Digital Sanskrit Buddhist Canon

१५ तथागतायुष्प्रमाणपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

15 tathāgatāyuṣpramāṇaparivartaḥ

१५ तथागतायुष्प्रमाणपरिवर्तः।



अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म-अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः। द्वितीयकमपि भगवांस्तान् बोधिसत्त्वानामन्त्रयते स्म-अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भुतां वाचं व्याहरतः। तृतीयकमपि भगवांस्तन् बोधिसत्त्वानामन्त्रयते स्म-अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः। अथ खलु स सर्वावान् बोधिसत्त्वगणो मैत्रेयं बोधिसत्त्वं महासत्त्वमग्रतः स्थापयित्वा अञ्जलिं प्रगृह्य भगवन्तमेतदवोचत्-भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः। वयं तथागतस्य भाषितमभिश्रद्धास्यामः। द्वितीयकमपि स सर्वावान् बोधिसत्त्वगणो भगवन्तमेतदवोचत्-भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः। वयं तथागतस्य भाषितमभिश्रद्धास्यामः। तृतीयकमपि स सर्वांवान् बोधिसत्त्वगणो भगवन्तमेतदवोचत्-भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः। वयं तथागतस्य भाषितमभिश्रद्धास्याम इति॥



अथ खलु भगवांस्तेषां बोधिसत्त्वानां यावत्तृतीयकमप्यध्येषणां विदित्वा तान् बोधिसत्त्वानामन्त्रयते स्म-तेन हि कुलपुत्राः शृणुध्वमिदमेवंरूपं ममाधिष्ठानबलाधानम्, यदयं कुलपुत्राः सदेवमानुषासुरो लोक एवं संजानीते-सांप्रतं भगवता शाक्यमुनिना तथागतेन शाक्यकुलादभिनिष्क्रम्य गयाह्वये महानगरे बोधिमण्डवराग्रगतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति। नैवं द्रष्टव्यम्। अपि तु खलु पुनः कुलपुत्राः बहूनि मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य। तद्यथापि नाम कुलपुत्राः पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये पृथिवीधातुपरमाणवः, अथ खलु कश्चिदेव पुरुष उत्पद्यते। स एकं परमाणुरजं गृहीत्वा पूर्वस्यां दिशि पञ्चाशल्लोकधात्वसंख्येयशतसहस्राण्यतिक्रम्य तदेकं परमाणुरजः समुपनिक्षिपेत्। अनेन पर्यायेण कल्पकोटीनयुतशतसहस्राणि स पुरुषः सर्वांस्ताँल्लोकधातून व्यपगतपृथिवीधातून् कुर्यात्, सर्वाणि च तानि पृथिवीधातुपरमाणुरजांसि अनेन पर्यायेण अनेन च लक्षनिक्षेपेण पूर्वस्यां दिश्युपनिक्षिपेत्। तत्किं मन्यध्वे कुलपुत्राः शक्यं ते लोकधातवः केनचिच्चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वः स च सर्वावान् बोधिसत्त्वगणो बोधिसत्त्वराशिर्भगवन्तमेतदवोचत्-असंख्येयास्ते भगवँल्लोकधातवः, अगणनीयाश्चित्तभूमिसमतिक्रान्ताः। सर्वश्रावकप्रत्येकबुद्धैरपि भगवन् आर्येण ज्ञानेन न शक्यं चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा। अस्माकमपि तावद् भगवन् अवैवर्त्यभूमिस्थितानां बोधिसत्त्वानां महासत्त्वानामस्मिन् स्थाने चित्तगोचरो न प्रवर्तते। तावदप्रमेया भगवंस्ते लोकधातवो भवेयुरिति॥



एवमुक्ते भगवांस्तान् बोधिसत्त्वान् महासत्त्वानेतदवोचत्-आरोचयामि वः कुलपुत्राः, प्रतिवेदयामि वः। यावन्तः कुलपुत्रास्ते लोकधातवो येषु तेन पुरुषेण तानि परमाणुरजांस्युपनिक्षिप्तानि, येषु च नोपनिक्षिप्तानि, सर्वेषु तेषु कुलपुत्र लोकधातुकोटीनयुतशतसहस्रेषु न तावन्ति परमाणुरजांसि संविद्यन्ते, यावन्ति मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य। यतःप्रभृत्यहं कुलपुत्रा अस्यां सहायां लोकधातौ सत्त्वानां धर्मं देशयामि, अन्येषु च लोकधातुकोटीनयुतशतसहस्रेषु, ये च मया कुलपुत्रा अत्रान्तरा तथागता अर्हन्तः सम्यक्संबुद्धाः परिकीर्तिता दीपंकरतथागतप्रभृतयः, तेषां च तथागतानामर्हतां सम्यक्संबुद्धानां परिनिर्वाणानि, मयैव तानि कुलपुत्रा उपायकौशल्यधर्मदेशनाभिनिर्हारनिर्मितानि। अपि तु खलु पुनः कुलपुत्राः, तथागत आगतागतानां सत्त्वानामिन्द्रियवीर्यवैमात्रतां व्यवलोक्य तस्मिंस्तस्मिन्नात्मनो नाम व्याहरति। तस्मिंस्तस्मिंश्चात्मनः परिनिर्वाणं व्याहरति, तथा तथा च सत्त्वान् परितोषयति नानाविधैर्धर्मपर्यायैः। तत्र कुलपुत्रास्तथागतो नानाधिमुक्तानां सत्त्वानामल्पकुशलमूलानां बहूपक्लेशानामेवं वदति-दहरोऽहमस्मि भिक्षवो जात्याभिनिष्क्रान्तः। अचिराभिसंबुद्धोऽस्मि भिक्षवोऽनुत्तरां सम्यक्संबोधिम्। यत्खलु पुनः कुलपुत्राः, तथागत एवं चिराभिसंबुद्ध एवं व्याहरति-अचिराभिसंबुद्धोऽहमस्मीति, नान्यत्र सत्त्वानां परिपाचनार्थम्। अवतारणार्थमेते धर्मपर्याया भाषिताः। सर्वे च ते कुलपुत्रा धर्मपर्यायास्तथागतेन सत्त्वानां विनयार्थाय भाषिताः।



यां च कुलपुत्रास्तथागतः सत्त्वानां विनयार्थवाचं भाषते आत्मोपदर्शनेन वा परोपदर्शनेन वा, आत्मारम्बणेन वा परारम्बनेन वा यत्किंचित्तथागतो व्याहरति, सर्वे ते धर्मपर्यायाः सत्यास्तथागतेन भाषिताः। नास्त्यत्र तथागतस्य मृषावादः। तत्कस्य हेतोः? दृष्टं हि तथागतेन त्रैधातुकं यथाभूतम्। न जायते न म्रियते न च्यवते नोपपद्यते न संसरति न परिनिर्वाति, न भूतं नाभूतं न सन्तं नासन्तं न तथा नान्यथा न वितथा नावितथा। न तथा त्रैधातुकं तथागतेन दृष्टं यथा बालपृथग्जनाः पश्यन्ति। प्रत्यक्षधर्मा तथागतः खल्वस्मिन् स्थानेऽसंप्रमोषधर्मा। तत्र तथागतो यां कांचिद्वाचं व्याहरति, सर्वं तत्सत्यं न मृषा नान्यथा। अपि तु खलु पुनः सत्त्वानां नानाचरितानां नानाभिप्रायाणां संज्ञाविकल्पचरितानां कुशलमूलसंजननार्थं विविधान् धर्मपर्यायान् विविधैरारम्बणैर्व्याहरति। यद्धि कुलपुत्रास्तथागतेन कर्तव्यं तत्तथागतः करोति। तावच्चिराभिसंबुद्धोऽपरिमितायुष्प्रमाणस्तथागतः सदा स्थितः। अपरिनिर्वृतस्तथागतः परिनिर्वाणमादर्शयति वैनेयवशेन। न च तावन्मे कुलपुत्रा अद्यापि पौर्विकी बोधिसत्त्वचर्यां परिनिष्पादिता। आयुष्प्रमाणमप्यपरिपूर्णम्। अपि तु खलु पुनः कुलपुत्रा अद्यापि तद्द्विगुणेन मे कल्पकोटीनयुतशतसहस्राणि भविष्यन्ति आयुष्प्रमाणस्यापरिपूर्णत्वात्। इदानीं खलु पुनरहं कुलपुत्रा अपरिनिर्वायमाण एव परिनिर्वाणमारोचयामि। तत्कस्य हेतोः? सत्त्वानहं कुलपुत्रा अनेन पर्यायेण परिपाचयामि-मा हैव मेऽतिचिरं तिष्ठतोऽभीक्ष्णदर्शनेन अकृतकुशलमूलाः सत्त्वाः पुण्यविरहिता दरिद्रभूताः कामलोलुपा अन्धा दृष्टिजालसंछन्नाः तिष्ठति तथागत इति विदित्वा किलीकृतसंज्ञा भवेयुः, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः-आसन्ना वयं तथागतस्येति।



वीर्यं नारभेयुस्त्रैधातुकान्निःसरणार्थम्, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः। ततः कुलपुत्राः तथागतः उपायकौशल्येन तेषां सत्त्वानां दुर्लभप्रादुर्भावो भिक्षवस्तथागत इति वाचं व्याहरति स्म। तत्कस्य हेतोः? तथा हि तेषां सत्त्वानां बहुभिः कल्पकोटीनयुतशतसहस्रैरपि तथागतदर्शनं भवति वा न वा। ततः खल्वहं कुलपुत्रास्तदारम्बणं कृत्वैवं वदामि-दुर्लभप्रादुर्भावा हि भिक्षवस्तथागता इति। ते भूयस्या मात्रया दुर्लभप्रादुर्भावांस्तथागतान् विदित्वा आश्चर्यसंज्ञामुत्पादयिष्यन्ति, शोकसंज्ञामुत्पादयिष्यन्ति। अपश्यन्तश्च तथागतानर्हतः सम्यक्संबुद्धान् तृषिता भविष्यन्ति तथागतदर्शनाय। तेषां तानि तथागतारम्बणमनस्कारकुशलमूलानि दीर्घरात्रमर्थाय हिताय सुखाय च भविष्यन्ति। एतमर्थं विदित्वा तथागतोऽपरिनिर्वायन्नेव परिनिर्वाणमारोचयति सत्त्वानां वैनेयवशमुपादाय। तथागतस्यैष कुलपुत्रा धर्मपर्यायो यदेवं व्याहरति। नास्त्यत्र तथागतस्य मृषावादः॥



तद्यथापि नाम कुलपुत्राः कश्चिदेव वैद्यपुरुषो भवेत् पण्डितो व्यक्तो मेधावी सुकुशलः सर्वव्याधिप्रशमनाय। तस्य च पुरुषस्य बहवः पुत्रा भवेयुर्दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा। स च वैद्यः प्रवासगतो भवेत्, ते चास्य सर्वे पुत्रा गरपीडा वा विषपीडा वा भवेयुः। तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरभितूर्णा भवेयुः। ते तेन गरेण वा विषेण वा दह्यमानाः पृथिव्यां प्रपतेयुः। अथ स तेषां वैद्यः पिता प्रवासादागच्छेत्। ते चास्य पुत्रास्तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरार्ताः। केचिद्विपरीतसंज्ञिनो भवेयुः, केचिदविपरीतसंज्ञिनो भवेयुः। सर्वे च ते तेनैव दुःखेनार्तास्तं पितरं दृष्ट्वाभिनन्देयुः, एवं चैनं वदेयुः-दिष्ट्यासि तात क्षेमस्वस्तिभ्यामागतः। तदस्माकमस्मादात्मोपरोधाद् गराद्वा विषाद्वा परिमोचयस्व। ददस्व नस्तात जीवितमिति।



अथ खलु स वैद्यस्तान् पुत्रान् दुःखार्तान् दृष्ट्वा वेदनाभिभूतान् दह्यतः पृथिव्यां परिवेष्टमानान्, ततो महाभैषज्यं समुदानयित्वा वर्णसंपन्नं गन्धसंपन्नं रससंपन्नं च, शिलायां पिष्ट्वा तेषां पुत्राणां पानाय दद्यात्, एवं चैनान् वदेत्-पिबथ पुत्रा इदं महाभैषज्यं वर्णसंपन्नं गन्धसंपन्नं रससंपन्नम्। इदं यूयं पुत्रा महाभैषज्यं पीत्वा क्षिप्रमेवास्माद् गराद्वा विषाद्वा परिमोक्ष्यध्वे, स्वस्था भविष्यथ अरोगाश्च। तत्र ये तस्य वैद्यस्य पुत्रा अविपरीतसंज्ञिनः ते भैषज्यस्य वर्णं च दृष्ट्वा गन्धं चाघ्राय रसं चास्वाद्य क्षिप्रमेवाभ्यवहरेयुः। ते चाभ्यवहरन्तस्तस्मादाबाधात् सर्वेण सर्वं विमुक्ता भवेयुः। ये पुनस्तस्य पुत्रा विपरीतसंज्ञिनः ते तं पितरमभिनन्देयुः, एनं चैवं वदेयुः-दिष्टयासि तात क्षेमस्वस्तिभ्यामागतो यस्त्वमस्माकं चिकित्सक इति। ते चैवं वाचं भाषेरन्, तच्च भैषज्यमुपनामितं न पिबेयुः। तत्कस्य हेतोः? तथा हि तेषां तया विपरीतसंज्ञ्या तद् भैषज्यमुपनामितं वर्णेनापि न रोचते, गन्धेनापि रसेनापि न रोचते। अथ खलु स वैद्यपुरुष एवं चिन्तयेत्-इमे मम पुत्रा अनेन गरेण वा विषेण वा विपरीतसंज्ञिनः।



ते खल्विदं महाभैषज्यं न पिबन्ति, मां चाभिनन्दन्ति। यन्नवहमिमान् पुत्रानुपायकौशल्येन इदं भैषज्यं पाययेयमिति। अथ खलु स वैद्यस्तान् पुत्रानुपायकौशल्येन तद्भैषज्यं पाययितुकाम एवं वदेत्-जीर्णोऽहमस्मि कुलपुत्राः, वृद्धो महल्लकः। कालक्रिया च मे प्रत्युपस्थिता। मा च यूयं पुत्राः शोचिष्ठ, मा च क्लममापध्वम्। इदं वो मया महाभैषज्यमुपनीतम्। सचेदाकाङ्क्षध्वे, तदेव भैषज्यं पिबध्वम्। स एवं तान् पुत्रानुपायकौशल्येन अनुशिष्य अन्यतरं जनपदप्रदेशं प्रक्रान्तः। तत्र गत्वा कालगतमात्मानं येषां ग्लानानां पुत्राणामारोचयेत्, ते तस्मिन् समयेऽतीव शोचयेयुः, अतीव परिदेवेयुः-यो ह्यस्माकं पिता नाथो जनकोऽनुकम्पकः सोऽपि नामैकः कालगतः, तेऽद्य वयमनाथाः संवृत्ताः। ते खल्वनाथभूतमात्मानं समनुपश्यन्तोऽशरणमात्मानं समनुपश्यन्तोऽभीक्ष्णं शोकार्ता भवेयुः। तेषां च तयाभीक्ष्णं शोकार्ततया सा विपरीतसंज्ञा अविपरीतसंज्ञा भवेत्। यच्च तद् भैषज्यं वर्णगन्धरसोपेतं तद्वर्णगन्धरसोपेतमेव संजानीयुः। ततस्तस्मिन् समये तद्भैषज्यमभ्यवहरेयुः। ते चाभ्यवहरन्तस्तस्मादाबाधात् परिमुक्ता भवेयुः। अथ खलु स वैद्यस्तान् पुत्रानाबाधविमुक्तान् विदित्वा पुनरेवात्मानमुपदर्शयेत्। तत्किं मन्यध्वे कुलपुत्रा मा हैव तस्य वैद्यस्य तदुपायकौशल्यं कुर्वतः कश्चिन्मृषावादेन संचोदयेत्? आहुः-नो हीदं भगवन्, नो हीदं सुगत। आह-एवमेव कुलपुत्राः अहमप्यप्रमेयासंख्येयकल्पकोटीनयुतशतसहस्राभिसंबुद्ध इमामनुत्तरां सम्यक्संबोधिम्। अपि तु खलु पुनः कुलपुत्राः अहमन्तरान्तरमेवंरूपाण्युपायकौशल्यानि सत्त्वानामुपदर्शयामि विनयार्थम्। न च मे कश्चिदत्र स्थाने मृषावादो भवति॥



अथ खलु भगवानिमामेव अर्थगतिं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमां गाथा अभाषत—



अचिन्तिया कल्पसहस्रकोट्यो

यासां प्रमाणं न कदाचि विद्यते।

प्राप्ता मया एष तदाग्रबोधि-

र्धर्मं च देशेम्यहु नित्यकालम्॥१॥



समादपेमी बहुबोधिसत्त्वान्

बौद्धस्मि ज्ञानस्मि स्थपेमि चैव।

सत्त्वान कोटीनयुताननेकान्

परिपाचयामी बहुकल्पकोट्यः॥२॥



निर्वाणभूमिं चुपदर्शयामि

विनयार्थ सत्त्वान वदाम्युपायम्।

न चापि निर्वाम्यहु तस्मि काले

इहैव चो धर्मु प्रकाशयामि॥३॥



तत्रापि चात्मानमधिष्ठहामि

सर्वांश्च सत्त्वान तथैव चाहम्।

विपरीतबुद्धी च नरा विमूढाः

तत्रैव तिष्ठन्तु न पश्यिषू माम्॥४॥



परिनिर्वृतं दृष्ट्व ममात्मभावं

धातूषु पूजां विविधां करोन्ति।

मां चा अपश्यन्ति जनेन्ति तृष्णां

ततोर्जुकं चित्त प्रभोति तेषाम्॥५॥



ऋजू यदा ते मृदुमार्दवाश्च

उत्सृष्टकामाश्च भवन्ति सत्त्वाः।

ततो अहं श्रावकसंघ कृत्वाः

आत्मान दर्शेम्यहु गृध्रकूटे॥६॥



एवं च हं तेष वदामि पश्चात्

इहैव नाहं तद आसि निर्वृतः।

उपायकौशल्य ममेति भिक्षवः

पुनः पुनो भोम्यहु जीवलोके॥७॥



अन्येहि सत्त्वेहि पुरस्कृतोऽहं

तेषां प्रकाशेमि ममाग्रबोधिम्।

यूयं च शब्दं न शृणोथ मह्यं

अन्यत्र सो निर्वृतु लोकनाथः॥८॥



पश्याम्यहं सत्त्व विहन्यमानान्

न चाहु दर्शेमि तदात्मभावम्।

स्पृहेन्तु तावन्मम दर्शनस्य

तृषितान सद्धर्मु प्रकाशयिष्ये॥९॥



सदाधिष्ठानं मम एतदीदृशं

अचिन्तिया कल्पसहस्रकोट्यः।

न च च्यवामी इतु गृध्रकूटात्

अन्यासु शय्यासनकोटिभिश्च॥१०॥



यदापि सत्त्वा इम लोकधातुं

पश्यन्ति कल्पेन्ति च दह्यमानम्।

तदापि चेदं मम बुद्धक्षेत्रं

परिपूर्ण भोती मरुमानुषाणाम्॥११॥



क्रीडा रती तेष विचित्र भोति

उद्यानप्रासादविमानकोट्यः।

प्रतिमण्डितं रत्नमयैश्च पर्वतै-

र्द्रुमैस्तथा पुष्पफलैरुपेतैः॥१२॥



उपरिं च देवाभिहनन्ति तूर्यान्

मन्दारवर्षं च विसर्जयन्ति।

ममं च अभ्योकिरि श्रावकांश्च

ये चान्य बोधाविह प्रस्थिता विदू॥१३॥



एवं च मे क्षेत्रमिदं सदा स्थितं

अन्ये च कल्पेन्तिमु दह्यमानम्।

सुभैरवं पश्यिषु लोकधातुं

उपद्रुतं शोकशताभिकीर्णम्॥१४॥



न चापि मे नाम शृणोन्ति जातु

तथागतानां बहुकल्पकोटिभिः।

धर्मस्य वा मह्य गणस्य चापि

पापस्य कर्मस्य फलेवरूपम्॥१५॥



ल्यदा तु सत्त्वा मृदु मार्दवाश्च

उत्पन्न भोन्तीह मनुष्यलोके।

उत्पन्नमात्राश्च शुभेन कर्मणा

पश्यन्ति मां धर्मु प्रकाशयन्तम्॥१६॥



न चाहु भाषामि कदाचि तेषां

इमां क्रियामीदृशिकीमनुत्तराम्।

तेनो अहं दृष्ट चिरस्य भोमि

ततोऽस्य भाषामि सुदुर्लभा जिनाः॥१७॥



एतादृशं ज्ञानबलं मयेदं

प्रभास्वरं यस्य न कश्चिदन्तः।

आयुश्च मे दीर्घमनन्तकल्पं

समुपार्जितं पूर्व चरित्व चर्याम्॥१८॥



मा संशयं अत्र कुरुध्व पण्डिता

विचिकित्सितं चो जहथा अशेषम्।

भूतां प्रभाषाम्यहमेत वाचं

मृषा ममा नैव कदाचि वाग् भवेत्॥१९॥



यथा हि सो वैद्य उपायशिक्षितो

विपरीतसंज्ञीन सुतान हेतोः।

जीवन्तमात्मान मृतेति ब्रूयात्

तं वैद्यु विज्ञो न मृषेण चोदयेत्॥२०॥



यमेव हं लोकपिता स्वयंभूः

चिकित्सकः सर्वप्रजान नाथः।

विपरीत मूढांश्च विदित्व बालान्

अनिर्वृतो निर्वृत दर्शयामि॥२१॥



किं कारणं मह्यमभीक्ष्णदर्शनाद्

विश्रद्ध भोन्ती अबुधा अजानकाः।

विश्वस्त कामेषु प्रमत्त भोन्ती

प्रमादहेतोः प्रपतन्ति दुर्गतिम्॥२२॥



चरिं चरिं जानिय नित्यकालं

वदामि सत्त्वान तथा तथाहम्।

कथं नु बोधावुपनामयेयं

कथ बुद्धधर्माण भवेयु लाभिनः॥२३॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये तथागतायुष्प्रमाणपरिवर्तो नाम पञ्चदशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project