Digital Sanskrit Buddhist Canon

२१ धारणीपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 21 dhāraṇīparivartaḥ
२१ धारणीपरिवर्तः।



अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् कियद् भगवन् स कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवेत्, य इमं सद्धर्मपुण्डरीकं धर्मपर्यायं धारयेत्, कायगतं वा पुस्तकगतं वा कृत्वा? एवमुक्ते भगवान् भैषज्यराजं बोधिसत्त्वं महासत्त्वमेतदवोचत्-यः कश्चिद् भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अशीतिगङ्गानदीवालिकासमानि तथागतकोटीनयुतशतसहस्राणि सत्कुर्याद् गुरुकुर्यान्मानयेत् पूजयेत्, तकिं मन्यसे भैषज्यराज कियत्कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? भैषज्यराजो बोधिसत्त्वो महासत्त्व आह-बहु भगवन्, बहु सुगत। भगवानाह-आरोचयामि ते भैषज्यराज, प्रतिवेदयामि। यः कश्चिद् भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अस्मात् सद्धर्मपुण्डरीकाद्धर्मपर्यायादन्तश एकामपि चतुष्पदीगाथां धारयेत्, वाचयेत्, पर्यवाप्नुयात्, प्रतिपत्त्या च संपादयेत्, अतः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्॥



अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां भगवन्तमेतदवोचत्-दास्यामो वयं भगवंस्तेषां कुलपुत्राणां कुलदुहितृणां वा येषामयं सद्धर्मपुण्डरीको धर्मपर्यायः कायगतो वा स्यात्, पुस्तकगतो वा, रक्षावरणगुप्तये धारणीमन्त्रपदानि। तद्यथा—



अन्ये मन्ये मने ममने चित्ते चरिते समे समिता विशान्ते मुक्ते मुक्ततमे समे अविषमे समसमे जये क्षये अक्षये अक्षिणे शान्ते समिते धारणि आलोकभाषे प्रत्यवेक्षणि निधिरु अभ्यन्तरनिविष्टे अभ्यन्तरपारिशुद्धिमुत्कुले अरडे परडे सुकाङ्क्षि असमसमे बुद्धविलोकिते धर्मपरीक्षिते संघनिर्घोषणि निर्घोणि भयाभयविशोधनि मन्त्रे मन्त्राक्षयते रुते रुतकौशल्ये अक्षये अक्षयवनताये वक्कुले वलोड्र अमन्यनताये स्वाहा॥



इमानि भगवन् मन्त्रधारणीपदानि द्वाषष्टिभिर्गङ्गानदीवालिकासमैर्बुद्धैर्भगवद्भिर्भाषितानि। ते सर्वे बुद्धा भगवन्तस्तेन द्रुग्धाः स्युः, य एवंरुपान् धर्मभाणकानेवंरूपान् सूत्रान्तधारकानतिक्रामेत्॥



अथ खलु भगवान् भैषज्यराजाय बोधिसत्त्वाय महासत्त्वाय साधुकारमदात् साधु साधु भैषज्यराज, सत्त्वानामर्थः कृतः। धारणीपदानि भाषितानि सत्त्वानामनुकम्पामुपादय। रक्षावरणगुप्तिः कृता॥



अथ खलु प्रदानशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-अहमपि भगवन् एवंरूपाणां धर्मभाणकानामर्थाय धारणीपदानि दास्यामि, यत्तेषामेवंरूपाणां धर्मभाणकानां न कश्चिदवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते। तद्यथा यक्षो वा राक्षसो वा पूतनो वा कृत्यो वा कुम्भाण्डो वा प्रेतो वा अवतारप्रेक्षी अवतारगवेषी अवतारं न लप्स्यत इति॥



अथ खलु प्रदानशूरो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमानि धारणीमन्त्रपदानि भाषते स्म। तद्यथा—



ज्वले महाज्वले उक्के तुक्के मुक्के अडे अडावति नृत्ये नृत्यावति इट्टिनि विट्टिनि चिट्टिनि नृत्यनि नृत्यावति स्वाहा॥



इमानि भगवन् धारणीपदानि गङ्गानदीवालिकासमैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्भाषितानि, अनुमोदितानि च। ते सर्वे तथागतास्तेन द्रुग्धाः स्युः, यस्तानेवंरूपान् धर्मभाणकानतिक्रमेत॥



अथ खलु वैश्रवणो महाराजो भगवन्तमेतदवोचत्-अहमपि भगवन् धारणीपदानि भाषिष्ये तेषां धर्मभाणकानां हिताय सुखाय अनुकम्पायै रक्षावरणगुप्तये॥ तद्यथा—



अट्टे तट्टे नट्टे वनट्टे अनडे नाडि कुनडि स्वाहा॥



एभिर्भगवन् धारणीपदैस्तेषां धर्मभाणकानां पुद्गलानां रक्षां करोमि, योजनशताच्चाहं तेषां कुलपुत्राणां कुलदुहितृणां च एवंरूपाणां सूत्रान्तधारकाणां रक्षा कृता भविष्यति, स्वस्त्ययनं कृतं भविष्यति॥



अथ खलु विरूढको महाराजो तस्यामेव पर्षदि संनिपतितोऽभूत् संनिषण्णश्च कुम्भाण्डकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतः। स उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्-अहमपि भगवन् धारणीपदानि भाषिष्ये बहुजनहिताय। तेषां च तथारूपाणां धर्मभाणकानामेवंरूपाणां सूत्रान्तधारकाणां रक्षावरणगुप्तये धारणीमन्त्रपदानि। तद्यथा—



अगणे गणे गौरि गन्धारि चण्डालि मातङ्गि पुक्कसि संकुले व्रूसलि सिसि स्वाहा॥

इमानि तानि भगवन् धारणीमन्त्रपदानि, यानि द्वाचत्वारिंशद्भिर्बुद्धकोटीभिर्भाषितानि। ते सर्वे तेन द्रुग्धाः स्युः, यस्तानेवंरूपान् धर्मभाणकानतिक्रमेत॥



अथ खलु लम्बा च नाम राक्षसी विलम्बा च नाम राक्षसी कूटदन्ती च नाम राक्षसी पुष्पदन्ती च नाम राक्षसी मकुटदन्ती च नाम राक्षसी केशिनी च नाम राक्षसी अचला च नाम राक्षसी मालाधारी च नाम राक्षसी कुन्ती च नाम राक्षसी सर्वसत्त्वोजोहारी च नाम राक्षसी हारीती च नाम राक्षसी सपुत्रपरिवारा एताः सर्वा राक्षस्यो येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य सर्वास्ता राक्षस्य एकस्वरेण भगवन्तमेतदवोचन्-वयमपि भगवंस्तेषामेवंरूपाणां सूत्रान्तधारकाणां धर्मभाणकानां रक्षावरणगुप्तिं करिष्यामः, स्वस्त्ययनं च करिष्यामः। यथा तेषां धर्मभाणकानां न कश्चिदवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यतीति॥



अथ खलु ताः सर्वा राक्षस्य एकस्वरेण समं संगीत्या भगवत इमानि धारणीमन्त्रपदानि प्रयच्छन्ति स्म। तद्यथा—



इति मे इति मे इति मे इति मे इति मे। निमे निमे निमे निमे निमे। रुहे रुहे रुहे रुहे रुहे। स्तुहे स्तुहे स्तुहे स्तुहे स्तुहे स्वाहा॥



इमं शीर्षं समारुह्य मा कश्चिद् द्रोही भवतु धर्मभाणकानां यक्षो वा राक्षसो वा प्रेतो वा पिशाचो वा पूतनो वा कृत्यो व वेतालो वा कुम्भाण्डो वा स्तब्धो वा ओमारको वा ओस्तारको वा अपस्मारको वा यक्षकृत्यो वा अमनुष्यकृत्यो वा मनुष्यकृत्यो वा एकाहिको वा द्वैतीयको वा त्रैतीयको वा चतुर्थको वा नित्यज्वरो वा विषमज्वरो वा। अन्तशः स्वप्नान्तरगतस्यापि स्त्रीरूपाणि वा पुरुषरूपाणि वा दारकरूपाणि वा दारिकारूपाणि वा विहेठां कुर्युः, नेदं स्थानं विद्यते॥



अथ खलु ता राक्षस्य एवस्वरेण समं संगीत्या भगवन्तमाभिर्गाथाभिरध्यभाषन्त—



सप्तधास्य स्फुटेन्मूर्धा अर्जकस्येव मञ्जरी।

य इमं मन्त्र श्रुत्वा वै अतिक्रमेद्धर्मभाणकम्॥१॥



या गतिर्मातृघातीनां पितृघातीन या गतिः।

तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत्॥२॥



या गतिस्तिलपीडानां तिलकूटानां च या गतिः।

तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत्॥३॥



या गतिस्तुलकूटानां कांस्यकूटान या गतिः।

तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत्॥४॥



एवमुक्त्वा ताः कुन्तिप्रमुखा राक्षस्यो भगवन्तमेतदूचुः-वयमपि भगवंस्तेषामेवंरूपाणां धर्मभाणकानां रक्षां करिष्यामः, स्वस्त्ययनं दण्डपरिहारं विषदूषणं करिष्याम इति। एवमुक्ते भगवांस्ता राक्षस्य एतदवोचत्-साधु साधु भगिन्यः। यद् यूयं तेषां धर्मभाणकानां रक्षावरणगुप्तिं करिष्यध्वे येऽस्य धर्मपर्यायस्य अन्तशो नामधेयमात्रमपि धारयिष्यन्ति। कः पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्तं धारयिष्यन्ति, पुस्तकगतं वा सत्कुर्युः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिस्तैलप्रदीपैर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वा चम्पकतैलप्रदीपैर्वा वार्षिकतैलप्रदीपैर्वा उत्पलतैलप्रदीपैर्वा सुमनातैलप्रदीपैर्वा ईद्दशैर्बहुविधैः पूजाविधानशतसहस्रैः सत्करिष्यन्ति गुरुकरिष्यन्ति, ते त्वया कुन्ति सपरिवारया रक्षितव्याः॥



अस्मिन् खलु पुनर्धारणीपरिवर्ते निर्दिश्यमाने अष्टाषष्टीनां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभोऽभूत्॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धारणीपरिवर्तो नामैकविंशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project