Digital Sanskrit Buddhist Canon

२४ समन्तमुखपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

24 samantamukhaparivartaḥ

२४ समन्तमुखपरिवर्तः॥



अथ खलु अक्षयमतिर्बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्-केन कारणेन भगवन् अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽवलोकितेश्वर इत्युच्यते? एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-इह कुलपुत्र यावन्ति सत्त्वकोटीनयुतशतसहस्राणि यानि दुःखानि प्रत्युनुभवन्ति, तानि सचेदवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं शृणुयुः, ते सर्वे तस्माद्दुःखस्कन्धाद् परिमुच्येरन्। ये च कुलपुत्र सत्त्वा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं धारयिष्यन्ति, सचेत्ते महत्यग्निस्कन्धे प्रपतेयुः, सर्वे ते अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य तेजसा तस्मान्महतोऽग्निस्कन्धात् परिमुच्येरन्। सचेत् पुनः कुलपुत्र सत्त्वा नदीभिरुह्यमाना अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्युः, सर्वास्ता नद्यस्तेषां सत्त्वानां गाधं दद्युः। सचेत् पुनः कुलपुत्र सागरमध्ये वहनाभिरूढानां सत्त्वकोटीनयुतशतसहस्राणां हिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालाश्मगर्भमुसारगल्वलोहितमुक्तादीनां कृतनिधीनां स पोतस्तेषां कालिकावातेन राक्षसीद्वीपे क्षिप्तः स्यात्, तस्मिंश्च कश्चिदेवैकः सत्त्वः स्यात् योऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, सर्वे ते परिमुच्येरंस्तस्माद् राक्षसीद्वीपात्। अनेन खलु पुनः कुलपुत्र कारणेन अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽवलोकितेश्वर इति संज्ञायते॥



सचेत् कुलपुत्र कश्चिदेव वध्योत्सृष्टोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, तानि तेषां वध्यघातकानां शस्त्राणि विकीर्येरन्। सचेत् खलु पुनः कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्यक्षराक्षसैः परिपूर्णो भवेत्, तेऽवलोकितेश्वरस्य महासत्त्वस्य नामधेयग्रहणेन दुष्टचित्ता द्रष्टुमप्यशक्ताः स्युः। सचेत्खलु पुनः कुलपुत्र कश्चिदेव सत्त्वो दार्वायस्मयैर्हडिनिगडबन्धनैर्बद्धो भवेत्, अपराध्यनपराधी वा, तस्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयग्रहणेन क्षिप्रं तानि हडिनिगडबन्धनानि विवरमनुप्रयच्छन्ति। ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः॥



सचेत्कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्धूर्तैरमित्रैश्चौरैश्च शस्त्रपाणिभिः परिपूर्णो भवेत्, तस्मिंश्चैकः सार्थवाहो महान्तं सार्थं रत्नाढ्यमनर्ध्यं गृहीत्वा गच्छेत्। ते गच्छन्तस्तांश्चौरान् धूर्तान् शत्रूंश्च शस्त्रहस्तान् पश्येयुः। दृष्ट्वा च पुनर्भीतास्त्रस्ता अशरणमात्मानं संजानीयुः। स च सार्थवाहस्तं सार्थमेवं ब्रूयात्-मा भैष्ट कुलपुत्राः, मा भैष्ट, अभयंददमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेकस्वरेण सर्वे समाक्रन्दध्वम्। ततो यूयमस्माच्चौरभयादमित्रभयात् क्षिप्रमेव परिमोक्ष्यध्वे। अथ खलु सर्व एव स सार्थः एकस्वरेण अवलोकितेश्वरमाक्रन्देत्-नमो नमस्तस्मै अभयंददायावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वायेति॥ सहनामग्रहणेनैव स सार्थः सर्वभयेभ्यः परिमुक्तो भवेत्। ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः॥



ये कुलपुत्र रागचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतरागा भवन्ति। ये द्वेषचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतद्वेषा भवन्ति। ये मोहचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतमोहा भवन्ति। एवं महर्द्धिकः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः॥



यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुत्रकामो मातृग्रामो नमस्कारं करोति, तस्य पुत्रः प्रजायते अभिरूपः प्रासादिको दर्शनीयः। पुत्रलक्षणसमन्वागतो बहुजनप्रियो मनापोऽवरोपितकुशलमूलश्च भवति। यो दारिकामभिनन्दति, तस्य दारिका प्रजायते अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्करतया समन्वागता दारिका-लक्षणसमन्वागता बहुजनप्रिया मनापा अवरोपितकुशलभूला च भवति। ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः॥



ये च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यन्ति, नामधेयं च धारयिष्यन्ति, तेषाममोघफलं भवति। यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यति, नामधेयं च धारयिष्यति, यश्च द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां नमस्कारं कुर्यात्, नामधेयानि च धारयेत्, यश्च तावतामेव बुद्धानां भगवतां तिष्ठतां ध्रियतां यापयतां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पूजां कुर्यात्, तत्किं मन्यसे कुलपुत्र कियन्तं स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं पुण्याभिसंस्कारं प्रसवेत्? एवमुक्ते अक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-बहु भगवन्, बहु सुगत स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुं पुण्याभिसंस्कारं प्रसवेत्। भगवानाह-यश्च कुलपुत्र तावतां बुद्धानां भगवतां सत्कारं कृत्वा पुण्याभिसंस्कारः, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य अन्तश एकमपि नमस्कारं कुर्यात् नामधेयं च धारयेत्, समोऽनधिकोऽनतिरेकः पुण्याभिसंस्कारः उभयतो भवेत्। यश्च तेषां द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां सत्कारं कुर्यात् नामधेयानि च धारयेत्, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कुर्यात् नामधेयं च धारयेत्, एतावुभौ पुण्यस्कन्धौ न सुकरौ क्षपयितुं कल्पकोटीनयुतशतसहस्रैरपि। एवमप्रमेयं कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधारणात् पुण्यम्॥



अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-कथं भगवन् अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातौ प्रविचरति? कथं सत्त्वानां धर्मं देशयति? कीदृशश्चावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यविषयः? एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-सन्ति कुलपुत्र लोकधातवः येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बुद्धरूपेण सत्त्वानां धर्मं देशयति। सन्ति लोकधातवः, येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वरूपेण सत्त्वानां धर्मं देशयति। केषांचित् प्रत्येकबुद्धरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। केषांचिच्छ्रावकरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। केषांचिद् ब्रह्मरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। केषांचिच्छक्र‍रूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः धर्मं देशयति॥ केषांचिद् गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। केषांचिद् गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। यक्षवैनेयानां सत्त्वानां यक्षरूपेण धर्मं देशयति। ईश्वरवैनेयानां सत्त्वानामीश्वररूपेण, महेश्वरवैनेयानां सत्त्वानां महेश्वररूपेण धर्मं देशयति। चक्रवर्तिराजवैनेयानां सत्त्वानां चक्रवर्तिराजरूपेण धर्मं देशयति। पिशाचवैनेयानां सत्त्वानां पिशाचरूपेण धर्मं देशयति। वैश्रवणवैनेयानां सत्त्वानां वैश्रवणरूपेण धर्मं देशयति।



सेनापतिवैनेयानां सत्त्वानां सेनापतिरूपेण धर्मं देशयति। ब्राह्मणवैनेयानां सत्त्वानां ब्राह्मणरूपेण धर्मं देशयति। वज्रपाणिवैनेयानां सत्त्वानां वज्रपाणिरूपेण धर्मं देशयति। एवमचिन्त्यगुणसमन्वागतः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः। तस्मात्तर्हि कुलपुत्र अवलोकितेश्वरं बोधिसत्त्वं महासत्त्वं पूजयध्वम्। एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भीतानां सत्त्वानामभयं ददाति। अनेन कारणेन अभयंदद इति संज्ञायते इह सहायां लोकधातौ॥



अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-दास्यामो वयं भगवन् अवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्मप्राभृतं धर्माच्छादम्। भगवानाहयस्येदानीं कुलपुत्र कालं मन्यसे। अथ खल्वक्षयमतिर्बोधसत्त्वो महासत्त्वः स्वकण्ठादवर्ताय शतसहस्रमूल्यं मुक्ताहारमवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्माच्छादमनुप्रयच्छति स्म-प्रतीच्छ सत्पुरुष इमं धर्माच्छादं ममान्तिकात्। स न प्रतीच्छति स्म। अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वोऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्-प्रतिगृहाण त्वं कुलपुत्र इमं मुक्ताहारमस्माकमनुकम्पामुपादाय। अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽक्षयमतेर्बोधिसत्त्वस्य महासत्त्वस्यान्तिकात् तं मुक्ताहारं प्रतिगृह्णाति स्म अक्षयमतेर्बोधिसत्त्वस्य महसत्त्वस्यानुकम्पामुपादाय, तासां च चतसृणां पर्षदां तेषां च देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याणामनुकम्पामुपादाय। प्रतिगृह्य च द्वौ प्रत्यंशौ कृतवान्। कृत्वा चैकं प्रत्यंशं भगवते शाक्यमुनये ददाति स्म, द्वितीयं प्रत्यंशं भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपे समुपनामयायास। ईदृश्या कुलपुत्र विकुर्वया अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातावनुविचरति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



चित्रध्वज अक्षयोमती

एतमर्थं परिपृच्छि कारणात्॥

केना जिनपुत्र हेतुना

उच्यते हि अवलोकितेश्वरः॥१॥



अथ स दिशता विलोकिया

प्रणिधीसागरु अक्षयोमति।

चित्रध्वजोऽध्यभाषत

शृणु चर्यामवलोकितेश्वरे॥२॥



कल्पशत नेककोट्यचिन्तिया

बहुबुद्धान सहस्रकोटिभिः।

प्रणिधान यथा विशोधितं

स्तथ शृण्वाहि मम प्रदेशतः॥३॥



श्रवणो अथ दर्शनोऽपि च

अनुपूर्वं च तथा अनुस्मृतिः।

भवतीह अमोघ प्राणिनां

सर्वदुःखभवशोकनाशकः॥४॥



सचि अग्निखदाय पातयेद्

घतनार्थाय प्रदुष्टमानसः।

स्मरतो अवलोकितेश्वरं

अभिसिक्तो इव अग्नि शाम्यति॥५॥



सचि सागरदुर्गि पातये-

न्नागमकरसुरभूतआलये।

स्मरतो अवलोकितेश्वरं

जलराजे न कदाचिसीदति॥६॥



सचि मेरुतलातु पातयेद्

घतनार्थाय प्रदुष्टमानसः।

स्मरतो अवलोकितेश्वरं

सूर्यभूतो व नभे प्रतिष्ठति॥७॥



वज्रामय पर्वतो यदि

घतनार्थाय हि मूर्ध्नि ओषरेत्।

स्मरतो अवलोकितेश्वरं

रोमकूप न प्रभोन्ति हिंसितुम्॥८॥



सचि शत्रुगणैः परीवृतः

शस्त्रहस्तैर्विहिंसचेतसैः।

स्मरतो अवलोकितेश्वरं

मैत्रचित्त तद भोन्ति तत्क्षणम्॥९॥



सचि आघतने उपस्थितो

वध्यघातनवशंगतो भवेत्।

स्मरतो अवलोकितेश्वरं

खण्डखण्ड तद शस्त्र गच्छियुः॥१०॥



सचि दारुमयैरयोमयै-

र्हडिनिगडैरिह बद्धबन्धनैः।

स्मरतो अवलोकितेश्वरं

क्षिप्रमेव विपटन्ति बन्धना॥११॥



मन्त्रा बल विद्य ओषधी

भूत वेताल शरीरनाशका।

स्मरतो अवलोकितेश्वरं

तान् गच्छन्ति यतः प्रवर्तिताः॥१२॥



सचि ओजहरैः परीवृतो

नागयक्षसुरभूतराक्षसैः।

स्मरतो अवलोकितेश्वरं

रोमकूप न प्रभोन्ति हिंसितुम्॥१३॥



सचि व्यालमृगैः परीवृत-

स्तीक्ष्णदंष्ट्रनखरैर्महाभयैः।

स्मरतो अवलोकितेश्वरं

क्षिप्र गच्छन्ति दिशा अनन्ततः॥१४॥



सचि दृष्टिविषैः परीवृतो

ज्वलनार्चिशिखिदुष्टदारुणैः।

स्मरतो अवलोकितेश्वरं

क्षिप्रमेव ते भोन्ति निर्विषाः॥१५॥



गम्भीर सविद्यु निश्चरी

मेघवज्राशनि वारिप्रस्रवाः।

स्मरतो अवलोकितेश्वरं

क्षिप्रमेव प्रशमन्ति तत्क्षणम्॥१६॥



बहुदुःखशतैरुपद्रुतान्

सत्त्व दृष्ट्व बहुदुःखपीडितान्।

शुभज्ञानबलो विलोकिया

तेन त्रातरु गजे सदेवके॥१७॥



ऋद्धीबलपारमिंगतो

विपुलज्ञान उपायशिक्षितः।

सर्वत्र दशद्दिशी जगे

सर्वक्षेत्रेषु अशेष दृश्यते॥१८॥



ये च अक्षणदुर्गती भया

नरकतिर्यग्यमस्य शासने।

जातीजरव्याधिपीडिता

अनुपूर्वं प्रशमन्ति प्राणिनाम्॥१९॥



अथ खलु अक्षमतिर्हृष्टतुष्टमना इमा गाथा अभाषत—



शुभलोचन मैत्रलोचना

प्रज्ञाज्ञानविशिष्टलोचना।

कृपलोचन शुद्धलोचना

प्रेमणीय सुमुखा सुलोचना॥२०॥



अमलामलनिर्मलप्रभा

वितिमिर ज्ञानदिवाकरप्रभा।

अपहृतानिलज्वलप्रभा

प्रतपन्तो जगती विरोचसे॥२१॥



कृपसद्गुणमैत्रगर्जिता

शुभगुण मैत्रमना महाघना।

क्लेशाग्नि शमेसि प्राणिनां

धर्मवर्षं अमृतं प्रवर्षसि॥२२॥



कलहे च विवादविग्रहे

नरसंग्रामगते महाभये।

स्मरतो अवलोकितेश्वरं

प्रशमेया अरिसंघ पापका॥२३॥



मेघस्वर दुन्दुभिस्वरो

जलधरगर्जित ब्रह्मसुस्वरः।

स्वरमण्डलपारमिंगतः

स्मरणीयो अवलोकितेश्वरः॥२४॥



स्मरथा स्मरथा स काङ्क्षथा

शुद्धसत्त्वं अवलोकितेश्वरम्।

मरणे व्यसने उपद्रवे

त्राणु भोति शरणं परायणम्॥२५॥



सर्वगुणस्य पारमिंगतः

सर्वसत्त्वकृपमैत्रलोचनो।

गुणभूत महागुणोदधी

वन्दनीयो अवलोकितेश्वरः॥२६॥



योऽसौ अनुकम्पको जगे

बुद्ध भेष्यति अनागतेऽध्वनि।

सर्वदुःखभयशोकनाशकं

प्रणमामी अवलोकितेश्वरम्॥२७॥



लोकेश्वर राजनायको

भिक्षुधर्माकरु लोकपूजितो।

बहुकल्पशतांश्चरित्व च

प्राप्तु बोधि विरजां अनुत्तराम्॥२८॥



स्थित दक्षिणवामतस्तथा

वीजयन्त अमिताभनायकम्।

मायोपमता समाधिना

सर्वक्षेत्रे जिन गत्व पूजिषु॥२९॥



दिशि पश्चिमतः सुखाकरा

लोकधातु विरजा सुखावती।

यत्र एष अमिताभनायकः

संप्रति तिष्ठति सत्त्वसारथिः॥३०॥



न च इस्त्रिण तत्र संभवो

नापि च मैथुनधर्म सर्वशः।

उपपादुक ते जिनोरसाः

पद्मगर्भेषु निषण्ण निर्मलाः॥३१॥



सो चैव अमिताभनायकः

पद्मगर्भे विरजे मनोरमे।

सिंहासनि संनिषण्णको

शालरजो व यथा विराजते॥३२॥



सोऽपि तथा लोकनायको

यस्य नास्ति त्रिभवेस्मि सादृशः।

यन्मे पुण्य स्तवित्व संचितं

क्षिप्र भोमि यथ त्वं नरोत्तम॥३३॥ इति॥



अथ खलु धरणिंधरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्-न ते भगवन् सत्त्वाः अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, येऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्येमं धर्मपर्यायपरिवर्तं श्रोष्यन्ति अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विकुर्वानिर्देशं समन्तमुखपरिवर्तं नाम अवलोकितेश्वरस्य बोधिसत्त्वस्य विकुर्वणप्रातिहार्यम्॥



अस्मिन् खलु पुनः समन्तमुखपरिवर्ते भगवता निर्देश्यमाने तस्याः पर्षदश्चतुरशीतिनां प्राणिसहस्राणामसमसमायामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नान्यभूवन्॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये समन्तमुखपरिवर्तो नामावलोकितेश्वर-

विकुर्वणनिर्देशश्चतुर्विशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project