Digital Sanskrit Buddhist Canon

१० धर्मभाणकपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

10 dharmabhāṇakaparivartaḥ

१० धर्मभाणकपरिवर्तः।



अथ खलु भगवन् भैषज्यराजं बोधिसत्त्वं महासत्त्वमारभ्य तान्यशीतिं बोधिसत्त्वसहस्राण्यामन्त्रयते स्म-पश्यसि त्वं भैषज्यराज अस्यां पर्षदि बहुदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यान् भिक्षुभिक्षुण्युपासकोपासिकाः श्रावकयानीयान् प्रत्येकबुद्धयानियान् बोधिसत्त्वयानीयांश्च, यैरयं धर्मपर्यायस्तथागतस्य संमुखं श्रुतः? आह-पश्यामि भगवन्, पश्यामि सुगत। भगवानाह-सर्वे स्वल्वेते भैषज्यराज बोधिसत्त्वा महासत्त्वाः, यैरस्यां पर्षदि अन्तशः एकापि गाथा श्रुता, एकपदमपि श्रुतम्, यैर्वा पुनरन्तश एकचित्तोत्पादेनाप्यनुमोदितमिदं सूत्रम्। सर्वा एता अहं भैषज्यराज चतस्रः पर्षदो व्याकरोम्यनुत्तरायां सम्यक्संबोधौ। येऽपि केचिद् भैषज्यराज तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं श्रोष्यन्ति, अन्तश एकगाथामपि श्रुत्वा, अन्तश एकेनापि चित्तोत्पादेन अभ्यमुमोदयिष्यन्ति, तानप्यहं भैषज्यराज कुलपुत्रान् व कुलदुहितृर्वा व्याकरोम्यनुत्तरायां सम्यक्संबोधौ। परिपूर्णबुद्धकोटीनयुतशतसहस्रपर्युपासिताविनस्ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भैष्यन्ति। बुद्धकोटीनयुतशतसहस्रकृतप्रणिधानास्ते भैषज्यराजकुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति। सत्त्वानामनुकम्पार्थमस्मिन् जम्बुद्वीपे मनुष्येषु प्रत्याजाता वेदितव्याः, य इतो धर्मपर्यायादन्तश एकगाथामपि धारयिष्यन्ति वाचयिष्यन्ति प्रकाशयिष्यन्ति संग्राहयिष्यन्ति लिखिष्यन्ति, लिखित्वा चानुस्मरिष्यन्ति, कालेन च कालं व्यवलोकयिष्यन्ति। तस्मिंश्च पुस्तके तथागतगौरवमुत्पादयिष्यन्ति, शास्तृगौरवेण सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति। तं च पुस्तकं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्यादिभिर्नमस्काराञ्जलिकर्मभिश्च पूजयिष्यन्ति। ये केचिद् भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा इतो धर्मपर्यायादन्तश एकगाथामपि धारयिष्यन्ति अनुमोदयिष्यन्ति वा, सर्वांस्तानहं भैषज्यराज व्याकरोम्यनुत्तरायां सम्यक्संबोधौ॥



तत्र भैषज्यराज यः कश्चिदन्यतरः पुरुषो वा स्त्री वा एवं वदेत्-कीदृशाः खल्वपि ते सत्त्वा भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा इति? तस्य भैषज्यराज पुरुषस्य वा स्त्रिया वा स कुलपुत्रो वा कुलदुहिता वा दर्शयितव्यः, य इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां धारयिता श्रावयिता वा देशयिता वा सगौरवो वेह धर्मपर्याये। अयं स कुलपुत्रो वा कुलदुहिता वा, यो ह्यनागतेऽध्वनि तथागतोऽर्हन् सम्यक्संबुद्धो भविष्यति। एवं पश्य। तत्कस्य हेतोः? स हि भैषज्यराज कुलपुत्रो वा कुलदुहिता व तथागतो वेदितव्यः सदेवकेन लोकेन। तस्य च तथागतस्यैवं सत्कारः कर्तव्यः, यः खल्वस्माद्धर्मपर्यायादन्तश एकगाथामपि धारयेत्, कः पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्त मुद्गृह्णीयाद् धारयेद्वा वाचयेद्वा पर्यवाप्नुयाद्वा प्रकाशयेद्वा लिखेद्वा लिखापयेद्वा, लिखित्वा चानुस्मरेत्। तत्र च पुस्तके सत्कारं कुर्यात् गुरुकारं कुर्यात् माननां पूजनामर्चनामपचायनां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्याञ्जलिनमस्कारैः प्रणामैः। परिनिष्पन्नः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ वेदितव्यः। तथागतदर्शी च वेदितव्यः। लोकस्य हितानुकम्पकः प्रणिधानवशेनोपपन्नोऽस्मिन् जम्बुद्वीपे मनुष्येषु अस्य धर्मपर्यायस्य संप्रकाशनतायैः। यः स्वयमुदारं धर्माभिसंस्कारमुदारां च बुद्धक्षेत्रोपपत्तिं स्थापयित्वा अस्य धर्मपर्यायस्य संप्रकाशनहेतोर्मयि परिनिर्वृते सत्त्वानां हितार्थमनुकम्पार्थं च इहोपपन्नो वेदितव्यः। तथागतदूतः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा वेदितव्यः। तथागतकृत्यकरस्तथागतसंप्रेषितः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा संज्ञातव्यः, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य संप्रकाशयेत्, अन्तशो रहसि चौर्येणापि कस्यचिदेकसत्त्वस्यापि संप्रकाशयेदाचक्षीत वा॥



यः खलु पुनर्भैषज्यराज कश्चिदेव सत्त्वो दुष्टचित्तः पापचित्तो रौद्रचित्तस्तथागतस्य संमुखं कल्पमवर्णं भाषेत्, यश्च तेषां तथारूपाणां धर्मभाणकानामस्य सूत्रान्तस्य धारकाणां गृहस्थानां वा प्रव्रजितानां वा एकामपि वाचमप्रियां संश्रावयेद् भूतां वा अभूतां वा, इद मागाढतरं पापकं कर्मेति वदामि। तत्कस्य हेतोः? तथागतभारणप्रतिमण्डितः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा वेदितव्यः। तथागतं स भैषज्यराज अंसेन परिहरति, य इमं धर्मपर्यायं लिखित्वा पुस्तकगतं कृत्वा अंसेन परिहरति। स येन येनैव प्रक्रामेत्, तेन तेनैव सत्त्वैरञ्जलीकरणीयः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्योऽर्चयितव्योऽपचायितव्यो दिव्यमानुष्यकैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्यखाद्यभोज्यान्नपानयानैरग्रप्राप्तैश्च दिव्यै रत्न‍राशिभिः। स धर्मभाणकः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः, दिव्याश्च रत्न‍राशयस्तस्य धर्मभाणकस्योपनामयितव्याः। तत्कस्य हेतोः? अप्येव नाम एकवारमपि इमं धर्मपर्यायं संश्रावयेत्, यं श्रुत्वा अप्रमेया असंख्येयाः सत्त्वाः क्षिप्रमनुत्तरायां सम्यक्संबोधौ परिनिष्पद्येयुः॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



बुद्धत्वे स्थातुकामेन स्वयंभूज्ञानमिच्छता।

सत्कर्तव्याश्च ते सत्त्वा ये धारेन्ति इमं नयम्॥१॥



सर्वज्ञत्वं च यो इच्छेत् कथं शीर्घं भवेदिति।

स इमं धारयेत् सूत्रं सत्कुर्याद्वापि धारकम्॥२॥



प्रेषितो लोकनाथेन सत्त्ववैनेयकारणात्।

सत्त्वानामनुकम्पार्थं सूत्रं यो वाचयेदिदम्॥३॥



उपपत्तिं शूभां त्यक्त्वा स धीर इह आगतः।

सत्त्वानामनुकम्पार्थं सूत्रं यो धारयेदिदम्॥४॥



उपपत्ति वशा तस्य येन सो दृश्यते तहि।

पश्चिमे कालि भाषन्तो इदं सूत्रं निरुत्तरम्॥५॥



दिव्येहि पुष्पेहि च सत्करेत

मानुष्यकैश्चापि हि सर्वगन्धैः।

दिव्येहि वस्त्रेहि च छादयेया

रत्नेहि अभ्योकिरि धर्मभाणकम्॥६॥



कृताञ्जली तस्य भवेत नित्यं

यथा जिनेन्द्रस्य स्वयंभुवस्तथा।

यः पश्चिमे कालि सुभैरवेऽस्मिन्

परिनिर्वृतस्य इद सुत्र धारयेत्॥७॥



खाद्यं च भोज्यं च तथान्नपानं

विहारशय्यासनवस्त्रकोट्यः।

ददेय पूजार्थ जिनात्मजस्य

अप्येकवारं पि वदेत सूत्रम्॥८॥



तथागतानां करणीय कुर्वते

मया च सो प्रेषित मानुषं भवम्।

यः सूत्रमेतच्चरिमस्मि काले

लिखेय धारेय श्रुणेय वापि॥९॥



यश्चैव स्थित्वेह जिनस्य संमुखं

श्रावेदवर्णं परिपूर्णकल्पम्।

प्रदुष्टचित्तो भृकुटिं करित्वा

बहुं नरोऽसौ प्रसवेत पापम्॥१०॥



यश्चापि सूत्रान्तधराण तेषां

प्रकाशयन्तानिह सूत्रमेतत्।

अवर्णमाक्रोश वदेय तेषां

बहूतरं तस्य वदामि पापम्॥११॥



नरश्च यो संमुख संस्तवेया

कृताञ्जली मां परिपूर्णकल्पम्।

गाथान कोटीनयुतैरनेकैः

पर्येषमाणो इममग्रबोधिम्॥१२॥



बहुं खु सो तत्र लभेत पुण्यं

मां संस्तवित्वान प्रहर्षजातः।

अतश्च सो बहुतरकं लभेत

यो वर्ण तेषां प्रवदेन्मनुष्यः॥१३॥



अष्टादश कल्पसहस्रकोट्यो

यस्तेषु पुस्तेषु करोति पूजाम्।

शब्देहि रूपेहि रसेहि चापि

दिव्यैश्च गन्धैश्च स्पर्शैश्च दिव्यैः॥१४॥



करित्व पुस्तान तथैव पूजां

अष्टादश कल्पसहस्रकोट्यः।

यदि श्रुणो एकश एत सूत्रं

आश्चर्यलाभोऽस्य भवेन्महानिति॥१५॥



आरोचयामि ते भैषज्यराज, प्रतिवेदयामि ते। बहवो हि मया भैषज्यराज धर्मपर्याया भाषिताः, भाषामि भाषिष्ये च। सर्वेषां च तेषां भैषज्यराज धर्मपर्यायाणामयमेव धर्मपर्यायः सर्वलोकविप्रत्यनीकः सर्वलोकाश्रद्दधनीयः। तथागतस्याप्येतद् भैषज्यराज आध्यात्मिकधर्मरहस्यं तथागतबलसंरक्षितमप्रतिभिन्नपूर्वमनाचक्षितपूर्वमनाख्यातमिदं स्थानम्। बहुजनप्रतिक्षिप्तोऽयं भैषज्यराज धर्मपर्यायस्तिष्ठतोऽपि तथागतस्य, कः पुनर्वादः परिनिर्वृतस्य॥



अपि तु खलु पुनर्भैषज्यराज तथागतचीवरच्छन्नास्ते कुलपुत्रा वा कुलदुहितरो वा वेदितव्याः। अन्यलोकधातुस्थितैश्च तथागतैरवलोकिताश्च अधिष्ठिताश्च। प्रत्यात्मिकं च तेषां श्रद्धाबलं भविष्यति, कुशलमूलबलं च प्रणिधानबलं च। तथागतविहारैकस्थाननिवासिनश्च ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, तथागतपाणिपरिमार्जितमूर्धानश्च ते भविष्यन्ति, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य श्रद्दधिष्यन्ति वाचयिष्यन्ति लिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति परेषां च संश्रावयिष्यन्ति॥



यस्मिन् खलु पुनर्भैषज्यराज पृथिवीप्रदेशेऽयं धर्मपर्यायो भाष्येत वा देश्येत वा लिख्येत वा स्वाध्यायेत वा संगायेत वा, तस्मिन् भैषज्यराज पृथिवीप्रदेशे तथागतचैत्यं कारयितव्यं महन्तं रत्नमयमुच्चं प्रगृहीतम्। न च तस्मिन्नवश्यं तथागतशरीराणि प्रतिष्ठापयितव्यानि। तत्कस्य हेतोः? एकघनमेव तस्मिंस्तथागतशरीरमुपनिक्षिप्तं भवति, यस्मिन् पृथिवीप्रदेशेऽयं धर्मपर्यायो भाष्येत वा देश्येत वा पठ्येत वा संगायेत वा लिख्येत वा लिखितो वा पुस्तकगतस्तिष्ठेत्। तस्मिंश्च स्तूपे सत्कारो गुरुकारो मानना पूजना अर्चना करणीया सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः। सर्वगीतवाद्यनृत्यतूर्यतालावचरसंगीतिसंप्रवादितैः पूजा करणीया। ये च खलु पुनर्भैषज्यराज सत्त्वास्तं तथागतचैत्यं लभेरन् वन्दनाय पूजनाय दर्शनाय वा, सर्वे ते भैषज्यराज अभ्यासन्नीभूता वेदितव्या अनुत्तरायाः सम्यक्संबोधेः। तत्कस्य हेतोः? बहवो भैषज्यराज गृहस्थाः प्रव्रजिताश्च बोधिसत्त्वचर्यां चरन्ति, न च पुनरिमं धर्मपर्यायं लभन्ते दर्शनाय वा श्रवणाय वा लिखनाय वा पूजनाय वा। न तावत्ते भैषज्यराज बोधिसत्त्वचर्यायां कुशला भवन्ति, यावन्नेमं धर्मपर्यायं शृण्वन्ति। ये त्विमं धर्मपर्यायं शृण्वन्ति, श्रुत्वा चाधिमुच्यन्ति अवतरन्ति विजानन्ति परिगृह्णन्ति, तस्मिन् समये ते आसन्नस्थायिनो भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ, अभ्याशीभूताः॥



तद्यथापि नाम भैषज्यराज कश्चिदेव पुरुषो भवेदुदकार्थी उदकगवेषी। स उदकार्थमुज्जङ्गले पृथिवीप्रदेशे उदपानं खानयेत्। स यावत् पश्येच्छुष्कं पाण्डरं पांसुं निर्वाह्यमानम्, तावज्जानीयात्, दूर इतस्तावदूदकमिति। अथ परेण समयेन स पुरुष आर्द्रपंसुमुदकसंनिश्रं कर्दमपङ्कभुतमुदकबिन्दुभिः स्रवद्भिर्निर्वाह्यमानं पश्येत्, तांश्च पुरुषानुदपानखानकान् कर्दमपङ्कदिग्धाङ्गान्, अथ खलु पुनर्भैषज्यराज स पुरुषस्तत्पूर्वनिमित्तं दृष्ट्वा निष्काङ्क्षो भवेन्निर्विचिकित्सः-आसन्नमिदं खलूदकमिति। एवमेव भैषज्यराज दूरे ते बोधिसत्त्वा महासत्त्वा भवन्त्यनुत्तरायां सम्यक्संबोधौ, यावन्नेमं धर्मपर्यायं शृण्वन्ति, नोद्गृह्णन्ति नावतरन्ति नावगाहन्ते न चिन्तयन्ति। यदा खलु पुनर्भैषज्यराज बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं शृण्वन्ति उद्गृह्णन्ति धारयन्ति वाचयन्ति अवतरन्ति स्वाध्यायन्ति चिन्तयन्ति भवयन्ति, तदा तेऽभ्याशीभूता भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ। सत्त्वानामितो भैषज्यराज धर्मपर्यायादनुत्तरा सम्यक्संबोधिराजायते। तत्कस्य हेतोः? परमसंधाभाषितविवरणो ह्ययं धर्मपर्यायस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः। धर्मनिगूढस्थानमाख्यातं बोधिसत्त्वानां महासत्त्वानां परिनिष्पत्तिहेतोः। यः कश्चिद् भैषज्यराज बोधिसत्त्वोऽस्य धर्मपर्यायस्योत्रसेत् संत्रसेत् संत्रासमापद्येत्, नवयानसंप्रस्थितः स भैषज्यराज बोधिसत्त्वो महासत्त्वो वेदितव्यः। सचेत् पुनः श्रावकयानीयोऽस्य धर्मपर्यायस्योत्रसेत् संत्रसेत् संत्रासमापद्येत, अधिमानिकः स भैषज्यराज श्रावकयानिकः पुद्गलो वेदितव्यः॥



यः कश्चिद् भैषज्यराज बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये इमं धर्मपर्यायं चतसृणां पर्षदां संप्रकाशयेत्, तेन भैषज्यराज बोधिसत्त्वेन महासत्त्वेन तथागतलयनं प्रविश्य तथागतचीवरं प्रावृत्य तथागतस्यासने निषद्य अयं धर्मपर्यायश्चतसृणां पर्षदां संप्रकाशयितव्यः। कतमश्च भैषज्यराज तथागतलयनम्? सर्वसत्त्वमैत्रीविहारः स्वलु पुनर्भैषज्यराज तथागतलयनम्। तत्र तेन कुलपुत्रेण प्रवेष्टव्यम्। कतमच्च भैषज्यराज तथागतचीवरम्? महाक्षान्तिसौरत्यं खलु पुनर्भैषज्यराज तथागतचीवरम्। तत्तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रावरितव्यम्। कतमच्च भैषज्यराज तथागतस्य धर्मासनम्? सर्वधर्मशून्यताप्रवेशः खलु पुनर्भैषज्यराज तथागतस्य धर्मासनम्। तत्र तेन कुलपुत्रेण निषत्तव्यम्, निषद्य चायं धर्मपर्यायश्चतसृणां पर्षदां संप्रकाशयितव्यः। अनवलीनचित्तेन बोधिसत्त्वेन पुरस्ताद्बोधिसत्त्वगणस्य बोधिसत्त्वयानसंप्रस्थितानां चतसृणां पर्षदां संप्रकाशयितव्यः। अन्यलोकधातुस्थितश्चाहं भैषज्यराज तस्य कुलपुत्रस्य निर्मितैः पर्षदः समावर्तयिष्यामि। निर्मितांश्च भिक्षुभिक्षुण्युपासकोपासिकाः संप्रेषयिष्यामि धर्मश्रवणाय। ते तस्य धर्मभाणकस्य भाषितं न प्रतिबाधिष्यन्ति, न प्रतिक्षेप्स्यन्ति। सचेत्खलु पुनररण्यगतो भविष्यति, तत्राप्यहमस्य बहुदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगान् संप्रेषयिष्यामि धर्मश्रवणाय। अन्यलोकधातुस्थितश्चाहं भैषज्यराज तस्य कुलपुत्रस्य मुखमुपदर्शयिष्यामि। यानि च अस्य अस्माद्धर्मपर्यायात् पदव्यञ्जनानि परिभ्रष्टानि भविष्यन्ति, तानि तस्य स्वाध्यायतः प्रत्युच्चारयिष्यामि॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



लीयनां सर्व वर्जित्वा शृणुयात् सूत्रमीदृशम्।

दुर्लभो वै श्रवो ह्यस्य अधिमुक्ती पि दुर्लभा॥१६॥



उदकार्थी यथा कश्चित् खानयेत् कूप जङ्गले।

शुष्कं च पांसु पश्येत खान्यमाने पुनः पुनः॥१७॥



सो दृष्ट्वा चिन्तयेत्तत्र दूरे वारि इतो भवेत्।

इदं निमित्तं दूरे स्यात् शुष्कपांसुरितोत्सृतः॥१८॥



यदा तु आर्द्रं पश्येत पांसुं स्निग्धं पुनः पुनः।

निष्ठा तस्य भवेत्तत्र नास्ति दूरे जलं इह॥१९॥



एवमेव तु ते दूरे बुद्धज्ञानस्य तादृशाः।

अशृण्वन्त इदं सूत्रमभावित्वा पुनः पुनः॥ २०॥



यदा तु गम्भीरमिदं श्रावकाणां विनिश्चयम्।

सूत्रराजं श्रुणिष्यन्ति चिन्तयिष्यन्ति वा सकृत्॥२१॥



ते भोन्ति संनिकृष्टा वै बुद्धज्ञानस्य पण्डिताः।

यथैव चार्द्रे पांसुस्मिन् आसन्नं जलमुच्यते॥२२॥



जिनस्य लेनं प्रविशित्वा प्रावरित्वा मि चीवरम्।

ममासने निषीदित्वा अभीतो भाषि पण्डितः॥२३॥



मैत्रीबलं च लयनं क्षान्तिसौरत्य चीवरम्।

शून्यता चासनं मह्यमत्र स्थित्वा हि देशयेत्॥२४॥



लोष्टं दण्डं वाथ शक्ती आक्रोश तर्जनाथ वा।

भाषन्तस्य भवेत्तत्र स्मरन्तो मम ता सहेत्॥२५॥



क्षेत्रकोटीसहस्रेसु आत्मभावो दृढो मम।

देशेमि धर्म सत्त्वानां कल्पकोटीरचिन्तियाः॥२६॥



अहं पि तस्य वीरस्य यो मह्य परिनिर्वृते।

इदं सूत्रं प्रकाशेया प्रेषेष्ये बहु निर्मितान्॥२७॥



भिक्षवो भिक्षुणीया च उपासका उपासिकाः।

तस्य पूजां करिष्यन्ति पर्षदश्च समा अपि॥२८॥



लोष्टं दण्डांस्तथाक्रोशांस्तर्जनां परिभाषणाम्।

ये चापि तस्य दास्यन्ति वारेष्यन्ति स्म निर्मिताः॥२९॥



यदापि चैको विहरन् स्वाध्यायन्तो भविष्यति।

नरैर्विरहिते देशे अटव्यां पर्वतेषु वा॥३०॥



ततोऽस्य अहं दर्शिष्ये आत्मभाव प्रभास्वरम्।

स्खलितं चास्य स्वाध्यायमुच्चारिष्ये पुनः पुनः॥३१॥



तहिं च स्य विहरतो एकस्य वनचारिणः।

देवान् यक्षांश्च प्रेषिष्ये सहायांस्तस्य नैकशः॥३२॥



एतादृशास्तस्य गुणा भवन्ति

चतुर्ण पर्षाण प्रकाशकस्य।

एको विहारे वनकन्दरेषु

स्वाध्याय कुर्वन्तु ममाहि पश्येत्॥३३॥



प्रतिभान तस्य भवती असङ्गं

निरुक्ति धर्माण बहू प्रजानाति।

तोषेति सो प्राणिसहस्रकोट्यः

यथापि बुद्धेन अधिष्ठितत्वात्॥३४॥



ये चापि तस्याश्रित भोन्ति सत्त्वा-

स्ते बोधिसत्त्वा लघु भोन्ति सर्वे-

तत्संगतिं चापि निषेवमाणाः

पश्यन्ति बुद्धान यथ गङ्गवालिकाः॥३५॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकपरिवर्तो नाम दशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project