Digital Sanskrit Buddhist Canon

१ रावणाध्येषणापरिवर्तः प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
॥ सद्धर्मलङ्कावतारसूत्रम्॥



ॐ नमो रत्नत्रयाय। ॐ नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥



१ रावणाध्येषणापरिवर्तः प्रथमः।



एवं मया श्रुतम्। एकस्मिन् समये भगवांल्लङ्कापुरे समुद्रमलयशिखरे विहरति स्म नानारत्नगोत्रपुष्पप्रतिमण्डिते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वगणेन नानाबुद्धक्षेत्रसंनिपतितैर्बोधिसत्त्वैर्महासत्त्वैः अनेकसमाधिवशिताबलाभिज्ञाविक्रीडितैर्महामतिबोधिसत्त्वपूर्वंगमैः सर्वबुद्धपाण्यभिषेकाभिषिक्तैः स्वचित्तदृश्यगोचरपरिज्ञानार्थकुशलैर्नानासत्त्वचित्तचरित्ररूपनयविनयधारिभिः पञ्चधर्मस्वभावविज्ञाननैरात्म्याद्वयगतिंगतैः॥



तेन खलु पुनः समयेन भगवान् सागरनागराजभवनात् सप्ताहेनोत्तीर्णऽभूत्। अनेकशक्रब्रह्मनागकन्याकोटिभिः प्रत्युद्गम्यमानो लङ्कामलयमवलोक्य स्मितमकरोत्-पूर्वकैरपि तथागतैरर्हद्भिः सम्यक्संबुद्धैरस्मिंल्लङ्कापुरीमलयशिखरे स्वप्रत्यात्मार्यज्ञानतर्कदृष्टितीर्थ्यश्रावकप्रत्येकबुद्धार्यविषये तद्भावितो धर्मो देशितः। यन्न्वहमपि अत्रैव रावणं यक्षाधिपतिमधिकृत्य एतदेवोद्भावयन् धर्मं देशयेयम्॥



अश्रौषीद्रावणो राक्षसाधिपतिस्तथागताधिष्ठानात्-भगवान् किल सागरनागराजभवनादुत्तीर्य अनेकशक्रब्रह्मनागकन्याकोटिभिः परिवृतः पुरस्कृतः समुद्रतरंगानवलोक्य आलयविज्ञानोदधिप्रवृत्तिविज्ञानपवनविषये प्रेरितांस्तेभ्यः संनिपतितेभ्यश्चित्तान्यवलोक्य तस्मिन्नेव स्थितः उदानमुदानयति स्म-यन्न्वहं गत्वा भगवन्तमध्येष्य लङ्कां प्रवेशयेयम्। तन्मे स्याद्दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्याणां च॥



अथ रावणो राक्षसाधिपतिः सपरिवारः पौष्पकं विमानमधिरुह्य येन भगवांस्तेनोपजगाम। उपेत्य विमानादवतीर्य सपरिवारो भगवन्तं त्रिष्कृत्वः प्रदक्षिणीकृत्य तूर्यतालावचरैः प्रवाद्यद्भिरिन्द्रनीलमयेन दण्डेन वैडूर्यमुसार(गल्व)प्रत्युप्तां वीणां प्रियङ्गुपाण्डुना अनर्ध्येण वस्त्रेण पार्श्वावलम्बितां कृत्वा षड्जर्षभगान्धारधैवतनिषादमध्यमकैशिकगीतस्वरग्राममूर्छनादियुक्तेनानुसार्य सलीलं वीणामनुप्रविश्य गाथाभिगीतैरनुगायति स्म -

चित्तस्वभावनयधर्मविधिं नैरात्म्यं दृष्टिविगतं ह्यमलम्।

प्रत्यात्मवेद्यगतिसूचनकं देशेहि नायक इह धर्मनयम्॥ १॥

शुभधर्मसंचिततनुं सुगतं निर्माणनिर्मितप्रदर्शनकम्।

प्रत्यात्मवेद्यगतिधर्मरतं लङ्कां हि गन्तु समयोऽद्य मुने॥ २॥

लङ्कामिमां पूर्वजिनाध्युषितां पुत्रैश्च तेषां बहुरूपधरैः।

देशेहि नाथ इह धर्मवरं श्रोष्यन्ति यक्ष बहुरूपधराः॥ ३॥

अथ रावणो लङ्काधिपतिः तोटकवृत्तेनानुगाय्य पुनरपि गाथाभिगीतेनानुगायति स्म -

सप्तरात्रेण भगवान् सागरान्मकरालयात्।

सागरेन्द्रस्य भवनात् समुत्तीर्य तटे स्थितः॥ ४॥

स्थितमात्रस्य बुद्धस्य रावणो ह्यप्सरैः सह।

यक्षैश्च नानाविविधैः शुकसारणपण्डितैः॥ ५॥

ऋद्ध्या गत्वा तमध्वानं यत्र तिष्ठति नायकः।

अवतीर्य पौष्पकाद्यानाद्वन्द्य पूज्य तथागतम्।

नाम संश्रावयंस्तस्मै जिनेन्द्रेण अधिष्ठितः॥ ६॥

रावणोऽहं दशग्रीवो राक्षसेन्द्र इहागतः।

अनुगृह्णाहि मे लङ्कां ये चास्मिन् पुरवासिनः॥ ७॥

पूर्वैरपि हि संबुद्धैः प्रत्यात्मगतिगोचरम्।

शिखरे रत्नखचिते पुरमध्ये प्रकाशितम्॥ ८॥

भगवानपि तत्रैव शिखरे रत्नमण्डिते।

देशेतु धर्म विरजं जिनपुत्रैः परीवृतः।

श्रोतुकामा वयं चाद्य ये च लङ्कानिवासिनः॥ ९॥

देशनानयनिर्मुक्तं प्रत्यात्मगतिगोचरम्।

लङ्कावतारसूत्रं वै पूर्वबुद्धानुवर्णितम्॥ १०॥

स्मरामि पूर्वकैर्बुद्धैर्जिनपुत्रपुरस्कृतैः।

सूत्रमेतन्निगद्यते भगवानपि भाषताम्॥ ११॥

भविष्यन्त्यनागते काले बुद्धा बुद्धसुताश्च ये।

एतमेव नयं दिव्यं शिखरे रत्नभूषिते।

देशयिष्यन्ति यक्षाणामनुकम्पाय नायकाः॥ १२॥

दिव्यलङ्कापुरीरम्यां नानारत्नैर्विभूषिताम्।

प्राग्भारैः शीतलैः रम्यै रत्नजालवितानकैः॥ १३॥

रागदोषविनिर्मुक्ताः प्रत्यात्मगतिचिन्तकाः।

सन्त्यत्र भगवन् यक्षाः पूर्वबुद्धैः कृतार्थिनः।

महायाननये श्रद्धा निविष्टान्योन्ययोजकाः॥ १४॥

यक्षिण्यो यक्षपुत्राश्च महायानबुभुत्सवः।

आयातु भगवान् शास्ता लङ्कामलयपर्वतम्॥ १५॥

कुम्भकर्णपुरोगाश्च राक्षसाः पुरवासिनः।

श्रोष्यन्ति प्रत्यात्मगतिं महायानपरायणाः॥ १६॥

कृताधिकारा बुद्धेषु करिष्यन्त्यधुना च वै।

अनुकम्पार्थं मह्यं वै याहि लङ्कां सुतैः सह॥ १७॥

गृहमप्सरवर्गाश्च हाराणि विविधानि च।

रम्यां चाशोकवनिकां प्रतिगृह्ण महामुने॥ १८॥

आज्ञाकरोऽहं बुद्धानां ये च तेषां जिनात्मजाः।

नास्ति तद्यन्न देयं मे अनुकम्प महामुने॥ १९॥

तस्य तद्वचनं श्रुत्वा उवाच त्रिभवेश्वरः।

अतीतैरपि यक्षेन्द्र नायकै रत्नपर्वते॥ २०॥

प्रत्यात्मधर्मो निर्दिष्टः त्वं चैवाप्यनुकम्पितः।

अनागताश्च वक्ष्यन्ति गिरौ रत्नविभूषिते॥ २१॥

योगिनां निलयो ह्येष दृष्टधर्मविहारिणाम्।

अनुकम्प्योऽसि यक्षेन्द्र सुगतानां ममापि च॥ २२॥

अधिवास्य भगवांस्तूष्णीं शमबुद्ध्या व्यवस्थितः।

आरूढः पुष्पके याने रावणेनोपनामिते॥ २३॥

तत्रैव रावणोऽन्ये च जिनपुत्रा विशारदाः।

अप्सरैर्हास्यलासाद्यैः पूज्यमानाः पुरीं गताः॥ २४॥

तत्र गत्वा पुरीं रम्यां पुनः पूजां प्रलब्धवान्।

रावणाद्यैर्यक्षवर्गैर्यक्षिणीभिश्च पूजितः।

यक्षपुत्रैर्यक्षकन्याभी रत्नजालैश्च पूजितः॥ २५॥

रावणेनापि बुद्धस्य हारा रत्नविभूषिताः।

जिनस्य जिनपुत्राणामुत्तमाङ्गेषु स्थापिताः॥ २६॥

प्रगृह्य पूजां भगवान् जिनपुत्रैश्च पण्डितैः।

धर्मं विभावयामास प्रत्यात्मगतिगोचरम्॥ २७॥

रावणो यक्षवर्गाश्च संपूज्य वदतां वरम्।

महामतिं पूजयन्ति अध्येषन्ति पुनः पुनः।

त्वं प्रष्टा सर्वबुद्धानां प्रत्यात्मगतिगोचरम्॥ २८॥

अहं हि श्रोता यक्षाश्च जिनपुत्राश्च सन्निह।

अध्येषयामि त्वां यक्षा जिनपुत्राश्च पण्डिताः॥ २९॥

वादिनां त्वं महावादी योगिनां योगवाहकः।

अध्येषयामि त्वां भक्त्या नयं पृच्छ विशारद॥ ३०॥

तीर्थ्यदोषैर्विनिर्मुक्तं प्रत्येकजिनश्रावकैः।

प्रत्यात्मधर्मताशुद्धं बुद्धभूमिप्रभावकम्॥ ३१॥

निर्माय भगवांस्तत्र शिखरान् रत्नभूषितान्।

अन्यानि चैव दिव्यानि रत्नकोटीरलंकृताः॥ ३२॥

एकैकस्मिन् गिरिवरे आत्मभावं विदर्शयन्।

तत्रैव रावणो यक्ष एकैकस्मिन् व्यवस्थितः॥ ३३॥

अत्र ताः पर्षदः सर्वा एकैकस्मिन् हि दृश्यते।

सर्वक्षेत्राणि तत्रैव ये च तेषु विनायकाः॥ ३४॥

राक्षसेन्द्रश्च तत्रैव ये च लङ्कानिवासिनः।

तत्प्रतिस्पर्धिनी लङ्का जिनेन अभिनिर्मिता।

अन्याश्चाशोकवनिका वनशोभाश्च तत्र याः॥ ३५॥

एकैकस्मिन् गिरौ नाथो महामतिप्रचोदितः।

धर्मं दिदेश यक्षाय प्रत्यात्मगतिसूचकम्।

दिदेश निखिलं सूत्रं शतसाहस्रिकं गिरौ॥ ३६॥

शास्ता च जिनपुत्राश्च तत्रैवान्तर्हितास्ततः।

अद्राक्षीद्रावणो यक्ष आत्मभावं गृहे स्थितम्॥ ३७॥

चिन्तेति किमिदं कोऽयं देशितं केन वा श्रुतम्।

किं दृष्टं केन वा दृष्टं नगरो वा क्व सौगतः॥ ३८॥

तानि क्षेत्राणि ते बुद्धा रत्नशोभाः क्व सौगताः।

स्वप्नोऽयमथ वा माया नगरं गन्धर्वशब्दितम्॥ ३९॥

तिमिरो मृगतृष्णा वा स्वप्नो वन्ध्याप्रसूयतम्।

अलातचक्रधूमो वा यदहं दृष्टवानिह॥ ४०॥

अथ वा धर्मता ह्येषा धर्माणां चित्तगोचरे।

न च बालावबुध्यन्ते मोहिता विश्वकल्पनैः॥ ४१॥

न द्रष्टा न च द्रष्टव्यं न वाच्यो नापि वाचकः।

अन्यत्र हि विकल्पोऽयं बुद्धधर्माकृतिस्थितिः।

ये पश्यन्ति यथादृष्टं न ते पश्यन्ति नायकम्॥ ४२॥

अप्रवृत्तिविकल्पश्च यदा बुद्धं न पश्यति।

अप्रवृत्तिभवे बुद्धः संबुद्धो यदि पश्यति॥ ४३॥

समनन्तरप्रतिविबुद्धे परावृत्ताश्रये स्वचित्तदृश्यमात्राधिगमेऽविकल्पप्रचारस्थितस्य लङ्काधिपतेः पूर्वकुशलमूलसंचोदितस्य सर्वशास्त्रविदग्धबुद्धेर्यथातथ्यदर्शनस्य अपरप्रणेयस्य स्वबुद्धिविचालनकुशलस्य तर्कदृष्टिव्यपेतदर्शनस्य अपरप्रणेयस्य महायोगयोगिनो महाविश्वरूपधारिणः उपायकौशल्यगतिंगतस्य सर्वभूम्युत्तरोत्तरस्वलक्षणाधिगमनकुशलस्य चित्तमगोमनोविज्ञानस्वभावविवेकरतस्य त्रिसंततिव्यवच्छिन्नदर्शनस्य सर्वकारणतीर्थ्यव्यपेतबुद्धेः तथागतगर्भबुद्धभूम्यध्यात्मसमापन्नस्य स्थितबुद्धबुद्धेर्गगनादध्यात्मवेद्यशब्दमश्रौषीत्-साधु साधु लङ्काधिपते, साधु खलु पुनस्त्वं लङ्काधिपते। एवं शिक्षितव्यं योगिना यथा त्वं शिक्षसे। एवं च तथागता द्रष्टव्याः धर्माश्च, यथा त्वया दृष्टाः। अन्यथा दृश्यमाने उच्छेदमाश्रयः। चित्तमनोमनोविज्ञानविगतेन त्वया सर्वधर्मा विभावयितव्याः। अन्तश्चारिणा न बाह्यार्थदृष्ट्यभिनिविष्टेन। न च त्वया श्रावकप्रत्येकबुद्धतीर्थाधिगमपदार्थगोचरपतितदृष्टिसमाधिना भवितव्यम्। नाख्यायिकेतिहासरतेन भवितव्यम्। न स्वभावदृष्टिना, न राजाधिपत्यमदपतितेन, षड्ध्यानादिध्यायिना। एष लङ्काधिपते अभिसमयो महायोगिनां परप्रवादमथनानामकुशलदृष्टिदालनानामात्मदृष्टिव्यावर्तनकुशलानां सूक्ष्ममभिविज्ञानपरावृत्तिकुशलानां जिनपुत्राणां महायानचरितानाम्। तथागतस्वप्रत्यात्मभूमिप्रवेशाधिगमाय त्वया योगः करणीयः। एवं क्रियमाणे भूयोऽप्युत्तरोत्तरविशोधकोऽयं लङ्काधिपते मार्गो यस्त्वया परिगृहीतः समाधिकौशलसमापत्त्या। न च श्रावकप्रत्येकबुद्धतीर्थ्यानुप्रवेशसुखगोचरो यथा बालतीर्थयोगयोगिभिः कल्प्यते आत्मग्राहदृश्यलक्षणाभिनिविष्टैर्भूतगुणद्रव्यानुचारिभिरविद्याप्रत्ययदृष्ट्यभिनिवेशाभिनिविष्टैः शून्यतोत्पादविक्षिप्तैर्विकल्पाभिनिविष्टैर्लक्ष्यलक्षणपतिताशयैः। विश्वरूपगतिप्रापकोऽयं लङ्काधिपते स्वप्रत्यात्मगतिबोधकोऽयं महायानाधिगमः। विशेषभवोपपत्तिप्रतिलम्भाय च प्रवर्तते। पटलकोशविविधविज्ञानतरंगव्यावर्तकोऽयं लङ्काधिपते महायानयोगप्रवेशो न तीर्थ्ययोगाश्रयपतनम्। तीर्थ्ययोगो हि लङ्काधिपते तीर्थ्यानामात्माभिनिवेशात्प्रवर्तते। विज्ञानस्वभावद्वयार्थानामभिनिवेशदर्शनादसौम्ययोगस्तीर्थकराणाम्। तत्साधु लङ्काधिपते एतमेवार्थमनुविचिन्तयेः। यथा विचिन्तितवांस्तथागतदर्शनात्। एतदेव तथागतदर्शनम्॥



अथ तस्मिन्नन्तरे रावणस्यैतदभवत्-यन्न्वहं पुनरपि भगवन्तं सर्वयोगवशवर्तिनं तीर्थ्ययोगव्यावर्तकं प्रत्यात्मगतिगोचरोद्भावकं नैर्मितनैर्माणिकव्यपेतमधिगमबुद्धिर्यद्योगिनां योगाभिसमयकाले समाधिमुखे समाप्तानामधिगमो भवति। तस्य च अधिगमाद्योगिनां योगशब्दो निपात्यते अधिगमनेनेति। तदहं कारुणिकं क्लेशेन्धनविकल्पक्षयकरं तं जिनपुत्रैः परिवृतं सर्वसत्त्वचित्ताशयानुप्रविष्टं सर्वगतं सर्वज्ञं क्रियालक्षणविनिवृत्तं तयैवमृद्ध्या पश्येयम्, तद्दर्शनान्नाधिगतमधिगच्छेयम्, अधिगतं च मे निर्विकल्पाचारः सुखसमाधिसमापत्तिविहारस्तथागतगतिभूमिप्रापको विवृद्धिं यायात्॥



अथ भगवांस्तस्यां वेलायां लङ्काधिपतेरनुत्पत्तिकधर्मक्षान्त्यधिगतं विदित्वा तयैव शोभया दशग्रीवस्यानुकम्पया पुनरप्यात्मानं शिखरे सुबहुरत्नखचिते रत्नजालवितते दर्शयति स्म। अद्राक्षीद्दशग्रीवो लङ्काधिपतिः पुनरपि दृष्टानुभूतां शोभां शिखरे तथागतमर्हन्तं सम्यक्संबुद्धं द्वात्रिंशद्वरलक्षणविभूषिततनुम्। स्वात्मभावं चैकेकस्मिन् गिरौ तथागतानां पुरतः सम्यक्संबुद्धानां महामतिना सार्धं तथागतप्रत्यात्मगतिगोचरकथां प्रकुर्वन्तं यक्षैः परिवृतं तां देशनापाठकथां कथयन्तम्। ते च क्षेत्राः सनायकाः॥



अथ भगवान् पुनरपि तस्यां वेलायां पर्षदमवलोक्य बुद्ध्या न मांसचक्षुषा सिंहराजवद्विजृम्भ्य महाहासमहसत्। ऊर्णाकोशाच्च रश्मिं निश्चार्यमाणः पार्श्वोरुकटिकायाच्च श्रीवत्सात्सर्वरोमकूपेभ्यो युगान्ताग्निरिव दीप्यमानः तेजसेन्द्रधनुरुदयभास्करोपमेन प्रभामण्डलेन देदीप्यमानः शक्रब्रह्मलोकपालैर्गगनतले निरीक्ष्यमाणः सुमेरुशृङ्गप्रतिस्पर्धिनि शिखरे निषण्णो महाहासमहसत्। अथ तस्या बोधिसत्त्वपर्षदः तेषां च शक्रब्रह्मादीनामेतदभवत्-को नु खल्वत्र हेतुः, क ः प्रत्ययो यद्भगवान् सर्वधर्मवशवर्ती महाहासं स्मितपूर्वकं हसति ? रश्मींश्च स्वविग्रहेभ्यो निश्चारयति ? निश्चार्य तूष्णीमभवत् स्वप्रत्यात्मार्यज्ञानगोचरसमाधिमुखे पतिताशयोऽविस्मितः सिंहावलोकनतया दिशोऽवलोक्य रावणस्यैव योगगतिप्रचारमनुविचिन्तयमानः॥



अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पूर्वमेवाध्येषितो रावणस्यानुकम्पामुपादाय तस्या बोधिसत्त्वपर्षदश्चित्ताशयविचारमाज्ञाय अनागतां जनतां चावलोक्य देशनापाठाभिरतानां सत्त्वानां चित्तविभ्रमो भविष्यतीति यथारुतार्थाभिनिविष्टानां सर्वश्रावकप्रत्येकबुद्धतीर्थ्ययोगबलाभिनिविष्टानां तथागता अपि भगवन्तो विनिवृत्तविज्ञानविषया महाहासं हसन्ति। तेषां कौतूहलविनिवृत्त्यर्थं भगवन्तं परिपृच्छति स्म-कः खल्वत्र हेतुः, कः प्रत्ययः स्मितस्य प्रवृत्तये ? भगवानाह-साधु साधु महामते, साधु खलु पुनस्त्वं महामते, लोकस्वभावमवलोक्य कुदृष्टिपतितानां च लोकानां त्रैकाल्यचित्तावबोधाय मां प्रष्टुमारब्धः। एवं पण्डितैः परिपृच्छनजातीयैर्भवितव्यं स्वपरोभयार्थम्। एष महामते रावणो लङ्काधिपतिः पूर्वकानपि तथागतानर्हतः सम्यक्संबुद्धान् प्रश्नद्वयं पृष्टवान्। मामप्येतर्हि प्रष्टुकामो यदनालीढं सर्वश्रावकप्रत्येकबुद्धतीर्थ्ययोगयोगिनां प्रश्नद्वयप्रभेदगतिलक्षणं विभावयितुम्। य एष प्रष्टुकामो दशग्रीवोऽनागतानपि जिनान् प्रक्ष्यति॥



जानन्नेव भगवाँल्लङ्काधिपतिमेतदवोचत्-पृच्छ त्वं लङ्काधिपते। कृतस्ते तथागतेनावकाशः। मा विलम्ब प्रचलितमौलिन्। यद्यदेवाकाङ्क्षसि, अहं ते तस्त तस्यैव प्रश्नस्यव्याकरणेन चित्तमाराधयिष्यामि। यथा त्वं परावृत्तविकल्पाश्रये भूमिविपक्षकौशलेन प्रविचयबुद्ध्या विचारयमाणः प्रत्यात्मनयलक्षणसमाधिसुखविहारं समाधिबुद्धैः परिगृहीतः शमथसुखव्यवस्थितः श्रावकप्रत्येकबुद्धसमाधिपक्षानतिक्रम्य अचलासाधुमतीधर्ममेघाभूमिव्यवस्थितो धर्मनैरात्म्ययथातथाकुशलो महारत्नपद्मविमाने समाधिजिनाभिषेकतां प्रतिलप्स्यसे। तदनुरूपैः पद्मैः स्वकायविचित्राधिष्ठानाधिष्ठितैस्तैः पद्मैः स्वकायं निषण्णं द्रक्ष्यसि, अन्योन्यवक्रमुखनिरीक्षणं च करिष्यसि। एवमचिन्त्योऽसौ विषयः यदेकेनाभिनिर्हारकौशलेनाभिनिर्हृतश्चर्याभूमौ स्थितः। उपायकौशलपरिग्रहाभिनिर्हाराभिनिर्हृते तमचिन्त्यविषयमनुप्राप्स्यसि, बहुरूपविकारतां च तथागतभूमिम्। यददृष्टपूर्वं श्रावकप्रत्येकबुद्धतीर्थ्यब्रह्मेन्द्रोपेन्द्रादिभिस्तं प्राप्स्यसि॥



अथ खलु लङ्काधिपतिर्भगवता कृतावकाश उत्थाय तस्माद्रश्मिविमलप्रभाद्रत्नपद्मसदृशाद्रत्नशिखरात् साप्सरोगणपरिवृतो विविधैरनेकविधैर्नानाप्रकारैः पुष्पमाल्यगन्धधूपविलेपनच्छत्रध्वजपताकाहारार्धहारकिरीटमुकुटैरन्यैश्च अदृष्टश्रुतपूर्वैराभरणविशेषैर्विशिष्टैस्तूर्यतालावचरैर्देवनागयक्षराक्षसगन्धर्वकिन्नरमहोरगमनुष्यातिक्रान्तैः सर्वकामधातुपर्यापन्नान् वाद्यभाण्डानभिनिर्माय ये चान्येषु बुद्धक्षेत्रेषु तूर्यविशेषा दृष्टाः, तानभिनिर्माय भगवन्तं बोधिसत्त्वांश्च रत्नजालेनावष्टभ्य नानावस्त्रोच्छ्रितपताकं कृत्वा सप्त तालान् गगनेऽभ्युद्गम्य महापूजामेघानभिप्रवृष्य तूर्यतालावचराणि निर्नाद्य तस्माद्गगनादवतीर्य सूर्यविद्युत्प्रभे द्वितीये महारत्नपद्मालंकृतौ रत्नशिखरे निषसाद। निषद्य उपचारात्स्मितपूर्वं भगवता कृतावकाशो भगवन्त प्रश्नद्वयं पृच्छति स्म-पृष्टा मया पूर्वकास्तथागता अर्हन्तः सम्यक्संबुद्धाः। तैश्चापि विसर्जितम्। भगवन्तमप्येतर्हि पृच्छामि। देशनापाठे चायं बुद्धैस्त्वया चावश्यमनुवर्णितं भविष्यति। निर्मितनिर्माणभाषितमिदं भगवन् धर्मद्वयम्। न मौनैस्तथागतैर्भाषितम्। मौना हि भगवंस्तथागताः समाधिसुखगोचरमेवोद्भावयन्ति। न च गोचरं विकल्पयन्ति। तं देशयन्ति। तत्साधु मे भगवान् स्वयमेव धर्मवशवर्ती धर्मद्वयं तथागतोऽर्हन् सम्यक्संबुद्धो देशयतु। श्रोष्यन्तीमे जिनपुत्रा अहं च॥



भगवानाह-ब्रूहि लङ्काधिपते धर्मद्वयम्। राक्षसेन्द्र आह-किरीटाङ्गदहारवज्रसूत्रावबद्धाभरणनुशोभाशोभित, धर्मा एव प्रहातव्याः प्रागेवाधर्माः। तत्कथं भगवन् धर्मद्वयं प्रहाणं भवति ? के चाधर्मा धर्माः ? कथं सति द्वित्वं प्रहाणधर्माणां विकल्पलक्षणपतितानां विकल्पस्वभावाभावानामभौतिकभौतिकानामालयविज्ञानापरिज्ञानादविशेषलक्षणानां केशोण्डुकस्वभावावस्थितानामशुद्धक्षयज्ञानविषयिणाम्। तत्कथं तेषां प्रहाणमेवंभाविनाम् ?



भगवानाह-ननु लङ्काधिपते, दृष्टो घटादीनां भेदनात्मकानां विनाशधर्मिणां बालविकल्पगोचरैः प्रतिविभागः। एवमिहापि किं न गृह्यते ? अस्ति धर्माधर्मयोः प्रतिविभागो बालप्रतिविकल्पमुपादाय, न त्वार्यज्ञानाधिगमं प्रति दर्शनेन। तिष्ठन्तु तावल्लङ्काधिपते घटादयो भावा विचित्रलक्षणपतिता बालानां न त्वार्याणाम्। एकस्वाभाविकानामेकज्वालोद्भवप्रज्वालितानां गृहभवनोद्यानप्रासादप्रतिष्ठापितानां दृष्टः प्रतिविभागः इन्धनवशाद्दीर्घह्रस्वप्रभाल्पमहाविशेषाश्च। एवमिहापि किं न गृह्यते ? अस्ति धर्माधर्मयोः प्रतिविभागः। न केवलमग्निज्वालाया एकसंतानपतिताया दृष्टोऽर्चिषश्च प्रतिविभागः। एकबीजप्रसूतानां यत्संतानानामपि लङ्काधिपते नालाङ्कुरगण्डपर्वपत्रपलाशपुष्पफलशाखाविशेषाः। एवं सर्वधर्मप्ररोहधर्मिणां बाह्यानामाध्यात्मिकानामप्यविद्यानिर्यातानां स्कन्धधात्वायतनोपगानां सर्वधर्माणां त्रैधातुकोपपन्नानां दृष्टसुखसंस्थानामभिलाप्यगतिविशेषाः। विज्ञानानामेकलक्षणानां विषयाभिग्रहणप्रवृत्तानां दृष्टो हीनोत्कृष्टमध्यमविशेषो व्यवदानाव्यवदानतश्च कुशलाकुशलतश्च। न केवलमेषां लङ्काधिपते धर्माणां प्रतिविभागविशेषः, योगिनामपि योगमभ्यस्यतां योगमार्गे प्रत्यात्मगतिलक्षणविशेषो दृष्टः। किमङ्ग पुनर्धर्माधर्मयोः प्रतिविकल्पप्रवृत्तयोर्विशेषो न भवति ? भवत्येव॥



अस्ति लङ्काधिपते धर्माधर्मयोः प्रतिविभागो विकल्पलक्षणत्वात्। तत्र लङ्काधिपते धर्माः कतमे ? यदुत एते तीर्थ्यश्रावकप्रत्येकबुद्धबालविकल्पकल्पिताः। कारणतो गुणद्रव्यपूर्वका धर्मा इत्युपदिश्यन्ते, ते प्रहातव्याः। न लक्षणतः प्रतिविकल्पयितव्याः। स्वचित्तदृश्यधर्मताभिनिवेशान्न सन्ति घटादयो धर्मा बालपरिकल्पिता अलब्धशरीराः। एवं विदर्शनया प्रतिविपश्यतः प्रहीणा भवन्ति॥



तत्र अधर्माः कतमे ? येऽलब्धात्मका लक्षणविकल्पाप्रचारा धर्मा अहेतुकाः तेषामप्रवृत्तिर्दृष्टा भूताभूततः। अथ धर्मस्य प्रहाणं भवति। पुनरप्यलब्धात्मका धर्माः कतमे? यदुत शशखरोष्ट्रवाजिविषाणवन्ध्यापुत्रप्रभृतयो धर्माः। अलब्धात्मकत्वान्न लक्षणतः कल्प्याः। तेऽन्यत्र संव्यवहारार्था अभिधीयन्ते, नाभिनिवेशतो यथा घटादयः। यथा ते प्रहेया अग्रहणतो विज्ञानेन, तथा विकल्पभावा अपि प्रहेयाः। अतो धर्माधर्मयोः प्रहाणं भवति। यदुक्तवानसि लङ्काधिपते धर्माधर्माः कथं प्रहेया इति, तदेतदुक्तम्॥



यदप्युक्तवानसि लङ्काधिपते-पूर्वका अपि तथागता अर्हन्तः सम्यक्संबुद्धा मया पृष्टाः, तैश्च विसर्जितं पूर्वम्। इति लङ्काधिपते विकल्पस्यैतदधिवचनम्। अतीतोऽप्येवं विकल्प्यते अतीतः। एवमनागतोऽधुनापि धर्मतया। निर्विकल्पास्तथागताः सर्वविकल्पप्रपञ्चातीताः। न यथा रूपस्वभावो विकल्प्यते। अन्यत्राज्ञानाधिगमतः सुखार्थं विभाव्यते। प्रज्ञया अनिमित्तचारिणः। अतो ज्ञानात्मकास्तथागता ज्ञानशरीराः। न कल्पन्ते न कल्प्यन्ते। केन न कल्पन्ते ? मनसा आत्मतो जीवतः पुद्गलतः। कथं न विकल्पन्ते ? मनोविज्ञानेन विषयार्थहेतुकेन यथा रूपलक्षणसंस्थानाकारतश्च। अतो विकल्पाविकल्पागतेन भवितव्यम्॥



अपि च लङ्काधिपते भित्तिखचितविग्रहसमः सत्त्वप्रचारः। निश्चेष्टो लङ्काधिपते लोकसंनिवेशः कर्मक्रियारहितोऽसत्त्वात्सर्वधर्माणाम्। न चात्र कश्चिच्छृणोति श्रूयते वा। निर्मितप्रतिमो हि लङ्काधिपते लोकसंनिवेशः। न च तीर्थ्यबालयोगिनो विभावयन्ति। य एवं पश्यति लङ्काधिपते, स सम्यक्पश्यति। अन्यथा पश्यन्तो विकल्पे चरन्तीति। स्वविकल्पा द्विधा गृह्णन्ति। तद्यथा दर्पणान्तर्गतं स्वबिम्बप्रतिबिम्बं जले वा स्वाङ्गच्छाया वा ज्योत्स्नादीपप्रदीपिते वा गृहे वा अङ्गच्छाया प्रतिश्रुत्कानि। अथ स्वविकल्पग्रहणं प्रतिगृह्य धर्माधर्मं प्रतिविकल्पयन्ति। न च धर्माधर्मयोः प्रहाणेन चरन्ति। विकल्पयन्ति पुष्णन्ति, न प्रशमं प्रतिलभन्ते। एकाग्रस्यैतदधिवचनम्-तथागतगर्भस्वप्रत्यात्मार्यज्ञानगोचरस्यैतत्प्रवेशो यत्समाधिः परमो जायत इति॥



रावणाध्येषणापरिवर्तो नाम प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project