Digital Sanskrit Buddhist Canon

१६ पुण्यपर्यायपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

16 puṇyaparyāyaparivartaḥ

१६ पुण्यपर्यायपरिवर्तः।



अस्मिन् खलु पुनस्तथागतायुष्प्रमाणनिर्देशे निर्दिश्यमाने अप्रमेयाणामसंख्येयानां सत्त्वानामर्थः कृतोऽभूत्। अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म-अस्मिन् खलु पुनरजित तथागतायुष्प्रमाणनिर्देशधर्मपर्याये निर्दिश्यमाने अष्टषष्टिगङ्गानदीवालुकासमानां बोधिसत्त्वकोटीनयुतशतसहस्राणामनुत्पत्तिकधर्मक्षान्तिरुत्पन्ना। एभ्यः सहस्रगुणेन येषां बोधिसत्त्वानां महासत्त्वानां धारणीप्रतिलम्भोऽभूत्। अन्येषां च साहस्रिकलोकधातुपरमाणुरजःसमानां बोधिसत्त्वानां महासत्त्वानामिमं धर्मपर्यायं श्रुत्वा असङ्गप्रतिभानताप्रतिलम्भोऽभूत्। अन्येषां च द्विसाहस्रिकलोकधातुपरमाणुरजःसमानां बोधिसत्त्वानां महासत्त्वानां कोटीनयुतशतसहस्रपरिवर्ताया धारण्याः प्रतिलम्भोऽभूत्।



अन्ये च त्रिसाहस्रिकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा अवैवर्त्यधर्मचक्रं प्रवर्तयामासुः। अन्ये च मध्यमकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा विमलनिर्भासचक्रं प्रवर्तयामासुः। अन्ये च क्षुद्रकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा अष्टजाति[प्रति]बद्धा अभूवन् अनुत्तरायां सम्यक्संबोधौ। अन्ये च चतुश्चातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा चतुर्जातिप्रतिबद्धा अभूवन् अनुत्तरायां सम्यक्संबोधौ। अन्ये च त्रिचातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा त्रिजातिप्रतिबद्धा अभूवन् अनुत्तरायां सम्यक्संबोधौ। अन्ये च द्विचातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा द्विजातिप्रतिबद्धा अभूवन्ननुत्तरायां सम्यक्संबोधौ। अन्ये चैकचातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा एकजातिप्रतिबद्धा अभूवन्ननुत्तरायां सम्यक्संबोधौ। अष्टत्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमैश्च बोधिसत्त्वैर्महासत्त्वैरिमं धर्मपर्यायं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि॥



अथ समनन्तरनिर्दिष्टे भगवतैषां बोधिसत्त्वानां महासत्त्वानां धर्माभिसमये प्रतिष्ठाने, अथ तावदेवोपरिवैहायसादन्तरीक्षान्मान्दारवमहामान्दारवाणां पुष्पाणां पुष्पवर्षमभिप्रवृष्टम्। तेषु च लोकधातुकोटीनयुतशतसहस्रेषु यानि तानि बुद्धकोटीनयुतशतसहस्राण्यागत्य रत्नवृक्षमूलेषु सिंहासनोपविष्टानि, तानि सर्वाणि चावकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म। भगवन्तं च शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं सिंहासनोपविष्टमवकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म। तं च सर्वावन्तं बोधिसत्त्वगणं ताश्चतस्रः पर्षदोऽवकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म। दिव्यानि च चन्दनागरुचूर्णान्यन्तरीक्षात् प्रवर्षन्ति स्म। उपरिष्टाच्चान्तरीक्षे वैहायसं महादुन्दुभयोऽघट्टिताः प्रणेदुर्मनोज्ञमधुरगम्भीरनिर्घोषाः। दिव्यानि च दूष्ययुग्मशतसहस्राण्युपरिष्टादन्तरीक्षात् प्रपतन्ति स्म। हारार्धहारमुक्ताहारमणिरत्नमहारत्नानि चोपरिष्टाद्वैहायसमन्तरीक्षे समन्तात् सवासु दिक्षु प्रलम्बन्ति स्म। समन्ताच्च अनर्घप्राप्तस्य धूपस्य घटिकासहस्राणि रत्नमयानि स्वयमेव प्रविचरन्ति स्म। एकैकस्य च तथागतस्य रत्नमयीं छत्रावलीं यावद् ब्रह्मलोकादुपरि वैहायसमन्तरीक्षे बोधिसत्त्वा महासत्त्वा धारयामासुः। अनेन पर्यायेण सर्वेषां तेषामप्रमेयाणामसंख्येयानां बुद्धकोटीनयुतशतसहस्राणां ते बोधिसत्त्वा महासत्त्वा रत्नमयीं छत्रावलीं यावद्ब्रह्मलोकादुपरि वैहायसमन्तरीक्षे धारयामासुः। पृथक् पृथग् गाथाभिनिर्हारैर्भूतैर्बुद्धस्तवैस्तांस्तथागतानाभिष्टुवन्ति स्म॥



अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमा गाथा अभाषत—



आश्चर्य धर्मः सुगतेन श्रावितो

न जातु अस्माभिः श्रुतैष पूर्वम्।

महात्मता यादृशि नायकानां

आयुष्प्रमाणं च यथा अनन्तम्॥१॥



एवं च धर्मं श्रुणियान अद्य

विभज्यमानं सुगतेन संमुखम्।

प्रीतिस्फुटाः प्राणसहस्रकोट्यो

य औरसा लोकविनायकस्य॥२॥



अविवर्तिया केचि स्थिताग्रबोधौ

केचि स्थिता धारणिये वरायाम्।

असङ्गप्रतिभाणि स्थिताश्च केचित्

कोटीसहस्राय च धारणीये॥३॥



परमाणुक्षेत्रस्य तथैव चान्ये

ये प्रस्थिता उत्तमबुद्धज्ञाने।

केचिच्च जातीभि तथैव चाष्टभि

जिना भविष्यन्ति अनन्तदर्शिनः॥४॥



केचित्तु चत्वारि अतिक्रमित्वा

केचित्रिभिश्चैव द्विभिश्च अन्ये।

लप्स्यन्ति बोधिं परमार्थदर्शिनः

श्रुणित्व धर्मं इमु नायकस्य॥५॥



के चापि एकाय स्थिहित्व जात्या

सर्वज्ञ भोष्यन्ति भवान्तरेण।

श्रुणित्व आयु इमु नायकस्य

एतादृशं लब्धु फलं अनास्रवम्॥६॥



अष्टान क्षेत्राण यथा रजो भवेत्

एवाप्रमाणा गणनाय तत्तकाः।

याः सत्त्वकोट्यो हि श्रुणित्व धर्मं

उत्पादयिंसू वरबोधिचित्तम्॥७॥



एतादृशं कर्म कृतं महर्षिणा

प्रकाशयन्तेनिम बुद्धबोधिम्।

अनन्तकं यस्य प्रमाणु नास्ति

आकाशधातू च यथाप्रमेयः॥८॥



मान्दारवाणां च प्रवर्षि वर्षं

बहुदेवपुत्राण सहस्रकोट्यः।

शक्राश्च ब्रह्मा यथा गङ्गवालिका

ये आगता क्षेत्रसहस्रकोटिभिः॥९॥



सुगन्धचूर्णानि च चन्दनस्य

अगरुस्य चूर्णानि च मुञ्चमानाः।

चरन्ति आकाशि यथैव पक्षी

अभ्योकिरन्ता विधिवज्जिनेन्द्रान्॥१०॥



उपरिं च वैहायसु दुन्दुभीयो

निनादयन्तो मधुरा अघट्टिताः।

दिव्यान दूष्याण सहस्रकोट्यः

क्षिपन्ति भ्रामेन्ति च नायकानाम्॥११॥



अनर्घमूल्यस्य च धूपनस्य

रत्नामयी घटिकसहस्रकोट्यः।

स्वयं समन्तेन विचेरु तत्र

पूजार्थ लोकाधिपतिस्य तायिनः॥१२॥



उच्चान् महन्तान् रतनामयांश्च

छत्राण कोटीनयुताननन्तान्।

धारन्तिमे पण्डित बोधिसत्त्वाः

अवतंसकान् यावत् ब्रह्मलोकात्॥१३॥



सवैजयन्तांश्च सुदर्शनीयान्

ध्वजांश्च ओरोपयि नायकानाम्।

गाथासहस्रैश्च अभिष्टुवन्ति

प्रहृष्टचित्ताः सुगतस्य पुत्राः॥१४॥



एतादृशाश्चर्यविशिष्ट अद्भुता

विचित्र दृश्यन्तिमि अद्य नायकाः।

आयुष्प्रमाणस्य निदर्शनेन

प्रामोद्यलब्धा इमि सर्वसत्त्वाः॥१५॥



विपुलोऽद्य अर्थो दशसू दिशासु

घोषश्च अभ्युद्गतु नायकानाम्।

संतर्पिताः प्राणसहस्रकोट्यः

कुशलेन बोधाय समन्विताश्च॥१६॥



अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म-यैरजित अस्मिंस्तथागतायुष्प्रमाणनिर्देशधर्मपर्याये निर्दिश्यमाने सत्त्वैरेकचित्तोत्पादिकाप्यधिमुक्तिरुत्पादिता, अभिश्रद्दधानता वा कृता, कियत्ते कुलपुत्रा वा कुलदुहितरो वा पुण्यं प्रसवन्तीति तच्छृणु, साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं यावत् पुण्यं प्रसवन्तीति। तद्यथापि नाम अजितकश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिकाङ्क्षमाणः पञ्चसु पारमितास्वष्टौ कल्पकोटीनयुतशतसहस्राणि चरेत्। तद्यथा दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां विरहितः प्रज्ञापारमितया, येन च अजित कुलपुत्रेण वा कुलदुहित्रा वा इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्यायं श्रुत्वा एकचित्तोत्पादिकाप्यधिमुक्तिरुत्पादिता अभिश्रद्दधानता वा कृता, अस्य पुण्याभिसंस्कारस्य कुशलाभिसंस्कारस्य असौ पौर्वकः पुण्याभिसंस्कारः कुशलाभिसंस्कारः पञ्चपारमिताप्रतिसंयुक्तोऽष्टकल्पकोटीनयुतशतसहस्रपरिनिष्पन्नः शततमीमपि कलां नोपयाति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनयुतसहस्रतमीमपि कोटीनयुतशतसहस्रतमीमपि कलां नोपयाति, संख्यामपि कलामपि गणनामपि उपमामपि उपनिसामपि न क्षमते। एवंरूपेण अजित पुण्याभिसंस्कारेण समन्वागतः कुलपुत्रो वा कुलदुहिता वा विवर्ततेऽनुत्तरायाः सम्यक्संबोधेरिति नैतत् स्थानं विद्यते॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-



यश्च पारमिताः पञ्च समादायेहि वर्तते।

इदं ज्ञानं गवेषन्तो बुद्धज्ञानमनुत्तरम्॥१७॥



कल्पकोटीसहस्राणि अष्टौ पूर्णानि युज्यते।

दानं ददन्तो बुद्धेभ्यः श्रावकेभ्यः पुनः पुनः॥१८॥



प्रत्येकबुद्धांस्तर्पेन्तो बोधिसत्त्वान कोटियः।

खाद्यभोज्यान्नपानेहि वस्त्रशय्यासनेहि च॥१९॥



प्रतिश्रयान् विहारांश्च चन्दनस्येह कारयेत्।

आरामान् रमणीयांश्च चंक्रमस्थानशोभितान्॥२०॥



एतादृशं ददित्वान दानं चित्र बहूविधम्।

कल्पकोटीसहस्राणि दत्वा बोधाय नामयेत्॥२१॥



पुनश्च शीलं रक्षेत शुद्धं संबुद्धवर्णितम्।

अखण्डं संस्तुतं विज्ञैर्बुद्धज्ञानस्य कारणात्॥२२॥



पुनश्च क्षान्ति भावेत दान्तभूमौ प्रतिष्ठितः।

धृतिमान् स्मृतिमांश्चैव परिभाषाः क्षमे बहूः॥२३॥



ये चोपलम्भिकाः सत्त्वा अधिमाने प्रतिष्ठिताः।

कुत्सनं च सहेत्तेषां बुद्धज्ञानस्य कारणात्॥२४॥



नित्योद्युक्तश्च वीर्यस्मिन् अभियुक्तो दृढस्मृतिः।

अनन्यमनसंकल्पो भवेया कल्पकोटियः॥२५॥



अरण्यवासि तिष्ठन्तो चंक्रमं अभिरुह्य च।

स्त्यानमिद्धं च वर्जित्वा कल्पकोट्यो हि यश्चरेत्॥२६॥



यश्च ध्यायी महाध्यायी ध्यानारामः समाहितः।

कल्पकोट्यः स्थितो ध्यायेत् सहस्राण्यष्टनूनकाः॥२७॥



तेन ध्यानेन सो वीरः प्रार्थयेद् बोधिमुत्तमाम्।

अहं स्यामिति सर्वज्ञो ध्यानपारमितां गतः॥२८॥



यच्च पुण्यं भवेत्तेषां निषेवित्वा इमां क्रियाम्।

कल्पकोटीसहस्राणि ये पूर्वं परिकीर्तिताः॥२९॥



आयुं च मम यो श्रुत्वा स्त्री वापि पुरुषोऽपि वा।

एकक्षणं पि श्रद्धाति इदं पुण्यमनन्तकम्॥३०॥



विचिकित्सां च वर्जित्वा इञ्जिता मन्यितानि च।

अधिमुच्येन्मुहूर्तं पि फलं तस्येदमीदृशम्॥३१॥



बोधिसत्त्वाश्च ये भोन्ति चरिताः कल्पकोटियः।

न ते त्रसन्ति श्रुत्वेदं मम आयुरचिन्तियम्॥३२॥



मूर्धेन च नमस्यन्ति अहमप्येदृशो भवेत्।

अनागतस्मिन्नध्वानि तारेयं प्राणिकोटियः॥३३॥



यथा शाक्यमुनिर्नाथः शाक्यसिंहो महामुनिः।

बोधिमण्डे निषीदित्वा सिंहनादमिदं नदेत्॥३४॥



अहमप्यनागतेऽध्वानि सत्कृतः सर्वदेहिनाम्।

बोधिमण्डे निषीदित्वा आयुं देशेष्यमीदृशम्॥३५॥



अध्याशयेन संपन्नाः श्रुताधाराश्च ये नराः।

संधाभाष्यं विजानन्ति काङ्क्षा तेषां न विद्यते॥३६॥



पुनरपरमजित य इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्यायं श्रुत्वा अवतरेदधिमुच्येत अवगाहेत अवबुध्येत, सोऽस्मादप्रमेयतरं पुण्याभिसंस्कारं प्रसवेद् बुद्धज्ञानसंवर्तनीयम्। कः पुनर्वादो य इममेवंरूपं धर्मपर्यायं शृणुयाच्छ्रावयेत वाचयेद धारयेद्वा लिखेद्वा लिखापयेद्वा पुस्तकगतं वा सत्कुर्यात्, गुरुकुर्यान्मानयेत् पूजयेत् सत्कारयेद्वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपातकाभिस्तैलप्रदीपैर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वा, बहुतरं पुण्याभिसंस्कारं प्रसवेद् बुद्धज्ञानसंवर्तनीयम्॥



यदा च अजित स कुलपुत्रो वा कुलदुहिता वा इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्याय श्रुत्वा अध्याशयेनाधिमुच्यते, तदा तस्येदमध्याशयलक्षणं वेदितव्यम्-यदुत गृध्रकूटपर्वतगतं मां धर्मं निर्देशयन्तं द्रक्ष्यति बोधिसत्त्वगणपरिवृतं बोधिसत्त्वगणपुरस्कृतं श्रावकसंघमध्यगतम्। इदं च मे बुद्धक्षेत्रं सहां लोकधातुं वैडूर्यमयीं समप्रस्तरां द्रक्ष्यति सुवर्णसूत्राष्टापदविनद्धां रत्नवृक्षैर्विचित्रिताम्। कूटागारपरिभोगेषु च अत्र बोधिसत्त्वान् निवसतो द्रक्ष्यति। इदमजित अध्याशयेनाधिमुक्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा अध्याशयलक्षणं वेदितव्यम्॥



अपि तु खलु पुनरजित तानप्यहमध्याशयाधिमुक्तान् कुलपुत्रान् वदामि, ये तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं श्रुत्वा न प्रतिक्षेप्स्यन्ति उत्तरि चाभ्यनुमोदयिष्यन्ति। कंः पुनर्वादो ये धारयिष्यन्ति वाचयिष्यन्ति। ततस्तथागतं सोंऽसेन परिहरति य इमं धर्मपर्यायं पुस्तकगतं कृत्वा अंसेन परिहरति। न मे तेनाजित कुलपुत्रेण वा कुलदुहित्रा वा स्तूपाः कर्तव्याः, न विहारा कर्तव्याः, न भिक्षुसंघाय ग्लानप्रत्ययभैषज्यपरिष्कारास्तेनानुप्रदेया भवन्ति। तत्कस्य हेतोः? कृता मे तेन अजित कुलपुत्रेण वा कुलदुहित्रा वा शरीरेषु शरीरपूजा, सप्तरत्नमयाश्च स्तूपाः कारिताः, यावद् ब्रह्मलोकमुच्चैस्त्वेन अनुपूर्वपरिणाहेन सच्छत्रपरिग्रहाः सवैजयन्तीका घण्टासमुद्गानुरताः, तेषां च शरीरस्तूपानां विविधाः सत्काराः कृता नानाविधैर्दिव्यैर्मानुष्यकैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिर्विविधमधुरमनोज्ञपटुपटहदुन्दुभिमहादुन्दुभिभिर्वाद्यतालनिनादर्निर्घोषशब्दैर्नानाविधैश्च गीतनृत्यलास्यप्रकारैर्बहुभिरपरिमितैर्बह्वप्रमेयाणि कल्पकोटीनयुतशतसहस्राणि सत्कारः कृतो भवति। इमं धर्मपर्यायं मम परिनिर्वृतस्य धारयित्वा वाचयित्वा लिखित्वा प्रकाशयित्वा विहारा अपि तेन अजित कृता भवन्ति विपुला विस्तीर्णाः।



प्रगृहीताश्च लोहितचन्दनमया द्वात्रिंशत्प्रासादा अष्टतला भिक्षुसहस्रावासाः। आरामपुष्पोपशोभिताश्चंक्रमवनोपेताः शयनासनोपस्तब्धाः खाद्यभोज्यान्नपानग्लानप्रत्ययभैषज्यपरिष्कारपरिपूर्णाः सर्वसुखोपधानप्रतिमण्डिताः। ते च बह्वप्रमेया यदुत शतं वा सहस्रं वा शतसहस्रं वा कोटी वा कोटीशतं वा कोटीसहस्रं वा कोटिशतसहस्रं वा कोटीनयुतशतसहस्रं वा। ते च मम संमुखं श्रावकसंघस्य निर्यातिताः, ते च मया परिभुक्ता वेदितव्याः। य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य धारयेद्वा वाचयेद्वा देशयेद्वा लिखेद्वा लेखयेद्वा, तदनेनाहमजितपर्यायेण एवं वदामि-न मे तेन परिनिर्वृतस्य धातुस्तूपाः कारयितव्याः, न संघपूजा। कः पुनर्वादोऽजित य इमं धर्मपर्यायं धारयन् दानेन वा संपादयेच्छीलेन वा क्षान्त्या वा वीर्येण वा ध्यानेन वा प्रज्ञया वा संपादयेत्, बहुतरं पुण्याभिसंस्कारं स कुलपुत्रो वा कुलदुहिता वा प्रसवेद् बुद्धज्ञानसंवर्तनीयमप्रमेयमसंख्येयमपर्यन्तम्।



तद्यथापि नाम अजित आकाश धातुरपर्यन्तः पूर्वदक्षिणपश्चिमोत्तराधरोर्ध्वासु दिक्षु विदिक्षु, एवमप्रमेयासंख्येयान् स कुलपुत्रो वा कुलदुहिता वा पुण्याभिसंस्कारान् प्रसवेद् बुद्धज्ञानसंवर्तनीयान् य इमं धर्मपर्यायं धारयेद्वा वाचयेद्वा देशयेद्वा लिखेद्वा लिखापयेद्वा। तथागतचैत्यसत्कारार्थं च अभियुक्तो भवेत्, तथागतश्रावकाणां च वर्णं भाषेत, बोधिसत्त्वानां च महासत्त्वानां गुणकोटीनयुतशतसहस्राणि परिकीर्तयेत्, परेषां च संप्रकाशयेत्, क्षान्त्या च संपादयेत्, शीलवांश्च भवेत्, कल्याणधर्मः सुखसंवासः क्षान्तश्च भवेत्, दान्तश्च भवेदनभ्यसूयकश्च, अपगतक्रोधमनस्कारोऽव्यापन्नमनस्कारः स्मृतिमांश्च स्थामवांश्च भवेत्, वीर्यवांश्च नित्याभियुक्तश्च भवेत्, बुद्धधर्मपर्येष्ट्या ध्यायी च भवेत्, प्रतिसंलयनगुरुकः प्रतिसंलयनबहुलश्च प्रश्नप्रभेदकुशलश्च भवेत्, प्रश्नकोटीनयुतशतसहस्राणां विसर्जयिता।

यस्य कस्यचिदजित बोधिसत्त्वस्य महासत्त्वस्य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य धारयतः इमे एवंरूपा गुणा भवेयुर्ये मया परिकीर्तिताः, सोऽजित कुलपुत्रो वा कुलदुहिता वा एवं वेदितव्यः-बोधिमण्डसंप्रस्थितोऽयं कुलपुत्रो वा कुलदुहिता वा बोधिमभिसंबोद्धुं बोधिवृक्षमूलं गच्छति। यत्र च अजित स कुलपुत्रो वा कुलदुहिता वा तिष्ठेद्वा निषीदेद्वा चंक्रमेद्वा, तत्र अजित तथागतमुद्दिश्य चैत्यं कर्तव्यम्, तथागतस्तूपोऽयमिति च स वक्तव्यः सदेवकेन लोकेनेति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



पुण्यस्कन्धो अपर्यन्तो वर्णितो मे पुनः पुनः।

य इदं धारयेत्सूत्रं निर्वृते नरनायके॥३७॥



पूजाश्च मे कृतास्तेन धातुस्तूपाश्च कारिताः।

रत्नामया विचित्राश्च दर्शनीयः सुशोभनाः॥३८॥



ब्रह्मलोकसमा उच्चा छत्रावलिभिरन्विताः।

परिणाहवन्तः श्रीमन्तो वैजयन्तीसमन्विताः॥३९॥



पटुघण्टा रणन्तश्च पट्टदामोपशोभिताः।

वातेरितास्तथा घण्टा शोभन्ति जिनधातुषु॥४०॥



पूजा च विपुला तेषां पुष्पगन्धविलेपनैः।

कृता वाद्यैश्च वस्त्रैश्च दुन्दुभीभिः पुनः पुन॥४१॥



मधुरा वाद्यभाण्डा च वादिता तेषु धातुषु।

गन्धतैलप्रदीपाश्च दत्तास्तेऽपि समन्ततः॥४२॥



य इदं धारयेत् सूत्रं क्षयकालि च देशयेत्।

ईदृशी मे कृता तेन विविधा पूजनन्तिका॥४३॥



अग्रा विहारकोट्योऽपि बहुश्चन्दनकारिताः।

द्वात्रिंशती च प्रासादा उच्चैस्त्वेनाष्टवत्तलाः॥४४॥



शय्यासनैरुपस्तब्धाः खाद्यभोज्यैः समन्विताः।

प्रवेणी प्रणीत प्रज्ञप्ता आवासाश्च सहस्रशः॥४५॥



आरामाश्चंक्रमा दत्ताः पुष्पारामोपशोभिताः।

बहु उच्छदकाश्चैव बहुरूपविचित्रिताः॥४६॥



संघस्य विविधा पूजा कृता मे तेन संमुखम्।

य इदं धारयेत्सूत्रं निर्वृतस्मिन् विनायके॥४७॥



अधिमुक्तिसारो यो स्यादतो बहुतरं हि सः।

पुण्यं लभेत यो एतत्सूत्रं वाचेल्लिखेत वा॥४८॥



लिखापयेन्नरः कश्चित् सुनिरुक्तं च पुस्तके।

पुस्तकं पूजयेत्तच्च गन्धमाल्यविलेपनैः॥४९॥



दीपं च दद्याद्यो नित्यं गन्धतैलस्य पूरितम्।

जात्युत्पलातिमुक्तैश्च प्रकरैश्चम्पकस्य च॥५०॥



कुर्यादेतादृशीं पूजां पुस्तकेषु च यो नरः।

बहु प्रसवते पुण्यं प्रमाणं यस्य नो भवेत्॥५१॥



यथैवाकाशधातौ हि प्रमाणं नोपलभ्यते॥

दिशासु दशसू नित्यं पुण्यस्कन्धोऽयमीदृशः॥५२॥



कः पुनर्वादो यश्च स्यात् क्षान्तो दान्तः समाहितः।

शीलवांश्चैव ध्यायी च प्रतिसंलानगोचरः॥५३॥



अक्रोधनो अपिशुनश्चैत्यस्मिन् गौरवे स्थितः।

भिक्षूणां प्रणतो नित्यं नाधिमानी न चालसः॥५४॥



प्रज्ञवांश्चैव धीरश्च प्रश्नं पृष्टो न कुप्यति।

अनुलोमं च देशेति कृपाबुद्धी च प्राणिषु॥५५॥



य ईदृशो भवेत्कश्चिद् यः सूत्रं धारयेदिदम्।

न तस्य पुण्यस्कन्धस्य प्रमाणमुपलभ्यते॥५६॥



यदि कश्चिन्नरः पश्येदीदृशं धर्मभाणकम्।

धारयन्तमिदं सूत्रं कुर्याद्वै तस्य सत्क्रियाम्॥५७॥



दिव्यैश्च पुष्पैस्तथ ओकिरेत

दिव्यैश्च वस्त्रैरभिच्छादयेत।

मूर्धेन वन्दित्व च तस्य पादौ

तथागतोऽयं जनयेत संज्ञाम्॥५८॥



दृष्ट्वा च तं चिन्तयि तस्मि काले

गमिष्यते एष द्रुमस्य मूलम्।

बुध्यिष्यते बोधिमनुत्तरां शिवां

हिताय लोकस्य सदेवकस्य॥५९॥



यस्मिंश्च सो चंक्रमि तादृशो विदुः

तिष्ठेत वा यत्र निषीदयेद्वा।

शय्यां च कल्पेय कहिंचि धीरो

भाषन्तु गाथां पि तु एकसूत्रात्॥६०॥



यस्मिंश्च स्तूपं पुरुषोत्तमस्य

कारापयेच्चित्रसुदर्शनीयम्।

उद्दिश्य बुद्धं भगवन्त नायकं

पूजां च चित्रां तहि कारयेत्तथा॥६१॥



मया स भुक्तः पृथिवीप्रदेशो

मया स्वयं चंक्रमितं च तत्रं।

तत्रोपविष्टो अहमेव च स्यां

यत्र स्थितः सो भवि बुद्धपुत्रः॥६२॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये पुण्यपर्यायपरिवर्तो नाम षोडशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project