Digital Sanskrit Buddhist Canon

९ आनन्दादिव्याकरणपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 9 ānandādivyākaraṇaparivartaḥ
९ आनन्दादिव्याकरणपरिवर्तः।



अथ खल्वायुष्मानानन्दस्तस्यां वेलायामेवं चिन्तयामास-अप्येव नाम वयमेवंरूपं व्याकरणं प्रतिलभेमहि। एवं च चिन्तयित्वा अनुविचिन्त्य प्रार्थयित्वा उत्थायासनाद् भगवतः पादयोर्निपत्य, आयुष्मांश्च राहुलोऽप्येवं चिन्तयित्वा अनुविचिन्त्य प्रार्थयित्वा भगवतः पादयोर्निपत्य एवं वाचमभाषत-अस्माकमपि तावद् भगवन् अवसरो भवतु। अस्माकमपि तावत् सुगत अवसरो भवतु। अस्माकं हि भगवान् पिता जनको लयनं त्राणं च। वयं हि भगवन् सदेवमानुषासुरे लोकेऽतीव चित्रीकृताः-भगवतश्चैते पुत्रः भगवतश्चोपस्थायकाः भगवतश्च धर्मकोशं धारयन्तीति। तन्नाम भगवन् क्षिप्रमेव प्रतिरूपं भवेद् यद् भगवानस्माकं व्याकुर्यादनुत्तरायां सम्यक्संबोधौ॥



अन्ये च द्वे भिक्षुसहस्रे सातिरेके शैक्षाशैक्षाणां श्रावकाणामुत्थायासनेभ्य एकांसमुत्तरासङ्गं कृत्वा अञ्जलिं प्रगृह्य भगवतोऽभिमुखं भगवन्तमुल्लोकयमाने तस्थतुः एतामेव चिन्तामनुविचिन्तयमाने यदुत इदमेव बुद्धज्ञानम्-अप्येव नाम वयमपि व्याकरणं प्रतिलभेमहि अनुत्तरायां सम्यक्संबोधाविति॥



अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-भविष्यसि त्वमानन्द अनागतेऽध्वनि सागरवरधरबुद्धिविक्रीडिताभिज्ञो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। द्वाषष्टीनां बुद्धकोटीनां सत्कारं कृत्वा, गुरुकारं माननां पूजनां च कृत्वा, तेषां बुद्धानां भगवतां सद्धर्मं धारयित्वा, शासनपरिग्रहं च कृत्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसि। स त्वमानन्द अनुत्तरां सम्यक्संबोधिं संबुद्धः समानो विंशतिगङ्गानदीवालुकासमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि परिपाचयिष्यस्यनुत्तरायां सम्यक्संबोधौ। समृद्धं च ते बुद्धक्षेत्रं भविष्यति वैडूर्यमयं च। अनवनामितवैजयन्ती च नाम सा लोकधातुर्भविष्यति। मनोज्ञशब्दाभिगर्जितश्च नाम स कल्पो भविष्यति। अपरिमितांश्च कल्पांस्तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य आयुष्प्रमाणं भविष्यति, येषां कल्पानां न शक्यं गणनया पर्यन्तोऽधिगन्तुम्। तावदसंख्येयानि तानि कल्पकोटीनयुतशतसहस्राणि तस्य भगवत आयुष्प्रमाणं भविष्यति। यावच्च आनन्द तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यायुष्प्रमाणं भविष्यति, तद्द्विगुणं परिनिर्वृतस्य सद्धर्मः स्थास्यति। यावांस्तस्य भगवतः सद्धर्मः स्थास्यति, तद्द्विगुणः सद्धर्मप्रतिरूपकं स्थास्यति। तस्य खलु पुनरानन्द सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्य दशसु दिक्षु बहूनि गङ्गानदीवालुकासमानि बुद्धकोटीनयुतशतसहस्राणि वर्णं भाषिष्यन्ति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



आरोचयामि अहु भिक्षुसंघे

आनन्दभद्रो मम धर्मधारकः।

अनागतेऽध्वानि जिनो भविष्यति

पूजित्व षष्टिं सुगतान कोट्यः॥१॥



नामेन सो सागरबुद्धिधारी

अभिज्ञप्राप्तो इति तत्र विश्रुतः।

परिशुद्धक्षेत्रस्मि सुदर्शनीये

अनोनतायां ध्वजवैजयन्त्याम्॥२॥



तहि बोधिसत्त्वा यथा गङ्गवालिका-

स्ततश्च भूयो परिपाचयिष्यति।

महर्द्धिकश्चो स जिनो भविष्यति

दशद्दिशे लोकविघुष्टशब्दः॥३॥



अमितं च तस्यायु तदा भविष्यति

यः स्थास्यते लोकहितानुकम्पकः।

परिनिर्वृतस्यापि जिनस्य तायिनो

द्विगुणं च सद्धर्मु स तस्य स्थास्यति॥४॥



प्रतिरूपकं तद्द्विगुणेन भूयः

संस्थास्यते तस्य जिनस्य शासने।

तदापि सत्त्वा यथा गङ्गवालिका

हेतुं जनेष्यन्तिह बुद्धबोधौ॥५॥



अथ खलु तस्यां पर्षदि नवयानसंप्रस्थितानामष्टानां बोधिसत्त्वसहस्राणामेतदभवत्- न बोधिसत्त्वानामपि तावदस्माभिरेवमुदारं व्याकरणं श्रुतपूर्वम्, कः पुनर्वादः श्रावकाणाम्? कः खल्वत्र हेतुर्भविष्यति, कः प्रत्यय इति? अथ खलु भगवांस्तेषां बोधिसत्त्वानां चेतसैव चेतः परिवितर्कमाज्ञाय तान् बोधिसत्त्वानामन्त्रयामास- सममस्माभिः कुलपुत्रा एकक्षणे एकमुहूर्ते मया च आनन्देन च अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं धर्मगगनाभ्युद्गतराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य संमुखम्। तत्रैष कुलपुत्रा बाहुश्रुत्ये च सततसमितमभियुक्तोऽभूत्, अहं च वीर्यारम्भेऽभियुक्तः। तेन मया क्षिप्रतरमनुत्तरा सम्यक्संबोधिरभिसंबुद्धा। अयं पुनरानन्दभद्रो बुद्धानां भगवतां सद्धर्मकोशधर एव भवति स्म-यदुत बोधिसत्त्वानां परिनिष्पत्तिहेतोः प्रणिधानमेतत्कुलपुत्रा अस्य कुलपुत्रस्येति॥



अथ खल्वायुष्मानानन्दो भगवतोऽन्तिकादात्मनो व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ, आत्मनश्च बुद्धक्षेत्रगुणव्यूहान् श्रुत्वा, पूर्वप्रणिधानचर्यां च श्रुत्वा, तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातोऽभूत्। तस्मिंश्च समये बहूनां बुद्धकोटीनयुतशतसहस्राणां सद्धर्ममनुस्मरति स्म, आत्मनश्च पुर्वप्रणिधानम्॥



अथ खल्वायुष्मानानन्दस्तस्यां वेलायामिमा गाथा अभाषत—



आश्चर्यभूता जिन अप्रमेया

ये स्मारयन्ति मम धर्मदेशनाम्।

परिनिर्वृतानां हि जिनान तायिनां

समनुस्मरामी यथ अद्य श्वो वा॥६॥



निष्काङ्क्षप्राप्तोऽस्मि स्थितोऽस्मि बोधये

उपायकौशल्य ममेदमीद्दशम्।

परिचारकोऽहं सुगतस्य भोमि

सद्धर्म धारेमि च बोधिकारणात्॥७॥



अथ खलु भगवानायुष्मन्तं राहुलभद्रमामन्त्रयते स्म-भविष्यसि त्वं राहुलभद्र अनागतेऽध्वनि सप्तरत्नपद्मविक्रान्तगामी नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् दशलोकधातुपरमाणुरजःसमांस्तथागतानर्हतः सम्यक्संबुद्धान् सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा। सदा तेषां बुद्धानां भगवतां ज्येष्ठपुत्रो भविष्यसि तद्यथापि नाम ममैतर्हि। तस्य खलु पुना राहुलभद्र भगवतः सप्तरत्नपद्मविक्रान्तगामिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य एवंरूपमेवायुष्प्रमाणं भविष्यति, एवं रूपैव सर्वाकारगुणसंपद् भविष्यति तद्यथापि नाम तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वाकारगुणोपेता बुद्धक्षेत्रगुणव्यूहा भविष्यन्ति। तस्यापि राहुल सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य त्वमेव ज्येष्ठपुत्रो भविष्यसि। ततः पश्चात् परेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसीति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



अयं ममा राहुल ज्येष्ठपुत्रो

यो औरसो आसि कुमारभावे।

बोधिं पि प्राप्तस्य ममैष पुत्रो

धर्मस्य दायाद्यधरो महर्षिः॥८॥



अनागतेऽध्वे बहुबुद्धकोट्यो

यान् द्रक्ष्यसे येष प्रमाणु नास्ति।

सर्वेष तेषां हि जिनान पुत्रो

भविष्यती बोधि गवेषमाणः॥९॥



अज्ञातचर्या इय राहुलस्य

प्रणिधानमेतस्य अहं प्रजानमि।

करोति संवर्णन लोकबन्धुषु

अहं किला पुत्र तथागतस्य॥१०॥



गुणान कोटीनयुताप्रमेयाः

प्रमाणु येषां न कदाचिदस्ति।

ये राहुलस्येह ममौरसत्य

तथा हि एषो स्थितु बोधिकारणात्॥११॥



अद्राक्षीत्खलु पुनर्भगवांस्ते द्वे श्रावकसहस्रे शैक्षाशैक्षाणां श्रावकाणां भगवन्तमवलोकयमाने अभिमुखं प्रसन्नचित्ते मृदुचित्ते मार्दवचित्ते। अथ खलु भगवांस्तस्यां वेलायामायुष्मन्तमानन्दमामन्त्रयते स्म-पश्यसि त्वमानन्द एते द्वे श्रावकसहस्रे शैक्षाशैक्षाणां श्रावकाणाम्? आह-पश्यामि भगवन्, पश्यामि सुगत। भगवानाह-सर्व एवैते आनन्द द्वे भिक्षु सहस्रे समं बोधिसत्त्वचर्यां समुदानयिष्यन्ति, पञ्चाशल्लोकधातुपरमाणुरजःसमांश्च बुद्धान् भगवतः सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा अपचायित्वा सद्धर्म च धारयित्वा पश्चिमे समुच्छ्रये एकक्षणेनैकमुहूर्तेनैकलवेनैकसंनिपातेन दशसु दिक्ष्वन्योन्यासु लोकधातुषु स्वेषु स्वेषु बुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। रत्नकेतुराजा नाम तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति। परिपूर्णं चैषां कल्पमायुष्प्रमाणं भविष्यति। समाश्चैषां बुद्धक्षेत्रगुणव्यूहा भविष्यन्ति। समः श्रावकगणो बोधिसत्त्वगणश्च भविष्यति। समं चैषां परिनिर्वाणं भविष्यति। समश्चैषां सद्धर्मः स्थास्यति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



द्वे वै सहस्रे इमे श्रावकाणां

आनन्द ये ते मम अग्रतः स्थिताः।

तान् व्याकरोमी अहमद्य पण्डिता-

ननागतेऽध्वानि तथागतत्वे॥१२॥



अनन्त औपम्यनिदर्शनेहि

बुद्धान अग्र्यां करियाण पूजाम्।

आरागयिष्यन्ति ममाग्रबोधिं

स्थिहित्व चरिमस्मि समुच्छ्रयस्मिन्॥१३॥



एकेन नामेन दशद्दिशासु

क्षणस्मि एकस्मि तथा मुहूर्ते।

निषद्य च द्रुमप्रवराण मूले

बुद्धा भविष्यन्ति स्पृशित्व ज्ञानम्॥१४॥



एकं च तेषामिति नाम भेष्यति

रत्नस्य केतूतिह लोकि विश्रुताः।

समानि क्षेत्राणि वराणि तेषां

समो गणः श्रावकबोधिसत्त्वाः॥१५॥



ऋद्धिप्रभूता इह सर्वि लोके

समन्ततस्ते दशसु द्दिशासु।

धर्मं प्रकाशेत्व यदापि निर्वृताः

सद्धर्मु तेषां सममेव स्थास्यति॥१६॥



अथ खलु ते शैक्षाशैक्षाः श्रावका भगवतोऽन्तिकात् संमुखं स्वानि स्वानि व्याकरणानि श्रुत्वा तुष्टा उदग्रा आत्तमनस्काः प्रमुदिताः प्रीतिसौमनस्यजाता भगवन्तं गाथाभ्यामध्यभाषन्त—



तृप्ताः स्म लोकप्रद्योत श्रुत्वा व्याकरणं इदम्।

अमृतेन यथा सिक्ताः सुखिताः सम तथागत॥१७॥



नास्माकं काङ्क्षा विमतिर्न भेष्याम नरोत्तमाः।

अद्यास्माभिः सुखं प्राप्तं श्रुत्वा व्याकरणं इदम्॥१८॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये आनन्दराहुलाभ्यामन्याभ्यां च द्वाभ्यां

भिक्षुसहस्राभ्यां व्याकरणपरिवर्तो नाम नवमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project