Digital Sanskrit Buddhist Canon

१३ सुखविहारपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

13 sukhavihāraparivartaḥ

१३ सुखविहारपरिवर्तः।



अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत-दुष्करं भगवन् परमदुष्करमेभिर्बोधिसत्त्वैर्महासत्त्वैरुत्सोढं भगवतो गौरवेण। कथं भगवन् एभिर्बोधिसत्त्वैर्महासत्त्वैरयं धर्मपर्यायः पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः? एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-चतुर्षु मञ्जुश्रीर्धर्मेषु प्रतिष्ठितेन बोधिसत्त्वेन महासत्त्वेन अयं धर्मपर्यायः पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः। कतमेषु चतुर्षु? इह मञ्जुश्रीर्बोधिसत्त्वेन महासत्त्वेन आचारगोचरप्रतिष्ठितेन अयं धर्मपर्यायं पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः। कथं च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्व आचारगोचरप्रतिष्ठितो भवति? यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वः क्षान्तो भवति, दान्तो दान्तभूमिमनुप्राप्तोऽनुत्रस्तासंत्रस्तमना अनभ्यसूयकः, यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद्धर्मे चरति, यथाभूतं च धर्माणां स्वलक्षणं व्यवलोकयति।



या खल्वेषु धर्मेष्वविचारणा अविकल्पना, अयमुच्यते मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्याचारः। कतमश्च मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य गोचरः? यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न राजानं संसेवते, न राजपुत्रान् न राजमहामात्रान् न राजपुरुषान् संसेवते न भजते न पर्युपास्ते नोपसंक्रामति, नान्यतीर्थ्याश्चरकपरिव्राजकाजीवकनिर्ग्रन्थान् न काव्यशास्त्रप्रसृतान् सत्त्वान् संसेवते, न भजते न पर्युपास्ते, न च लोकायतमन्त्रधारकान् न लोकायतिकान् सेवते न भजते न पर्युपास्ते, न च तैः सार्धं संस्तवं करोति। न चाण्डलान् न मौष्टिकान् न सौकरिकान् न कौक्कुटिकान् न मृगलुब्धकान् न मांसिकान् न नटनृत्तकान् न झल्लान् न मल्लान्। अन्यानि परेषां रतिक्रीडास्थानानि तानि नोपसंक्रामति। न च तैः सार्धं संस्तवं करोति। अन्यत्रोपसंक्रान्तानां कालेन कालं धर्मं भाषते, तं चानिश्रितो भाषते। श्रावकयानीयांश्च भिक्षुभिक्षुण्युपासकोपासिका न सेवते न भजते न पर्युपास्ते, न च तैः सार्धं संस्तवं करोति। न च तैः सह समवधानगोचरो भवति चंक्रमे वा विहारे वा। अन्यत्रोपसंक्रान्तानां चैषां कालेन कालं धर्मं भाषते, तं चानिश्रितो भाषते। अयं मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य गोचरः॥



पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न मातृग्रामस्य अन्यतरान्यतरमनुनयनिमित्तमुद्गृह्य अभीक्ष्णं धर्मं देशयति, न च मातृग्रामस्य अभीक्ष्णं दर्शनकामो भवति। न च कुलान्युपसंक्रमति, न च दारिकां वा कन्यां वा वधुकां वा अभीक्ष्णमाभाषितव्यां मन्यते, न प्रतिसंमोदयति। न च पण्डकस्य धर्मं देशयति, न च तेन सार्धं संस्तवं करोति, न च प्रतिसंमोदयति। न चैकाकी भिक्षार्थमन्तर्गृहं प्रविशति अन्यत्र तथागतानुस्मृतिं भावयमानः। सचेत्पुनर्मातृग्रामस्य धर्मं देशयति, स नान्तशो धर्मसंरागेणापि धर्मं देशयति, कः पुनर्वादः स्त्रीसंरागेण। नान्तशो दन्तावलीमप्युपदर्शयति, कः पुनर्वाद औदारिकमुखविकारम्। न च श्रामणेरं न च श्रामणेरीं न भिक्षुं न भिक्षुणीं न कुमारकं न कुमारिकां सातीयति, न च तैः सार्धं संस्तवं करोति, न च संलापं करोति। स च प्रतिसंलयनगुरुको भवति, अभीक्ष्णं च प्रतिसंलयनं सेवते। अयमुच्यते मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य प्रथमो गोचरः॥



पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वः सर्वधर्मान् शून्यान् व्यवलोकयति, यथावत् प्रतिष्ठितान् धर्मान् अविपरीतस्थायिनो यथाभूतस्थितानचलानकम्प्यानविवर्त्यानपरिवर्तान् सदा यथाभूतस्थितानाकाशस्वभावान्निरुक्तिव्यवहारविवर्जितानजातानभुतान् अनसंभूतान् असंस्कृतान् असंतानान् असत्ताभिलापप्रव्याहृतानसङ्गस्थानस्थितान् संज्ञाविपर्यासप्रादुर्भूतान्। एवं हि मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वोऽभीक्ष्णं सर्वधर्मान् व्यवलोकयन् विहरति अनेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो गोचरे स्थितो भवति। अयं मञ्जुश्रीर्बोधिसत्त्वस्य द्वितीयो गोचरः॥



अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत—



यो बोधिसत्त्व इच्छेया पश्चात्काले सुदारुणे।

इदं सूत्रं प्रकाशेतुं अनोलीनो विशारदः॥१॥



आचारगोचरं रक्षेदसंसृष्टः शुचिर्भवेत्।

वर्जयेत्संस्तवं नित्यं राजपुत्रेहि राजभिः॥२॥



ये चापिं राजपुरुषाः कुर्यात्तेहि न संस्तवम्।

चण्डालमुष्टिकैः शौण्डैस्तीर्थिकैश्चापि सर्वशः॥३॥



अधिमानीन्न सेवेत विनये चागमे स्थितान्।

अर्हन्तसंमतान् भिक्षून् दुःशीलांश्चैव वर्जयेत्॥४॥



भिक्षुणीं वर्जयेन्नित्यं हास्यसंलापगोचराम्।

उपासिकाश्च वर्जेत प्राकटा या अवस्थिताः॥५॥



या निर्वृतिं गवेषन्ति दृष्टे धर्मे उपासिकाः।

वर्जयेत् संस्तवं ताभिः आचारो अयमुच्यते॥६॥



यश्चैनमुपसंक्रम्य धर्मं पृच्छेऽग्रबोधये।

तस्य भाषेत् सदा धीरो अनोलीनो अनिश्रितः॥७॥



स्त्रीपण्डकाश्च ये सत्त्वाः संस्तवं तैर्विवर्जयेत्।

कुलेषु चापि वधुकां कुमार्यश्च विवर्जयेत्॥८॥



न ता संमोदयेज्जातु कौशल्यं हास पृच्छितुम्।

संस्तवं तेहि वर्जेत सौकरौरभ्रिकैः सह॥९॥



ये चापि विविधान् प्राणीन् हिंसेयुर्भोगकारणात्।

मांसं सूनाय विक्रेन्ति संस्तवं तैर्विवर्जयेत्॥१०॥



स्त्रीपोषकाश्च ये सत्त्वा वर्जयेत्तेहि संस्तवम्।

नटेभिर्झल्लमल्लेभिर्ये चान्ये तादृशा जनाः॥११॥



वारमुख्या न सेवेत ये चान्ये भोगवृत्तिनः।

प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत्॥१२॥



यदा च धर्मं देशेया मातृग्रामस्य पण्डितः।

न चैकः प्रविशेत्तत्र नापि हास्यस्थितो भवेत्॥१३॥



यदापि प्रविशेद् ग्रामं भोजनार्थी पुनः पुनः।

द्वितीयं भिक्षु मार्गेत बुद्धं वा समनुस्मरेत्॥१४॥



आचारगोचरो ह्येष प्रथमो मे निदर्शितः।

विहरन्ति येन सप्रज्ञा धारेन्ता सूत्रमीदृशम्॥१५॥



यदा न चरते धर्मं हीन‍उत्कृष्टमध्यमे।

संस्कृतासंस्कृते चापि भूताभूते च सर्वशः॥१६॥



स्त्रीति नाचरते धीरो पुरुषेति न कल्पयेत्।

सर्वधर्म अजातत्वाद् गवेषन्तो न पश्यति॥१७॥



आचारो हि अयं उक्तो बोधिसत्त्वान सर्वशः।

गोचरो यादृशस्तेषां तं शृणोथ प्रकाशतः॥१८॥



असन्तका धर्म इमे प्रकाशिता

अप्रादुभूताश्च अजात सर्वे।

शून्या निरीहा स्थित नित्यकालं

अयं गोचरो उच्यति पण्डितानाम्॥१९॥



विपरीतसंज्ञीहि इमे विकल्पिता

असन्तसन्ता हि अभूतभूततः।

अनुत्थिताश्चापि अजातधर्मा

जाताथ भूता विपरीतकल्पिताः॥२०॥



एकाग्रचित्तो हि समाहितः सदा

सुमेरुकूटो यथ सुस्थितश्च।

एवं स्थितश्चापि हि तान् निरीक्षे-

दाकाशभूतानिम सर्वधर्मान्॥२१॥



सदापि आकाशसमानसारकान्

अनिञ्जितान् मन्यनवर्जितांश्च।

स्थिता हि धर्मा इति नित्यकालं

अयु गोचरो उच्यति पण्डितानाम्॥२२॥



ईर्यापथं यो मम रक्षमाणो

भवेत भिक्षू मम निर्वृतस्य।

प्रकाशयेत् सूत्रमिदं हि लोके

न चापि संलीयन तस्य काचित्॥२३॥



कालेन वा चिन्तयमानु पण्डितः

प्रविश्य लेनं तथ घट्टयित्वा।

विपश्य धर्मं इमु सर्व योनिशो

उत्थाय देशेत अलीनचित्तः॥२४॥



राजान तस्येह करोन्ति रक्षां

ये राजपुत्राश्च शृणोन्ति धर्मम्।

अन्येऽपि चो गृहपति ब्राह्मणाश्च

परिवार्य सर्वेऽस्य स्थिता भवन्ति॥२५॥



पुनरपरं मञ्जुश्रिर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये सद्धर्मविप्रलोपे वर्तमाने इमं धर्मपर्यायं संप्रकाशयितुकामः सुखस्थितो भवति। स सुखस्थितश्च धर्मं भाषते कायगतं वा पुस्तकगतं वा। परेषां च देशयमानो नाधिमात्रमुपालम्भजातीयो भवति, न चान्यान् धर्मभाणकान् भिक्षून् परिवदति, न चावर्णं भाषते, न चावर्णं निश्चारयति, न चान्येषां श्रावकयानीयानां भिक्षूणां नाम गृहीत्वा अवर्ण भाषते, न चावर्णं चारयति, न च तेषामन्तिके प्रत्यर्थिकसंज्ञी भवति। तत्कस्य हेतोः? यथापीदं सुखस्थानवस्थितत्वात्। स आगतागतानां धार्मश्रावणिकानामनुपरिग्राहिकया अनभ्यसूयया धर्मं देशयति। अविवदमानो न च प्रश्नं पृष्टः श्रावकयानेन विसर्जयति। अपि तु खलु पुनस्तथा विसर्जयति, यथा बुद्धज्ञानमभिसंबुध्यते॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



सुखस्थितो भोति सदा विचक्षणः

सुखं निषण्णस्तथ धर्मु भाषते।

उदार प्रज्ञप्त करित्व आसनं

चौक्षे मनोज्ञे पृथिवीप्रदेशे॥२६॥



चौक्षं चासौ चीवर प्रावरित्वा

सुरक्तरङ्गं सुप्रशस्तरङ्गैः।

आसेवकां कृष्ण तथाददित्वा

महाप्रमाणं च निवासयित्वा॥२७॥



सपादपीठस्मि निषद्य आसने

विचित्रदूष्येहि सुसंस्तृतस्मिन्।

सुधौतपादश्च उपारुहित्वा

स्निग्धेन शीर्षेण मुखेन चापि॥२८॥



धर्मासने चात्र निषीदियान

एकाग्रसत्त्वेषु समागतेषु।

उपसंहरेच्चित्रकथा बहूश्च

भिक्षूण चो भिक्षूणिकान चैव॥२९॥



उपासकानां च उपासिकानां

राज्ञां तथा राजसुतान चैव।

विचित्रितार्थां मधुरां कथेया

अनभ्यसूयन्तु सदा स पण्डितः॥३०॥



पृष्टोऽपि चासौ तद प्रश्न तेहि

अनुलोममर्थं पुनर्निर्दिशेत।

तथा च देशेय तमर्थजातं

यथ श्रुत्व बोधीय भवेयु लाभिनः॥३१॥



किलासितां चापि विवर्जयित्वा

न चापि उत्पादयि खेदसंज्ञाम्।

अरतिं च सर्वां विजहेत पण्डितो

मैत्रीबलं चा परिषाय भावयेत्॥३२॥



भाषेच्च रात्रिंदिवमग्रधर्मं

दृष्टान्तकोटीनयुतैः स पण्डितः।

संहर्षयेत्पर्ष तथैव तोषये-

न्न चापि किंचित्ततु जातु प्रार्थयेत्॥३३॥



खाद्यं च भोज्यं च तथान्नपानं

वस्त्राणि शय्यासन चीवरं वा।

गिलानभैषज्य न चिन्तयेत

न विज्ञपेया परिषाय किंचित्॥३४॥



अन्यत्र चिन्तेय सदा विचक्षणो

भवेय बुद्धोऽहमिमे च सत्त्वाः।

एतन्ममो सर्वसुखोपधानं

यं धर्म श्रावेमि हिताय लोके॥३५॥



यश्चापि भिक्षू मम निर्वृतस्य

अनीर्षुको एत प्रकाशयेया।

न तस्य दुःखं न च अन्तरायो

शोकोपयासा न भवेत्कदाचित्॥३६॥



न तस्य संत्रासन कश्चि कुर्या-

न्न ताडनां नापि अवर्ण भाषेत्।

न चापि निप्कासन जातु तस्य

तथा हि सो क्षान्तिबले प्रतिष्ठितः॥३७॥



सुखस्थितस्यो तद पण्डितस्य

एवं स्थितस्यो यथ भाषितं मया।

गुणान कोटीशत भोन्त्यनेके

न शक्यते कल्पशते हि वक्तुम्॥३८॥



पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मक्षयान्तकाले वर्तमाने इदं सूत्रं धारयमाणो बोधिसत्त्वो महासत्त्वोऽनीर्षुको भवत्यशठोऽमायावी, न चान्येषां बोधिसत्त्वयानीयानां पुद्गलानामवर्णं भाषते, नापवदति नावसादयति। न चान्येषां भिक्षुभिक्षुण्युपासकोपासिकानां श्रावकयानीयानां वा प्रत्येकबुद्धयानीयानां वा बोधिसत्त्वयानीयानां वा कौकृत्यमुपसंहरति-दूरे यूयं कुलपुत्रा अनुत्तरायाः सम्यक्संबोधेः, न तस्यां यूयं सदृश्यध्वे। अत्यन्तप्रमादविहारिणो यूयम्। न यूयं प्रतिबलास्तं ज्ञानमभिसंबोद्धुम्। इत्येवं न कस्यचिद् बोधिसत्त्वयानीयस्य कौकृत्यमुपसंहरति। न च धर्मविवादाभिरतो भवति, न च धर्मविवादं करोति, सर्वसत्त्वानां चान्तिके मैत्रीबलं न विजहाति। सर्वतथागतानां चान्तिके पितृसंज्ञामुत्पादयति, सर्वबोधिसत्त्वानां चान्तिके शास्तृसंज्ञामुत्पादयति। ये च दशसु दिक्षु लोके बोधिसत्त्वा महासत्त्वाः, तानभीक्ष्णमध्याशयेन गौरवेण च नमस्कुरुते। धर्मं च देशयमानोऽनूनमनधिकं धर्मं देशयति समेन धर्मप्रेम्णा, न च कस्यचिदन्तशो धर्मप्रेम्णाप्यधिकतरमनुग्रहं करोति इमं धर्मपर्यायं संप्रकाशयमानः॥



अनेन मञ्जुश्रीस्तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मपरिक्षयान्तकाले वर्तमाने इमं धर्मपर्यायं संप्रकाशयमानः सुखस्पर्शं विहरति, अविहेठितश्चेमं धर्मपर्यायं संप्रकाशयति। भवन्ति चास्य धर्मसंगीत्यां सहायकाः। उत्पत्स्यन्ते चास्य धार्मश्रावणिकाः, येऽस्येमं धर्मपर्यायं श्रोष्यन्ति श्रद्धास्यन्ति, पत्तीयिष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति, पुस्तकगतं च कृत्वा सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति॥



इदमवोचद् भगवान्। इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता—



शाठ्यं च मानं तथ कूटनां च

अशेषतो उज्झिय धर्मभाणकः।

ईर्ष्यां न कुर्यात्तथ जातु पण्डितो

य इच्छते सूत्रमिदं प्रकाशितुम्॥३९॥



अवर्ण जातू न वदेय कस्यचि-

द्दृष्टीविवादं च न जातु कुर्यात्।

कौकृत्यस्थानं च न जातु कुर्या-

न्न लप्स्यसे ज्ञानमनुत्तर त्वम्॥४०॥



सदा च सो आर्जवु मर्दावश्च

क्षान्तश्च भोती सुगतस्य पुत्रः।

धर्मं प्रकाशेतुः पुनः पुनश्चिमं

न तस्य खेदो भवती कदाचित्॥४१॥



ये बोधिसत्त्वा दशसू दिशासु

सत्त्वानुकम्पाय चरन्ति लोके।

ते सर्वि शास्तार भवन्ति मह्यं

गुरुगौरवं तेषु जनेत पण्डितः॥४२॥



स्मरित्व बुद्धान द्विपदानमुत्तमान्

जिनेषु नित्यं पितृसंज्ञ कुर्यात्।

अधिमानसंज्ञां च विहाय सर्वां

न तस्य भोती तद अन्तरायः॥४३॥



श्रुणित्व धर्मं इममेवरूपं

स रक्षितव्यस्तद पण्डितेन।

सुखं विहाराय समाहितश्च

सुरक्षितो भोति च प्राणिकोटिभिः॥४४॥



पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मप्रतिक्षयान्तकाले वर्तमाने इमं धर्मपर्यायं धारयितुकामस्तेन भिक्षुणा गृहस्थप्रव्रजितानामन्तिकाद् दूरेण दूरं विहर्तव्यम्, मैत्रीविहारेण च विहर्तव्यम्। ये च सत्त्वा बोधाय संप्रस्थिता भवन्ति, तेषां सर्वेषामन्तिके स्पृहोत्पादयितव्या। एवं चानेन चित्तमुत्पादयितव्यम्। महादुष्प्रज्ञजातीया बतेमे सत्त्वाः, ये तथागतस्योपायकौशल्यं संधाभाषितं न शृण्वन्ति न जानन्ति न बुध्यन्ते न पृच्छन्ति न श्रद्दधन्ति नाधिमुच्यन्ते। किंचाप्येते सत्त्वा इमं धर्मपर्यायं नावतरन्ति, न बुध्यन्ते, अपि तु खलु पुनरहमेतामनुत्तरां सम्यक्संबोधिमभिसंबुध्य यो यस्मिन् स्थितो भविष्यति, तं तस्मिन्नेव ऋद्धिबलेनावर्जयिष्यामि पत्तीयापयिष्यामि अवतारयिष्यामि परिपाचयिष्यामि॥



अनेनापि मञ्जुश्रीश्चतुर्थेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं संप्रकाशयमानोऽव्याबाधो भवति, सत्कृतो गुरुकृतो मानितः पूजितो भिक्षुभिक्षुण्युपासकोपासिकानां राज्ञा रजपुत्राणां राजामात्यानां राजमहामात्राणां नैगमजानपदानां ब्राह्मणगृहपतीनाम्। अन्तरीक्षावचराश्चास्य देवताः श्राद्धाः पृष्ठतोऽनुबद्धा भविष्यन्ति धर्मश्रवणाय। देवपुत्राश्चास्य सदानुबद्धा भविष्यन्त्यारक्षायै ग्रामगतस्य वा विहारगतस्य वा। उपसंक्रमिष्यन्ति रात्रिंदिवं धर्मं परिपृच्छकाः। तस्य च व्याकरणेनं तुष्टा उदग्रा आत्तमनस्का भविष्यन्ति। तत्कस्य हेतोः? सर्वबुद्धाधिष्ठितोऽयं मञ्जुश्रीर्धर्मपर्यायः। अतीतानागतप्रत्युत्पन्नैर्मञ्जुश्रीस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरयं धर्मपर्यायो नित्याधिष्ठितः। दुर्लभोऽस्य मञ्जुश्रीर्धर्मपर्यायस्य बहुषु लोकधातुषु शब्दो वा घोषो वा नामश्रवो वा॥



तद्यथापि नाम मञ्जुश्री राजा भवति बलचक्रवर्ती, बलेन तं स्वकं राज्यं निर्जिनाति। ततोऽस्य प्रत्यर्थिकाः प्रत्यमित्राः प्रतिराजानस्तेन सार्धं विग्रहमापन्ना भवन्ति। अथ तस्य राज्ञो बलचक्रवर्तिनो विविधा योधा भवन्ति। ते तैः शत्रुभिः सार्धं युध्यन्ते। अथ स राजा तान् योधान् युध्यमानान् दृष्ट्वा तेषां योधानां प्रीतो भवत्यात्तमनस्कः। स प्रीत आत्तमनाः समानस्तेषां योधानां विविधानि दानानि ददाति। तद्यथा ग्रामं वा ग्रामक्षेत्राणि वा ददाति, नगरं नगरक्षेत्राणि वा ददाति, वस्त्राणि ददाति, वेष्टनानि हस्ताभरणानि पादाभरणानि कण्ठाभरणानि कर्णाभरणानि सौवर्णसूत्राणि हारार्धहाराणि हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालान्यपि ददाति, हस्त्यश्वरथपत्तिदासीदासानपि ददाति, यानानि शिबिकाश्च ददाति। न पुनः कस्यचिच्चूडामणिं ददाति। तत्कस्य हेतोः? एक एव हि स चूडामणी राज्ञो मूर्धस्थायी। यदा पुनर्मञ्जुश्री राजा तमपि चूडामणिं ददाति, तदा स सर्वो राज्ञश्चतुरङ्गबलकाय आश्चर्यप्राप्तो भवत्यद्भुतप्राप्तः। एवमेव मञ्जुश्रीस्तथागतोऽप्यर्हन् सम्यक्संबुद्धो धर्मस्वामी धर्मराजा स्वेन बाहुबलनिर्जितेन पुण्यबलनिर्जितेन त्रैधातुके धर्मेण धर्मराज्यं कारयति। तस्य मारः पापीयांस्त्रैधातुकमाक्रामति।



अथ खलु तथागतस्यापि आर्या योधा मारेण सार्धं युध्यन्ते। अथ खलु मञ्जुश्रीस्तथागतोऽप्यर्हन् सम्यक्संबुद्धो धर्मस्वामी धर्मराजा तेषामार्याणां योधानां युध्यतां दृष्ट्वा विविधानि सूत्रशतसहस्राणि भाषते स्म चतसृणां पर्षदां संहर्षणार्थम्। निर्वाणनगरं चैषां महाधर्मनगरं ददाति। निर्वृत्या चैनान् प्रलोभयति स्म। न पुनरिममेवंरूपं धर्मपर्यायं भाषते स्म। तत्र मञ्जुश्रीर्यथा स राजा बलचक्रवर्ती तेषां योधानां युध्यतां महता पुरुषकारेण विस्मापितः समानः पश्चात्तं सर्वस्वभूतं पश्चिमं चूडामणिं ददाति सर्वलोकाश्रद्धेयं विस्मयभूतम्। यथा मञ्जुश्रीस्तस्य राज्ञः स चूडामणिश्चिररक्षितो मूर्धस्थायी, एवमेव मञ्जुश्रीस्तथागतोऽर्हन् सम्यक्संबुद्धस्त्रैधातुके धर्मराजो धर्मेण राज्यं कारयमाणो यस्मिन् समये पश्यति श्रावकांश्च बोधिसत्त्वांश्च स्कन्धमारेण वा क्लेशमारेण वा सार्धं युध्यमानान्, तैश्च सार्धं युध्यमानैर्यदा रागद्वेषमोहक्षयः सर्वत्रैधातुकान्निःसरणं सर्वमारनिर्घातनं महापुरुषकारः कृतो भवति,



तदा तथागतोऽर्हन् सम्यक्संबुद्धोऽप्यारागितः समानस्तेषामार्याणां योधानामिममेवंरूपं सर्वलोकविप्रत्यनीकं सर्वलोकाश्रद्धेयमभाषितपूर्वमनिर्दिष्टपूर्वं धर्मपर्यायं भाषते स्म। सर्वेषां सर्वज्ञताहारकं महाचूडामणिप्रख्यं तथागतः श्रावकेभ्योऽनुप्रयच्छति स्म। एषा हि मञ्जुश्रीस्तथागतानां परमा धर्मदेशना, अयं पश्चिमस्तथागतानां धर्मपर्यायः। सर्वेषां धर्मपर्यायाणामयं धर्मपर्यायः सर्वगम्भीरः सर्वलोकविप्रत्यनीकः, योऽयं मञ्जुश्रीस्तथागतेन अद्य तेनैव राज्ञा बलचक्रवर्तिना चिरपरिरक्षितश्चूडामणिरवमुच्य योधेभ्यो दत्तः। एवमेव मञ्जुश्रीस्तथागतोऽपीमं धर्मगुह्यं चिरानुरक्षितं सर्वधर्मपर्यायाणां मूर्धस्थायि तथागतविज्ञेयम्। तदिदं तथागतेनाद्य संप्रकाशितमिति॥



अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत—



मैत्रीबलं चो सद दर्शयन्तः

कृपायमाणः सद सर्वसत्त्वान्।

प्रकाशयेद्धर्ममिमेवरूपं

सूत्रं विशिष्टं सुगतेहि वर्णितम्॥४५॥



गृहस्थ ये प्रव्रजिताश्च ये स्यु-

रथ बोधिसत्त्वास्तद कालि पश्चिमे।

सर्वेषु मैत्रीबल सो हि दर्शयी

मा हैव क्षेप्स्यन्ति श्रुणित्व धर्मम्॥४६॥



अहं तु बोधिमनुप्रापुणित्वा

यदा स्थितो भेष्यि तथागतत्वे।

ततो उपानेष्यि उपायि स्थित्वा

संश्रावयिष्ये इममग्रबोधिम्॥४७॥



यथापि राजा बलचक्रवर्ती

योधान दद्याद्विविधं हिरण्यम्।

हस्तींश्च अश्वांश्च रथान् पदातीन्

नगराणि ग्रामांश्च ददाति तुष्टः॥४८॥



केषांचि हस्ताभरणानि प्रीतो

ददाति रूप्यं च सुवर्णसूत्रम्।

मुक्तामणिं शङ्खशिलाप्रवालं

विविधांश्च दासान् स ददाति प्रीतः॥४९॥



यदा तु सो उत्तमसांहसेन

विस्मापितो केनचि तत्र भोति।

विज्ञाय आश्चर्यमिदं कृतं ति

मुकुटं स मुञ्चित्व मणिं ददाति॥५०॥



तथैव बुद्धो अहु धर्मराजा

क्षान्तीबलः प्रज्ञप्रभूतकोशः।

धर्मेण शासामिमु सर्वलोकं

हितानुकम्पी करूणायमानः॥५१॥



सत्त्वांश्च दृष्ट्वाथ विहन्यमानान्

भाषामि सूत्रान्तसहस्रकोट्यः।

पराक्रमं जानिय तेष प्राणिनां

ये शुद्धसत्त्वा इह क्लेशघातिनः॥५२॥



अथ धर्मराजापि महाभिषट्कः

पर्यायकोटीशत भाषमाणः।

ज्ञात्वा च सत्त्वान् बलवन्तु ज्ञानी

चूडामणिं वा इम सूत्र देशयी॥५३॥



इमु पश्चिमु लोकि वदामि सूत्रं

सूत्राण सर्वेष ममाग्रभूतम्।

संरक्षितं मे न च जातु प्रोक्तं

तं श्रावयाम्यद्य शृणोथ सर्वे॥५४॥



चत्वारि धर्मा इमि एवरूपाः

मयि निर्वृते ये च निषेवितव्याः।

ये चार्थिका उत्तममग्रबोधौ

व्यापारणं ये च करोन्ति मह्यम्॥५५॥



न तस्य शोको न पि चान्तरायो

दौर्वर्णिकं नापि गिलानकत्वम्।

न च च्छवी कृष्णिक तस्य भोति

न चापि हीने नगरस्मि वासः॥५६॥



प्रियदर्शनोऽसौ सततं महर्षी।

तथागतो वा यथ पूज्य भोति।

उपस्थायकास्तस्य भवन्ति नित्यं

ये देवपुत्रा दहरा भवन्ति॥५७॥



न तस्य शस्त्रं न विषं कदाचित्

काये क्रमे नापि च दण्डलोष्टम्।

संमीलितं तस्य मुखं भवेय

यो तस्य आक्रोशमपी वदेया॥५८॥



सो बन्धुभूतो भवतीह प्राणिना-

मालोकजातो विचरन्तु मेदिनीम्।

तिमिरं हरन्तो बहुप्राणकोटिनां

यो सूत्रधारे इमु निर्वृते मयि॥५९॥



सुपिनस्मि सो पश्यति भद्ररूपं

भिक्षूंश्च सो पश्यति भिक्षुणीश्च।

सिहासनस्थं च तथात्मभावं

धर्मं प्रकाशेन्तु बहुप्रकारम्॥६०॥



देवांश्च यक्षान् यथ गङ्गावालिका

असुरांश्च नागांश्च बहुप्रकारान्।

तेषां च सो भाषति अग्रधर्मं

सुपिनस्मि सर्वेष कृताञ्जलीनाम्॥६१॥



तथागतं सो सुपिनस्मि पश्यति

देशेन्त धर्मं बहुप्राणिकोटिनाम्।

रश्मीसहस्राणि प्रमुञ्चमानं

वल्गुस्वरं काञ्चनवर्णनाथम्॥६२॥



सो चा तही भोति कृताञ्जलिस्थितो

अभिष्टुवन्तो द्विपदुत्तमं मुनिम्।

सो चा जिनो भाषति अग्रधर्मं

चतुर्ण पर्षाण महाभिषटूकः॥६३॥



सो च प्रहृष्टो भवती श्रुणित्वा

प्रामोद्यजातश्च करोति पूजाम्।

सुपिने च सो धारणि प्रापुणोति

अविवर्तियं ज्ञान स्पृशित्व क्षिप्रम्॥६४॥



ज्ञात्वा च सो आशयु लोकनाथ-

स्तं व्याकरोती पुरुषर्षभत्वे।

कुलपुत्र त्वं पीह अनुत्तरं शिवं

स्पृशिष्यसि ज्ञानमनागतेऽध्वनि॥६५॥



तवापि क्षेत्रं विपुलं भविष्यति

पर्षाश्च चत्वारि यथैव मह्यम्।

श्रोष्यन्ति धर्मं विपुलं अनास्रवं

सगौरवा भूत्व कृताञ्जली च॥६६॥



पुनश्च सो पश्यति आत्मभावं

भावेन्त धर्मं गिरिकन्दरेषु।

भावित्व धर्मं च स्पृशित्व धर्मतां

समाधि सो लब्धु जिनं च पश्यति॥६७॥



सुवर्णवर्णं शतपुण्यलक्षणं

सुपिनस्मि दृष्ट्वा च शृणोति धर्मम्।

श्रुत्वा च तं पर्षदि संप्रकाशयी

सुपिनो खु तस्यो अयमेवरूपः॥६८॥



स्वप्नेऽपि सर्वं प्रजहित्व राज्य-

मन्तःपुरं ज्ञातिगणं तथैव।

अभिनिष्क्रमी सर्व जहित्व कामा-

नुपसंक्रमी येन च बोधिमण्डम्॥६९॥



सिंहासने तत्र निषीदियानो

द्रुमस्य मूले तहि बोधि‍अर्थिकः।

दिवसान सप्तान तथात्ययेन

अनुप्राप्स्यते ज्ञानु तथागतानाम्॥७०॥



बोधिं च प्राप्तस्ततु व्युत्थहित्वा

प्रवर्तयी चक्रमनास्रवं हि।

चतुर्ण पर्षाण स धर्म देशयी

अचिन्तिया कल्पसहस्रकोट्यः॥७१॥



प्रकाशयित्वा तहि धर्म नास्रवं

निर्वापयित्वा बहु प्राणिकोट्यः।

निर्वायती हेतुक्षये व दीपः

सुपिनो अयं सो भवतेवरूपः॥७२॥



बहु आनुशंसाश्च अनन्तकाश्च

ये मञ्जुघोषा सद तस्य भोन्ति।

यो पश्चिमे कालि इममग्रधर्मं

सूत्रं प्रकाशेय मया सुदेशितम्॥७३॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये सुखविहारपरिवर्तो नाम त्रयोदशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project