नं तत्परमार्थं नोद्भावयति। स्वपरलक्षणाभावान्महामते बाह्यलक्षणं नोद्भावयति॥



पुनरपरं महामते स्वचित्तदृश्यमात्रानुसारित्वाद्विविधविचित्रलक्षणबाह्यभावाभावाद्वाग्विकल्पः परमार्थं न विकल्पयति। तस्मात्तर्हि महामते वाग्विचित्रविकल्परहितेन ते भवितव्यम्॥

तत्रेदमुच्यते -

सर्वभावोऽस्वभावो हि सद्वचनं तथाप्यसत्।

शून्यताशून्यतार्थं वा बालोऽपश्यन् विधावति॥ १४३॥

सर्वभावस्वभावा च वचनमपि नृणाम्।

कल्पना सापि नास्ति निर्वाणं स्वप्नतुल्यम्।

भवं परीक्षेत न संसारे नापि निर्वायात्॥ १४४॥

राजा श्रेष्ठी यथा पुत्रान् विचित्रैर्मृन्मयैर्मृगैः।

प्रलोभ्य क्रीडयित्वा च भूतान् दद्यात्ततो मृगान्॥ १४५॥

तथाहं लक्षणैश्चित्रैर्धर्माणां प्रतिबिम्बकैः।

प्रत्यात्मवेद्यां पुत्रेभ्यो भूतकोटिं वदाम्यहम्॥ १४६॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-देशयतु मे भगवान् नास्त्यस्तित्वैकत्वान्यत्वोभयनोभयनैवास्तिननास्तिनित्यानित्यवर्जितं सर्वतीर्थ्यागतिप्रचारमार्यप्रत्यात्मज्ञानगतिगम्यं परिकल्पितस्वसामान्यलक्षणविनिवृत्तं परमार्थतत्त्वावतारं भूम्यनुसंधिक्रमोत्तरोत्तरविशुद्धिलक्षणं तथागतभूम्यनुप्रवेशलक्षणमनाभोगपूर्वप्रणिधानविश्वरूपमणिसदृशविषयानन्तलक्षणप्रचारं स्वचित्तदृश्यगोचरगतिविभागलक्षणं सर्वधर्माणाम्। यथा च अहं च अन्ये च बोधिसत्त्वा महासत्त्वा एवमादिषु परिकल्पितस्वभावस्वसामान्य लक्षणविनिवृत्तदृष्टयः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वसत्त्वानां सर्वगुणसंपत्तीः परिपूरयेम॥



भगवानाह-साधु साधु महामते, साधु खलु पुनस्त्वं महामते, यत्त्वमेतमर्थमध्येषितव्यं मन्यसे। बहुजनहिताय त्वं महामते प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च। तेन हि महामते शृणु, साधु च सुष्ठु च मनसि कुरु। भाविष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-स्वचित्तदृश्यमात्रानवबोधान्महामते बालपृथग्जना बाह्यविचित्रभावाभिनिवेशेन च नास्त्यस्तित्वैकत्वान्यत्वोभयनैवास्तिननास्तिनित्यानित्यस्वभाववासनाहेतुविकल्पाभिनिवेशेन विकल्पयन्ति। तद्यथा महामते मृगतृष्णोदकं मृगा उदकभावेन विकल्प्य ग्रीष्माभितप्ताः पातुकामतया प्रधावन्ति, स्वचित्तदृष्टिभ्रान्त्यनवबोधान्न प्रजानन्तिनात्रोदकमिति, एवमेव महामते बालपृथग्जना अनादिकालविविधप्रपञ्चविकल्पवासितमतयो रागद्वेषमोहाग्नितापितमनसो विचित्ररूपविषयाभिलाषिणः उत्पादभङ्गस्थितिदृष्ट्याशया आध्यात्मिकबाह्यभावाभावाकुशलाः। ते एकत्वान्यत्वनास्त्यस्तित्वग्राहे प्रपतन्ति। तद्यथा महामते गन्धर्वनगरेऽविदुषामनगरे नगरसंज्ञा भवति। सा च नगराकृतिरनादिकालनगरबीजवासनाभिनिवेशात्ख्याति। तच्च नगरं नानगरं न नगरम्। एवमेव महामते अनादिकालतीर्थ्यप्रप्रञ्चवादवासनाभिनिविष्टाः एकत्वान्यत्वास्तित्वनास्तित्ववादानभिनिविशन्ते स्वचित्तदृश्यमात्रानवधारितमतयः। तद्यथा महामते कश्चिदेव पुरुषः शयितः स्वप्नान्तरे स्त्रीपुरुषहस्त्यश्वरथपदातिग्रामनगरनिगमगोमहिषवनोद्यानविविधगिरिनदीतडागोपशोभितं जनपदमन्तःपुरं प्रविश्य प्रतिविबुध्येत। स प्रतिविबुद्धः संस्तदेव जनपदमन्तःपुरं समनुस्मरेत्।

तत्किं मन्यसे महामते-अपि नु स पुरुषः पण्डितजातीयो भवेत्, यस्तदभूतं स्वप्नवैचित्र्यमनुस्मरेत् ? आह-नो हीदं भगवन्। भगवानाह-एवमेव महामते बालपृथग्जनाः कुदृष्टिदष्टास्तीर्थ्यमतयः स्वप्नतुल्यात्स्वचित्तदृश्यभावान्न प्रतिविजानन्ते, एकत्वान्यत्वनास्त्यस्तित्वदृष्टिं समाश्रयन्ते। तद्यथा महामते चित्रकरकृतप्रदेशा अनिम्नोन्नताः सन्तो निम्नोन्नता बालैः कल्प्यन्ते, एवमेव महामते भविष्यन्त्यनागतेऽध्वनि तीर्थ्यदृष्टिवासनाशयप्रतिविकल्पपुष्टाः। ते एकत्वान्यत्वोभयानुभयवादाभिनिविष्टाः स्वयं नष्टा अन्यानपि सदसत्पक्षविविक्तानुत्पादवादिनो नास्तिका इति वक्ष्यन्ति। एते हेतुफलापवादिनो दुर्दर्शनोन्मूलितहेतुकुशलशुक्लपक्षाः। एते श्रेयोर्थिभिर्दूरतः परिवर्ज्यां इति वक्ष्यन्ते। ते च स्वपरोभयदृष्टिपतिताशया नास्त्यस्तित्वविकल्पसमारोपापवादकुदृष्टिपतिताशया नरकपरायणा भविष्यन्ति। तद्यथा महामते तैमिरिकाः केशोण्डुकं दृष्ट्वा परस्परमाचक्षते-इदं चित्रमिदं चित्रमिति पश्यन्तु भो मार्षाः। तच्च केशोण्डुकमुभयानुत्पन्नतया न भावो नाभावो दर्शनादर्शनतः। एवमेव महामते तीर्थ्यकुदृष्टिविकल्पाशयाभिनिविष्टाः सदसत्पक्षैकत्वान्यत्वोभयानुभयत्ववादाभिनिविष्टाः सद्धर्मापवादका आत्मानं परांश्च विनिपातयिष्यन्ति। तद्यथा महामते अचक्रमलातचक्रं बालैश्चक्रभावेन परिकल्प्यते न पण्डितैः, एवमेव महामते कुदृष्टितीर्थ्याशयपतिता एकत्वान्यत्वोभयानुभयत्वं परिकल्पयिष्यन्ति सर्वभावोत्पत्तौ। तद्यथा महामते देवे प्रवर्षति जलबुद्बुदकाः स्फटिकमणिसदृशाः ख्यायन्ते। तत्र च बालाः स्फटिकमणिभावमभिनिवेश्य प्रधावन्ति। ते च महामते उदकबुद्बुदका न मणयो नामणयो ग्रहणाग्रहणतः। एवमेव महामते तीर्थ्यदृष्टिविकल्पाशयवासनावासिता असतश्चोत्पादं वर्णयिष्यन्ति प्रत्ययैः, सतश्च विनाशम्॥



पुनरपरं महामते प्रमाणत्रयावयवप्रत्यवस्थानं कृत्वा आर्यज्ञानप्रत्यात्माधिगम्यं स्वभावद्वयविनिर्मुक्तं वस्तु स्वभावतो विद्यत इति विकल्पयिष्यन्ति। न च महामते चित्तमनो मनोविज्ञानचित्तपरावृत्त्याश्रयाणां स्वचित्तदृश्यग्राह्यग्राहकविकल्पप्रहीणानां तथागतभूमिप्रत्यात्मार्यज्ञानगतानां योगिनां भावाभावसंज्ञा प्रवर्तते। यदि पुनर्महामते योगिनामेवंगतिविषयाणां भावाभावग्राहः प्रवर्तते, स एवैषामात्मग्राहः पोषग्राहः पुरुषग्राहः पुद्गलग्राहः स्यात्। या पुनरेवं महामते भावस्वभावस्वसामान्यलक्षणदेशना, एषा महामते नैर्माणिकबुद्धदेशनाः न धर्मताबुद्धदेशना। देशना पुनर्महामते बालशयगतदृष्टिप्रवृत्ता, न च प्रत्यवस्थानगतिस्वभावधर्मार्यज्ञानप्रत्यात्माधिगमसमाधिसुखविहारमुद्भावयति। तद्यथा महामते जलान्तर्गता वृक्षच्छाया ख्यायते। सा च न च्छाया नाच्छाया वृक्षसंस्थानासंस्थानतः, एवमेव महामते तीर्थ्यदृष्टिवासनावासितविकल्पा एकत्वान्यत्वोभयत्वानुभयत्वनास्त्यस्तित्वं विकल्पयिष्यन्ति स्वचित्तदृश्यमात्रानवधारितमतयः। तद्यथा महामते दर्पणान्तर्गतानि सर्वरूपप्रतिबिम्बकानि ख्यायन्ते यथाप्रत्ययतः स्वविकल्पनाच्च, न तानि बिम्बानि नाबिम्बानि बिम्बाबिम्बदर्शनतः। अथ च ते महामते स्वचित्तदृश्यविकल्पाः ख्यायन्ते बालानां बिम्बाकृतयः। एवमेव महामते स्वचित्तप्रतिबिम्बानि ख्यायन्ते एकत्वान्यत्वोभयानुभयदृष्ट्याकारेण। तद्यथा महामते प्रतिश्रुत्का पुरुषनदीपवनसंयोगात्प्रवर्तमाना अनुश्रूयते। सा च न भावा नाभावा घोषाघोषश्रवणतः, एवमेव महामते नास्त्यस्तित्वैकत्वान्यत्वोभयनोभयदृष्टिस्वचित्तवासनाविकल्पाः ख्यायन्ते। तद्यथा महामते निस्तृणगुल्मलतावनायां मेदिन्यामादित्यसंयोगान्मृगतृष्णिकास्तरंगवत्स्यन्दन्ते। ते च न भावा नाभावा लोभ्यालोभ्यतः। एवमेव महामते बालानामनादिकालप्रपञ्चदौष्ठुल्यवासनावासितं विकल्पविज्ञानमुत्पादस्थितिभङ्गैकत्वान्यत्वोभयानुभयनास्त्यस्त्यार्यप्रत्यात्मज्ञानवस्तुमुखेन मृगतृष्णिकावत्तरंगायते। तद्यथा महामते वेतालयन्त्रपुरुषौ निःसत्त्वौ पिशाचयुक्तिगात्स्पन्दनक्रियां कुर्वाते। तत्र च असद्विकल्पे बाला अभिनिविशन्ते गमनागमनतः। एवमेव महामते बालपृथग्जनाः कुदृष्टितीर्थ्याशयपतिता एकत्वान्यत्ववादानभिनिविशन्ते। स च असद्भूतसमारोपः। तस्मात्तर्हि महामते उत्पादस्थितिभङ्गैकत्वान्यत्वोभयानुभयनास्त्यस्त्यार्यप्रत्यात्मवस्त्वधिगमविकल्परहितेन भवितव्यम्॥

तत्रेदमुच्यते -

जलवृक्षच्छायासदृशाः स्कन्धा विज्ञानपञ्चमाः।

मायास्वप्नोपमादृशा(श्या?) विज्ञप्त्या मा विकल्पयते॥ १४७॥

केशोण्डुकप्रख्यमिदं मरीच्युदकविभ्रमत्।

त्रिभवं स्वप्नमायाख्यं विभावेन्तो विमुच्यते॥ १४८॥

मृगतृष्णा यथा ग्रीष्मे स्पन्दते चित्तमोहनी।

मृगा गृह्णन्ति पानीयं न चास्यां वस्तु विद्यते॥ १४९॥

तथा विज्ञानबीजं हि स्पन्दते दृष्टिगोचरे।

बाला गृह्णन्ति जायन्तं तिमिरं तैमिरा यथा॥ १५०॥

अनादिगतिसंसारे भावग्राहोपगूहितम्।

बालः कीले यथा कीलं प्रलोभ्य विनिवर्तयेत्॥ १५१॥

मायावेतालयन्त्राभं स्वप्नविद्युद्धनं सदा।

त्रिसंततिव्यवच्छिन्नं जगत्पश्य (न्?) विमुच्यते॥ १५२॥

न ह्यत्र काचिद्विज्ञप्तिर्मरीचीनां यथा नभे।

एवं धर्मान् विजानन्तो न किंचित्प्रतिजानते॥ १५३॥

विज्ञप्तिर्नाममात्रेयं लक्षणेन न विद्यते।

स्कन्धाः केशोण्डुकाकारा यत्र चासौ विकल्प्यते॥ १५४॥

चित्तं केशोण्डुकं मायां स्वप्न गन्धर्वमेव च।

अलातं मृगतृष्णा च असन्तः ख्याति वै नृणाम्॥ १५५॥

नित्यानित्यं तथैकत्वमुभयं नोभयं तथा।

अनादिदोषसंबन्धाद् बालाः कल्पन्ति मोहिताः॥ १५६॥

दर्पणे उदके नेत्रे भाण्डेषु च मणीषु च।

बिम्बं हि दृश्यते तेषु बिम्बं नास्ति च कुत्रचिद्॥ १५७॥

भावाभासं तथा चित्तं मृगतृष्णा यथा नभे।

दृश्यते चित्ररूपेण स्वप्ने वन्ध्यौरसो यथा॥ १५८॥



पुनरपरं महामते चतुष्टयविनिर्मुक्ता तथागतानां धर्मदेशना, यदुत एकत्वान्यत्वोभयानुभयपक्षविवर्जिता नास्त्यस्तिसमारोपापवादविनिर्मुक्ता। असत्यप्रतीत्यसमुत्पादनिरोधमार्गविमोक्षप्रवृत्तिपूर्वका महामते तथागतानां धर्मदेशना। न प्रकृतीश्वरहेतुयदृच्छाणुकालस्वभावोपनिबद्धा महामते तथागतानां धर्मदेशना॥



पुनरपरं महामते क्लेशज्ञेयावरणद्वयविशुद्ध्यर्थं सार्थवाहवदानुपूर्व्या अष्टोत्तरे निराभासपदशते प्रतिष्ठापयन्ति यानभूम्यङ्गसुविभागलक्षणे च॥



पुनरपरं महामते चतुर्विधं ध्यानम्। कतमच्चतुर्विधम् ? यदुत बालोपचारिकं ध्यानम्, अर्थप्रविचयं ध्यानम्, तथतालम्बनं ध्यानम्, ताथागतं चतुर्थं ध्यानम्। तत्र महामते बालोपचारिकं ध्यानं कतमत् ? यदुत श्रावकप्रत्येकबुद्धयोगयोगिनां पुद्गलनैरात्म्यभावस्वसामान्यबिम्बसंकलानित्यदुःखाशुभलक्षणाभिनिवेशपूर्वकम्, एवमिदं लक्षणं नान्यथेति पश्यतः पूर्वोत्तरोत्तरत आ संज्ञानिरोधाद्बालोपचारिकं भवति। तत्र अर्थप्रविचयध्यानं पुनर्महामते कतमत् ? यदुत पुद्गलनैरात्म्यस्वसामान्यलक्षणबाह्यतीर्थकरस्वपरोभयाभावं कृत्वा धर्मनैरात्म्यभूमिलक्षणार्थं प्रविचयानुपूर्वकमर्थप्रविचयध्यानं भवति। तत्र तथतालम्बनं ध्यानं महामते कतमत् ? यदुत परिकल्पितनैरात्म्यद्वयविकल्पयथाभूतावस्थानादप्रवृत्तेर्विकल्पस्य तथतालम्बनमिति वदामि। ताथागतं पुनर्महामते ध्यानं कतमत् ? यदुत ताथागतभूम्याकारप्रवेशं प्रत्यात्मार्यज्ञानलक्षणत्रयसुखविहाराचिन्त्यसत्त्वकृत्यकरणतया ताथागतं ध्यानमिति वदामि॥

तत्रेदमुच्यते -

अर्थप्रविचयं ध्यानं ध्यानं बालोपचारिकम्।

तथतालम्बनं ध्यानं ध्यानं ताथागतं शुभम्॥ १५९॥

सोमभास्करसंस्थानं पद्मपातालसादृशम्।

गगनाग्निचित्रसदृशं योगी युञ्जन् प्रपश्यति॥ १६०॥

निमित्तानि च चित्राणि तीर्थमार्गं नयन्ति ते।

श्रावकत्वे निपातन्ति प्रत्येकजिनगोचरे॥ १६१॥

विधूय सर्वाण्येतानि निराभासं यदा भवेत्।

तदा बुद्धाकरादित्याः सर्वक्षेत्राः समागताः।

शिरो हि तस्य मार्जन्ति निमित्तं तथतानुगम्॥ १६२॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-निर्वाणं निर्वाणमिति भगवन्नुच्यते। कस्यैतद्भगवन्नधिवचनं यदुत निर्वाणमिति ? भगवानाह-सर्वविज्ञानस्वभाववासनालयमनोमनोविज्ञानदृष्टिवासनापरावृत्तिर्निर्वाणमित्युच्यते सर्वबुद्धैर्मया च निर्वाणगतिस्वभावशून्यतावस्तुगोचरम्॥



पुनरपरं महामते निर्वाणमार्यज्ञानप्रत्यात्मगतिगोचरं शाश्वतोच्छेदविकल्पभावाभावविवर्जितम्। कथं न शाश्वतम् ? यदुत स्वसामान्यलक्षणविकल्पप्रहीणम्, अतो न शाश्वतम्। तत्रानुच्छेदो यदुत सर्वार्था अतीतानागतप्रत्युत्पन्नाः प्रत्यात्ममपि गच्छन्ति, अतो नोच्छेदः॥



पुनर्महामते महापरिनिर्वाणं न नाशो न मरणम्। यदि पुनर्महामते महापरिनिर्वाणं मरणं स्यात्, पुनरपि जन्मप्रबन्धः स्यात्। अथ विनाशः स्यात्, संस्कृतलक्षणपतितं स्यात्। अत एतस्मात्कारणान्महामते महापरिनिर्वाणं न नाशं न मरणम्। च्युतिविगतं मरणमधिगच्छन्ति योगिनः। पुनरपरं महामते महापरिनिर्वाणमप्रहीणासंप्राप्तितोऽनुच्छेदाशाश्वततो नैकार्थतो नानार्थतो निर्वाणमित्युच्यते॥



पुनरपरं महामते श्रावकप्रत्येकबुद्धानां निर्वाणं स्वसामान्यलक्षणावबोधादसंसर्गतः। विषयाविपर्यासदर्शनाद्विकल्पो न प्रवर्तते। ततस्तेषां तत्र निर्वाणबुद्धिर्भवति॥



पुनरपरं महामते द्विप्रकारं स्वभावद्वयलक्षणं भवति। कतमत् द्विप्रकारम् ? यदुत अभिलापस्वभावाभिनिवेशतश्च वस्तुस्वभावाभिनिवेशतश्च। तत्र महामते अभिलापस्वभावाभिनिवेशोऽनादिकालवाक्प्रपञ्चवासनाभिनिवेशात्प्रवर्तते। तत्र वस्तुस्वभावाभिनिवेशः पुनर्महामते स्वचित्तदृश्यमात्रानवबोधात्प्रवर्तते॥



पुनरपरं महामते अधिष्ठानद्वयाधिष्ठिता बोधिसत्त्वास्तथागतानामर्हतां सम्यक्संबुद्धानां चरणयोर्निपत्य प्रश्नान् परिपृच्छन्ति। कतमेनाधिष्ठानद्वयेनाधिष्ठिताः ? यदुत समाधिसमापत्त्यधिष्ठानेन सर्वकायमुखपाण्यभिषेकाधिष्ठानेन च। तत्र महामते बोधिसत्त्वा महासत्त्वाः प्रथमायां भूमौ बुद्धाधिष्ठानाधिष्ठिता महायानप्रभासं नाम बोधिसत्त्वसमाधिं समापद्यन्ते। समनन्तरसमापन्नानां च तेषां बोधिसत्त्वानां महासत्त्वानां महायानप्रभासं बोधिसत्त्वसमाधिम्, अथ दशदिग्लोकधातुव्यवस्थितास्तथागता अर्हन्तः सम्यक्संबुद्धा मुखान्युपदर्श्य सर्वकायमुखवाचासंदर्शनेनाधिष्ठानं कुर्वन्ति। यथा महामते वज्रगर्भस्य बोधिसत्त्वस्य महासत्त्वस्य अन्येषां च तादृग्लक्षणगुणसमन्वागतानां बोधिसत्त्वानां महासत्त्वानाम्, एवं महामते प्रथमायां भूमौ बोधिसत्त्वा महासत्त्वाः समाधिसमापत्त्यधिष्ठानं प्रतिलभन्ते। कल्पशतसहस्रं संचितैः कुशलमूलैरनुपूर्वेण भूमिपक्षविपक्षलक्षणगतिंगतां धर्ममेघायां बोधिसत्त्वभूमौ महापद्मविमानासनस्थस्य बोधिसत्त्वस्य महासत्त्वस्य तदनुरूपैर्बोधिसत्त्वैर्महासत्त्वैः परिवृतस्य सर्वरत्नाभरणविभूषितकिरीटस्य हरितालकनकचम्पकचन्द्रांशुमयूखपद्मसदृशा दशदिग्लोकधात्वागता जिनकरास्तस्य बोधिसत्त्वस्य महासत्त्वस्य पद्मविमानासनस्थस्य मूर्धन्यभिषिञ्चन्ति वशवर्तिचक्रवर्तीन्द्रराजवत्सर्वकायमुखपाण्यभिषेकेन। स च बोधिसत्त्वस्ते च बोधिसत्त्वाः पाण्यभिषेकाधिष्ठानाधिष्ठिता इत्युच्यन्ते। एतन्महामते बोधिसत्त्वानां महासत्त्वानामधिष्ठानद्वयम्, येनाधिष्ठानद्वयेनाधिष्ठिता बोधिसत्त्वा महासत्त्वाः सर्वबुद्धमुखान्यवलोकयन्ति। अन्यत्राव्यवलोक्यास्तथागता अर्हन्तः सम्यक्संबुद्धाः॥



पुनरपरं महामते यत्किंचिद्बोधिसत्त्वानां महासत्त्वानां प्रतिभाति समाध्यृद्धिदेशनाकारेण, तत्सर्वबुद्धाधिष्ठानद्वयाधिष्ठितानाम्। यदि पुनर्महामते बोधिसत्त्वानां महासत्त्वानामधिष्ठानमन्तरेण प्रतिभानं प्रतिभायात्, बालपृथग्जनानामपि महामते प्रतिभानं प्रतिभायात्। तत्कस्य हेतोः ? यदुत अधिष्ठानानधिष्ठितत्वात्। तृणगुल्मवृक्षपर्वता अपि महामते विविधानि च वाद्यभाण्डानि नगरभवनगृहविमानासनस्थानानि तथागतप्रवेशाधिष्ठानेन प्रवाद्यन्ते। किं पुनर्महामते सचेतना मूकान्धबधिरा अपि महामते स्वदोषेभ्यो विमुच्यन्ते। एवं महागुणविशेषं महामते तथागताधिष्ठानम्॥



पुनरपरं महामतिराह-किं पुनर्भगवंस्तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां समाधिसमापत्त्यवस्थानकाले विशेषभूमौ च अभिषेकाधिष्ठानं प्रकुर्वन्ति ? भगवानाह-मारकर्मक्लेशवियुक्तार्थं श्रावकध्यानभूम्यप्रपतनतया च तथागतभूमिप्रत्यात्माधिगमनतया च प्राप्तधर्माधिगमविवृद्धये च। एतेन महामते कारणेन तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानामधिष्ठानैरधितिष्ठन्ति। अनधिष्ठिताश्च महामते बोधिसत्त्वा महासत्त्वाः कुतीर्थ्यश्रावकमाराशयपतिता नानुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्। अतस्तेन कारणेन बोधिसत्त्वा महासत्त्वास्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुगृह्यन्ते॥

तत्रेदमुच्यते -

अधिष्ठानं नरेन्द्राणां प्रणिधानैर्विशोधितम्।

अभिषेकसमाध्याद्याः प्रथमाद्दशमाय वै॥ १६३॥



अथ खलु महामतिर्बोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत्-प्रतीत्यसमुत्पादं पुनर्भगवता देशयता कारणव्यपदेश एव कृतो न स्वनयप्रकृत्यवस्थानकथा। तीर्थकरा अपि भगवन् कारणत उत्पत्तिं वर्णयन्ति, यदुत प्रधानेश्वरपुरुषकालाणुप्रत्ययेभ्यो भावानामुत्पत्तयः। किं तु भगवता प्रत्ययपर्यायान्तरेणोत्पत्तिर्वर्ण्यते भावानाम्। न च सिद्धान्तविशेषान्तरम्। सदसतो हि भगवंस्तीर्थकरा अप्युत्पत्तिं वर्णयन्ति, भूत्वा च विनाशं प्रत्ययैर्भावानाम्। यदप्युक्तं भगवता-अविद्याप्रत्ययाः संस्कारा यावज्जरामरणमिति, अहेतुवादव्यपदेश एष भगवतानुवर्णितः, न स हेतुवादः। युगपद्वयवस्थितानां भगवन्नेतद्भवति-अस्मिन् सतीदं भवतीति, न क्रमवृत्त्यपेक्षावस्थितानाम्। किं तु तीर्थकरव्यपदेश एव भगवन् विशिष्यते न त्वदीयम्। तत्कस्य हेतोः ? तीर्थकराणां हिं भगवन् कारणमप्रतीत्यसमुत्पन्नं कार्यमभिनिर्वर्तयति। तव तु भगवन् कारणमपि कार्यापेक्षं कार्यमपि कारणापेक्षम्। हेतुप्रत्ययसंकरश्च एवमन्योन्यानवस्था प्रसज्यते। अहेतुत्वं च भगवन् लोकस्य-अस्मिन् सतीदं ब्रुवतः। भगवानाह-न महामते ममाहेतुककारणवादो हेतुप्रत्ययसंकरश्च प्रसज्यते-अस्मिन् सतीदं ब्रुवतः, ग्राह्यग्राहकाभावात्, स्वचित्तदृश्यमात्रावबोधात्। ये तु महामते ग्राह्यग्राहकाभिनिविष्टाः स्वचित्तदृश्यमात्रं नावबुध्यन्ते बाह्यस्वविषयभावाभावत्वेन, तेषां महामते एष दोषः प्रसज्यते , न तु मम प्रतीत्यकारणव्यपदेशं कुर्वतः॥
पुनरपरं महामतिराह-ननु भगवन् अभिलापसद्भावात्सन्ति सर्वभावाः। यदि पुनर्भगवन् भावा न स्युः, अभिलापो न प्रवर्तते। प्रवर्तते च। तस्मादभिलापसद्भावाद्भगवन् सन्ति सर्वभावाः। भगवानाह-असतामपि महामते भावानामभिलापः क्रियते। यदुत शशविषाणकूर्मरोमवन्ध्यापुत्रादीनां लोके दृष्टोऽभिलापः। ते च महामते न भावा नाभावाः, अभिलप्यन्ते च। तद्यदवोचस्त्वं महामते-अभिलापसद्भावात्सन्ति सर्वभावा इति, स हि वादः प्रहीणः। न च महामते सर्वबुद्धक्षेत्रेषु प्रसिद्धोऽभिलापः। अभिलापो महामते कृतकः। क्वचिन्महामते बुद्धक्षेत्रेऽनिमिषप्रेक्षया धर्मो देश्यते, क्वचिदिङ्गितैः, क्वचिद्भूविक्षेपेण, क्वचिन्नेत्रसंचारेण, क्वचिदास्येन, क्वचिद्विजृम्भितेन, क्वचिदुत्कासनशब्देन, क्वचित्क्षेत्रस्मृत्या, क्वचित्स्पन्दितेन। यथा महामते अनिमिषायां गन्धसुगन्धायां च लोकधातौ समन्तभद्रस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे अनिमिषैर्नेत्रैः प्रेक्षमाणास्ते बोधिसत्त्वा महासत्त्वा अनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते अन्यांश्च समाधिविशेषान्, अत एवास्मात्कारणान्महामते नाभिलापसद्भावात्सन्ति सर्वभावाः। दृष्टं चैतन्महामते। इह लोके कृमिमक्षिकैवमाद्याः सत्त्वविशेषा अनभिलापेनैव स्वकृत्यं कुर्वन्ति॥

तत्रेदमुच्यते -

आकाशं शशशृङ्गं च वन्ध्यायाः पुत्र एव च।

असन्तो ह्यभिलप्यन्ते तथा भावेषु कल्पना॥ १६४॥

हेतुप्रत्ययसामग्र्यां बालाः कल्पन्ति संभवम्।

अजानाना नयमिदं भ्रमन्ति त्रिभवालये॥ १६५॥

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-नित्यशब्दः पुनर्भगवन् क्वभिहितः ? भगवानाह-भ्रान्तौ महामते। यस्मादियं भ्रान्तिरार्याणामपि ख्यायते विपर्यासतः। तद्यथा महामते मृगतृष्णालातचक्रकेशोण्डुकगन्धर्वनगरमायास्वप्नप्रतिबिम्बाक्षपुरुषा लोकेऽविद्वद्भिर्विपर्यस्यन्ते, न तु विद्वद्भिः। न च पुनर्न ख्यायन्ते। सा पुनर्भ्रान्तिर्महामते अनेकप्रकारा ख्यायात्। न भ्रान्तेरशाश्वततां कुरुते। तत्कस्य हेतोः ? यदुत भावाभावविवर्जितत्वात्। कथं पुनर्महामते भावाभावविवर्जिता भ्रान्तिः ? यदुत सर्वबालविचित्रगोचरत्वात्समुद्रतरंगगङ्गोदकवत्प्रेतानां दर्शनादर्शनतः। अत एतस्मात्कारणान्महामते भ्रान्तिभावो न भवति। यस्माच्च तदुदकमन्येषां ख्यायते, अतो ह्यभावो न भवति। एवं भ्रान्तिरार्याणां विपर्यासाविपर्यासवर्जिता। अतश्च महामते अस्मात्कारणाच्छाश्वता भ्रान्तिर्यदुत निमित्तलक्षणाभेदत्वात्। न हि महामते भ्रान्तिर्विविधविचित्रनिमित्तविकल्पेन विकल्प्यमाना भेदमुपयाति। अत एतस्मात्कारणान्महामते भ्रान्तिः शाश्वता॥



कथं पुनर्महामते भ्रान्तिस्तत्त्वं भवति ? येन पुनः कारणेन महामते आर्याणामस्यां भ्रान्तौ विपर्यासबुद्धिर्न प्रवर्तते, नाविपर्यासबुद्धिः। नान्यत्र महामते आर्या अस्यां भ्रान्तौ यकिंचित्संज्ञिनो भवन्ति नार्यज्ञानवस्तुसंज्ञिनः। यत्किंचिदिति महामते बालप्रलाप एष नार्यप्रलापः। सा पुनर्भ्रान्तिर्विपर्यासाविपर्यासेन विकल्प्यमाना गोत्रद्वयावहा भवति यदुत आर्यगोत्रस्य वा बालपृथग्जनगोत्रस्य वा। आर्यगोत्रं पुनर्महामते त्रिप्रकारमुपयाति यदुत श्रावकप्रत्येकबुद्धबुद्धप्रभेदतः। तत्र कथं पुनर्महामते बालैर्भ्रान्तिर्विकल्प्यमाना श्रावकयानगोत्रं जनयति ? यदुत महामते स्वसामान्यलक्षणाभिनिवेशेनाभिनिविश्यमाना श्रावकयानगोत्राय संवर्तते। एवं महामते सा भ्रान्तिः श्रावकयानगोत्रावहा भवति। तत्र कथं पुनर्महामते सैव भ्रान्तिर्विकल्प्यमाना प्रत्येकबुद्धयानगोत्रावहा भवति ? यदुत तस्या एव महामते भ्रान्तेः स्वसामान्यलक्षणाभिनिवेशासंसर्गतः प्रत्येकबुद्धयानगोत्रावहा भवति। तत्र कथं पुनर्महामते पण्डितैः सैव भ्रान्तिर्विकल्प्यमाना बुद्धयानगोत्रावहा भवति ? यदुत महामते स्वचित्तदृश्यमात्रावबोधाद्बाह्यभावाभावविकल्पनतया विकल्प्यमाना बुद्धयानगोत्रावहा भवति। अत एव महामते गोत्रम्। एष गोत्रार्थः। विचित्रवस्तुभावना पुनर्महामते बालैर्भ्रान्तिर्विकल्प्यमाना संसारयानगोत्रावहा भवति, एवमिदं नान्यथेति। अत एतस्मात्कारणान्महामते भ्रान्तिर्विचित्रवस्तुत्वेन कल्प्यते बालैः। सा च न वस्तु, नावस्तु। सैव महामते भ्रान्तिरविकल्प्यमाना आर्याणां चित्तमनोमनोविज्ञानदौष्ठुल्यवासनास्वभावधर्मपरावृत्तिभावाद्भ्रान्तिरार्याणां तथतेत्युच्यते। अत एतदुक्तं भवति महामते-तथतापि चित्तविनिर्मुक्तेति। अस्यैव महामते पदस्याभिद्योतनार्थमिदमुक्तं मया-कल्पनैश्च विवर्जितं सर्वकल्पनाविरहितमिति यावदुक्तं भवति॥



महामतिराह-भ्रान्तिर्भगवन् विद्यते नेति ? भगवानाह-मायावन्महामते न लक्षणाभिनिवेशतो भ्रान्तिर्विद्यते। यदि पुनर्महामते भ्रान्तिर्लक्षणाभिनिवेशेन विद्यते, अव्यावृत्त एव महामते भावाभिनिवेशः स्यात्। प्रतीत्यसमुत्पादवत्तीर्थकरकारणोत्पादवदेतत्स्यान्महामते। महामतिराह- यदि भगवन् मायाप्रख्या भ्रान्तिः, तेनान्यस्या भ्रान्तेः कारणीभविष्यति। भगवानाह-न महामते माया भ्रान्तिकारणम्। अदौष्ठुल्यदोषावहत्वान्न हि महामते माया दौष्ठुल्यदोषमावहति। अविकल्प्यमाना माया पुनर्महामते परपुरुषविद्याधिष्ठानात्प्रवर्तते, न स्वविकल्पदौष्ठुल्यवासनाधिष्ठानतः। सा न दोषावहा भवति। चित्तदृष्टिमोहमात्रमेतन्महामते बालानां यत्किंचिदभिनिवेशतो न त्वार्याणाम्॥

तत्रेदमुच्यते -

आर्यो न पश्यति भ्रान्तिं नापि तत्त्वं तदन्तरे।

भ्रान्तिरेव भवेत्तत्त्वं यस्मात्तत्त्वं तदन्तरे॥ १६६॥

भ्रान्तिं विधूय सर्वां हि निमित्तं जायते यदि।

सैव तस्य भवेद्भ्रान्तिरशुद्धं तिमिरं यथा॥ १६७॥

पुनरपरं महामते न माया नास्ति। साधर्म्यदर्शनात्सर्वधर्माणां मायोपमत्वं भवति। महामतिराह-किं पुनर्भगवन् विचित्रमायाभिनिवेशलक्षणेन सर्वधर्माणां मायोपमत्वं भवति, अथ वितथाभिनिवेशलक्षणेन ? तद्यदि भगवन् विचित्रमायाभिनिवेशलक्षणेन सर्वधर्माणां मायोपमत्वं भवति, हन्त भगवन् न भावा मायोपमाः। तत्कस्य हेतोः ? यदुत रूपस्य विचित्रलक्षणाहेतुदर्शनात्। न हि भगवन् कश्चिद्धेतुरस्ति येन रूपं विचित्रलक्षणाकारं ख्यायते मायावत्। अत एतस्मात्कारणाद्भगवन् न विचित्रमायालक्षणाभिनिवेशसाधर्म्याद्भावा मायोपमाः॥



भगवानाह-न महामते विचित्रमायालक्षणाभिनिवेशसाधर्म्यात्सर्वधर्मा मायोपमाः, किं तर्हि महामते वितथाशुविद्युत्सदृशसाधर्म्येण सर्वधर्मा मायोपमाः। तद्यथा महामते विद्युल्लता क्षणभङ्गदृष्टनष्टदर्शनं पुनर्बालानां ख्यायते, एवमेव महामते सर्वभावाः स्वविकल्पसामान्यलक्षणाः प्रविचयाभावान्न ख्यायन्ते रूपलक्षणाभिनिवेशतः॥

तत्रेदमुच्यते -

न माया नास्ति साधर्म्याद्भावानां कथ्यतेऽस्तिता।

वितथाशुविद्युत्सदृशास्तेन मायोपमाः स्मृताः॥ १६८॥

पुनरपरं महामतिराह-यत्पुनरेतदुक्तं भगवता-अनुत्पन्नाः सर्वभावा मायोपमाश्चेति। ननु ते भगवन् एवं ब्रुवतः पूर्वोत्तरवचनव्याघातदोषः प्रसज्यते, अनुत्पादं भावानां मायोपमत्वेनाभिलपतः। भगवानाह-न महामते ममानुत्पादं भावानां मायोपमत्वेनाभिलपतः पूर्वोत्तरवचनव्याघातदोषो भवति। तत्कस्य हेतोः ? यदुत उत्पादानुत्पादस्वचित्तदृश्यमात्रावबोधात्सदसतोर्बाह्यभावाभावानुत्पत्तिदर्शनान्न महामते पूर्वोत्तरवचनव्याघातदोषः प्रसज्यते। किं तु महामते तीर्थकरकारणक्षोत्पत्तिव्युदासार्थमिदमुच्यते-मायावदनुत्पन्नाः सर्वभावाः। तीर्थकरमोहवर्गा हि महामते सदसतोर्भावानामुत्पत्तिमिच्छन्ति न स्वविकल्पविचित्राभिनिवेशप्रत्ययतः। मम तु महामते न संत्रासमुत्पद्यते। अत एतस्मात्कारणान्महामते अनुत्पादाभिधानमेवाभिधीयते। भावोपदेशः पुनर्महामते संसारपरिग्रहार्थं च नास्तीत्युच्छेदनिवारणार्थं च। मच्छिष्याणां विचित्रकर्मोपपत्त्यायतनपरिग्रहार्थं भावशब्दपरिग्रहेण संसारपरिग्रहः क्रियते। मायाभावस्वभावलक्षणनिर्देशेन महामते भावस्वभावलक्षणव्यावृत्त्यर्थं बालपृथग्जनानां कृदृष्टिलक्षणपतिताशयानां स्वचित्तदृश्यमात्रानवधारिणां हेतुप्रत्ययक्रियोत्पत्तिलक्षणाभिनिविष्ठानां निवारणार्थं मायास्वप्नस्वभावलक्षणान् सर्वधर्मान् देशयामि। एते बालपृथग्जनाः कुदृष्टिलक्षणाशयाभिनिविष्टा आत्मानं परं च सर्वधर्मा यथाभूतावस्थानदर्शनाद्विसंवादयिष्यन्ति। तत्र यथाभूतावस्थानदर्शनं महामते सर्वधर्माणां यदुत स्वचित्तदृश्यमात्रावतारः॥

तत्रेदमुच्यते -

अनुत्पादे कारणाभावो भावे संसारसंग्रहः।

मायादिसदृशं पश्येल्लक्षणं न विकल्पयेत्॥ १६९॥

पुनरपरं महामते नामपदव्यञ्जनकायानां लक्षणमुद्देक्ष्यामः, यैर्नामपदव्यञ्जनकायैः सूपलक्षितैर्बोधिसत्त्वा महासत्त्वा अर्थपदव्यञ्जनानुसारिणः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्य तथैव सर्वसत्त्वानवबोधयिष्यन्ति। तत्र महामते कायो नाम यदुत यद्वस्त्वाश्रित्य नाम क्रियते, स कायो वस्तु। कायः शरीरमित्यनर्थान्तरम्। एष महामते नामकायः। पदकायः पुनर्महामते यदुत पदार्थकायसद्भावो निश्चयः। निष्ठा उपलब्धिरित्यनर्थान्तरम्। एष महामते पदकायोपदेशः कृतो माया। व्यञ्जनकायः पुनर्महामते यदुत येन नामपदयोरभिव्यक्तिर्भवति। व्यञ्जनं लिङ्गं लक्षणमुपलब्धिः प्रज्ञप्तिरित्यनर्थान्तरम्॥

पुनरपरं महामते पदकायो यदुत पदकार्यनिष्ठा। नाम पुनर्महामते यदुत अक्षराणां च नामस्वभावभेदोऽकाराद्यावद्धकारः। तत्र व्यञ्जनं पुनर्महामते यदुत ह्रस्वदीर्घप्लुतव्यञ्जनानि। तत्र पदकायाः पुनर्महामते ये पदवीथीगामिनो हस्त्यश्वनरमृगपशुगोमहिषाजैडकाद्याः पदकायसंज्ञां लभन्ते। नाम च व्यञ्जनं च पुनर्महामते चत्वार अरूपिणः स्कन्धाः। नाम्नाभिलप्यन्त इति कृत्वा नाम, स्वलक्षणेन व्यज्यते इति कृत्वा व्यञ्जनम्। एतन्महामते नामपदव्यञ्जनकायानां नामपदाभिधानलक्षणम्। अत्र ते परिचयः करणीयः॥

तत्रेदमुच्यते -

व्यञ्जने पदकाये च नाम्नि चापि विशेषतः।

बालाः सज्जन्ति दुर्मेधा महापङ्के यथा गजाः॥ १७०॥



पुनरपरं महामते युक्तिहेतुबुद्धिवैकल्यात्कुतार्किका दुर्विदग्धमतयोऽनागतेऽध्वनि पृष्टा विद्वद्भिरेकत्वान्यत्वोभयानुभयदृष्टिलक्षणविनिर्मुक्तमन्तद्वयविधिं पृच्छद्भिरेवं वक्ष्यन्ति-अप्रश्नमिदं नेदं योनिश इति, यदुत रूपादिभ्योऽनित्यता अन्या अनन्येति। एवं निर्वाणं संस्कारेभ्यो लक्षणाल्लक्षणं गुणेभ्यो गुणी भूतेभ्यो भौतिकं दृश्याद्दर्शनं पांशुभ्योऽणवो ज्ञानाद्योगिनः, एवमाद्येनोत्तरोत्तरक्रमलक्षणविधिना अव्याकृतानि पृष्टाः स्थापनीयं भगवता अव्याकृतमिति वक्ष्यन्ति। न तु ते मोहपुरुषा एवं ज्ञास्यन्ति यथा श्रोतॄणां बुद्धिवैकल्यात् तथागता अर्हन्तः सम्यक्संबुद्धा उत्रासपदविवर्जनार्थं सत्त्वानां न व्याकुर्वन्ति। अव्याकृतान्यपि च महामते तीर्थकरदृष्टिवादव्युदासार्थं नोपदिश्यन्ते तथागतैः। तीर्थकरा हि महामते एवंवादिनः-यदुत स जीवस्तच्छरीरम्, अन्यो जीवोऽन्यच्छरीरम्, इत्येवमाद्येऽव्याकृतवादः। तीर्थकराणां हि महामते कारणविसंमूढानामव्याकृतं न तु मत्प्रवचने। मत्प्रवचने तु महामते ग्राह्यग्राहकविसंयुक्ते विकल्पो न प्रवर्तते। तेषां कथं स्थाप्यं भवेत् ? ये तु महामते ग्राह्यग्राहकाभिनिविष्टाः स्वचित्तदृश्यमात्रानवधारितमतयस्तेषां स्थाप्यं भवति। चतुर्विधपदप्रश्नव्याकरणेन महामते तथागता अर्हन्तः सम्यक्संबुद्धाः सत्त्वेभ्यो धर्मं देशयन्ति। स्थापनीयमिति महामते कालान्तरदेशनैषा मया कृता अपरिपक्वेन्द्रियाणाम्। न तु परिपक्वेन्द्रियाणां स्थाप्यं भवति॥



पुनरपरं महामते क्रियाकारकरहिताः सर्वधर्मा नोत्पद्यन्तेऽकारकत्वात्। तेनोच्यतेऽनुप्तन्नाः सर्वधर्माः। निःस्वभावाः पुनर्महामते सर्वभावाः केन कारणेनः ? यस्मान्महामते स्वबुद्ध्या विचार्यमाणानां स्वसामान्यलक्षणाभावा नावधार्यन्ते, तेनोच्यन्ते निःस्वभावाः सर्वधर्मा इति। तत्र अनायूहानिर्यूहाः पुनर्महामते सर्वधर्माः केन कारणेन ? यस्मान्महामते स्वसामान्यलक्षणमायूह्यमानं नायुह्यते, निर्यूह्यमानं न निर्यूह्यते। अत एतस्मात्कारणान्महामते सर्वधर्मा आयूहनिर्यूहविगताः। अनिरुद्धाः पुनर्महामते सर्वधर्माः केन कारणेन ? यदुत भावस्वभावलक्षणासत्त्वात्सर्वधर्मा नोपलभ्यन्ते। तेनोच्यन्तेऽनिरुद्धाः सर्वधर्मा इति। तत्र अनित्याः पुनर्महामते सर्वधर्माः केन कारणेनोच्यन्ते ? यदुत लक्षणोत्पत्त्यनित्यभावात्। तेनोच्यन्ते अनित्याः सर्वधर्मा इति। तत्र नित्याः पुनर्महामते सर्वधर्माः केन कारणेन ? यदुत लक्षणोत्पन्नानुत्पन्नाभावादनित्यतया नित्याः। तेनोच्यन्ते महामते नित्याः सर्वधर्मा इति॥

तत्रेदमुच्यते -

चतुर्विधं व्याकरणमेकांशं परिपृच्छनम्।

विभज्यं स्थापनीयं च तीर्थवादनिवारणम्॥ १७१॥

सदसतोर्ह्यनुत्पादः सांख्यवैशेषिकैः स्मृतः।

अव्याकृतानि सर्वाणि तैरेव हि प्रकाशिता॥ १७२॥

बुद्ध्या विवेच्यमानानां स्वभावो नावधार्यते।

तस्मादनभिलाप्यास्ते निःस्वभावाश्च देशिताः॥ १७३॥

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-देशयतु मे भगवान् स्रोतआपन्नानां स्रोतआपत्तिगतिप्रभेदनयलक्षणम्। येन स्रोतआपत्तिगतिप्रभेदनयलक्षणेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः स्रोतआपन्नानां स्रोतआपत्तिगतिप्रभेदनयलक्षणकुशला उत्तरोत्तरसकृदागाम्यनागाम्यर्हत्त्वोपायलक्षणविधिज्ञास्तथा सत्त्वेभ्यो धर्मं देशयेयुः, यथा नैरात्म्यलक्षणद्वयमावरणद्वयं च प्रतिविशोध्य भूमेर्भूमिलक्षणातिक्रमगतिंगतास्तथागताचिन्त्यगतिविषयगोचरं प्रतिलभ्य विश्वरूपमणिसदृशाः सर्वसत्त्वोपजीव्यतामधिगच्छेयुः, सर्वधर्मविषयगतिकायोपभोग्यतोपजीव्याः स्युः॥



भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-त्रय इमे महामते स्रोतआपन्नानां स्रोतआपत्तिफलप्रभेदाः। कतमे त्रयः ? यदुत हीनमध्यविशिष्टाः तत्र महामते हीनः सप्तजन्मभवपरमः। मध्यः पुनर्महामते त्रिपञ्चभवपरिनिर्वायी भवति। उत्तमः पुनर्महामते तज्जन्मपरिनिर्वायी भवति। एषां तु महामते त्रयाणां त्रीणि संयोजनानि मृदुमध्याधिमात्राण्येव भवन्ति। तत्र महामते कतमानि त्रीणि संयोजनानि ? यदुत सत्कायदृष्टिर्विचिकित्सा शीलव्रतपरामर्शश्च। एतानि महामते त्रीणि संयोजनानि विशेषोत्तरोत्तरेण अर्हतामर्हत्फलीभवन्ति। तत्र महामते सत्कायदृष्टिर्द्विविधा यदुत सहजा च परिकल्पिता च, परतन्त्रपरिकल्पितस्वभाववत्। तद्यथा महामते परतन्त्रस्वभावाश्रयाद्विचित्रपरिकल्पितस्वभावाभिनिवेशः प्रवर्तते। स च तत्र न सन्नासन्न सदसन्, अभूतपरिकल्पलक्षणत्वात्। अथ च बालैर्विकल्प्यते विचित्रस्वभावलक्षणाभिनिवेशेन मृगतृष्णिकेव मृगैः। इयं महामते स्रोतआपन्नस्य परिकल्पिता सत्कायदृष्टिरज्ञानाच्चिरकालाभिनिवेशसंचिता। सा च तस्य पुद्गलनैरात्म्यग्रहाभावतः प्रहीणा। सहजा पुनर्महामते स्रोतआपन्नस्य सत्कायदृष्टिः स्वपरकायसमतया चतुःस्कन्धरूपलक्षणत्वाद्रूपस्योत्पत्तिभूतभौतिकत्वात्परस्परहेतुलक्षणत्वाद्भूतानां रूपस्यासमुदय इति कृत्वा स्रोतआपन्नस्य सदसत्पक्षदृष्टिदर्शनात्सत्कायदृष्टिः प्रहीणा भवति। अत एव सत्कायदृष्टिप्रहीणस्य रागो न प्रवर्तते। एतन्महामते सत्कायदृष्टिलक्षणम्॥



विचिकित्सालक्षणं पुनर्महामते यदुत प्राप्तिधर्माधिगमसुदृष्टिलक्षणत्वात्पूर्वं सत्कायदृष्टिद्वयविकल्पप्रहीणत्वाच्च विचिकित्सा धर्मेषु न भवति। न चास्य अन्या शास्तृदृष्टिर्भवति शुद्धाशुद्धितः। एतन्महामते विचिकित्सालक्षणं स्रोतआपन्नस्य॥



शीलं पुनर्महामते कथं न परामृशति स्रोतआपन्नः ? यदुत दुःखोपपत्त्यायतनलक्षणसंदृष्टत्वान्न परामृशति। परामृष्टिः पुनर्महामते यदुत शीलव्रततपोनियमैर्बालपृथग्जना भोगसुखाभिलाषिणो भवोत्पत्तिं प्रार्थयन्ते, न च परामृशन्ति। एवमन्यत्र स्वप्रत्यात्माधिगमविशेषगामितायां परिणामयन्ति। निर्विकल्पानास्रवधर्मलक्षणाकारेण प्रसज्यन्ते शीलाङ्गैः। एतन्महामते स्रोतआपन्नस्य शीलव्रतपरामर्शलक्षणं भवति। न तु महामते स्रोतआपन्नस्य त्रिसंयोजनप्रहीणस्य रागद्वेषमोहाः प्रवर्तन्ते॥



महामतिराह-रागः पुनर्भगवता बहुप्रकार उपदिष्टः। तत्कतमस्तस्यात्र रागः प्रहीणो भवति ? भगवानाह-विषयकामेन्द्रियः स्त्रीसंयोगरागः प्रत्युत्पन्नसुखः आयत्यां दुःखजन्महेतुकः खटचपेटलिङ्गितचुम्बितपरिष्वक्ताघ्रातकटाक्षेक्षितैः। तस्य महामते रागो न प्रवर्तते। तत्कस्य हेतोः ? यदुत समाधिसुखविहारलाभित्वात्। अत एष प्रहीणो भवति, न निर्वाणाधिगमरागः॥



सकृदागामिफललक्षणं पुनर्महामते कतमत् ? यदुत सकृद्रूपलक्षणाभासविकल्पः प्रवर्तते। निमित्तदृष्टिलक्ष्यलक्षणाभावाद्ध्यानगतिलक्षणसुदृष्टत्वात्सकृदेतं लोकमागम्य दुःखस्यान्तक्रियायै परिनिर्वास्यति। तेनोच्यते सकृदागामीति। तत्र अनागामीति महामते कथं भवति ? यदुत अतीतानागतप्रत्युत्पन्नस्य रूपलक्षणभावाभावप्रवृत्तेर्दृष्टिदोषानुशयविकल्पस्य अनागामित्वादनागामिरूपप्रहीणत्वाच्च संयोजनानामनागामीत्युच्यते। अर्हन् पुनर्महामते ध्यानध्येयसमाधिविमोक्षबलाभिज्ञाक्लेशदुःखविकल्पाभावादर्हन्नित्युच्यते॥



महामतिराह-त्रयः पुनर्भगवता अर्हन्तोऽभिहिताः। तत्कतमस्यायं भगवन्नर्हच्छब्दो निपात्यते ? किं भगवन् शमैकायनमार्गप्रतिलम्भिकस्य, उत बोधिप्रणिधानाभ्यस्तकुशलमूलसंमूढस्य, उत निर्मितनैर्माणिकस्य ? भगवानाह-शमैकायनमार्गप्रतिलम्भिकस्य महामते श्रावकस्य, न त्वन्येषाम्। अन्ये पुनर्महामते बोधिसत्त्वचर्याचरिताविनो बुद्धनिर्मितनैर्माणिकाश्च उपायकुशलमूलप्रणिधानपूर्वकत्वात्पर्षन्मण्डलेषूपपत्तिं दर्शयन्ति बुद्धपर्षन्मण्डलोपशोभनार्थम्। विकल्पगतिसंस्थानान्तरविचित्रोपदेशोऽयं महामते यदुत फलाधिगमध्यानध्यातृध्येयविविक्तत्वात्स्वचित्तदृश्योपगमात्फलप्राप्तिलक्षणमुपदिश्यते। पुनरपरं महामते यदि स्रोतआपन्नस्यैतदभविष्यत्-इमानि संयोजनानि, अहमेभिर्न संयुक्त इति, तद्द्वित्वप्रसङ्ग आत्मदृष्टिपतितः स्यादप्रहीणसंयोजनश्च॥



पुनरपरं महामते ध्यानाप्रमाणारूप्यधातुसमतिक्रमाय स्वचित्तदृश्यलक्षणव्यावृत्तिः करणीया। संज्ञावेदितनिरोधसमापत्तिश्च महामते स्वचित्तदृश्यगतिव्यतिक्रमस्तस्य न युज्यते चित्तमात्रत्वात्॥

तत्रेदमुच्यते -

ध्यानानि चाप्रमाणानि आरूप्याश्च समाधयः।

संज्ञानिरोधो निखिलश्चित्तमात्रे न विद्यते॥ १७४॥

स्रोतापत्तिफलं चैव सकृदागामिनस्तथा।

अनागामिफलं चैव अर्हत्त्वं चित्तविभ्रमः॥ १७५॥

ध्याता ध्यानं च ध्येयं च प्रहाणं सत्यदर्शनम्।

कल्पनामात्रमेवेदं यो बुध्यति स मुच्यते॥ १७६॥



पुनरपरं महामते द्विप्रकारा बुद्धिः प्रविचयबुद्धिश्च विकल्पलक्षणग्राहाभिनिवेशप्रतिष्ठापिका च। तत्र महामते प्रविचयबुद्धिर्नाम यदुत यया बुद्ध्या भावस्वभावलक्षणं प्रविचीयमानं चतुष्कोटिकारहितं नोपलभ्यते, सा प्रविचयबुद्धिः। तत्र महामते चतुष्कोटिका यदुत एकत्वान्यत्वोभयनोभयास्तिनास्तिनित्यानित्यरहितां चतुष्कोटिकामिति वदामि। एतया चतुष्कोटिकया महामते रहिताः सर्वधर्मा इत्युच्यते। इयं महामते चतुष्कोटिका सर्वधर्मपरीक्षायां प्रयोक्तव्या। तत्र महामते विकल्पलक्षणग्राहाभिनिवेशप्रतिष्ठापिका बुद्धिः कतमा ? यदुत येन महामते चित्तविकल्पलक्षणग्राहाभिनिवेशेन उष्णद्रवचलकठिनानभूतपरिकल्पलक्षणान् महाभूतान् प्रतिज्ञाहेतुलक्षणदृष्टान्ताभिनिवेशादसद्भूतसमारोपेण समारोपयति, सा विकल्पलक्षणग्राहाभिनिवेशप्रतिष्ठापिका बुद्धिः। एतन्महामते बुद्धिद्वयस्य लक्षणं येन बुद्धिद्वयलक्षणेन समन्वागता बोधिसत्त्वा धर्मपुद्गलनैरात्म्यलक्षणगतिंगता निराभासबुद्धिप्रविचयचर्याभूमिकुशलाः प्रथमां भूमिं प्रतिलभन्ते, समाधिशतं च समापद्यन्ते। बुद्धबोधिसत्त्वशतं च समाधिविशेषप्रतिलम्भेन पश्यन्ति, कल्पशतं च पूर्वान्तापरान्ततोऽनुप्रविशन्ति, क्षेत्रशतं चावभासयन्ति। क्षेत्रशतं चावभास्य उत्तरोत्तरभूमिलक्षणविधिज्ञाः प्रणिधानवैशेषिकतया विक्रीडन्तो धर्ममेघाभिषेकाभिषिक्तास्तथागतप्रत्यात्मभूमिमधिगम्य दशनिष्ठापदसुनिबद्धधर्माणः सत्त्वपरिपाकाय विचित्रैर्निर्माणकिरणैर्विराजन्ते प्रत्यात्मगतिसुखसमाहिताः॥



पुनरपरं महामते बोधिसत्त्वेन महासत्त्वेन महाभूतभौतिककुशलेन भवितव्यम्। कथं च महामते बोधिसत्त्वो महाभूतभौतिककुशलो भवति ? तत्र महामते बोधिसत्त्वो महासत्त्व इतः प्रतिसंशिक्षते तत्सत्यं यत्र महाभूतानामसंभवोऽसंभूतानि चेमानि महामते भूतानीति प्रतिविपश्यति। एवं प्रतिविपश्यन् नाम विकल्पमात्रं स्वचित्तदृश्यमात्रावबोधाद्बाह्यभावाभावान्नाम चित्तदृश्यविकल्पमात्रमिदं यदुत त्रैधातुकं महाभूतभौतिकरहितं प्रतिविपश्यति चातुष्कोटिकनयविशुद्धिमात्मात्मीयरहितं यथाभूतस्वलक्षणावस्थानावस्थितमनुत्पादस्वलक्षणसिद्धम्। तत्र महामते महाभूतेषु कथं भौतिकं भवति ? यदुत स्नेहविकल्पमहाभूतं महामते अब्धातुं निष्पादयत्यध्यात्मबाह्यम्। उत्साहविकल्पमहाभूतं महामते तेजोधातुं निष्पादयत्यध्यात्मबाह्यम्। समुदीरणविकल्पमहाभूतं महामते वायुधातुं निष्पादयत्यध्यात्मबाह्यम्। रूपपरिच्छेदविकल्पमहाभूतं पुनर्महामते पृथिवीधातुं जनयत्याकाशसहितमध्यात्मबाह्यम्। मिथ्यासत्याभिनिवेशात्पञ्चस्कन्धकदम्बकं महाभूतभौतिकं प्रवर्तते। विज्ञानं पुनर्महामते विचित्रपदविषयाभिनिवेशाभिलाषहेतुत्वाद्विज्ञानं प्रवर्ततेऽन्यगतिसंधौ। पृथिवीभूतभौतिकानां महामते कारणमस्ति महाभूतानि, न तु महाभूतानाम्। तत्कस्य हेतोः ? यदुत भावलिङ्गलक्षणग्रहणसंस्थानक्रियायोगवतां महामते क्रियासंयोगोत्पत्तिर्भवति नालिङ्गवताम्। तस्मादेतन्महामते महाभूतभौतिकलक्षणं तीर्थकरैर्विकल्प्यते न तु मया॥



पुनरपरं महामते स्कन्धानां स्कन्धस्वभावलक्षणं निर्देक्ष्यामः। तत्र महामते पञ्च स्कन्धाः। कतमे ? यदुत रूपवेदनासंज्ञासंस्कारविज्ञानानि । तत्र महामते चत्वारः स्कन्धा अरूपिणो वेदना संज्ञा संस्कारां विज्ञानं च। रूपं महामते चातुर्महाभौतिकम्, भूतानि च परस्परविलक्षणानि। न च महामते अरूपिणां चतुष्कसंख्या भवत्याकाशवत्। तद्यथा महामते आकाशं संख्यालक्षणातीतम्, अथ च विकल्प्यते एवमाकाशमिति, एवमेव महामते स्कन्धाः संख्यालक्षणगणनातीता भावाभावविवर्जिताश्चातुष्कोटिकरहिताः संख्यागणनानिर्देशेन निर्दिश्यन्ते बालैर्न त्वार्यैः॥



आर्यैः पुनर्महामते मायाविचित्ररूपाकृतिवदन्यानन्यवर्जिताः प्रज्ञाप्यन्ते स्वप्नबिम्बपुरुषवत्। आश्रयानन्यत्वादार्यज्ञानगतिसंमोहान्महामते स्कन्धविकल्पः ख्यायते। एतन्महामते स्कन्धानां स्कन्धस्वभावलक्षणम्। स च विकल्पस्त्वया व्यावर्तनीयः, व्यावृत्य विविक्तधर्मोपदेशः करणीयः। सर्वबुद्धपर्षन्मण्डलेषु तीर्थ्यदृष्टिनिवारणाय विविक्तधर्मोपदेशेन महामते क्रियमाणेन धर्मनैरात्म्यदर्शनं विशुध्यते, दूरंगमाभूमिप्रवेशश्च भवति। स दूरंगमां महाभूमिमनुप्रविश्य अनेकसमाधिवशवर्ती भवति। मनोमयकायप्रतिलम्भाच्च समाधिं मायोपमं प्रतिलभते। बलाभिज्ञावशितागतिंगतः सर्वसत्त्वोपजीव्यो भवति पृथिवीवत्। यथा महामते महापृथिवी सर्वसत्त्वोपजीव्या भवति, एवमेव महामते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वोपजीव्यो भवति॥



पुनरपरं महामते चतुर्विधं निर्वाणम्। कतमच्चतुर्विधम् ? यदुत भावस्वभावाभावनिर्वाणं लक्षणविचित्रभावाभावनिर्वाणं स्वलक्षणभावाभावावबोधनिर्वाणं स्कन्धानां स्वसामान्यलक्षणसंततिप्रबन्धव्युच्छेदनिर्वाणम्। एतन्महामते चतुर्विधं तीर्थकराणां निर्वाणं न तु मत्प्रवचने। मत्प्रवचने पुनर्महामते विकल्पकस्य मनोविज्ञानस्य व्यावृत्तिर्निर्वाणमित्युच्यते॥



महामतिराह-ननु भगवता अष्टौ विज्ञानानि व्यवस्थापितानि ? भगवानाह-व्यवस्थापितानि महामते। महामतिराह-तद्यदि भगवन् व्यवस्थापितानि, तत्कथं मनोविज्ञानस्यैव व्यावृत्तिर्भवति न तु सप्तानां विज्ञानानाम् ? भगवानाह-तद्धेत्वालम्बनत्वान्महामते सप्तानां विज्ञानानां प्रवृत्तिर्भवति। मनोविज्ञानं पुनर्महामते विषयपरिच्छेदाभिनिवेशेन प्रवर्तमानं वासनाभिरालयविज्ञानं प्रपुष्णाति। मनः सहितमात्मात्मीयग्राहाभिनिवेशमन्यनाकारेणानुप्रवर्तते। अभिन्नशरीरलक्षणमालयविज्ञानहेत्वालम्बनं स्वचित्तदृश्यविषयाभिनिवेशाच्चित्तकलापः प्रवर्ततेऽन्योन्यहेतुकः। उदधितरंगा इव महामते स्वचित्तदृश्यविषयपवनेरिताः प्रवर्तन्ते निवर्तन्ते च। अतस्तेन महामते मनोविज्ञानेन व्यावृत्तेन सप्तानां विज्ञानानां व्यावृत्तिर्भवति॥

तत्रेदमुच्यते -

नाहं निर्वामि भावेन क्रियया लक्षणेन च।

विकल्पहेतुविज्ञाने निवृत्ते निर्वृतो ह्यहम्॥ १७७॥

तद्धेतुकं तदालम्ब्य मनोगतिसमाश्रयम्।

हेतुं ददाति चित्तस्य विज्ञानं च समाश्रितम्॥ १७८॥

यथा क्षीणे महाओधे तरंगाणामसंभवः।

तथा विज्ञानवैचित्र्यं निरुद्धं न प्रवर्तते॥ १७९॥

पुनरपरं महामते परिकल्पितस्वभावप्रभेदनयलक्षणमुपदेक्ष्यामो येन परिकल्पितस्वभावप्रभेदनयलक्षणेन सुप्रतिविभागविद्धेन त्वं च अन्ये च बोधिसत्त्वा महासत्त्वा विकल्पकल्परहिताः प्रत्यात्मार्यस्वगतितीर्थ्यनयगतिसुदृष्टबुद्धयो ग्राह्यग्राहकविकल्पप्रहीणाः परतन्त्रविविधविचित्रलक्षणं परिकल्पितस्वभावाकारं न प्रतिविकल्पयिष्यन्ति। तत्र महामते कतमत्परिकल्पितस्वभावप्रभेदनयलक्षणम् ? यदुत अभिलापविकल्पोऽविधेयविकल्पो लक्षणविकल्पोऽर्थविकल्पः स्वभावविकल्पो हेतुविकल्पो दृष्टिविकल्पो युक्तिविकल्प उत्पादविकल्पोऽनुत्पादविकल्पः संबन्धविकल्पो बन्धाबन्धविकल्पः। एतन्महामते परिकल्पितस्वभावप्रभेदनयलक्षणम्॥



तत्र महामते अभिलापविकल्पः कतमः ? यदुत विचित्रस्वरगीतमाधुर्याभिनिवेशः। एष महामते अभिलापविकल्पः। तत्र महामते अभिधेयविकल्पः कतमः ? यदुत अस्ति तत्किंचिदभिधेयवस्तु स्वभावकमार्यज्ञानगतिगम्यं यदाश्रित्याभिलापः प्रवर्तते इति विकल्पयति। तत्र लक्षणविकल्पः कतमः ? यदुत तस्मिन्नेवाभिधेये मृगतृष्णाख्ये लक्षणवैचित्र्याभिनिवेशेनाभिनिवेशते यदुत उष्णद्रवचलकठिनलक्षणात्सर्वभावान् विकल्पयति। तत्र अर्थविकल्पः कतमः ? यदुत सुवर्णरूप्यविविधरत्नार्थविषयाभिलापः। तत्र स्वभावविकल्पः कतमः ? यदुत भावस्वभावावधारणमिदमेवमिदं नान्यथेति तीर्थ्यविकल्पदृष्ट्या विकल्पयन्ति। तत्र हेतुविकल्पः कतमः ? यदुत यद्येन हेतुप्रत्ययेन सदसतोर्विभज्यते हेतुलक्षणोत्पत्तितः स हेतुविकल्पः। तत्र दृष्टिविकल्पः कतमः ? यदुत नास्त्यस्तित्वैकत्वान्यत्वोभयानुभयकुदृष्टितीर्थ्यविकल्पाभिनिवेशः। तत्र युक्तिविकल्पः कतमः ? यदुत आत्मात्मीयलक्षणयुक्तिविग्रहोपदेशः। तत्र उत्पादविकल्पः कतमः ? यदुत प्रत्ययैः सदसतोर्भावस्योत्पादाभिनिवेशः। तत्र अनुत्पादविकल्पः कतमः ? यदुत अनुत्पन्नपूर्वाः सर्वभावा अभूत्वा प्रत्ययैर्भवन्त्यहेतुशरीराः। तत्र संबन्धविकल्पः कतमः ? यदुत सह संबध्यते सुवर्णतन्तुवत्। तत्र बन्धाबन्धविकल्पः कतमः ? यदुत बन्धहेतुबन्ध्याभिनिवेशवत्। यथा पुरुषः पाशसंयोगाद्रज्जुग्रन्थिः क्रियते मुच्यते च। एवं महामते परिकल्पितस्वभावप्रभेदनयलक्षणम्, यस्मिन् परिकल्पितस्वभावप्रभेदनयलक्षणे सर्वबालपृथग्जना अभिनिविशन्ते। सदसतः परतन्त्राभिनिवेशाभिनिविष्टा महामते परिकल्पितस्वभाववैचित्र्यमभिनिविशन्ते। मायाश्रयवैचित्र्यदर्शनवदन्यमायादर्शनबुद्ध्या बालैर्विकल्प्यन्ते। माया च महामते वैचित्र्यान्नान्या नानन्या। यद्यन्या स्यात्, वैचित्र्यं मायाहेतुकं न स्यात्। अथानन्या स्यात्, वैचित्र्यान्मायावैचित्र्ययोर्विभागो न स्यात्। स च दृष्टो विभागः। तस्मान्नान्या नानन्या। अत एतस्मात्कारणान्महामते त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैर्माया नास्त्यस्तित्वेन नाभिनिवेष्टव्या॥

तत्रेदमुच्यते -

चित्तं विषयसंबन्धं ज्ञानं तर्के प्रवर्तते।

निराभासे विशेषे च प्रज्ञा वै संप्रवर्तते॥ १८०॥

परिकल्पितस्वभावोऽति परतन्त्रे न विद्यते।

कल्पितं गृह्यते भ्रान्त्या परतन्त्रं न कल्प्यते॥ १८१॥

विविधाङ्गाभिनिर्वृत्त्या यथा माया न सिध्यति।

निमित्तं हि तथा चित्रं कल्प्यमानं न सिध्यति॥ १८२॥

निमित्तं दौष्ठुल्यमयं बन्धनं चित्तसंभवम्।

परिकल्पितं ह्यजानानं परतन्त्रैर्विकल्प्यते॥ १८३॥

यदेतत्कल्पितं भावं परतन्त्रं तदेव हि।

कल्पितं हि विचित्राभं परतन्त्रे विकल्प्यते॥ १८४॥

संवृतिः परमार्थश्च तृतीयं नास्तिहेतुकम्।

कल्पितं संवृतिर्ह्युक्ता तच्छेदादार्यगोचरम्॥ १८५॥

यथा हि योगिनां वस्तु चित्रमेकं विराजते।

न ह्यस्ति चित्रता तत्र तथा कल्पितलक्षणम्॥ १८६॥

यथा हि तैमिरैश्चित्रं कल्प्यते रूपदर्शनम्।

तिमिरं न रूपं नारूपं परतन्त्रं तथाबुधैः॥ १८७॥

हैमं स्यात्तु यथा शुद्धं जलं कलुषवर्जितम्।

गगनं हि घनाभावात्तथा शुद्धं विकल्पितम्॥ १८८॥

नास्ति वै कल्पितो भावः परतन्त्रश्च विद्यते।

समारोपापवादं हि विकल्पन्तो विनश्यति॥ १८९॥

कल्पितं यद्यभावं स्यात्परतन्त्रस्वभावतः।

विना भावेन वै भावो भावश्चाभावसंभवः॥ १९०॥

परिकल्पितं समाश्रित्य परतन्त्रोपलभ्यते।

निमित्तनामसंबन्धाज्जायते परिकल्पितम्॥ १९१॥

अत्यन्तं चाप्यनिष्पन्नं कल्पितं न परोद्भवम्।

तदा प्रज्ञायते शुद्धं स्वभावं पारमार्थिकम्॥ १९२॥

परिकल्पितं दशविधं परतन्त्रं च षड्विधम्।

प्रत्यात्मतथताज्ञेयमतो नास्ति विशेषणम्॥ १९३॥

पञ्च धर्मा भवेत्तत्त्वं स्वभावा हि त्रयस्तथा।

एतद्विभावयेद्योगी तथतां नातिवर्तते॥ १९४॥

निमित्तं परतन्त्रं हि यन्नाम तत्प्रकल्पितम्।

परिकल्पितनिमित्तं तु पारतन्त्र्यात्प्रवर्तते॥ १९५॥

बुद्ध्या विवेच्यमानं तु न तन्त्रं नापि कल्पितम्।

निष्पन्नो नास्ति वै भावः कथं बुद्ध्या विकल्प्यते॥ १९६॥

निष्पन्नो विद्यते भावो भावाभावविवर्जितः।

भावाभावविनिर्मुक्तो द्वौ स्वभावौ कथं नु तौ॥ १९७॥

परिकल्पितस्वभावे द्वौ स्वभावौ द्वौ प्रतिष्ठितौ।

कल्पितं दृश्यते चित्रं विशुद्धं चार्यगोचरम्॥ १९८॥

कल्पितं हि विचित्राभं परतन्त्रैर्विकल्प्यते।

अन्यथा कल्प्यमानं हि तीर्थ्यवादं समाश्रयेत्॥ १९९॥

कल्पना कल्पितेत्युक्तं दर्शनाद्धेतुसंभवत्।

विकल्पद्वयनिर्मुक्तं निष्पन्नं स्यात्तदेव हि॥ २००॥



पुनरपि महामतिराह-देशयतु मे भगवान् प्रत्यात्मार्यज्ञानगतिलक्षणमेकयानं च, येन भगवन् प्रत्यात्मैकयानगतिलक्षणेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः प्रत्यात्मार्यज्ञानैकयानकुशला अपरप्रणेया भविष्यन्ति बुद्धधर्मेषु॥



भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-प्रमाणाप्तोपदेशविकल्पाभावान्महामते बोधिसत्त्वो महासत्त्व एकाकी रहोगतः स्वप्रत्यात्मबुद्ध्या विचारयत्यपरप्रणेयो दृष्टिविकल्पविवर्जित उत्तरोत्तरतथागतभूमिप्रवेशनतया व्यायमते। एतन्महामते स्वप्रत्यात्मार्यज्ञानगतिलक्षणम्। तत्र एकयानगतिलक्षणं कतमत् ? यदुत एकयानमार्गाधिगमावबोधादेकयानमिति वदामि। एकयानमार्गाधिगमावबोधः कतमः ? यदुत ग्राह्यग्राहकविकल्पयथाभूतावस्थानादप्रवृत्तेर्विकल्पस्य एकयानावबोधः कृतो भवति। एष एकयानावबोधो महामते नान्यतीर्थ्यश्रावकप्रत्येकबुद्धब्रह्मादिभिः प्राप्तपूर्वोऽन्यत्र मया। अत एतस्मात्कारणान्महामते एकयानमित्युच्यते॥



महामतिराह-किं कारणं भगवता यानत्रयमुपदिष्टम्, एकयानं नोपदिश्यते ? भगवानाह-स्वयमपरिनिर्वाणधर्मत्वान्महामते सर्वश्रावकप्रत्येकबुद्धानामेकयानं न वदामि। यस्मान्महामते सर्वश्रावकप्रत्येकबुद्धास्तथागतविनयविवेकयोगोपदेशेन विमुच्यन्ते न स्वयम्॥



पुनरपरं महामते ज्ञेयावरणकर्मवासनाप्रहीणत्वात्सर्वश्रावकप्रत्येकबुद्धानां नैकयानम्। धर्मनैरात्म्यानवबोधाच्च अचिन्त्यपरिणामच्युतेरप्राप्तिवाच्च यानत्रयं देशयामि श्रावकाणाम्। यदा तेषां महामते सर्वदोषवासनाः प्रहीणा भवन्ति धर्मनैरात्म्यावबोधात्, तदा ते वासनादोषसमाधिमदाभावादनास्रवधातौ प्रतिविबुध्यन्ते। पुनरपि लोकोत्तरानास्रवधातुपर्यापन्नान् संभारान् परिपूर्य अचिन्त्यधर्मकायवशवर्तितां प्रतिलप्स्यन्ते॥

तत्रेदमुच्यते -

देवयानं ब्रह्मयानं श्रावकीयं तथैव च।

ताथागतं च प्रत्येकं यानानेतान् वदाम्यहम्॥ २०१ ॥

यानानां नास्ति वै निष्ठा यावच्चित्तं प्रवर्तते।

चित्ते तु वै परावृत्ते न यानं न च यानिनः॥ २०२॥

यानव्यवस्थानं नैवास्ति यानभेदं वदाम्यहम्।

परिकर्षणार्थं बालानां यानभेदं वदाम्यहम्॥ २०३॥

विमुक्तयस्तथा तिस्रो धर्मनैरात्म्यमेव च।

समताज्ञानक्लेशाख्या विमुक्त्या ते विवर्जिताः॥ २०४॥

यथा हि काष्ठमुदधौ तरंगैर्विप्रवाह्यते।

तथा हि श्रावको मूढो लक्षणेन प्रवाह्यते॥ २०५॥

वासनाक्लेशसंबद्धाः पर्युत्थानैर्विसंयुताः।

समाधिमदमत्तास्ते धातौ तिष्ठन्त्यनास्रवे॥ २०६॥

निष्ठागतिर्न तस्यास्ति न च भूयो निवर्तते।

समाधिकायं संप्राप्य आ कल्पान्न प्रबुध्यते॥ २०७॥

यथा हि मत्तपुरुषो मद्याभावाद्विबुध्यते।

तथा ते बुद्धधर्माख्यं कायं प्राप्स्यन्ति मामकम्॥ २०८॥



इति लङ्कावतारे षट्‍त्रिंशत्साहस्रसर्वधर्मसमुच्चयो नाम द्वितीयः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project