Digital Sanskrit Buddhist Canon

११ स्तूपसंदर्शनपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

11 stūpasaṁdarśanaparivartaḥ

११ स्तूपसंदर्शनपरिवर्तः।



अथ खलु भगवतः पुरस्तात्ततः पृथिवीप्रदेशात् पर्षन्मध्यात् सप्तरत्नमयः स्तूपोऽभ्युद्गतः पञ्चयोजनशतान्युच्चैस्त्वेन तदनुरूपेण च परिणाहेन। अभ्युद्गम्य वैहायसमन्तरीक्षे समवातिष्ठच्चित्रो दर्शनीयः पञ्चभिः पुष्पग्रहणीयवेदिकासहस्रैः स्वभ्यलंकृतो बहुतोरणसहस्रैः प्रतिमण्डितः पताकावैजयन्तीसहस्राभिः प्रलम्बितो रत्नदामसहस्राभिः प्रलम्बितः पट्टघण्टासहस्रैः प्रलम्बितः तमालपत्रचन्दनगन्धं प्रमुञ्चमानः। तेन च गन्धेन सर्वावतीयं लोकधातुः संमूर्च्छिताभूत्। छत्रावली चास्य यावच्चातुर्महाराजकायिकदेवभवनानि समुच्छ्रिताभूत् सप्तरत्नमयी, तद्यथा-सुवर्णस्य रूप्यस्य वैडूर्यस्य मुसारगल्वस्याश्मगर्भस्य लोहितमुक्तेः कर्केतनस्य। तस्मिंश्च स्तूपे त्रायस्त्रिंशत्कायिका देवपुत्रा दिव्यैर्मान्दारवमहामान्दारवैः पुष्पैस्तं रत्नस्तूपमवकिरन्ति अध्यवकिरन्ति अभिप्रकिरन्ति। तस्माच्च रत्नस्तूपादेवंरूपः शब्दो निश्चरति स्म-साधु साधु भगवन् शाक्यमुने। सुभाषितस्तेऽयं सद्धर्मपुण्डरीको धर्मपर्यायः। एवमेतत् भगवन्, एवमेतत् सुगत॥



अथ खलु ताश्चतस्रः पर्षदस्तं महान्तं रत्नस्तूपं दृष्ट्वा वैहायसमन्तरीक्षे स्थितं संजातहर्षाः प्रीतिप्रामोद्यप्रसादप्राप्ताः तस्यां वेलायामुत्थाय आसनेभ्योऽञ्जलिं प्रगृह्यावस्थिताः॥



अथ खलु तस्यां वेलायां महाप्रतिभानो नाम बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकं कौतूहलप्राप्तं विदित्वा भगवन्तमेतदवोचत्-को भगवन् हेतुः, कः प्रत्ययः, अस्यैवंरूपस्य महारत्नस्तूपस्य लोके प्रादुर्भावाय? को वा भगवन् अस्मान्महारत्नस्तूपादेवंरूपं शब्दं निश्चारयति? एवमुक्ते भगवान् महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत्-अस्मिन् महाप्रतिभान महारत्नस्तूपे तथागतस्यात्मभावस्तिष्ठति एकघनः। तस्यैष स्तूपः। स एष शब्दं निश्चारयति। अस्ति महाप्रतिभान अधस्तायां दिशि असंख्येयानि लोकधातुकोटीनयुतशतसहस्राण्यतिक्रम्य रत्नविशुद्धा नाम लोकधातुः। तस्यां प्रभूतरत्नो नाम तथागतोऽर्हन् सम्यक्संबुद्धोऽभूत्। तस्यैतद्भगवतः पुर्वप्रणिधानमभूत्-अहं खलु पूर्वं बोधिसत्त्वचर्यां चरमाणो न तावन्निर्यातोऽनुत्तरायां सम्यक्संबोधौ, यावन्मयायं सद्धर्मपुण्डरीको धर्मपर्यायो बोधिसत्त्वाववादो न श्रुतोऽभूत्।



यदा तु मया अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतः, तदा पश्चादहं परिनिष्पन्नोऽभूवमनुत्तरायां सम्यक्संबोधौ। तेन खलु पुनर्महाप्रतिभान भगवता प्रभूतरत्नेन तथागतेनार्हता सम्यक्संबुद्धेन परिनिर्वाणकालसमये सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरस्तादेवमारोचितम्-मम खलु भिक्षवः परिनिर्वृतस्य अस्य तथागतात्मभावविग्रहस्य एको महारत्नस्तूपः कर्तव्यः। शेषाः पुनः स्तूपा ममोद्दिश्य कर्तव्याः। तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतदधिष्ठानमभूत्-अयं मम स्तूपो दशसु दिक्षु सर्वलोकधातुषु येषु बुद्धक्षेत्रेष्वयं सद्धर्मपुण्डरीको धर्मपर्यायः संप्रकाश्येत, तेषु तेष्वयं ममात्मभावविग्रहस्तूपः समभ्युद्गच्छेत्। तैस्तैर्बुद्धैर्भगवद्भिरस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये भाष्यमाणे पर्षन्मण्डलस्योपरि वैहायसं तिष्ठेत्। तेषां च बुद्धानां भगवतामिमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषमाणानामयं ममात्मभावविग्रहस्तूपः साधुकारं दद्यात्। तदयं महाप्रतिभान तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपः। अस्यां सहायां लोकधातौ अस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये मया भाष्यमाणेऽस्मात् पर्षन्मण्डलमध्यादभ्युद्गम्य उपर्यन्तरीक्षे वैहायसं स्थित्वा साधुकारं ददाति स्म॥



अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-पश्याम वयं भगवन् एतं तथागतविग्रहं भगवतोऽनुभावेन। एवमुक्ते भगवान् महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत्-तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रणिधानं गुरुकमभूत्। एतदस्य प्रणिधानम्-यदा खल्वन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्त इमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषेयुः, तदायं ममात्मभावविग्रहस्तूपोऽस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय गच्छेत् तथागतानामन्तिकम्। यदा पुनस्ते बुद्धा भगवन्तो ममात्मभावविग्रहमुद्धाट्य दर्शयितुकामा भवेयुश्चतसृणां पर्षदाम्, अथ तैस्तथागतैर्दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु य आत्मभावनिर्मितास्तथागतविग्रहा अन्यान्यनामधेयाः, तेषु तेषु बुद्धक्षेत्रेषु सत्त्वानां धर्मं देशयन्ति, तान् सर्वान् संनिपात्य तैरात्मभावनिर्मितैस्तथागतविग्रहैः सार्धं पश्चादयं ममात्मभावविग्रहस्तूपः समुद्धाट्य उपदर्शयितव्यश्चतसृणां पर्षदाम्। तन्मयापि महाप्रतिभान बहवस्तथागतविग्रहा निर्मिताः, ये दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु लोकधातुसहस्रेषु सत्त्वानां धर्मं देशयन्ति। ते सर्वे खल्विहानयितव्या भविष्यन्ति॥



अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-तानपि तावद् भगवंस्तथागतात्मभावांस्तथागतनिर्मितान् सर्वान् वन्दामहै॥



अथ खलु भगवांस्तस्यां वेलायामूर्णाकोशाद्रश्मिं प्रामुञ्चत्, यया रश्म्या समनन्तरप्रमुक्तया पूर्वस्यां दिशि पञ्चाशत्सु गङ्गानदीवालुकासमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तो विहरन्ति स्म, ते सर्वे संदृश्यन्ते स्म। तानि च बुद्धक्षेत्राणि स्फटिकमयानि संदृश्यन्ते स्म, रत्नवृक्षैश्च चित्राणि संदृश्यन्ते स्म, दूष्यपट्टदामसमलंकृतानि बहुबोधिसत्त्वशतसहस्रपरिपूर्णानि वितानविततानि सप्तरत्नहेमजालप्रतिच्छन्नानि। तेषु तेषु बुद्धा भगवन्तो मधुरेण वल्गुना स्वरेण सत्त्वानां धर्मं देशयमानाः संदृश्यन्ते स्म। बोधिसत्त्वशतसहस्रैश्च परिपूर्णानि तानि बुद्धक्षेत्राणि संदृश्यन्ते स्म। एवं पूर्वदक्षिणस्यां दिशि। एवं दक्षिणस्यां दिशि। एवं दक्षिणपश्चिमायां दिशि। एवं पश्चिमायां दिशि। एवं पश्चिमोत्तरायां दिशि। एवमुत्तरायां दिशि। एवमुत्तरपूर्वस्यां दिशि। एवमधस्तायां दिशि। एवमूर्ध्वायां दिशि। एवं समन्ताद्दशसु दिक्षु एकैकस्यां दिशि बहूनि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि बहुषु गङ्गानदीवालुकोपमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तस्तिष्ठन्ति, ते सर्वे संदृश्यन्ते स्म॥



अथ खलु ते दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धाः स्वान् स्वान् बोधिसत्त्वगणानामन्त्रयन्ति स्म-गन्तव्यं खलु पुनः कुलपुत्रा भविष्यति अस्माभिः सहां लोकधातुम्, भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकम्, प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपवन्दनाय। अथ खलु ते बुद्धा भगवन्तः स्वैः स्वैरुपस्थायकैः सार्धमात्मद्वितीया आत्मतृतीया इमां सहां लोकधातुमागच्छन्ति स्म। इति हि तस्मिन् समये इयं सर्वावती लोकधातू रत्नवृक्षप्रतिमण्डिताभूद् वैडूर्यमयी सप्तरत्नहेमजालसंछन्ना महारत्नगन्धधूपनधूपिता मान्दारवमहामान्दारवपुष्पसंस्तीर्णा किङ्किणीजालालंकृता सुवर्णसूत्राष्टापदनिबद्धा अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानी अपगतकालपर्वता अपगतमुचिलिन्दमहामुचिलिन्दपर्वता अपगतचक्रवालमहाचक्रवालपर्वता अपगतसुमेरुपर्वता अपगततदन्यमहापर्वता अपगतमहासमुद्रा अपगतनदीमहानदीपरिसंस्थिताभूत्, अपगतेदवमनुष्यासुरकाया अपगतनिरयतिर्यग्योनियमलोका। इति हि तस्मिन् समये येऽस्यां सहायां लोकधातौ षड्गत्युपपन्नाः सत्त्वाः, ते सर्वेऽन्येषु लोकधातुषूपनिक्षिप्ता अभूवन्, स्थापयित्वा ये तस्यां पर्षदि संनिपतिता अभूवन्। अथ खलु ते बुद्धा भगवन्त उपस्थायकद्वितीया उपस्थायकतृतीया इमां सहां लोकधातुमागच्छन्ति स्म। आगतागताश्च ते तथागता रत्नवृक्षमूले सिंहासनमुपनिश्रित्य विहरन्ति स्म। एकैकश्च रत्नवृक्षः पञ्चयोजनशतान्युच्चैस्त्वेनाभूत् अनुपूर्वशाखापत्रपलाशपरिणाहः पुष्पफलप्रतिमण्डितः। एकैकस्मिंश्च रत्नवृक्षमूले सिंहासनं प्रज्ञप्तमभूत् पञ्चयोजनशतान्युच्चैस्त्वेन महारत्नप्रतिमण्डितम्। तस्मिन्नेकैकस्तथागतः पर्यङ्कं बद्ध्वा निषण्णोऽभूत्। अनेन पर्यायेण सर्वस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वरत्नवृक्षमूलेषु तथागताः पर्यङ्कं बद्ध्वा निषण्णा अभूवन्॥



तेन खलु पुनः समयेन इयं त्रिसाहस्रमहासाहस्री लोकधातुस्तथागतपरिपूर्णाभूत्। न तावद् भगवतः शाक्यमुनेस्तथागतस्यात्मभावनिर्मिता एकस्मादपि दिग्भागात् सर्व आगता अभूवन्। अथ खलु पुनर्भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां तथागतविग्रहाणामागतागतानामवकाशं निर्मिमीते स्म। समन्तादष्टभ्यो दिग्भ्यो विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणि सर्वाणि वैडूर्यमयानि सप्तरत्नहेमजालसंछन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि। सर्वाणि च तानि विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राण्यपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि। तानि च सर्वाणि बहुबुद्धक्षेत्राणि एकमेव बुद्धक्षेत्रमेकमेव पृथिवीप्रदेशं परिसंस्थापयामास समं रमणीयं सप्तरत्नमयैश्च वृक्षैश्चित्रितम्। तेषां च रत्नवृक्षाणां पञ्चयोजनशतान्यारोहपरिणाहोऽनुपूर्वशाखापत्रपुष्पफलोपेतः। सर्वस्मिंश्च रत्नवृक्षमूले पञ्चयोजनशतान्यारोहपरिणाहं दिव्यरत्नमयं विचित्रं दर्शनीयं सिंहासनं प्रज्ञप्तमभूत्। तेषु रत्नवृक्षमूलेष्वागतागतास्तथागताः सिंहासनेषु पर्यङ्कं बद्ध्वा निषीदन्ते स्म। अनेन पर्यायेण पुनरपराणि विंशतिलोकधातुकोटीनयुतशतसहस्राण्येकैकस्यां दिशि शाक्यमुनिस्तथागतः परिशोधयति स्म तेषां तथागतानामागतानामवकाशार्थम्।



तान्यपि विंशतिलोकधातुकोटीनयुतशतसहस्राण्यैकैकस्यां दिशि अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि। ते च सर्वसत्त्वा अन्येषु लोकधातुषूपनिक्षिप्ताः। तान्यपि बुद्धक्षेत्राणि वैडूर्यमयानि सप्तरत्नहेमजालप्रतिच्छन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि रत्नवृक्षोपशोभितानि। सर्वे च ते रत्नवृक्षाः पञ्चयोजनशतप्रमाणाः। पञ्चयोजनप्रमाणानि च सिंहासनान्यभिनिर्मितानि। ततस्ते तथागता निषीदन्ते स्म पृथक् पृथक् सिंहासनेषु रत्नवृक्षमूलेषु पर्यङ्कं बद्ध्वा॥



तेन खलु पुनः समयेन भगवता शाक्यमुनिना ये निर्मितास्तथागताः पूर्वस्यां दिशि सत्त्वानां धर्मं देशयन्ति स्म गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनयुतशतसहस्रेषु, ते सर्वे समागता दशभ्यो दिग्भ्यः। ते चागता अष्टासु दिक्षु निषण्णा अभूवन्। तेन खलु पुनः समयेनैकैकस्यां दिशि त्रिंशल्लोकधातुकोटीशतसहस्राण्यष्टभ्यो दिग्भ्यः समन्तात्तैस्तथागतैराक्रान्ता अभूवन्। अथ खलु ते तथागताः स्वेषु स्वेषु सिंहासनेषूपविष्टाः स्वान् स्वानुपस्थायकान् संप्रेषयन्ति स्म भगवतः शाक्यमुनेरन्तिकम्। रत्नपुष्पपुटान् दत्वा एवं वदन्ति स्म-गच्छत यूयं गृध्रकूटं पर्वतम्। गत्वा च पुनस्तस्मिंस्तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं वन्दित्वा अस्मद्वचनादल्पाबाधतां मन्दग्लानतां च बलं च स्पर्शविहारतां च परिपृच्छध्वं सार्धं बोधिसत्त्वगणेन श्रावकगणेन। अनेन च रत्न‍राशिना अभ्यवकिरध्वम्, एवं च वदध्वम्-ददाति खलु पुनर्भगवांस्तथागतश्छन्दमस्य महारत्नस्तूपस्य समुद्धाटने। एवं ते तथागताः सर्वे स्वान् स्वानुपस्थायकान् संप्रेषयामासुः॥



अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां स्वान्निर्मितानशेषतः समागतान् विदित्वा, पृथक्पृथक् सिंहासनेषु निषण्णांश्च विदित्वा, तांश्चोपस्थायकांस्तेषां तथागतानामर्हतां सम्यक्संबुद्धानामागतान् विदित्वा, छन्दं च तैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरारोचितं विदित्वा, तस्यां वेलायां स्वकाद्धर्मासनादुत्थाय वैहायसमन्तरीक्षेऽतिष्ठत्। ताश्च सर्वाश्चतस्रः परिषदः उत्थायासनेभ्योऽञ्जलीः परिगृह्य भगवतो मुखमुल्लोकयन्त्यस्तस्थुः। अथ खलु भगवांस्तं महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाटयति स्म। समुद्धाट्य च द्वे भित्ती प्रविसारयति स्म। तद्यथापि नाम महानगरद्वारेषु महाकपाटसंपुटावर्गलविमुक्तौ प्रविसार्येते, एवमेव भगवांस्तं महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाट्य अपावृणोति स्म। समनन्तरविवृतस्य खलु पुनस्तस्य महारत्नस्तूपस्य, अथ खलु भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः सिंहासनोपविष्टः पर्यङ्कं बद्द्वा परिशुष्कगात्रः संघटितकायो यथा समाधिसमापन्नस्तथा संदृश्यते स्म। एवं च वाचमभाषत-साधु साधु भगवन् शाक्यमुने। सुभाषितस्तेऽयं सद्धर्मपुण्डरीको धर्मपर्यायः। साधु खलु पुनस्त्वं भगवन् शाक्यमुने यस्त्वमिमं सद्धर्मपुण्डरीकं धर्मपर्यायं पर्षन्मध्ये भाषसे। अस्यैवाहं भगवन् सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणायेहागतः॥



अथ खलु ताश्चतस्रः पर्षदस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं बहुकल्पकोटीनयुतशतसहस्रपरिनिर्वृतं तथा भाषमाणं दृष्ट्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता अभूवन्। तस्यां वेलायां तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्ध तं च भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं दिव्यमानुष्यकै रत्न‍राशिभिरभ्यवकिरन्ति स्म। अथ खलु भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धो भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य तस्मिन्नेव सिंहासनेऽर्धासनमदासीत्, तस्यैव महारत्नस्तूपाभ्यन्तरे, एवं च वदति-इहैव भगवान् शाक्यमुनिस्तथागतो निषीदतु। अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्मिन्नर्धासने निषसाद तेनैव तथागतेन सार्धम्। उभौ च तौ तथागतौ तस्य महारत्नस्तूपस्य मध्ये सिंहासनोपविष्टौ वैहायसमन्तरीक्षस्थौ संदृश्येते॥



अथ खलु तासां चतसृणां पर्षदामेतदभवत्-दूरस्था वयमाभ्यां तथागताभ्याम्। यन्नूनं वयमपि तथागतानुभावेन वैहायसमभ्युद्गच्छेम इति। अथ खलु भगवान् शाक्यमुनिस्तथागतस्तासां चतसृणां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय तस्यां वेलायामृद्धिबलेन ताश्चतस्रः पर्षदो वैहायसमुपर्यन्तरीक्षे प्रतिष्ठापयति स्म। अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां ताश्चतस्रः पर्षद आमन्त्रयते स्म-को भिक्षवो युष्माकमुत्सहते तस्यां सहायां लोकधातौ इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशयितुम्? अयं स कालः, अयं स समयः। संमुखीभूतस्तथागतः। परिनिर्वायितुकाभो भिक्षवस्तथागत इमं सद्धर्मपुण्डरीकं धर्मपर्यायमुपनिक्षिप्य॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



अयमागतो निर्वृतको महर्षी

रतनामयं स्तूप प्रविश्य नायकः।

श्रवणार्थ धर्मस्य इमस्य भिक्षवः

को धर्महेतोर्न जनेत वीर्यम्॥१॥



बहुकल्पकोटीपरिनिर्वृतोऽपि

सो नाम अद्यापि शृणोति धर्मम्।

तहिं तहिं गच्छति धर्महेतोः

सुदुर्लभो धर्म यमेवरूपः॥२॥



प्रणिधानमेतस्य विनायकस्य

निषेवितं पूर्वभवे यदासीत्।

परिनिर्वृतोऽपी इमु सर्वलोकं

पर्येषती सर्वदशद्दिशासु॥३॥



इमे च सर्वे मम आत्मभावाः

सहस्रकोट्यो यथ गङ्गवालिकाः।

ते धर्मकृत्यस्य कृतेन आगताः

परिनिर्वृतं च इमु द्रष्टु नाथम्॥४॥



छोरित्व क्षेत्राणि स्वकस्वकानि

तथ श्रावकान्तर मरुतश्च सर्वान्।

सद्धर्मसंरक्षणहेतु सर्वे

कथं चिरं तिष्ठिय धर्मनेत्री॥५॥



एतेषु बुद्धान निषीदनार्थं

बहुलोकधातून सहस्रकोट्यः।

संक्रामिता मे तथ सर्वसत्त्वा

ऋद्धीबलेन परिशोधिताश्च॥६॥



एतादृशी उत्सुकता इयं मे

कथं प्रकाशेदिय धर्मनेत्री।

इमे च बुद्धा स्थित अप्रमेया

द्रुमाण मूले यथ पद्मराशिः॥७॥



द्रुममूलकोटीय अनल्पकायो

सिंहासनस्थेहि विनायकेहि।

शोभन्ति तिष्ठन्ति च नित्यकालं

हुताशनेनेव यथान्धकारम्॥८॥



गन्धो मनोज्ञो दशसू दिशासु

प्रवायते लोकविनायकानाम्।

येना इमे मूर्च्छित सर्वसत्त्वा

वाते प्रवाते इह नित्यकालम्॥९॥



मयि निर्वृते यो एतं धर्मपर्यायु धारयेत्।

क्षिप्रं व्याहरतां वाचं लोकनाथान संमुखम्॥१०॥



परिनिर्वृतो हि संबुद्धः प्रभूतरतनो मुनिः।

सिंहनादं श्रुणे तस्य व्यवसायं करोति यः॥११॥



अहं द्वितीयो बहवो इमे च

ये कोटियो आगत नायकानाम्।

व्यवसाय श्रोष्यामि जिनस्य पुत्रात्

यो उत्सहेद्धर्ममिमं प्रकाशितुम्॥१२॥



अहं च तेन भवि पूजितः सदा

प्रभूतरत्नश्च जिनः स्वयंभूः।

यो गच्छते दिशविदिशासु नित्यं

श्रवणाय धर्मं इममेवरूपम्॥१३॥



इमे च ये आगत लोकनाथा

विचित्रिता यैरिय शोभिता भूः।

तेषां पि पूजा विपुल अनल्पका

कृता भवेत्सूत्रप्रकाशनेन॥१४॥



अहं च दृष्टो इह आसनस्मिन्

भगवांश्च योऽयं स्थितु स्तूपमध्ये।

इमे च अन्ये बहुलोकनाथा

ये आगताः क्षेत्रशतैरनेकैः॥१५॥



चिन्तेथ कुलपुत्राहो सर्वसत्वानुकम्पया।

सुदुष्करमिदं स्थानमुत्सहन्ति विनायकाः॥१६॥



बहुसूत्रसहस्राणि यथा गङ्गाय वालिकाः।

तानि कश्चित्प्रकाशेत न तद्भवति दुष्करम्॥१७॥



सुमेरुं यश्च हस्तेन अध्यालम्बित्व मुष्टिना।

क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम्॥१८॥



यश्च इमां त्रिसाहस्रीं पादाङ्गुष्ठेन कम्पयेत्।

क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम्॥१९॥



भवाग्रे यश्च तिष्ठित्वा धर्मं भाषेन्नरो इह।

अन्यसूत्रसहस्राणि न तद्भवति दुष्करम्॥२०॥



निर्वृतस्मिंस्तु लोकेन्द्रे पश्चात्काले सुदारुणे।

य इदं धारयेत् सूत्रं भाषेद्वा तत्सुदुष्करम्॥२१॥



आकाशधातुं यः सर्वामेकमुष्टिं तु निक्षिपेत्।

प्रक्षिपित्वा च गच्छेत न तद्भवति दुष्करम्॥२२॥



यस्तु ईदृशकं सूत्रं निर्वृतस्मिंस्तदा मयि।

पश्चात्काले लिखेच्चापि इदं भवति दुष्करम्॥२३॥



पृथिवीधातुं च यः सर्वं नखाग्रे संप्रवेशयेत्।

प्रक्षिपित्वा च गच्छेत ब्रह्मलोकं पि आरुहेत्॥२४॥



न दुष्करं हि सो कुर्यान्न च वीर्यस्य तत्तकम्।

तं दुष्करं करित्वान सर्वलोकस्यिहाग्रतः॥२५॥



अतोऽपि दुष्करतरं निर्वृतस्य तदा मम।

पश्चात्काले इदं सूत्रं वदेया यो मुहूर्तकम्॥२६॥



न दुष्करमिदं लोके कल्पदाहस्मि यो नरः।

मध्ये गच्छेददह्यन्तस्तृणभारं वहेत च॥२७॥



अतोऽपि दुष्करतरं निर्वृतस्य तदा मम।

धारयित्वा इदं सूत्रमेकसत्त्वं पि श्रावयेत्॥२८॥



धर्मस्कन्धसहस्राणि चतुरशीति धारयेत्।

सोपदेशान् यथाप्रोक्तान् देशयेत् प्राणिकोटिनाम्॥२९॥



न ह्येतं दुष्करं भोति तस्मिन् कालस्मि भिक्षुणाम्।

विनयेच्छ्रावकान् मह्यं पञ्चाभिज्ञासु स्थापयेत्॥३०॥



तस्येदं दुष्करतरं इदं सूत्रं च धारयेत्।

श्रद्दधेदधिमुच्येद्वा भाषेद्वापि पुनः पुनः॥३१॥



कोटीसहस्रान् बहवः अर्हत्त्वे योऽपि स्थापयेत्।

षडभिज्ञान् महाभागान् यथा गङ्गाय वालिकाः॥३२॥



अतो बहुतरं कर्म करोति स नरोत्तमः।

निर्वृतस्य हि यो मह्यं सूत्रं धारयते वरम्॥३३॥



लोकधातुसहस्रेषु बहु मे धर्म भाषिताः।

अद्यापि चाहं भाषामि बुद्धज्ञानस्य कारणात्॥३४॥



इदं तु सर्वसूत्रेषु सूत्रमग्रं प्रवुच्यते।

धारेति यो इदं सूत्रं स धारे जिनविग्रहम्॥३५॥



भाषध्वं कुलपुत्राहो संमुखं वस्तथागतः।

य उत्सहति वः कश्चित् पश्चात्कालस्मि धारणम्॥३६॥



महत्प्रियं कृतं भोति लोकनाथान सर्वशः।

दुराधारमिदं सुत्रं धारयेद्यो मुहूर्तकम्॥३७॥



संवर्णितश्च सो भोति लोकनाथेहि सर्वदा।

शूरः शौटीर्यवांश्चापि क्षिप्राभिज्ञश्च बोधये॥३८॥



धुरावाहश्च सो भोति लोकनाथान औरसः।

दान्तभूमिमनुप्राप्तः सूत्रं धारेति यो इदम्॥३९॥



चक्षुभूतश्च सो भोति लोके सामरमानुषे।

इदं सुत्रं प्रकाशित्वा निर्वृते नरनायके॥४०॥



वन्दनीयश्च सो भोति सर्वसत्त्वान पण्डितः।

पश्चिमे कालि यो भाषेत् सूत्रमेकं मुहूर्तकम्॥४१॥



अथ खलु भगवान् कृत्स्नं बोधिसत्त्वगणं ससुरासुरं च लोकमामन्त्रय एतदवोचत्-भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अहमप्रमेयासंख्येयान् कल्पान् सद्धर्मपुण्डरीकं सूत्रं पर्येषितवानखिन्नोऽविश्रान्तः। पूर्वं च अहमनेकान् कल्पाननेकानि कल्पशतसहस्राणि राजाभूवमनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानः। न च मे चित्तव्यावृत्तिरभूत्। षण्णां च पारमितानां परिपूर्या उद्युक्तोऽभूवमप्रमेयदानप्रदः सुवर्णमणिमुक्तावैदूर्यशङ्खशिलाप्रवालजातरूपरजताश्मगर्भमुसारगल्वलोहितमुक्ताग्रामनगरनिगमजनपदराष्ट्रराजधानी-भार्यापुत्रदुहितृदासीदासकर्मकरपौरुषेयहस्त्यश्वरथं यावदात्मशरीरपरित्यागी करचरणशिरोत्तमाङ्गप्रत्यङ्गजीवितदाता। न च मे कदाचिदाग्रहचित्तमुत्पन्नम्। तेन च समयेन अयं लोको दीर्घायुरभत्। अनेकवर्षशतसहस्रजीवितेन च अहं कालेन धर्मार्थं राज्यं कारितवान्, न विषयार्थम्। सोऽहं ज्येष्ठं कुमारं राज्येऽभिषिच्य चतुर्दिशं ज्येष्ठधर्मगवेषणाय उद्युक्तोऽभूवम्। एवं घण्टया घोषापयितवान्-यो मे ज्येष्ठं धर्ममनुप्रदास्यति, अर्थं चाख्यास्यति, तस्याहं दासो भूयासम्। तेन च कालेन ऋषिरभूत्। स मामेतदवोचत्-अस्ति महाराज सद्धर्मपुण्डरीकं नाम सुत्रं ज्येष्ठधर्मनिर्देशकम्। तद्यदि दास्यमभ्युपगच्छसि, ततस्तेऽहं तं धर्मं श्रावयिष्यामि। सोऽहं श्रुत्वा तस्यर्षेर्वचनं हृष्टस्तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातो येन स ऋषिस्तेनोपेयिवान्। उपेत्यावोचत्-यत्ते दासेन कर्म करणीयं तत्करोमि। सोऽहं तस्यर्षेर्दासभावमभ्युपेत्य तृणकाष्ठपानीयकन्दमूलफलादीनि प्रेष्यकर्माणि कृतवान्, यावद् द्वाराध्यक्षोऽप्यहमासम्। दिवसं चैवंविधं कर्म कृत्वा रात्रौ शयानस्य मञ्चके पादान् धारयामि। न च मे कायक्लमो न चेतसि क्लमोऽभूत्। एवं च मे कुर्वतः परिपूर्णं वर्षासहस्रं गतम्॥



अथ खलु भगवांस्तस्यां वेलायामेतमेवार्थं परिद्योतयन्निमा गाथा अभाषत—



कल्पानतीतान् समनुस्मरामि

यदाहमासं धार्मिको धर्मराजा।

राज्यं चमे धर्महेतोः कृतं त-

न्न च कामहेतोर्ज्येष्ठधर्महेतोः॥४२॥



चतुर्दिशं मे कृत घोषणोऽयं

धर्मं वदेद्यस्तस्य दास्यं व्रजेयम्।

आसीदृषिस्तेन कालेन धीमान्

सूत्रस्य सद्धर्मनाम्नः प्रवक्ताः॥४३॥



स मामवोचद्यदि ते धर्मकाङ्क्षा

उपेहि दास्यं धर्ममतः प्रवक्ष्ये।

तुष्टश्चाहं वचनं तं निशाम्य

कर्माकरोद्दासयोग्यं तदा यम्॥४४॥



न कायचित्तक्लमथो स्पृशेन्मां

सद्धर्महेतोर्दासमागतस्य।

प्रणिधिस्तदा मे भवि सत्त्वहेतो-

र्नात्मानमुद्दिश्य न कामहेतोः॥४५॥



स राज आसीत्तदा अब्धवीर्यो

अनन्यकर्माणि दशद्दिशासु।

परिपूर्ण कल्पान सहस्रखिन्नो

यावत्सूत्रं लब्धवान् धर्मनामम्॥४६॥



तत्किं मन्यध्वे भिक्षवः अन्यः स तेन कालेन तेन समयेन राजाभूत्? न खलु पुनरेवं द्रष्टव्यम्। तत्कस्य हेतोः? अहं स तेन कालेन तेन समयेन राजाभूवम्। स्यात्खलु पुनर्भिक्षवोऽन्यः स तेन कालेन तेन समयेनर्षिरभूत्? न खलु पुनरेवं द्रष्टव्यम्। अयमेव स तेन कालेन तेन समयेन देवदत्तो भिक्षुरृषिरभुत्। देवदत्तो हि भिक्षवो मम कल्याणमित्रम्। देवदत्तमेव चागम्य मया षटू पारमिताः परिपूरिताः, महामैत्री महाकरुणा महामुदिता महोपेक्षा। द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि सुवर्णवर्णच्छविता दश बलानि चत्वारि वैशारद्यानि चत्वारि संग्रहवस्तूनि अष्टादशावेणिकबुद्धधर्मा महर्द्धिबलता दशदिक्सत्त्वनिस्तारणता, सर्वमेतद्देवदत्तमागस्य। आरोचयामि वो भिक्षवः, प्रतिवेदयामि- एष देवदत्तो भिक्षुरनागतेऽध्वनि अप्रमेयैः कल्पैरसंख्येयैर्देवराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च भगवान् देवसोपानायां लोकधातौ। देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य विंशत्यन्तरकल्पानायुष्प्रमाणं भविष्यति। विस्तरेण च धर्मं देशयिष्यति। गङ्गानदीवालुकासमाश्च सत्त्वाः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति।



अनेके च सत्त्वाः प्रत्येकबोधौ चित्तमुत्पादयिष्यन्ति। गङ्गानदीवालुकासमाश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति, अवैवर्तिकक्षान्तिप्रतिलब्धाश्च भविष्यन्ति। देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य परिनिर्वृतस्य विंशत्यन्तरकल्पान् सद्धर्मः स्थास्यति। न च शरीरं धातुभेदेन भेत्स्यते। एकघनं चास्य शरीरं भविष्यति सप्तरत्नस्तूपं प्रविष्टम्। स च स्तूपः षष्टियोजनशतान्युच्चैस्त्वेन भविष्यति, चत्वारिंशद्योजनान्यायामेन। सर्वे च तत्र देवमनुष्याः पूजां करिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्गाथाभिः। तेन चाभिष्टोष्यन्ति। ये च तं स्तूपं प्रदक्षिणं करिष्यन्ति प्रणामं वा, तेषां केचिदग्रफलमर्हत्त्वं साक्षात्करिष्यन्ति केचित् प्रत्येकबोधिमनुप्राप्स्यन्ते अचिन्त्याचाश्चाप्रमेया देवमनुष्या अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य अविनिवर्तनीया भविष्यन्ति॥



अथ खलु भगवान् पुनरेव भिक्षुसंघमामन्त्रयते स्म-यः कश्चित् भिक्षवोऽनागतेऽध्वनि कुलपुत्रो वा कुलदुहिता वा इमं सद्धर्मपुण्डरीकं सूत्रपरिवर्तं श्रोष्यति, श्रुत्वा च न काङ्क्षिष्यति न विचिकित्सिष्यति, विशुद्धचित्तश्चाधिमोक्ष्यते, तेन तिसृणां दुर्गतीनां द्वारं पिथितं भविष्यति नरकतिर्यग्योनियमलोकोपपत्तिषु न पतिष्यति। दशदिग्बुद्धक्षेत्रोपपन्नश्चेदमेव सूत्रं जन्मनि जन्मनि श्रोष्यति। देवमनुष्यलोकोपपन्नस्य चास्य विशिष्टस्थानप्राप्तिर्भविष्यति। यस्मिंश्च बुद्धक्षेत्र उपपत्स्यते, तस्मिन्नौपपादुके सप्तरत्नमये पद्मे उपपत्स्यते तथागतस्य संमुखम्॥



अथ खलु तस्यां वेलायामधस्ताद्दिशः प्रभूतरत्नस्य तथागतस्य बुद्धक्षेत्रादागतः प्रज्ञाकूटो नाम बोधिसत्त्वः। स तं प्रभूतरत्नं तथागतमेतदवोचत्-गच्छामो भगवन् स्वकं बुद्धक्षेत्रम्। अथ खलु भगवान् शाक्यमुनिस्तथागतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत्-मुहूर्तं तावत् कुलपुत्र आगमयस्व यावन्मदीयेन बोधिसत्त्वेन मञ्जुश्रिया कुमारभूतेन सार्धं कंचिदेव धर्मविनिश्चयं कृत्वा पश्चात् स्वकं बुद्धक्षेत्रं गमिष्यसि। अथ खलु तस्यां वेलायां मञ्जुश्रीः कुमारभूतः सहस्रपत्रे पद्मे शकटचक्रप्रमाणमात्रे निषण्णोऽनेकबोधिसत्त्वपरिवृतः पुरस्कृतः समुद्रमध्यात् सागरनागराजभवनादभ्युद्गम्य उपरि वैहायसं खगपथेन गृध्रकूटे पर्वते भगवतोऽन्तिकमुपसंक्रान्तः। अथ मञ्जुश्रीः कुमारभूतः पद्मादवतीर्य भगवतः शाक्यमुनेः प्रभूतरत्नस्य च तथागतस्य पादौ शिरसाभिवन्दित्वा येन प्रज्ञाकूटो बोधिसत्त्वस्तेनोपसंक्रान्तः। उपसंक्रम्य प्रज्ञाकूटेन बोधिसत्त्वेन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथामुपसंगृह्य एकान्ते न्यषीदत्। अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतमेतदवोचत्-समुद्रमध्यगतेन त्वया मञ्जुश्रीः कियान् सत्त्वधातुर्विनीतः? मञ्जुश्रीराह-अनेकान्यप्रमेयाण्यसंख्येयानि सत्त्वानि विनीतानि। तावदप्रमेयाण्यसंख्येयानि यावद्वाचा न शक्यं विज्ञापयितुं चित्तेन वा चिन्तयितुम्।



मुहूर्तं तावत् कुलपुत्र आगमयस्व यावत् पूर्वनिमित्तं द्रक्ष्यसि। समनन्तरभाषिता चेयं मञ्जुश्रिया कुमारभूतेन वाक्, तस्यां वेलायामनेकानि पद्मसहस्राणि समुद्रमध्यादभ्युद्गतानि उपरि वैहायसम्। तेषु च पद्मेष्वनेकानि बोधिसत्त्वसहस्राणि संनिषण्णानि। अथ ते बोधिसत्त्वास्तेनैव खगपथेन येन गृध्रकूटः पर्वतस्तेनोपसंक्रान्ताः। उपसंक्रम्य ततश्चोपरि वैहायसं स्थिताः संदृश्यन्ते स्म। सर्वे च ते मञ्जुश्रिया कुमारभूतेन विनीता अनुत्तरायां सम्यक्संबोधौ। तत्र ये बोधिसत्त्वा महायानसंप्रस्थिताः पूर्वमभूवन्, ते महायानगुणान् षट् पारमिताः संवर्णयन्ति। ये श्रावकपूर्वा बोधिसत्त्वास्ते श्रावकयानमेव संवर्णयन्ति। सर्वे च ते सर्वधर्मान् शून्यानिति संजानन्ति स्म, महायानगूणांश्च। अथ खलु मञ्जुश्रीः कुमारभूतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत्-सर्वोऽयं कुलपुत्र मया समुद्रमध्यगतेन सत्त्वविनयः कृतः। स चायं संदृश्यते। अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतं गाथाभिगीतेन परिपृच्छति—



महाभद्र प्रज्ञया सूरनामन्

असंख्येया ये विनीतास्त्वयाद्य।

सत्त्वा अमी कस्य चायं प्रभाव-

स्तद्बूहि पृष्टो नरदेव त्वमेतत्॥४७॥



कं वा धर्मं देशितवानसि त्वं

किं वा सूत्रं बोधिमार्गोपदेशम्।

यच्छ्रुत्वामी बोधये जातचित्ताः

सर्वज्ञत्वे निश्चितं लब्धगाधाः॥४८॥



मञ्जुश्रीराह-समुद्रमध्ये सद्धर्मपुण्डरीकं सूत्रं भाषितवान्, न चान्यत्। प्रज्ञाकूट आह-इदं सूत्रं गम्भीरं सूक्ष्मं दुर्दृशम्, न चानेन सुत्रेण किंचिदन्यत् सूत्रं सममस्ति। अस्ति कश्चित् सत्त्वो य इदं सूत्ररत्नं सत्कुर्यादवबोद्धुमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्? मञ्जुश्रीराह-अस्ति कुलपुत्र सागरस्य नागराज्ञो दुहिता अष्टवर्षा जात्या महाप्रज्ञा तीक्ष्णेन्द्रिया ज्ञानपूर्वंगमेन कायवाङ्मनस्कर्मणा समन्वागता सर्वतथागतभाषितव्यञ्जनार्थोद्ग्रहणे धारणीप्रतिलब्धा सर्वधर्मसत्त्वसमाधानसमाधिसहस्रैकक्षणप्रतिलाभिनी। बोधिचित्ताविनिवर्तिनी विस्तीर्णप्रणिधाना सर्वसत्त्वेष्वात्मप्रेमानुगता गुणोत्पादने च समर्था। न च तेभ्यः परिहीयते। स्मितमुखी परमया शुभवर्णपुष्कलतया समन्वागता मैत्रचित्ता करुणां च वाचं भाषते। सा सम्यक्संबोधिमभिसंबोद्धुं समर्थां। प्रज्ञाकूटो बोधिसत्त्व आह-दृष्टो मया भगवान् शाक्यमुनिस्तथागतो बोधाय घटमानो बोधिसत्त्वभूतोऽनेकानि पुण्यानि कृतवान्। अनेकानि च कल्पसहस्राणि न कदाचिद् वीर्यं स्रंसितवान्। त्रिसाहस्रमहासाहस्रायां लोकधातौ नास्ति कश्चिदन्तशः सर्षपमात्रोऽपि पृथिवीप्रदेशः यत्रानेन शरीरं न निक्षिप्तं सत्त्वहितहेतोः। पश्चाद् बोधिमभिसंबुद्ध। क एवं श्रद्दध्यात्, यदनया शक्यं मुहूर्तेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्?



अथ खलु तस्यां वेलायां सागरनागराजदुहिता अग्रतः स्थिता संदृश्यते स्म। सा भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽस्थात्। तस्यां वेलायामिमा गाथा अभाषत—



पुण्यं पुण्यं गभीरं च दिशः स्फुरति सर्वशः।

सूक्ष्मं शरीरं द्वात्रिंशल्लक्षणैः समलंकृतम्॥४९॥



अनुव्यजनयुक्तं च सर्वसत्त्वनमस्कृतम्।

सर्वसत्त्वाभिगम्यं च अन्तरापणवद्यथा॥५०॥



यथेच्छया मे संबोधिः साक्षी मेऽत्र तथागतः।

विस्तीर्णं देशयिष्यामि धर्मं दुःखप्रमोचनम्॥५१॥



अथ खलु तस्यां वेलायामायुष्मान् शारिपुत्रस्तां सागरनागराजदुहितरमेतदवोचत्-केवलं कुलपुत्रि बोधाय चित्तमुत्पन्नम्। अविवर्त्याप्रमेयप्रज्ञा चासि। सम्यक्संबुद्धत्वं तु दुर्लभम्। अस्ति कुलपुत्रि स्त्री न च वीर्यं स्रंसयति, अनेकानि च कल्पशतान्यनेकानि च कल्पसहस्राणि पुण्यानि करोति, षट् पारमिताः परिपूरयति, न चाद्यापि बुद्धत्वं प्राप्नोति। किं कारणम्? पञ्च स्थानानि स्त्री अद्यापि न प्राप्नोति। कतमानि पञ्च? प्रथमं ब्रह्मस्थानं द्वितीयं शक्रस्थानं तृतीयं महाराजस्थानं चतुर्थं चक्रवर्तिस्थानं पञ्चममवैवर्तिकबोधिसत्त्वस्थानम्॥



अथ खलु तस्यां वेलायां सागरनागराजदुहितुरेको मणिरस्ति, यः कृत्स्नां महासाहस्रां लोकधातुं मूल्यं क्षमते। स च मणिस्तया सागरनागराजदुहित्रा भगवते दत्तः। स भगवता च अनुकम्पामुपादाय प्रतिगृहीतः। अथ सागरनागराजदुहिता प्रज्ञाकूटं बोधिसत्त्वं स्थविरं च शारिपुत्रमेतदवोचत्-योऽयं मणिर्मया भगवतो दत्तः, स च भगवता शीर्घ्रं प्रतिगृहीतो वेति? स्थविर आह-त्वया च शीघ्रं दत्तो भगवता च शीघ्रं प्रतिगृहीतः। सागरनागराजदुहिता आह-यद्यहं भदन्त शारिपुत्र महर्द्धिकी स्याम्, शीघ्रतरं सम्यक्संबोधिमभिसंबुध्येयम्। न चास्य मणेः प्रतिग्राहकः स्यात्॥



अथ तस्यां वेलायां सागरनागराजदुहिता सर्वलोकप्रत्यक्षं स्थविरस्य च शारिपुत्रस्य प्रत्यक्षं तत् स्त्रीन्द्रियमन्तर्हितं पुरुषेन्द्रियं च प्रादुर्भूतं बोधिसत्त्वभूतं चात्मानं संदर्शयति। तस्यां वेलायां दक्षिणां दिशं प्रक्रान्तः। अथ दक्षिणस्यां दिशि विमला नाम लोकधातुः। तत्र सप्तरत्नमये बोधिवृक्षमूले निषण्णमभिसंबुद्धमात्मानं संदर्शयति स्म, द्वात्रिंशल्लक्षणधरं सर्वानुव्यजनरूपं प्रभया च दशदिशं स्फुरित्वा धर्मदेशनां कुर्वाणम्। ये च सहायां लोकधातौ सत्त्वाः, ते सर्वे तं तथागतं पश्यन्ति स्म, सर्वैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमनुष्यामनुष्यैर्नमस्यमानं धर्मदेशनां च कुर्वन्तम्। ये च सत्त्वास्तस्य तथागतस्य धर्मदेशनां शृण्वन्ति, सर्वे तेऽविनिवर्तनीया भवन्त्यनुत्तरायां सम्यक्संबोधौ। सा च विमला लोकधातुः, इयं च सहा लोकधातुः षड्विकारं प्राकम्पत्। भगवतश्च शाक्यमुनेः पर्षन्मण्डलानां त्रयाणां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभोऽभूत्। त्रयाणां च प्राणिशतसहस्राणामनुत्तरायां सम्यक्संबोधौ व्याकरणप्रतिलाभोऽभूत्। अथ प्रज्ञाकूटो बोधिसत्त्वो महासत्त्वः स्थविरश्च शारिपुत्रस्तूष्णीमभूताम्॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये स्तूपसंदर्शनपरिवर्तो नामैकादशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project