Digital Sanskrit Buddhist Canon

२३ गद्गदस्वरपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 23 gadgadasvaraparivartaḥ
२३ गद्गदस्वरपरिवर्तः।



अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां महापुरुषलक्षणाद् भ्रूविवरान्तरादूर्णाकोशात् प्रभां प्रमुमोच, यया प्रभया पूर्वस्यां दिशि अष्टादशगङ्गानदीवालिकासमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि आभया स्फुटान्यभूवन्। तानि च अष्टादशगङ्गानदीवालिकासमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य वैरोचनरश्मिप्रतिमण्डिता नाम लोकधातुः, तत्र कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति विपुलेनायुष्प्रमाणेन। विपुलेन बोधिसत्त्वसंघेन सार्धं परिवृतः पुरस्कृतो धर्मं देशयति स्म। अथ खलु या भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेनोर्णाकोशात् प्रभा प्रमुक्ताः, सा तस्यां वेलायां वैरोचनरश्मिप्रतिमण्डितां लोकधातुं महत्या आभया स्फरति स्म। तस्यां खलु पुनर्वैरोचनरश्मिप्रतिमण्डितायां लोकधातौ गद्गदस्वरो नाम बोधिसत्त्वो महासत्त्वः प्रतिवसति स्म अवरोपितकुशलमूलः। दृष्टपूर्वाश्च तेन बहूनां तथागतानामर्हतां सम्यक्संबुद्धानामेवंरूपा रश्म्यवभासाः।



बहुसमाधिप्रतिलब्धश्च स गद्गदस्वरो बोधिसत्त्वो महासत्त्वः। तद्यथा ध्वजाग्रकेयूरसमाधिप्रतिलब्धः सद्धर्मपुण्डरीकसमाधिप्रतिलब्धो विमलदत्तसमाधिप्रतिलब्धो नक्षत्रराजविक्रीडितसमाधिप्रतिलब्धः अनिलम्भसमाधिप्रतिलब्धो ज्ञानमुद्रासमाधिप्रतिलब्धः चन्द्रप्रदीपसमाधिप्रतिलब्धः सर्वरुतकौशल्यसमाधिप्रतिलब्धः सर्वपुण्यसमुच्चयसमाधिप्रतिलब्धः प्रसादवतीसमाधिप्रतिलब्धः ऋद्धिविक्रीडितसमाधिप्रतिलब्धो ज्ञानोल्कासमाधिप्रतिलब्धो व्यूहराजसमाधिप्रतिलब्धो विमलप्रभाससमाधिप्रतिलब्धो विमलगर्भसमाधिप्रतिलब्धोऽप्कृत्स्नसमाधिप्रतिलब्धः सूर्यावर्तसमाधिप्रतिलब्धः।



पेयालं यावद् गङ्गानदीवालिकोपमसमाधिकोटीनयुतशतसहस्रप्रतिलब्धो गद्गदस्वरो बोधिसत्त्वो महासत्त्वः। तस्य खलु पुनर्गद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य सा प्रभा काये निपतिताभूत्। अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य तं भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्-गमिष्याम्यहं भगवंस्तां सहां लोकधातुं तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं दर्शनाय वन्दनाय पर्युपासनाय, तं च मञ्जुश्रियं कुमारभूतं दर्शनाय, तं च भैषज्यराजं बोधिसत्त्वं दर्शनाय, तं च प्रदानशूरं बोधिसत्त्वं दर्शनाय, तं च नक्षत्रराजसंकुसुमिताभिज्ञं बोधिसत्त्वं दर्शनाय, तं च विशिष्टचारित्रं बोधिसत्त्वं दर्शनाय, तं च व्यूहराजं बोधिसत्त्वं दर्शनाय, तं च भैषज्यराजसमुद्गतं बोधिसत्त्वं दर्शनाय॥



अथ खलु भगवान् कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं गद्गदस्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्-न त्वया कुलपुत्र तस्यां सहायां लोकधातौ गत्वा हीनसंज्ञोत्पादयितव्या। सा खलु पुनः कुलपुत्र लोकधातुरुत्कूलनिकूलामृन्मयी कालपर्वताकीर्णा गूथोडिल्लपरिपूर्णा। स च भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धो ह्रस्वकायः, ते च बोधिसत्त्वा ह्रस्वकायाः। तव च कुलपुत्र द्वाचत्वारिंशद्योजनशतसहस्राण्यात्मभावप्रतिलाभः। मम च कुलपुत्र अष्टषष्टियोजनशतसहस्राण्यात्मभावप्रतिलाभः। त्वं च कुलपुत्र प्रासादिको दर्शनीयोऽभिरूपः, परमशुभवर्णपुष्करतया समन्वागतः, पुण्यशतसहस्रातिरेकलक्ष्मीकः। तस्मात्तर्हि कुलपुत्र तां सहां लोकधातुं गत्वा मा हीनसंज्ञामुत्पादयिष्यसि तथागते च बोधिसत्त्वेषु च तस्मिंश्च बुद्धक्षेत्रे॥



एवमुक्ते गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तं भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्-तथाहं भगवन् करिष्ये, यथा तथागत आज्ञापयति। गमिष्याम्यहं भगवंस्तां सहां लोकधातुं तथागताधिष्ठानेन तथागतबलाधानेन तथागतविक्रीडितेन तथागतव्यूहेन तथागताभ्युद्गतज्ञानेन। अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामनुच्चलित एव तस्माद् बुद्धक्षेत्रादनुत्थितश्चैव तस्मादासनात् तथारूपं समाधिं समापद्यते स्म, यस्य समाधेः समनन्तरसमापन्नस्य गद्गदस्वरस्य बोधिसत्त्वस्य अथ तावदेवेह सहायां लोकधातौ गृध्रकूटे पर्वते तस्य तथागतधर्मासनस्य पुरस्ताच्चतुरशीतिपद्मकोटीनयुतशतसहस्राणि प्रादुर्भूतान्यभूवन् सुवर्णदण्डानि रुप्यपत्राणि पद्मकिंशुकर्वणानि संदृश्यन्ते स्म॥



अथ खलु मञ्जुश्रीः कुमारभूतस्तं पद्मव्यूहप्रादुर्भावं दृष्ट्वा भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्-कस्येदं भगवन् पूर्वनिमित्तं येनेमानि चतुरशीतिपद्मकोटीनयुतशतसहस्राणि संदृश्यन्ते स्म सुवर्णदण्डानि रूप्यपत्राणि पद्मकिंशुकवर्णानि? एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-एष मञ्जुश्रीः पूर्वस्माद्दिग्भागाद्वैरोचनरश्मिप्रतिमण्डिताया लोकधातोस्तस्य भगवतः कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्राद् गद्गदस्वरो बोधिसत्वो महासत्त्वश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृत इमां सहां लोकधातुमागच्छति मम दर्शनाय वन्दनाय पर्युपासनाय, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय। अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्-कस्तेन भगवन् कुलपुत्रेण कुशलसंभारः कृतः, येन स कुशलसंभारेण कृतेनोपचितेन अयं विशेषः प्रतिलब्धः? कतमस्मिंश्च भगवन् समाधौ स बोधिसत्त्वश्चरति? तं वयं भगवन् समाधिं शृणुयाम, तत्र य वयं भगवन् समाधौ चरेम। तं च वयं भगवन् बोधिसत्त्वं महासत्त्वं पश्येम, कीदृशस्तस्य बोधिसत्त्वस्य वर्णः, कीदृग् रूपम्, कीदृग् लिङ्गम्, कीदृकू संस्थानम्, कोऽस्याचार इति। तत्साधु भगवन् करोतु तथागतस्तथारूपं निमित्तं येन निमित्तेन संचोदितः समानः स बोधिसत्त्वो महासत्त्व इमां सहां लोकधातुमागच्छेत्॥



अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतमेतदवोचत्-करोतु भगवांस्तथारूपं निमित्तं येन गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमां सहां लोकधातुमागच्छेत्। अथ खलु भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतस्तस्यां वेलायां तथारूपं निमित्तं प्रादुश्चकारगद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य संचोदनार्थम्-आगच्छ कुलपुत्र इमां सहां लोकधातुम्। अयं तु मञ्जुश्रीः कुमारभूतो दर्शनमभिनन्दति। अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तस्य भगवतः कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य सार्धं तैश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतस्तस्या वैरोचनरश्मिप्रतिमण्डिताया लोकधातोरन्तर्हितः इमां सहां लोकधातुमागच्छति स्म, प्रकम्पद्भिः क्षेत्रैः, प्रवर्षद्भिः पद्मैः, प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः, नीलोत्पलपद्मनेत्रेण वदनेन, सुवर्णवर्णेन कायेन, पुण्यशतसहस्रालंकृतेनात्मभावेन, श्रिया जाज्वल्यमानः, तेजसा देदीप्यमानः, लक्षणैर्विचित्रितगात्रो नारायणसंहननकायः। सप्तरत्नमयं कूटागारमभिरुह्य वैहायसे सप्ततालमात्रेण बोधिसत्त्वगणपरिवृतः पुरस्कृत आगच्छति स्म।



स येनेयं सहा लोकधातुः, येन च गृध्रकूटः पर्वतराजस्तेनोपसंक्रामत्। उपसंक्रम्य तस्मात् कूटागारादवतीर्य शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा येन भगवांस्तेनोपसंक्रामत्। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य सप्तकृत्वः प्रदक्षिणीकृत्य तं मुक्ताहारं भगवतः पूजाकर्मणे निर्यातयामास। निर्यात्य च भगवन्तमेतदवोचत्-कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञो भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो भगवतः परिपृच्छति अल्पाबाधताम् आल्पतङ्कतां लघूत्थानतां यात्रां बलं सुखसंस्पर्शविहारताम्। एवं च स भगवानवोचत्-कच्चित्ते भगवन् क्षमणीयम्, कच्चिद् यापनीयम्, कच्चिद्धातवः प्रतिकुर्वन्ति, कच्चित्ते सत्त्वाः स्वाकाराः सुवैनेयाः सुचिकित्साः, कच्चिच्छुचिकाया मा अतीव रागचरिताः, मा अतीव द्वेषचरिता मा अतीव मोहचरिता मा अतीव भगवन् सत्त्वा ईर्ष्यालुका मा मत्सरिणो मा अमातृज्ञा मा अपितृज्ञा मा अश्रामण्य मा अब्राह्मण्या मा मिथ्यादृष्ट्यो मा अदान्तचित्ता मा अगुप्तेन्द्रियाः। कच्चित्ते भगवन् निहतमारप्रत्यर्थिका एते सत्त्वाः। कच्चिद् भगवन् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः इमां सहां लोकधातुमागतो धर्मश्रवणाय सप्तरत्नमये स्तूपे मध्यगतः। तं च भगवन्तं तथागतर्महन्तं सम्यक्संबुद्धं स भगवान् परिपृच्छति-कच्चिद्भगवंस्तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य क्षमणीयम्, कच्चिद् यापनीयम्, कच्चिद् भगवन् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धश्चिरं स्थास्यति। वयमपि भगवंस्तस्य प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुविग्रहं पश्येम। तत्साधु भगवान् दर्शयतु तथागतस्तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुविग्रहमिति॥



अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतमेतदवोचत्-अयं भगवन् गद्गदस्वरो बोधिसत्त्वो महासत्त्वो भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं द्रष्टुकामः। अथ खलु भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं गद्गदस्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्-साधु साधु कुलपुत्र, यत्र हि नाम त्वं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं द्रष्टुकामोऽभ्यागतः, इमं च सद्धर्मपुण्डरीकं धर्मपर्याय श्रावणाय मञ्जुश्रियं च कुमारभूतं दर्शनायेति॥



अथ खलु पद्मश्रीर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-कीदृशं भगवन् गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन पूर्वं कुशलमूलमवरोपितम्, कस्य वा तथागतस्यान्तिके? अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः पद्मश्रियं बोधिसत्त्वं महासत्त्वमेतदवोचत्-भूतपूर्वं कुलपुत्र अतीतेऽध्वनि असंख्येये कल्पे असंख्येयतरे विपुले अप्रमेये अप्रमाणे यदासीत्। तेन कालेन तेन समयेन मेघदुन्दुभिस्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् सर्वरूपसंदर्शनायां लोकधातौ प्रियदर्शने कल्पे। तस्य खलु पुनः कुलपुत्र भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन तूर्यशतसहस्रप्रवादितेन द्वादशवर्षशतसहस्राणि पूजा कृताभूत्। सप्तरत्नमयानां च भाजनानां चतुरशीतिसहस्राणि दत्तान्यभूवन्। तत्र कुलपुत्र मेघदुन्दुभिस्वरराजस्य तथागतस्य प्रवचने गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन इयमीदृशी श्रीः प्राप्ता। स्यात् खलु पुनस्ते कुलपुत्र काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्यः स तेन कालेन तेन समयेन गद्गदस्वरो नाम बोधिसत्त्वो महासत्त्वोऽभूत्, येन सा तस्य भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजा कृता, तानि चतुरशीतिभाजनसहस्राणि दत्तानि? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम्। तत्कस्य हेतोः? अयमेव स कुलपुत्र गद्गदस्वरो बोधिसत्त्वो महासत्त्वोऽभूत्, येन सा तस्य भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजा कृता, तानि चतुरशितिभाजनसहस्राणि दत्तानि। एवं बहुबुद्धपर्युपासितः कुलपुत्र गद्गदस्वरो बोधिसत्त्वो महासत्त्वः बहुबुद्धशतसहस्रावरोपितकुशलमूलः कृतबुद्धपरिकर्मा।



दृष्टपूर्वाश्चानेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन गङ्गानदीवालिकासमा बुद्धा भगवन्तः। पश्यसि त्वं पद्मश्रीरेतं गद्गदस्वरं बोधिसत्त्वं महासत्त्वम्? पद्मश्रीराह-पश्यामि भगवन्, पश्यामि सुगत। भगवानाह-एष खलु पुनः पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वो बहुभी रूपैरिमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयति स्म। तद्यथा-क्वचिद् ब्रह्मरूपेण, क्वचिद् रूद्ररूपेण, क्वचिच्छक्र‍रूपेण, क्वचिदीश्वररूपेण, क्वचित् सेनापतिरूपेण, क्वचिद् वैश्रवणरूपेण, क्वचिच्चक्रवर्तिरूपेण, क्वचित् कोट्टराजरूपेण, क्वचिच्छ्रेष्ठिरूपेण, क्वचिद् गृहपतिरूपेण, क्वचिन्नैगमरूपेण, क्वचिद् ब्राह्मणरूपेण इमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयति स्म। क्वचिद् भिक्षुरूपेण, क्वचिद् भिक्षुणीरूपेण, क्वचिदुपासकरूपेण, क्वचिदुपासिकारूपेण क्वचिच्छ्रेष्ठिभार्यारूपेण, क्वचिद् गृहपतिभार्यारूपेण, क्वचिन्नैगमभार्यारूपेण, क्वचिद्दारकरूपेण, क्वचिद्दारिकारूपेण, गद्गदस्वरो बोधिसत्त्वो महासत्त्वः इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म। इयद्भिः कुलपुत्र रूपसंदर्शनैर्गद्गदस्वरो बोधिसत्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म। यावत् केषांचिद् यक्षरूपेण गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म। केषांचित् सुररूपेण, केषांचिद् गरूडरूपेण, केषांचित् किन्नररूपेण, केषांचिन्महोरगरूपेण गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म।



यावन्निरयतिर्यग्योनियमलोकाक्षणोपपन्नानामपि सत्त्वानां गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयंस्त्राता भवति। यावदन्तःपुरमध्यगतानामपि सत्त्वानां गद्गदस्वरो बोधिसत्त्वो महासत्त्वः स्त्रीरूपमभिनिर्माय इम सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म। अस्यां सहायां लोकधातौ सत्त्वानां धर्मं देशयति स्म। त्राता खल्वपि पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वः सहायां लोकधातावुपपन्नानां सत्त्वानाम्। तस्यां च सहायां लोकधातावेव स गद्गदस्वरो बोधिसत्त्वो महासत्त्व इयद्भी रूपनिमित्तैरिमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति। न चास्य सत्पुरुषस्य ऋद्धिहानिर्नापि प्रज्ञाहानिः। इयद्भिः कुलपुत्र ज्ञानावभासैर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातौ प्रज्ञायते। अन्येषु च गङ्गानदीवालिकासमेषु लोकधातुषु बोधिसत्त्ववैनेयानां सत्त्वानां बोधिसत्त्वरूपेण धर्मं देशयति। श्रावकवैनेयानां सत्त्वानां श्रावकरूपेण धर्मं देशयति। प्रत्येकबुद्धवैनेयानां सत्त्वानां प्रत्येकबुद्धरूपेण धर्मं देशयति। तथागतवैनेयानां सत्त्वानां तथागतरूपेण धर्मं देशयति। यावत्तथागतधातुवैनेयानां सत्त्वानां तथागतधातुं दर्शयति। यावत् परिनिर्वाणवैनेयानां सत्त्वानां परिनिर्वृतमात्मानं दर्शयति। एवं ज्ञानबलाधानप्राप्तः खलु पुनः पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वः॥



अथ खलु पद्मश्रीर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-अवरोपितकुशलमूलोऽयं भगवन् गद्गदस्वरो बोधिसत्त्वो महासत्त्वः। कतम एष भगवन् समाधिर्यस्मिन् समाधाववस्थितेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन इयन्तः सत्त्वा विनीता इति? एवमुक्ते भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः पद्मश्रियं बोधिसत्त्वं महासत्त्वमेतदवोचत्- एष हि कुलपुत्र सर्वरूपसंदर्शनो नाम समाधिः। अस्मिन् समाधाववस्थितेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन एवमप्रमेयः सत्त्वार्थः कृतः॥



अस्मिन् खलु पुनर्गद्गदस्वरपरिवर्ते निर्दिश्यमाने यानि गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन सार्धं चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणि इमां सहां लोकधातुमागतानि, सर्वेषां तेषां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भोऽभूत्। अस्यां च सहायां लोकधातौ गणनासमतिक्रान्तानां बोधिसत्त्वानां महासत्त्वानां येषां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भोऽभूत्॥



अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वो भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य तस्य च भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुस्तूपे विपुलां विस्तीर्णां पूजां कृत्वा पुनरपि सप्तरत्नमये कूटागारेऽभिरुह्य प्रकम्पद्भिः क्षेत्रैः प्रवर्षद्भिः पद्मैः प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः सार्धं तैश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतः पुनरपि स्वं बुद्धक्षेत्रमभिगतः। समभिगम्य च तं भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्-कृतो मे भगवन् सहायां लोकधातौ सत्त्वार्थः। तस्य च भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुस्तूपो दृष्टः वन्दितश्च। स च भगवान् शाक्यमुनिस्तथागतो दृष्टो वन्दितश्च। स च मञ्जुश्रीः कुमारभूतो दृष्टः। स च भैषज्यराजो बोधिसत्त्वो महासत्त्वो वीर्यबलबेगप्राप्तः, स च प्रदानशूरो बोधिसत्त्वो महासत्त्वो दृष्टः। सर्वेषां च तेषां चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भोऽभूत्॥



अस्मिन् खलु पुनर्गद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य गमनागमनपरिवर्ते भाष्यमाणे द्वाचत्वारिंशतां बोधिसत्त्वसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भोऽभूत्। पद्मश्रियश्च बोधिसत्त्वस्य महासत्त्वस्य सद्धर्मपुण्डरीकस्य समाधेः प्रतिलम्भोऽभूत्॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये गद्गदस्वरपरिवर्तो नाम त्रयोविंशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project