Digital Sanskrit Buddhist Canon

१८ धर्मभाणकानुशंसापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

18 dharmabhāṇakānuśaṁsāparivartaḥ

१८ धर्मभाणकानुशंसापरिवर्तः।



अथ खलु भगवान् सततसमिताभियुक्तं बोधिसत्त्वं महासत्त्वमामन्त्रयामास-यः कश्चित् कुलपुत्र इमं धर्मपर्यायं धारयिष्यति वाचयिष्यति वा देशयिष्यति वा लिखिष्यति व, स कुलपुत्रो वा कुलदुहिता व अष्टौ चक्षुर्गुणशतानि प्रतिलप्स्यते, द्वादश श्रोत्रगुणशतानि प्रतिलप्स्यते, अष्टौ घ्राणगुणशतानि प्रतिलप्स्यते, द्वादश जिह्वागुणशतानि प्रतिलप्स्यते, अष्टौ कायगुणशतानि प्रतिलप्स्यते, द्वादश मनोगुणशतानि प्रतिलप्स्यते। तस्यैभिर्बहुभिर्गुणशतैः षडिन्द्रियग्रामः परिशुद्धः सुपरिशुद्धो भविष्यति। स एवं परिशुद्धेन चक्षुरिन्द्रियेण प्राकृतेन मांसचक्षुषा मातापितृसंभवेन त्रिसाहस्रमहासाहस्रां लोकधातुं सान्तर्बहिः सशैलवनषण्डामधो यावदवीचिमहानिरयमुपादाय उपरि च यावत् भवाग्रं तत् सर्वं द्रक्ष्यति प्राकृतेन मांसचक्षुषा। ये च तस्मिन् सत्त्वा उपपन्नाः, तान् सर्वान् द्रक्ष्यति, कर्मविपाकं च तेषां ज्ञास्यतीति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



य इमं सूत्र भाषेत पर्षासु च विशारदः।

अनोलीनः प्रकाशेया गुणांस्तस्य शृणुष्व मे॥१॥



अष्टौ गुणशतास्तस्य चक्षुषो भोन्ति सर्वशः।

येनास्य विमलं भोति शुद्धं चक्षुरनाविलम्॥२॥



स मांसचक्षुषा तेन मातापितृकसंभुना।

पश्यते लोकधात्वेमां सशैलवनकाननाम्॥३॥



मेरुं सुमेरु सर्वा च चक्रवाला स पश्यति।

ये चान्ये पर्वताः खण्डाः समुद्रांश्चापि पश्यति॥४॥



यावानवीचि हेष्ठेन भवाग्रं चोपरिष्टतः।

सर्वं स पश्यते धीरो मांसचक्षुस्य ईदृशम्॥५॥



न ताव दिव्यचक्षु स्य भोति नो चापि जायते।

विषयो मांसचक्षुस्य भवेत्तस्यायमीदृशः॥६॥



पुनरपरं सततसमिताभियुक्त स कुलपुत्रो वा कुलदुहिता वा इमं धर्मपर्यायं संप्रकाशयमानः परेषां च संश्रावयमानस्तैर्द्वादशभिः श्रोत्रगुणशतैः समन्वागतः ये त्रिसाहस्रमहासाहस्रायां लोकधातौ विविधाः शब्दा निश्चरन्ति यावदवीचिर्महानिरयो यावच्च भवाग्रं सान्तर्बहिः, तद्यथा-हस्तिशब्दा वा अश्वशब्दा वा उष्ट्रशब्दा वा गोशब्दा वा अजशब्दा वा जनपदशब्दा वा रथशब्दा वा रुदितशब्दा वा शोकशब्दा वा भैरवशब्दा वा शङ्खशब्दा वा घण्टाशब्दा वा पटहशब्दा वा भेरीशब्दा वा क्रीडाशब्दा वा गीतशब्दा वा नृत्यशब्दा वा तूर्यशब्दा वा वाद्यशब्दा वा स्त्रीशब्दा वा पुरुषशब्दा वा दारकशब्दा वा दारिकाशब्दा वा धर्मशब्दा वा अधर्मशब्दा वा सुखशब्दा वा दुःखशब्दा वा बालशब्दा वा आर्यशब्दा वा मनोज्ञशब्दा वा अमनोज्ञशब्दा वा देवशब्दा वा नागशब्दा वा यक्षशब्दा वा राक्षसशब्दा वा गन्धर्वशब्दा वा असुरशब्दा वा गरुडशब्दा वा किन्नरशब्दा वा महोरगशब्दा वा मनुष्यशब्दा वा अमनुष्यशब्दा वा अग्निशब्दा वा वायुशब्दा वा उदकशब्दा वा ग्रामशब्दा वा नगरशब्दा वा भिक्षुशब्दा वा श्रावकशब्दा वा प्रत्येकबुद्धशब्दा वा बोधिसत्त्वशब्दा वा तथागतशब्दा वा, यावन्तः केचित्रिसाहस्रमहासाहस्रायां लोकधातौ सान्तर्बहिः शब्दा निश्चरन्ति, तान् शब्दांस्तेन प्राकृतेन परिशुद्धेन श्रोत्रेन्द्रियेण शृणोति। न च तावद्दिव्यं श्रोत्रमभिनिर्हरति। तेषां तेषां च सत्त्वानां रुतान्यवबुध्यते, विभावयति विभजति तेन च प्राकृतेन श्रोत्रेन्द्रियेण। तेषां तेषां च सत्त्वानां रुतानि शृण्वतस्तस्य तैः सर्वशब्दैः श्रोत्रेन्द्रियं नाभिभूयते। एवंरूपः सततसमिताभियुक्त तस्य बोधिसत्त्वस्य महासत्त्वस्य श्रोत्रेन्द्रियप्रतिलम्भो भवति, न च तावद्दिव्यं श्रोत्रमभिनिर्हरति॥



इदमवोचद्भगवान्। इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता—



श्रोत्रेन्द्रियं तस्य विशुद्धु भोति

अनाविलं प्राकृतकं च तावत्।

विविधान् हि येनेह शृणोति शब्दा-

निह लोकधातौ हि अशेषतोऽयम्॥७॥



हस्तीन अश्वान शृणोति शब्दान्

रथान गोणान अजैडकानाम्।

भेरीमृदङ्गान सुघोषकानां

वीणान वेणूनथ वल्लकीनाम्॥८॥



गीतं मनोज्ञं मधुरं शृणोति

न चापि सो सज्जति तत्र धीरः।

मनुष्यकोटीन शृणोति शब्दान्

भाषन्ति यं यं च यहिं यहिं ते॥९॥



देवान चो नित्य शृणोति शब्दान्

गीतस्वरं च मधुरं मनोज्ञम्।

पुरुषाण इस्त्रीण रुतानि चापि

तथ दारकाणामथ दारिकाणाम्॥१०॥



ये पर्वतेष्वेव गुहानिवासी

कलविङ्कका कोकिल बर्हिणश्च।

पक्षीण ये जीवकजीवका हि

तेषां च वल्गू शृणुते हि शब्दान्॥११॥



नरकेषु ये वेदन वेदयन्ति

सुदारुणांश्चापि करोन्ति शब्दान्।

आहारदुःखैरवपीडितानां

यान् प्रेत कुर्वन्ति तथैव शब्दान्॥१२॥



असुराश्च ये सागरमध्यवासिनो

मुञ्चन्ति घोषांस्तथ चान्यमन्यान्।

सर्वानिहस्थो स हि धर्मभाणकः

शृणोति शब्दान्न च ओस्तरीयति॥१३॥



तिर्याण योनीषु रुतानि यानि

अन्योन्यसंभाषणतां करोन्ति।

इह स्थितस्तानपि सो शृणोति

विविधानि शब्दानि बहूविधानि॥१४॥



ये ब्रह्मलोके निवसन्ति देवा

अकनिष्ठ आभास्वर ये च देवाः।

ये चान्यमन्यस्य करोन्ति घोषान्

शृणोति तत्सर्वमशेषतोऽसौ॥१५॥



स्वाध्याय कुर्वन्तिह ये च भिक्षवः

सुगतानिह शासनि प्रव्रजित्वा।

पर्षासु ये देशयते च धर्मं

तेषां पि शब्दं शृणुते स नित्यम्॥१६॥



ये बोधिसत्त्वाश्चिह लोकधातौ

स्वाध्याय कुर्वन्ति परस्परेण।

संगीति धर्मेषु च ये करोन्ति

शृणोति शब्दान् विविधांश्च तेषाम्॥१७॥



भगवान् पि बुद्धो नरदम्यसारथिः

पर्षासु धर्मं ब्रुवते यमग्रम्।

तं चापि सो शृण्वन्ति एककाले

यो बोधिसत्त्वो इमु सूत्र धारयेत्॥१८॥



सर्वे त्रिसाहस्रि इमस्मि क्षेत्रे

ये सत्त्व कुर्वन्ति बहूं पि शब्दान्।

अभ्यन्तरेणापि च बाहिरेण

अवीचिपर्यन्त भवाग्रमूर्ध्वम्॥१९॥



सर्वेष सत्त्वान शृणोति शब्दान्

नं चापि क्षेत्रं उपरुध्यतेऽस्य।

पट्विन्द्रियो जानति स्थानस्थानं

श्रोत्रेन्द्रियं प्राकृतकं हि तावत्॥२०॥



न च ताव दिव्यस्मि करोति यत्नं

प्रकृत्य संतिष्ठति श्रोत्रमेतत्।

सूत्रं हि यो धारयते विशारदो

गुणा स्य एतादृशका भवन्ति॥२१॥



पुनरपरं सततसमिताभियुक्त अस्य बोधिसत्त्वस्य महासत्त्वस्य इमं धर्मपर्यायं धारयतः प्रकाशयतः स्वाध्यायतो लिखतोऽष्टाभिर्गुणशतैः समन्वागतं घ्राणेन्द्रियं परिशुद्धं भवति। स तेन परिशुद्धेन घ्राणेन्द्रियेण ये त्रिसाहस्रमहासाहस्रायां लोकधातौ सान्तर्बहिर्विविधगन्धाः संविद्यन्ते, तद्यथा-पूतिगन्धा वा मनोज्ञगन्धा वा नानाप्रकाराणां सुमनसां गन्धाः, तद्यथा-जातिमल्लिकाचम्पकपाटलगन्धाः, तान् गन्धान् घ्रायति। जलजानामपि पुष्पाणां विविधान् गन्धान् घ्रायति, तद्यथा-उत्पलपद्मकुमुदपुण्डरीकाणां गन्धान् घ्रायति। विविधानां पुष्पफलवृक्षाणां पुष्पफलगन्धान् घ्रायति, तद्यथा-चन्दनतमालपत्रतगरागरुसुरभिगन्धान् घ्रायति। नानाविकाराणि गन्धविकृतिशतसहस्राणि यान्येकस्थानस्थितः सर्वाणि घ्रायति। सत्त्वानामपि विविधान् गन्धान् घ्रायति, तद्यथा-हस्त्यश्वगवेडकपशुगन्धान् घ्रायति। विविधानां च तिर्यग्योनिगतानां प्राणिनामात्मभावगन्धान् घ्रायति। स्त्रीपुरुषात्मभावगन्धान् घ्रायति। दारकदारिकात्मभावगन्धान् घ्रायति। दूरस्थानामपि तृणगुल्मौषधिवनस्पतीनां गन्धान् घ्रायति।



भूतान् गन्धान् वन्दति, न च तैर्गन्धैः संह्रियते, न संमुह्यति। स इहस्थित एव देवानामपि गन्धान् घ्रायति, तद्यथा-पारिजातकस्य कोविदारस्य मान्दारवमहामान्दारवमञ्जूषकमहामञ्जूषकानां दिव्यानां पुष्पाणां गन्धान् घ्रायति। दिव्यानामगरुचूर्णचन्दनचूर्णानां गन्धान् घ्रायति। दिव्यानां च नानाविधानां पुष्पविकृतिशतसहस्राणां गन्धान् घ्रायति, नामानि चैषां संजानीते। देवपुत्रात्मभावगन्धान् घ्रायति, तद्यथा-शक्रस्य देवानामिन्द्रस्य आत्मभावगन्धं घ्रायति। तं च जानीते यदि वा वैजयन्ते प्रासादे क्रीडन्तं रमन्तं परिचारयन्तं यदि वा सुधर्मायां देवसभायां देवानां त्रायस्त्रिंशानां धर्मं देशयन्तं यदि वा उद्यानभूमौ निर्यान्तं क्रीडनाय। अन्येषां च देवपुत्राणां पृथक्पृथगात्मभावगन्धान् घ्रायति। देवकन्यानामपि देववधूनामपि आत्मभावगन्धान् घ्रायति। देवकुमाराणामपि आत्मभावगन्धान् घ्रायति। देवकुमारिकाणामपि आत्मभावगन्धान् घ्रायति। न च तैर्गन्धैः संह्रियते। अनेन पर्यायेण यावद् भवाग्रोपपन्नानामपि सत्त्वानामात्मभावगन्धान् घ्रायति। ब्रह्मकायिकानामपि देवपुत्राणां महाब्रह्मणामपि चात्मभावगन्धान् घ्रायति। अनेन पर्यायेण सर्वदेवनिकायानामपि आत्मभावगन्धान् घ्रायति। श्रावकप्रत्येकबुद्धबोधिसत्त्वतथागतात्मभावगन्धान् घ्रायति। तथागतासनानामपि गन्धान् घ्रायति। यस्मिंश्च स्थाने ते तथागता अर्हन्तः सम्यक्संबुद्धा विहरन्ति, तच्च प्रजानाति। न चास्य तद् घ्राणेन्दियं तैस्तैर्विविधैर्गन्धैः प्रतिहन्यते, नोपहन्यते, न संपीड्यते। आकाङ्क्षमाणश्च तांस्तान् गन्धान् परेषामपि व्याकरोति। न चास्य स्मृतिरुपहन्यते॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



घ्राणेन्द्रियं तस्य विशुद्ध भोति

विविधांश्च गन्धान् बहु घ्रायतेऽसौ।

ये लोकधातौ हि इमस्मि सर्वे

सुगन्ध दुर्गन्ध भवन्ति केचित्॥२२॥



जातीय गन्धो अथ मल्लिकाया

तमालपत्रस्य च चन्दनस्य।

तगरस्य गन्धो अगरुस्य चापि

विविधान पुष्पाण फलान चापि॥२३॥



सत्त्वान गन्धान् पि तथैव जानति

नराण नारीण च दूरतः स्थितः।

कुमारकाणां च कुमारिकाणां

गन्धेन सो जानति तेष स्थानम्॥२४॥



राज्ञां पि सो जानति चक्रवर्तिनां

बलचक्रवर्तीनथ मण्डलीनाम्।

कुमारकामात्य तथैव तेषां

गन्धेन चान्तःपुर सर्व जानति॥२५॥



परिभोगरत्नानि बहूविधानि

कुप्यानि भूमौ निहितानि यानि।

स्त्रीरत्नभूतानि भवन्ति यापि

गन्धेन सो जानति बोधिसत्त्वः॥२६॥



तेषां च या आभरणा भवन्ति

कायस्मि आमुक्त विचित्ररूपा।

वस्त्रं च माल्यं च विलेपनं च

गन्धेन सो जानति बोधिसत्त्वः॥२७॥



स्थितां निषण्णां शयितां तथैव

क्रीडारतिं ऋद्धिबलं च सर्वम्।

सो जानती घ्राणबलेन धीरो

यो धारयेत् सूत्रमिदं वरिष्ठम्॥२८॥



सुगन्धतैलान तथैव गन्धान्

नानाविधान् पुष्पफलान गन्धान्।

सकृतस्थितो जानति घ्रायते च

अमुकस्मि देशस्मि इमस्मि गन्धान्॥२९॥



ये पर्वतानां विवरान्तरेषु

बहु चन्दना पुष्पित तत्र सन्ति।

ये चापि तस्मिन्निवसन्ति सत्त्वाः

सर्वेष गन्धेन विदुर्विजानति॥३०॥



ये चक्रवालस्य भवन्ति पार्श्वे

ये सागरस्यो निवसन्ति मध्ये।

पृथिवीय ये मध्यि वसन्ति सत्त्वाः

सर्वान् स गन्धेन विदुर्विजानति॥३१॥



सुरांश्च जानाति तथासुरांश्च

असुराण कन्याश्च विजानतेऽसौ।

असुराण क्रीडाश्च रतिं च जानति

घ्राणस्य तस्येदृशकं बलं हि॥३२॥



अटवीषु ये केचि चतुष्पदास्ति

सिंहाश्च व्याघ्रास्तथ हस्तिनागाः।

महिषा गवा ये गवयश्च तत्र

घ्राणेन सो जानति तेष वासम्॥३३॥



स्त्रियश्च या गुर्विणिका भवन्ति

कुमारकां वापि कुमारिकां वा।

धारेन्ति कुक्षौ हि किलान्तकाया

गन्धेन सो जानति यं तहिं स्यात्॥३४॥



आपन्नसत्त्वां पि विजानतेऽसौ

विनाशधर्मां पि विजानतेऽसौ।

इयं पि नारी व्यपनीतदुःखा

प्रसविष्यते पुण्यमयं कुमारम्॥३५॥



पुरुषाण अभिप्रायु बहुं विजानते

अभिप्रायगन्धं च तथैव घ्रायते।

रक्तान दुष्टान तथैव म्रक्षिणां

उपशान्तचित्तान च गन्ध घ्रायते॥३६॥



पृथिवीय ये चापि निधान सन्ति

घनं हिरण्यं च सुवर्णरूप्यम्।

मञ्जूष लोही च तथा सुपूर्णा

गन्धेन सो घ्रायति बोधिसत्त्वः॥३७॥



हारार्धहारान् मणिमुक्तिकाश्च

अनर्घप्राप्ता विविधा च रत्ना।

गन्धेन सो जानति तानि सर्वा

अनर्घनामं द्युतिसंस्थितं च॥३८॥



उपरिं च देवेषु तथैव पुष्पा

मन्दारवांश्चैव मञ्जूषकांश्च।

या पारिजातस्य च सन्ति पुष्पा

इह स्थितो घ्रायति ता स धीरः॥३९॥



विमान ये यादृशकाश्च यस्य

उदार हीनास्तथ मध्यमाश्च।

विचित्ररूपाश्च भवन्ति यत्र

इह स्थितो घ्राणबलेन घ्रायति॥४०॥



उद्यानभूमिं च तथा प्रजानते

सुधर्म देवासनि वैजयन्ते।

प्रासादश्रेष्ठे च तथा विजानते

ये चो रमन्ते तहि देवपुत्राः॥४१॥



इह स्थितो घ्रायति गन्धु तेषां

गन्धेन सो जानति देवपुत्रान्।

यो यत्र कर्मा कुरुते स्थितो वा

शेते वा गच्छति यत्र वापि॥४२॥



या देवकन्या बहुपुष्पमण्डिता

आमुक्तमाल्याभरणा अलंकृताः।

रमन्ति गच्छन्ति च यत्र यत्र

गन्धेन सो जानति बोधिसत्त्वः॥४३॥



यावद्भवाग्रादुपरिं च देवा

ब्रह्मा महाब्रह्म विमानचारिणः।

तांश्चापि गन्धेन तहिं प्रजानते

स्थितांश्च ध्याने अथ व्युत्थितान् वा॥४४॥



आभास्वरान् जानति देवपुत्रान्

च्युतोपपन्नांश्च अपूर्वकांश्च।

घ्राणेन्द्रियं ईदृश तस्य भोति

यो बोधिसत्त्वो इमु सूत्र धारयेत्॥४५॥



य केचि भिक्षू सुगतस्य शासने

अभियुक्तरूपा स्थित चक्रमेषु।

उद्देशस्वाध्यायरताश्च भिक्षवो

सर्वान् हि सो जानति बोधिसत्त्वः॥४६॥



ये श्रावका भोन्ति जिनस्य पुत्रा

विहरन्ति केचित् सद वृक्षमूले।

गन्धेन सर्वान् विदु जानते तान्

अमुत्र भिक्षू अमुको स्थितो ति॥४७॥



ये बोधिसत्त्वाः स्मृतिमन्त ध्यायिनो

उद्देशस्वाध्यायरताश्च ये सदा।

पर्षासु धर्मं च प्रकाशयन्ति

गन्धेन तान् जानति बोधिसत्त्वः॥४८॥



यस्यां दिशायां सुगतो महामुनि-

र्धर्मं प्रकाशेति हितानुकम्पकः।

पुरस्कृतः श्रावकसंघमध्ये

गन्धेन सो जानति लोकनाथम्॥४९॥



ये चापि सत्त्वा स्य शृणोति धर्मं

श्रुत्वा च ये प्रीतमना भवन्ति।

इह स्थितो जानति बोधिसत्त्वो

जिनस्य पर्षामपु तत्र सर्वाम्॥५०॥



एतादृशं घ्राणबलं स्य भोति

न च ताव दिव्यं भवते स्य घ्राणम्।

पूर्वंगमं तस्य तु एत भोति

दिव्यस्य घ्राणस्य अनास्रवस्य॥५१॥



पुनरपरं सततसमिताभियुक्त स कुलपुत्रो वा कुलदुहिता वा इमं धर्मपर्यायं धारयमाणो देशयमानः प्रकाशयमानो लिखमानस्तैर्द्वादशभिर्जिह्वागुणशतैः समन्वागतं जिह्वेन्द्रियं प्रतिलप्स्यते। स तथारूपेण जिह्वेन्द्रियेण यान् यान् रसानास्वादयति, यान् यान् रसान् जिह्वेन्द्रिये उपनिक्षेप्सति, सर्वे ते दिव्यं महारसं मोक्ष्यन्ते। तथा च आस्वादयिष्यति यथा न कंचिद् रसममनआपमास्वादयिष्यति। येऽपि अमनआपा रसास्तेऽपि तस्य जिह्वेन्द्रिये समुपनिक्षिप्ताः दिव्यं रसं मोक्ष्यन्ते। यं च धर्मं व्याहरिष्यति पर्षन्मध्यगतः, तेन तस्य ते सत्त्वाः प्रीणितेन्द्रिया भविष्यन्ति तुष्टाः परमतुष्टाः प्रामोद्यजाताः। मधुरश्चास्य वल्गुमनोज्ञस्वरो गम्भीरो निश्चरिष्यति हृदयंगमः प्रेमणीयः। तेनास्य ते सत्त्वास्तुष्टा उदग्रचित्ता भविष्यन्ति। येषां च धर्मं देशयिष्यति, ते चास्य मधुरनिर्घोषं श्रुत्वा वल्गुमनोज्ञं देवा अप्युपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवनाय च। देवपुत्रा अपि देवकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च।



शक्रा अपि ब्रह्माणोऽपि ब्रह्मकायिका अपि देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च। नागा नागकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च। असुरा असुरकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च। गरूडा गरूडकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च। किन्नराः किन्नरकन्या अपि, महोरगा महोरगकन्या अपि, यक्षा यक्षकन्या अपि, पिशाचाः पिशाचकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च। ते चास्य सत्कारं करिष्यन्ति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यन्ति। भिक्षुभिक्षुण्युपासकोपासिका अपि दर्शनकामा भविष्यन्ति। राजानोऽपि राजपुत्रा अपि राजामात्या अपि राजमहामात्रा अपि दर्शनकामा भविष्यन्ति। बलचक्रवर्तिनोऽपि राजानः, चक्रवर्तिनोऽपि सप्तरत्नसमन्वागताः सकुमाराः सामात्याः सान्तःपुरपरिवारा दर्शनकामा भविष्यन्ति सत्कारार्थिनः। तावन्मधुरं स धर्मभाणको धर्मं भाषिष्यते यथाभूतं यथोक्तं तथागतेन। अन्येऽपि ब्राह्मणगृहपतयो नैगमजानपदास्तस्य धर्मभाणकस्य सततसमितं समनुबद्धा भविष्यन्ति यावदायुष्पर्यवसानम्। तथागतश्रावका अपि अस्य दर्शनकामा भविष्यन्ति। प्रत्येकबुद्धा अप्यस्य दर्शनकामा भविष्यन्ति। बुद्धा अप्यस्य भगवन्तो दर्शनकामा भविष्यन्ति। यस्यां च दिशि स कुलपुत्रो वा कुलदुहिता वा विहरिष्यति, तस्यां दिशि तथागताभिमुखं धर्मं देशयिष्यति, बुद्धधर्माणां च भाजनभूतो भविष्यति। एवं मनोज्ञस्तस्य गम्भीरो धर्मशब्दो निश्चरिष्यति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



जिह्वेन्द्रियं तस्य विशिष्टु भोति

न जातु हीनं रस स्वादयेत।

निक्षिप्तमात्राश्च भवन्ति दिव्या

रसेन दिव्येन समन्विताश्च॥५२॥



वल्गुस्वरां मधुर प्रभाषते गिरां

श्रवणीयमिष्टां च मनोरमां च।

पर्षाय मध्यस्मि ह प्रेमणीयं

गम्भीरघोषं च सदा प्रभाषते॥५३॥



यश्चापि धर्मं शृणुतेऽस्य भाषतो

दृष्टान्तकोटीनयुतैरनेकैः।

प्रामोद्य तत्रापि जनेति सोऽग्रं

पूजां च तस्य कुरुतेऽप्रमेयाम्॥५४॥



देवा पि नागासुरगुह्यकाश्च

द्रष्टुं तमिच्छन्ति च नित्यकालम्।

शृण्वन्ति धर्मं च सगौरवाश्च

इमे गुणास्तस्य भवन्ति सर्वे॥५५॥



आकाङ्क्षमाणश्च इम लोकधातुं

स्वरेण सर्वामभिविज्ञपेया।

स्निग्धः स्वरोऽस्य मधुरश्च भोति

गम्भीर वल्गुश्च सुप्रेमणीयः॥५६॥



राजान ये क्षितिपति चक्रवर्तिनः

पूजार्थिकास्तस्युपसंक्रमन्ति।

सपुत्रदारा करियाण अञ्जलिं

शृण्वन्ति धर्मस्य च नित्यकालम्॥५७॥



यक्षाण चो भोति सदा पुरस्कृतो

नागान गन्धर्वगणान चैव।

पिशाचकानां च पिशाचिकानां

सुसत्कृतो मानितु पूजितश्च॥५८॥



ब्रह्मापि तस्य वशवर्ति भोति

महेश्वरो ईश्वर देवपुत्रः।

शक्रस्तथान्येऽपि च देवपुत्रा

बहुदेवकन्याश्चुपसंक्रमन्ति॥५९॥



बुद्धाश्च ये लोकहितानुकम्पकाः

सश्रावकास्तस्य निशाम्य घोषम्।

करोन्ति रक्षां मुखदर्शनाय

तुष्टाश्च भोन्ति ब्रुवतोऽस्य धर्मम्॥६०॥



पुनरपरं सततसमिताभियुक्त स बोधिसत्त्वो महासत्त्व इमं धर्मपर्यायं धारयमाणो वा वाचयमानो वा प्रकाशयमानो वा देशयमानो वा लिखमानो वा अष्टौ कायगुणशतानि प्रतिलप्स्यति। तस्य कायः शुद्धः परिशुद्धो वैडूर्यपरिशुद्धच्छविवर्णो भविष्यति, प्रियदर्शनः सत्त्वानाम्। स तस्मिन्नात्मभावे परिशुद्धे सर्वं त्रिसाहस्रमहासाहस्रलोकधातुं द्रक्ष्यति। ये च त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाश्च्यवन्ति उपपद्यन्ते च, हीनाः प्रणीताश्च, सुवर्णा दुर्वर्णाः, सुगतौ दुर्गतौ, ये च चक्रवालमहाचक्रवालेषु मेरुसुमेरुषु च पर्वतराजेषु सत्त्वाः प्रतिवसन्ति, ये च अधस्तादवीच्यामूर्ध्वं च यावद् भवाग्रं सत्त्वाः प्रतिवसन्ति, तान् सर्वान् स्व आत्मभावे द्रक्ष्यति। ये चापि केचिदस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधात्रौ श्रावका वा प्रत्येकबुद्धा वा बोधिसत्त्वा वा तथागता वा प्रतिवसन्ति, यं च ते तथागता धर्मं देशयन्ति, ये च सत्त्वास्तांस्तथागतान् पर्युपासन्ते, सर्वेषां तेषां सत्त्वानामात्मभावप्रतिलम्भान् स्व आत्मभावे द्रक्ष्यति। तत्कस्य हेतोः? यथापीदं परिशुद्धत्वादात्मभावस्येति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



परिशुद्ध तस्यो भवतेत्मभावो

यथापि वैडूर्यमयो विशुद्धः।

सत्त्वान नित्यं प्रियदर्शनश्च

यः सूत्र धारेति इदं उदारम्॥६१॥



आदर्शपृष्ठे यथ विम्बु पश्येत्

लोकोऽस्य काये अयु दृश्यते तथा।

स्वयंभु सो पश्यति नान्यि सत्त्वाः

परिशुद्धि कायस्मि इम एवरूपा॥६२॥



ये लोकधातौ हि इहास्ति सत्त्वा

मनुष्य देवासुर गुह्यका वा।

नरकेषु प्रेतेषु तिरश्चयोनिषु

प्रतिबिम्बु संदृश्यति तत्र काये॥६३॥



विमान देवान भवाग्र याव-

च्छैलं पि चो पर्वतचक्रवालम्।

हिमवान् सुमेरुश्च महांश्च मेरुः

कायस्मि दृश्यन्तिमि सर्वथैव॥६४॥



बुद्धान् पि सो पश्यति आत्मभावे

सश्रावकान् बुद्धसुतांस्तथान्यान्।

ये बोधिसत्त्वा विहरन्ति चैकका

गणे च ये धर्म प्रकाशयन्ति॥६५॥



एतादृशी कायविशुद्धि तस्य

यहि दृश्यते सर्विय लोकधातुः।

न च ताव सो दिव्य न प्रापुणोति

प्रकृतीय कायस्यियमीदृशी भवेत्॥६६॥



पुनरपरं सततसमिताभियुक्त अस्य बोधिसत्त्वस्य महासत्त्वस्य तथागते परिनिर्वृते इमं धर्मपर्यायं धारयतो देशयतः संप्रकाशयतो लिखतो वाचयतस्तैर्द्वादशभिर्मनस्कारगुणशतैः समन्वागतं मन‍इन्द्रियं परिशुद्धं भविष्यति। स तेन परिशुद्धेन मन‍इन्द्रियेण यद्येकगाथामप्यन्तशः श्रोष्यति, तस्य बह्वर्थमाज्ञास्यति। स तावमबुध्य तन्निदानं मासमपि धर्मं देशयिष्यति, चतुर्मासमपि संवत्सरमपि धर्मं देशयिष्यति। यं च धर्मं भाषिष्यति, सोऽस्य स्मृतो न स संप्रमोषं यास्यति। ये केचिल्लौकिका लोकव्यवहारा भाष्याणि वा मन्त्रा वा, सर्वांस्तान् धर्मनयेन संस्यन्दयिष्यति। यावन्तश्च केचित्रिसाहस्रमहासाहस्रायां लोकधातौ षट्सु गतिषूपपन्नाः सत्त्वाः संसरन्ति, सर्वेषां तेषां सत्त्वानां चित्तचरितविस्पन्दितानि ज्ञास्यति। इञ्जितमन्यितप्रपञ्चितानि ज्ञास्यति प्रविचिनिष्यति। अप्रतिलब्धे च तावदार्यज्ञाने एवंरूपं चास्य मन‍इन्द्रियं परिशुद्धं भविष्यति॥ यां यां च धर्मनिरुक्तिमनुविचिन्त्य धर्मं देशयिष्यति, सर्वं तद् भूतं देशयिष्यति। सर्वं तत्तथागतभाषितं सर्वं पूर्वजिनसूत्रपर्यायनिर्दिष्टं भाषति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



मन‍इन्द्रियं तस्य विशुद्ध भोति

प्रभास्वरं शुद्धमनाविलं च।

सो तेन धर्मान् विविधान् प्रजानति

हीनानथोत्कृष्ट तथैव मध्यमान्॥६७॥



एकामपि गाथ श्रुणित्व धीरो

अर्थ बहुं जानति तस्य तत्र।

समितं च भूतं च सदा प्रभाषते

मासान् पि चत्वारि तथापि वर्षम्॥६८॥



ये चापि सत्त्वा इह लोकधातौ

अभ्यन्तरे बाहिरि ये वसन्ति।

देवा मनुष्यासुरगुह्यकाश्च

नागाश्च ये चापि तिरश्चयोनिषु॥६९॥



षट्सु गतीषु निवसन्ति सत्त्वा

विचिन्तितं तेष भवेत यं च।

एकक्षणे सर्वि विदुर्विजानते

धारेत्व सूत्रं इम आनुशंसाः॥७०॥



यं चापि बुद्धः शतपुण्यलक्षणो

धर्मं प्रकाशेदिद सर्वलोके।

तस्यापि शब्दं शृणुते विशुद्धं

यं चापि सो भाषति गृह्यते तत्॥७१॥



बहून् विचिन्तेति च अग्रधर्मान्

बहूंश्च सो भाषति नित्यकालम्।

न चास्य संमोह कदाचि भोति

धारेत्व सूत्रं इमि आनुशंसाः॥७२॥



संधिं विसंधिं च विजानतेऽसौ

सर्वेषु धर्मेषु विलक्षणानि।

प्रजानते अर्थ निरुक्तयश्च

यथा च तं जानति भाषते तथा॥७३॥



यं भाषितं भोतिह दीर्घरात्रं

पूर्वेहि लोकाचरियेहि सूत्रम्।

तं धर्म सो भाषति नित्यकालं

असंत्रसन्तो परिषाय मध्ये॥७४॥



मन‍इन्द्रियं ईदृशमस्य भोति

धारेत्व सूत्रं इमु वाचयित्वा।

न च ताव असङ्गं लभते ह ज्ञानं

पूर्वंगमं तस्य इमं तु भोति॥७५॥



आचार्यभूमौ हि स्थितश्च भोति

सर्वेष सत्त्वान कथेय धर्मम्।

निरुक्तिकोटीकुशलश्च भोति

इमु धारयन्तो सुगतस्य सुत्रम्॥७६॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकानुशंसापरिवर्तो नामाष्टादशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project