Digital Sanskrit Buddhist Canon

१२ उत्साहपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

12 utsāhaparivartaḥ

१२ उत्साहपरिवर्तः।



अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्वो महाप्रतिभानश्च बोधिसत्त्वो महासत्त्वो विंशतिबोधिसत्त्वशतसहस्रपरिवारो भगवतः संमुखमिमां वाचमभाषेताम्-अल्पोत्सुको भगवान् भवत्वस्मिन्नर्थे। वयमिमं भगवन् धर्मपर्यायं तथागतस्य परिनिर्वृतस्य सत्त्वानां देशयिष्यामः संप्रकाशयिष्यामः। किंचापि भगवन् शठकाः सत्त्वास्तस्मिन् काले भविष्यन्ति, परीत्तकुशलमूला अधिमानिका लाभसत्कारसंनिश्रिता अकुशलमूलप्रतिपन्ना दुर्दमा अधिमुक्तिविरहिता अनधिमुक्तिबहुलाः, अपि तु खलु पुनर्वयं भगवन् क्षान्तिबलमुपदर्शयित्वा तस्मिन् काले इदं सूत्रमुद्देक्ष्यामो धारयिष्यामो देशयिष्यामो लिखिष्यामः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः। कायजीवितं च वयं भगवन् उत्सृज्य इदं सूत्रं प्रकाशयिष्यामः। अल्पोत्सुको भगवान् भवत्विति॥



अथ खलु तस्यां पर्षदि शैक्षाशैक्षाणां भिक्षूणां पञ्चमात्राणि भिक्षुशतानि भगवन्त मेतदूचुः-वयमपि भगवन् उत्सहामहे इमं धर्मपर्यायं संप्रकाशयितुम्, अपि तु खलु पुनर्भगवन् अन्यासु लोकधातुष्विति। अथ खलु यावन्तस्ते भगवतः श्रावकाः शैक्षाशैक्षा भगवता व्याकृता अनुत्तरायां सम्यक्संबोधौ, अष्टौ भिक्षुसहस्राणि, सर्वाणि तानि येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमेतदूचुः-अल्पोत्सुको भगवान् भवतु। वयमपीमं धर्मपर्यायं संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये अपि त्वन्यासु लोकधातुषु। तत्कस्य हेतोः? अस्यां भगवन् सहायां लोकधातौ अधिमानिकाः सत्त्वा अल्पकुशलमूला नित्यं व्यापन्नचित्ताः शठा वङ्कजातीयाः॥



अथ खलु महाप्रजापती गौतमी भगवतो मातृभगिनी षड्‍भिर्भिक्षुणीसहस्रैः सार्धं शैक्षाशैक्षाभिर्भिक्षुणीभिः उत्थायासनाद् येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमुल्लोकयन्ती स्थिताभूत्। अथ खलु भगवांस्तस्यां वेलायां महाप्रजापतीं गौतमीमामन्त्रयामास-किं त्वं गौतमि दुर्मनस्विनी स्थिता तथागतं व्यवलोकयसि? नाहं परिकीर्तिता व्याकृता च अनुत्तरायां सम्यक्संबोधौ। अपि तु खलु पुनर्गौतमि सर्वपर्षद्वयाकरणेन व्याकृतासि। अपि तु खलु पुनस्त्वं गौतमि इत उपादाय अष्टात्रिंशतां बुद्धकोटीनियुतशतसहस्राणामन्तिके सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा बोधिसत्त्वा महासत्त्वो धर्मभाणको भविष्यसि। इमान्यपि षड् भिक्षुणीसहस्राणि शैक्षाशैक्षाणां भिक्षुणीनां त्वयैव सार्धं तेषां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके बोधिसत्त्वा धर्मभाणका भविष्यन्ति। ततः परेण परतरेण बोधिसत्त्वचर्यां परिपूर्य सर्वसत्त्वप्रियदर्शनो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। स च गौतमि सर्वसत्त्वप्रियदर्शनस्तथागतोऽर्हन् सम्यक्संबुद्धस्तानि षड् बोधिसत्त्वसहस्राणि परंपराव्याकरणेन व्याकरिष्यत्यनुत्तरायां सम्यक्संबोधौ॥



अथ खलु राहुलमातुर्यशोधराया भिक्षुण्या एतदभवत्-न मे भगवता नामधेयं परिकीर्तितम्। अथ खलु भगवान् यशोधराया भिक्षुण्याश्चेतसैव चेतःपरिवितर्कमाज्ञाय यशोधरां भिक्षुणीमेतदवोचत्-आरोचयामि ते यशोधरे, प्रतिवेदयामि ते। त्वमपि दशानां बुद्धकोटीसहस्राणामन्तिके सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा बोधिसत्त्वो धर्मभाणको भविष्यसि। बोधिसत्त्वचर्यां च अनुपूर्वेण परिपूर्य रश्मिशतसहस्रपरिपूर्णध्वजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि विधाचरणसंपन्नः सुगतोलोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् भद्रायां लोकधातौ। अपरिमितं च तस्य भगवतो रश्मिशतसहस्रपरिपूर्णध्वजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यायुष्प्रमाणं भविष्यति॥



अथ खलु महाप्रजापती गौतमी भिक्षुणी षड्‍भिक्षुणीसहस्रपरिवारा यशोधरा च भिक्षुणी चतुर्भिक्षुणीसहस्रपरिवारा भगवतोऽन्तिकात् स्वकं व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ आश्चर्यप्राप्ता अद्भुतप्राप्ताश्च तस्यां वेलायामिमां गाथामभाषन्त—



भगवन् विनेतासि विनायकोऽसि

शास्तासि लोकस्य सदेवकस्य।

आश्वासदाता नरदेवपूजितो

वयं पि संतोषित अद्य नाथ॥१॥



अथ खलु ता भिक्षुण्यः इमां गाथां भाषित्वा भगवन्तमेतदूचुः-वयमपि भगवन् समुत्सहामहे इमं धर्मपर्यायं संप्रकाशयितुं पश्चिमे काले पश्चिमे समये, अपि त्वन्यासु लोकधातुष्विति॥



अथ खलु भगवान् येन तान्यशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणि धारणीप्रतिलब्धानां बोधिसत्त्वानामवैवर्तिकधर्मचक्रप्रवर्तकानां तेनावलोकयामास। अथ खलु ते बोधिसत्त्वा महासत्त्वाः समनन्तरावलोकिता भगवता उत्थायासनेभ्यो येन भगवांस्तेनाञ्जलिं प्रणाम्यैवं चिन्तयामासुः-अस्माकं भगवान् अध्येषति अस्य धर्मपर्यायस्य संप्रकाशनतायै। ते खल्वेवमनुविचिन्त्य संप्रकम्पिताः परस्परमूचुः-कथं वयं कुलपुत्राः करिष्यामो यद् भगवानध्येषति अस्य धर्मपर्यायस्यानागतेऽध्वनि संप्रकाशनतायै? अथ खलु ते कुलपुत्रा भगवतो गौरवेण आत्मनश्च पुर्वचर्याप्रणिधानेन भगवतोऽभिमुखं सिंहनादं नदन्ते स्म-वयं भगवन् अनागतेऽध्वनि इमं धर्मपर्यायं तथागते परिनिर्वृते दशसु दिक्षु गत्वा सर्वसत्त्वाँल्लेखयिष्यामः पाठयिष्यामश्चिन्तापयिष्यामः प्रकाशयिष्यामो भगवत एवानुभावेन। भगवांश्च अस्माकमन्यलोकधातुस्थितो रक्षावरणगुप्तिं करिष्यति॥



अथ खलु ते बोधिसत्त्वा महासत्त्वाः समसंगीत्या भगवन्तमाभिर्गाथाभिरध्यभाषन्त—



अल्पोत्सुकस्त्वं भगवन् भवस्व

वयं तदा ते परिनिर्वृतस्य।

स्वं पश्चिमे कालि सुभैरवस्मिन्

प्रकाशयिष्यामिद सूत्रमुत्तमम्॥२॥



आक्रोशांस्तर्जनांश्चैव दण्ड-उद्गूरणानि च।

बालानां संसहिष्यामोऽधिवासिष्याम नायक॥३॥



दुर्बुद्धिनश्च वङ्काश्च शठा बालाधिमानिनः।

अप्राप्ते प्राप्तसंज्ञी च घोरे कालस्मि पश्चिमे॥४॥



अरण्यवृत्तकाश्चैव कन्थां प्रावरियाण च।

संलेखवृत्तिचारि स्म एवं वक्ष्यन्ति दुर्मती॥५॥



रसेषु गृद्ध सक्ताश्च गृहीणां धर्म देशयी।

सत्कृताश्च भविष्यन्ति षडभिज्ञा यथा तथा॥६॥



रौद्रचित्ताश्च दुष्टाश्च गृहवित्तविचिन्तकाः।

अरण्यगुप्तिं प्रविशित्वा अस्माकं परिवादकाः॥७॥



अस्माकं चैव वक्ष्यन्ति लाभसत्कारनिश्रिताः।

तीर्थिका बतिमे भिक्षू स्वानि काव्यानि देशयुः॥८॥



स्वयं सूत्राणि ग्रन्थित्वा लाभसत्कारहेतवः।

पर्षाय मध्ये भाषन्ते अस्माकमनुकुट्टकाः॥९॥



राजेषु राजपुत्रेषु राजामात्येषु वा तथा।

विप्राणां गृहपतीनां च अन्येषां चापि भिक्षुणाम्॥१०॥



वक्ष्यन्त्यवर्णमस्माकं तीर्थ्यवादं च कारयी।

सर्वं वयं क्षमिष्यामो गौरवेण महर्षिणाम्॥११॥



ये चास्मान् कुत्सयिष्यन्ति तस्मिन् कालस्मि दुर्मती।

इमे बुद्धा भविष्यन्ति क्षमिष्यामथ सर्वशः॥१२॥



कल्पसंक्षोभमीष्मस्मिन् दारुणस्मि महाभये।

यक्षरूपा बहु भिक्षू अस्माकं परिभाषकाः॥१३॥



गौरवेणेह लोकेन्द्रे उत्सहाम सुदुष्करम्।

क्षान्तीय कक्ष्यां बन्धित्वा सूत्रमेतं प्रकाशये॥१४॥



अनर्थिकाः स्म कायेन जीवितेन च नायक।

अर्थिकाश्च स्म बोधीय तव निक्षेपधारकाः॥१५॥



भगवानेव जानीते यादृशाः पापभिक्षवः।

पश्चिमे कालि भेष्यन्ति संधाभाष्यमजानकाः॥१६॥



भृकुटी सर्व सोढव्या अप्रज्ञप्तिः पुनः पुनः।

निष्कासनं विहारेभ्यो बन्धकुट्टी बहूविधा॥१७॥



आज्ञप्तिं लोकनाथस्य स्मरन्ता कालि पश्चिमे।

भाषिष्याम इदं सूत्रं पर्षन्मध्ये विशारदाः॥१८॥



नगरेष्वथ ग्रामेषु ये भेष्यन्ति इहार्थिकाः।

गत्वा गत्वास्य दास्यामो निक्षेपं तव नायक॥१९॥



प्रेषणं तव लोकेन्द्र करिष्यामो महामुने।

अल्पोत्सुको भव त्वं हि शान्तिप्राप्तो सुनिर्वृतः॥२०॥



सर्वे च लोकप्रद्योता आगता ये दिशो दश।

सत्यां वाचं प्रभाषामो अधिमुक्तिं विजानसि॥२१॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये उत्साहपरिवर्तो नाम द्वादशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project