Digital Sanskrit Buddhist Canon

२५ शुभव्यूहराजपूर्वयोगपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

25 śubhavyūharājapūrvayogaparivartaḥ

२५ शुभव्यूहराजपूर्वयोगपरिवर्तः।



अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयामास-भूतपूर्वं कुलपुत्र अतीतेऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्यदासीत्। तेन कालेन तेन समयेन जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् प्रियदर्शने कल्पे वैरोचनरश्मिप्रतिमण्डितायां लोकधातौ। तस्य खलु पुनः कुलपुत्रा जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्य प्रवचने शुभव्यूहो नाम राजाभूत्। तस्य खलु पुनः कुलपुत्रा राज्ञः शुभव्यूहस्य विमलदत्ता नाम भार्याभूत्। तस्य खलु पुनः कुलपुत्रा राज्ञः शुभव्यूहस्य द्वौ पुत्रावभूताम्-एको विमलगर्भो नाम, द्वितीयो विमलनेत्रो नाम। तौ च द्वौ दारकावृद्धिमन्तौ चाभूताम्, प्रज्ञावन्तौ च पुण्यवन्तौ च ज्ञानवन्तौ च बोधिसत्त्वचर्यायां च अभियुक्तावभूताम्। तद्यथा-दानपारमितायामभियुक्तावभूताम्, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायामुपायकौशल्यपारमितायां मैत्र्यां करुणायां मुदितायामुपेक्षायां यावत् सप्तत्रिंशत्सु बोधिपक्षिकेषु धर्मेषु। सर्वत्र पारंगतावभूताम्, विमलस्य समाधेः पारंगतौ, नक्षत्रराजादित्यस्य समाधेः पारंगतौ, विमलनिर्भासस्य समाधेः पारंगतौ, विमलभासस्य समाधेः पारंगतौ, अलंकारशुभस्य समाधेः पारंगतौ, महातेजोगर्भस्य समाधेः पारंगतावभूताम्। स च भगवांस्तेन कालेन तेन समयेन इमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयामास तेषां सत्त्वानामनुकम्पायै, तस्य च राज्ञः शुभव्यूहस्यानुकम्पायै। अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारको येन स्वमाता जनयित्री, तेनोपसंक्रामताम्।



उपसंक्रम्य दशनखमञ्जलिं प्रगृह्य जनयित्रीमेतदवोचताम् एह्यम्ब गमिष्यावस्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशम् तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धं दर्शनाय वन्दनाय पर्युपासनाय। तत्कस्य हेतोः? एष ह्यम्ब स भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धः सदेवकस्य लोकस्य पुरतः सद्धर्मपुण्डरीकं नाम धर्मपर्यायं विस्तेरण संप्रकाशयति, तं श्रवणाय गमिष्यावः। एवमुक्ते कुलपुत्रा विमलदत्ता राजभार्या विमलगर्भं दारकं विमलनेत्रं च दारकमेतदवोचत्-एष खलु कुलपुत्रौ युवयोः पिता राजा शुभव्यूहो ब्राह्मणेष्वभिप्रसन्नः। तस्मान्न लप्स्यथ तं तथागतं दर्शनायाभिगन्तुम्। अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारको दशनखमञ्जलिं प्रगृह्य तां स्वमातरं जनयित्रीमेतदवोचताम्-मिथ्यादृष्टिकुलेऽस्मिन्नावां जातौ? आवां पुनर्धर्मराजपुत्राविति। अथ खलु कुलपुत्रा विमलदत्ता राजभार्या तौ द्वौ दारकावेतदवोचत्-साधु साधु कुलपुत्रौ। युवां तस्य स्वपितू राज्ञः शुभव्यूहस्यानुकम्पायै किंचिदेव प्रातिहार्यं संदर्शयतम्। अप्येव नाम युवयोरन्तिके प्रसादं कुर्यात्। प्रसन्नचित्तश्च अस्माकमनुजानीयात् तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धमभिगन्तुम्॥



अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारकस्तस्यां वेलायां सप्ततालमात्रं वैहायसमभ्युद्गम्य तस्य पितू राज्ञः शुभव्यूहस्यानुकम्पायै बुद्धानुज्ञातानि यमकानि प्रातिहार्याण्यकुरुताम्। तौ तत्रैवान्तरीक्षे गतौ शय्यामकल्पयताम्। तत्रैवान्तरीक्षे चंक्रमतः, तत्रैवान्तरीक्षे रजो व्यधुनीताम्, तत्रैवान्तरीक्षेऽधःकायाद्वारिधारां प्रमुमोचतुः, ऊर्ध्वकायादग्निस्कन्धं प्रज्वालयतः स्म। ऊर्ध्वकायाद्वारिधारां प्रमुमोचतुः, अधःकायादग्निस्कन्धं प्रज्वालयतः स्म। तौ तस्मिन्नेवाकाशे महान्तौ भूत्वा खुड्डकौ भवतः, खुड्डकौ भूत्वा महान्तौ भवतः। तस्मिन्नेवान्तरीक्षेऽन्तर्धायतः। पृथिव्यामुन्मज्जतः। पृथिव्यामुन्मज्जित्वा आकाश‍उन्मज्जतः। इयद्भिः खलु पुनः कुलपुत्रा ऋद्धिप्रातिहार्यैस्ताभ्यां द्वाभ्यां दारकाभ्यां स शुभव्यूहो राजा स्वपिता विनीतः। अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तयोर्दारकयोस्तमृद्धिप्रातिहार्यं दृष्ट्वा तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो दशनखमञ्जलिं प्रगृह्य तौ दारकावेतदवोचत्-को युवयोः कुलपुत्रौ शास्ता, कस्य वा युवां शिष्याविति? अथ खलु कुलपुत्रास्तौ द्वौ दारकौ तं राजानं शुभव्यूहमेतदवोचत्-एष स महाराज भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति रत्नमये बोधिवृक्षमूले धर्मासनोपविष्टः। सदेवकस्य लोकस्य पुरतः सद्धर्मपुण्डरीकं नाम धर्मपर्यायं विस्तरेण संप्रकाशयति। स आवयोर्भगवान् शास्ता। तस्यावां महाराज शिष्यौ। अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तौ दारकावेतदवोचत्-पश्यामो वयं कुलपुत्रौ तं युवयोः शास्तारम्। गमिष्यामो वयं तस्य भगवतः सकाशम्॥



अथ खलु कुलपुत्रास्तौ द्वौ दारकौ ततोऽन्तरीक्षादवतीर्य येन स्वमाता जनयित्री तेनोपसंक्रामताम्। उपसंक्रम्य दशनखमञ्जलिं प्रगृह्य स्वमातरं जनयित्रीमेतदवोचताम्-एष आवाभ्यामम्ब विनीतः स्वपिता अनुत्तरायां सम्यक्संबोधौ। कृतमावाभ्यां पितुः शास्तृकृत्यम्। तदिदानीमुत्स्रष्टुमर्हसि। आवां तस्य भगवतः सकाशे प्रव्रजिष्याव इति॥



अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारकस्तस्यां वेलायां स्वमातरं जनयित्रीं गाथाभ्यामध्यभाषताम्-



अनुजानीह्यावयोरम्ब प्रव्रज्यामनगारिकाम्।

आवां वै प्रव्रजिष्यावो दुर्लभो हि तथागतः॥१॥



औदुम्बरं यथा पुष्पं सुदुर्लभतरो जिनः।

उत्सृज्य प्रव्रजिष्यावो दुर्लभा क्षणसंपदा॥२॥



विमलदत्ता राजभार्या आह-

उत्सृजामि युवामद्य गच्छथा साधु दारकौ।

वयं पि प्रव्रजिष्यामो दुर्लभो हि तथागतः॥३॥ इति॥



अथ खलु कुलपुत्रास्तौ द्वौ दारकाविमे गाथे भाषित्वा तौ मातापितरावेतदवोचताम्-साधु अम्ब तात एत। वयं सर्वे सहिता भूत्वा गमिष्यामस्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशम्। उपसंक्रमिष्यामस्तं भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय। तत्कस्य हेतोः? दुर्लभो ह्यम्ब तात बुद्धोत्पादः, उदुम्बरपुष्पसदृशो महार्णव्युगच्छिद्रकूर्मग्रीवाप्रवेशवत्। दुर्लभप्रादुर्भावा अम्ब बुद्धा भगवन्तः। तस्मात्तर्हि अम्ब तात परमपुण्योपस्तब्धा वयमीदृशे प्रवचने उपपन्नाः। तत् साधु अम्ब तात उत्सृजध्वम्। आवां गमिष्यावः। तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशे प्रव्रजिष्यावः। दुर्लभं हि अम्ब तात तथागतानां दर्शनम्। दुर्लभो ह्यद्य कालः। ईदृशो धर्मराजा। परमदुर्लभेदृशी क्षणसंपत्॥



तेन खलु पुनः कुलपुत्राः समयेन तस्य राज्ञः शूभव्यूहस्य अन्तःपुराच्चतुरशीतिरन्तःपुरिकासहस्राणि अस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य भाजनभुतान्यभूवन्। विमलनेत्रश्च दारकोऽस्मिन् धर्मपर्याये चरितावी। विमलगर्भश्च दारको बहुकल्पकोटीनयुतशतसहस्राणि सर्वसत्त्वपापजहने समाधौ चरितोऽभूत् किमिति सर्वसत्त्वाः सर्वपापं जहेयुरिति। सा च तयोर्दारकयोर्माता विमलदत्ता राजभार्या सर्वबुद्धसंगीतिं सर्वबुद्धधर्मगुह्यस्थानानि च संजानीते स्म। अथ खलु कुलपुत्रा राजा शुभव्यूहस्ताभ्यां द्वाभ्यां दारकाभ्यां तथागतशासने विनीतः, अवतारितश्च, परिपाचितश्च सर्वस्वजनपरिवारः। सा च विमलदत्ता राजभार्या सर्वस्वजनपरिवारा तौ च द्वौ दारकौ राज्ञः शुभव्यूहस्य पुत्रौ द्वाचत्वारिंशद्भिः प्राणिसहस्रैः सार्धं सान्तपुरौ सामात्यौ सर्वे सहिताः समग्राः येन भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धः, तेनोपसंक्रामन्। उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तं त्रिष्कृत्वः प्रदक्षिणीकृत्य एकान्ते तस्थुः॥



अथ खलु कुलपुत्राः स भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धो राजानं शुभव्यूहं सपरिवारमुपसंक्रान्तं विदित्वा धार्म्या कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अथ खलु कुलपुत्रा राजा शुभव्यूहस्तेन भगवता धार्म्या कथया साधु च सुष्ठु च संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितस्तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः कनीयसो भ्रातुः पट्टं बद्ध्वा राज्ये प्रतिष्ठाप्य सपुत्रस्वजनपरिवारः, सा च विमलदत्ता राजभार्या सर्वस्त्रीगणपरिवारा, तौ च द्वौ दारकौ सार्धं तैर्द्वाचत्वारिंशद्भिः प्राणिसहस्रैः, सर्वे सहिताः समग्रास्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने श्रद्धया अगारादनगारिकां प्रव्रजिताः। प्रव्रजित्वा च राजा शुभव्यूहः सपरिवारश्चतुरशीतिवर्षसहस्राण्यभियुक्तो विजहार इमं सद्धर्मपुण्डरीकं धर्मपर्यायं चिन्तयन् भावयन् पर्यवदापयन्। अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तेषां चतुरशीतीनां वर्षसहस्राणामत्ययेन सर्वगुणालंकारव्यूहं नाम समाधिं प्रतिलभते स्म। सहप्रतिलब्धाच्चास्य समाधेः, अथ तावदेव सप्ततालमात्रं वैहायसमभ्युद्गच्छति स्म॥



अथ खलु कुलपुत्राः स राजाः शुभव्यूहो गगनतले स्थितस्तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्-इमौ भगवन् मम पुत्रौ शास्तारौ भवतः। यदहमाभ्यामृद्धिप्रातिहार्येण तस्मान्महतो दृष्टिगताद्विनिवर्तितः, तथागतशासने च प्रतिष्ठपितः, परिपाचितश्च अवतारितश्च, तथागतदर्शनाय च संचोदितः। कल्याणमित्रौ भगवन् मम तौ द्वौ दारकौ पुत्ररूपेण मम गृह उपपन्नौ, यदुत पूर्वकुशलमूलस्मरणार्थम्॥



एवमुक्ते भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं राजानं शुभव्यूहमेतदवोचत्-एवमेतन्महाराज, एवमेतद् यथा वदसि। अवरोपितकुशलमूलानां हि महाराज कुलपुत्राणां कुलदुहितृणां च सर्वेषु भवगतिच्युत्युपपत्त्यायतनेषूपपन्नानां सुलभानि भवन्ति कल्याणमित्राणि, यानि शास्तृकृत्येन प्रत्युपस्थितानि भवन्ति, यान्यनुत्तरायां सम्यक्संबोधौ शासकान्यवतारकाणि परिपाचकानि भवन्ति। उदारमेतन्महाराज स्थानं यदुत कल्याणमित्रपरिग्रहस्तथागतदर्शनसमादापकः। पश्यसि त्वं महाराज एतौ द्वौ दारकौ? आह-पश्यामि भगवन्, पश्यामि सुगत। भगवानाह-एतौ खलु पुनर्महाराज कुलपुत्रौ पञ्चष्टीनां गङ्गानदीवालिकासमानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके पूजां करिष्यतः, इमं च सद्धर्मपुण्डरीकं धर्मपर्यायं धारयिष्यतः सत्त्वानामनुकम्पायै, मिथ्यादृष्टीनां च सत्त्वानां सम्यग्दृष्टये वीर्यसंजननार्थम्॥



अथ खलु कुलपुत्राः स राजा शुभव्यूहस्ततो गगनतलादवतीर्य दशनखमञ्जलिं प्रगृह्य तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्-तत्साधु भगवन्। निर्दिशतु तथागतः-कीदृशेन ज्ञानेन समन्वागतस्तथागतोऽर्हन् सम्यक्संबुद्धो येन मूर्ध्नि उष्णीषो विभाति, विमलनेत्रश्च भगवान्, भ्रुवोर्मध्ये चोर्णा विभाति शशिशङ्खपाण्डराभा, सा च समसहिता दन्तावली वदनान्तरे विराजति, बिम्बोष्ठश्च भगवांश्चारुनेत्रश्च सुगतः॥



अथ खलु कुलपुत्राः स राज शुभव्यूह इयद्भिर्गुणैस्तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमभिष्टुत्य अन्यैश्च गुणकोटीनयुतशतसहस्रैस्तं भगवन्तमभिष्टुत्य तस्यां वेलायां तं भगवन्तं जलधरगर्जितभोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्-आश्चर्यं भगवन् यावन्महार्थमिदं तथागतशासनम्, अचिन्त्यगुणसमन्वागतश्च तथागतप्रवेदितो धर्मविनयः, यावत् सुप्रज्ञप्ता च तथागतशिक्षा। अद्याग्रेण वयं भगवन्न भूयश्चित्तस्य वशगा भविष्यामः, न भूयो मिथ्यादृष्टेर्वशगा भविष्यामः, न भूयः क्रोधस्य वशगा भविष्यामः, न भूयः पापकानां चित्तोत्पादानां वशगा भविष्यामः। एभिरहं भगवन् इयद्भिरकुशलैधर्मैः समन्वागतो नेच्छामि भगवतोऽन्तिकमुपसंक्रमितुम्। स तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य अन्तरीक्षगत एवास्थात्॥



अथ खलु स राजा शुभव्यूहः सा च विमलदत्ता राजभार्या शतसहस्रमूल्यं मुक्ताहारं भगवत उपर्यन्तरीक्षेऽक्षैप्सीत्। समनन्तरक्षिप्तश्च स मुक्ताहारस्तस्य भगवतो मूर्ध्नि मुक्ताहारः कूटागारः संस्थितोऽभूच्चतुरस्रश्चतुःस्थूणः समभागः सुविभक्तो दर्शनीयः। तस्मिंश्च कूटागारे पर्यङ्कः प्रादुर्भूतोऽनेकदूष्यशतसहस्रसंस्तृतः। तस्मिंश्च पर्यङ्के तथागतविग्रहः पर्यङ्कबद्धं संदृश्यते स्म। अथ खलु राज्ञः शुभव्यूहस्यैतदभवत्-महानुभावमिदं बुद्धज्ञानम्, अचिन्त्यगुणसमन्वागतश्च तथागतः। यत्र हि नाम अयं तथागतविग्रहः कूटागारमध्यगतः संदृश्यते प्रासादिको दर्शनीयः परमशुभवर्णपुष्करतया समन्वागतः॥



अथ खलु भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतश्चतस्रः पर्षदः आमन्त्रयते स्म-पश्यथ भिक्षवो यूयं शुभव्यूहं राजानं गगनतलस्थं सिंहनादं नदन्तम्? आहुः- पश्यामो भगवन्। भगवानाह-एष खलु भिक्षवः शुभव्यूहो राजा मम शासने भिक्षुभावं कृत्वा शालेन्द्रराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् विस्तीर्णवत्यां लोकधातौ। अभ्युद्गतराजो नाम स कल्पो भविष्यति। तस्य खलु पुनर्भिक्षवः शालेन्द्रराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अप्रमेयो बोधिसत्त्वसंघो भविष्यति, अप्रमेयः श्रावकसंघः। समा पाणितलजाता च वैदूर्यमयी सा विस्तीर्णवती लोकधातुर्भविष्यति। एवमचिन्त्यः स तथागतोऽर्हन् सम्यक्संबुद्धो भविष्यति। स्यात् खलु पुनः कुलपुत्राः युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्यः स तेन कालेन तेन समयेन शुभव्यूहो नाम राजाभूत्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम्। तत्कस्य हेतोः? अयमेव स पद्मश्रीर्बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन शुभव्यूहो नाम राजाभुत्। स्यात्खलु पुनः कुलपुत्रा युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्या सा तेन कालेन तेन समयेन विमलदत्ता नाम राजभार्याभूत्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम्। तत्कस्य हेतोः? अयं स वैरोचनरश्मिप्रतिमण्डितध्वजराजो नाम बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन विमलदत्ता नाम राजभार्याभुत्। तस्य राज्ञः शुभव्यूहस्यानुकम्पायै तेषां च सत्त्वानां राज्ञः शुभव्यूहस्य भार्यात्वमभ्युपगतोऽभूत्। स्यात्खलु पुनः कुलपुत्रा युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्यौ तौ तेन कालेन तेन समयेन द्वौ दारकावभूताम्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम्। तत्कस्य हेतोः? इमौ तौ भैषज्यराजश्च भैषज्यसमुन्दतश्च तेन कालेन तेन समयेन तस्य राज्ञः शुभव्यूहस्य पुत्रावभूताम्। एवमचिन्त्यगुणसमन्वागतौ कुलपुत्रा भैषज्यराजो भैषज्यसमुद्गतश्च बोधिसत्त्वौ महासत्त्वौ, बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूलौ एतावुभावपि सत्पुरुषावचिन्त्यधर्मसमन्वागतौ। ये च एतयोः सत्पुरुषयोर्नामधेयं धारयिष्यन्ति, ते सर्वे नमस्करणीया भविष्यन्ति सदेवकेन लोकेन॥



अस्मिन् खलु पुनः पूर्वयोगपरिवर्ते भाष्यमाणे चतुरशीतीनां प्राणिसहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये शुभव्यूहराजपूर्वयोगपरिवर्तो नाम पञ्चविंशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project