Digital Sanskrit Buddhist Canon

८ पञ्चभिक्षुशतव्याकरणपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
८ पञ्चभिक्षुशतव्याकरणपरिवर्तः।



अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवतोऽन्तिकादिदमेवंरूपमुपायकौशल्यज्ञानदर्शनं संधाभाषितनिर्देशं श्रुत्वा एषां च महाश्रावकाणां व्याकरणं श्रुत्वा इमां च पूर्वयोगप्रतिसंयुक्तां कथां श्रुत्वा इमां च भगवतो वृषभतां श्रुत्वा आश्चर्यप्राप्तोऽभूदद्भुतप्राप्तोऽभून्निरामिषेण च चित्तेन प्रीतिप्रामोद्येन स्फुटोऽभूत्। महता च प्रीतिप्रामोद्येन महता च धर्मगौरवेण उत्थायासनाद् भगवतश्चरणयोः प्रणिपत्य एवं चित्तमुत्पादितवान्-आश्चर्यं भगवन्, आश्चर्यं सुगत। परमदुष्करं तथागता अर्हन्तः सम्यक्संबुद्धाः कुर्वन्ति, य इमं नानाधातुकं लोकमनुवर्तयन्ते, बहुभिश्चोपायकौशल्यज्ञाननिदर्शनैः सत्त्वानां धर्मं देशयन्ति, तस्मिंस्तस्मिंश्च सत्त्वान् विलग्नानुपायकौशल्येन प्रमोचयन्ति। किमत्र भगवन् अस्माभिः शक्यं कर्तुम्? तथागत एवास्माकं जानीते आशयं पूर्वयोगचर्यां च। स भगवतः पादौ शिरसाभिवन्द्य एकान्ते स्थितोऽभूद् भगवन्तमेव नमस्कुर्वन् अनिमिषाभ्यां च नेत्राभ्यां संप्रेक्षमाणः॥



अथ खलु भगवानायुष्मन्तः पूर्णस्य मैत्रायणीपुत्रस्य चित्ताशयमवलोक्य सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म-पश्यथ भिक्षवो यूयमिमं श्रावकं पूर्णं मैत्रायणीपुत्रं यो मयास्य भिक्षुसंघस्य धर्मकथिकानामग्र्यो निर्दिष्टः, बहुभिश्च भूतैर्गुणैरभिष्टुतः, बहुभिश्च प्रकारैरस्मिन् मम शासने सद्धर्मपरिग्रहायाभियुक्तः। चतसृणां पर्षदां संहर्षकः समादापकः समुत्तेजकः संप्रहर्षकोऽक्लान्तो धर्मदेशनया, अलमस्य धर्मस्याख्याता, अलमनुग्रहीता सब्रह्मचारिणाम्। मुक्त्वा भिक्षवस्तथागतं नान्यः शक्तः पूर्णं मैत्रायणीपुत्रमर्थतो वा व्यञ्जनतो वा पर्यादातुम्। तत्किं मन्यध्वे भिक्षवो ममैवायं सद्धर्मपरिग्राहक इति? न खलु पुनर्भिक्षवो युष्माभिरेवं द्रष्टव्यम्। तत्कस्य हेतोः? अभिजानाम्यहं भिक्षवोऽतीतेऽध्वनि नवनवतीनां बुद्धकोटीनाम्, यत्र अनेनैव तेषां बुद्धानां भगवतां शासने सद्धर्मः परिगृहीतः। तद्यथापि नाम मम एतर्हि सर्वत्र चाग्र्यो धर्मकथिकानामभूत्, सर्वत्र च शून्यतागतिं गतोऽभूत्। सर्वत्र च प्रतिसंविदां लाभी अभूत्, सर्वत्र च बोधिसत्त्वाभिज्ञासु गतिं गतोऽभूत्। सुविनिश्चितधर्मदेशको निर्विचिकित्सधर्मदेशकः परिशुद्धधर्मदेशकश्चाभूत्। तेषां च बुद्धानां भगवतां शासने यावदायुष्प्रमाणं ब्रह्मचर्यं चरितवान्। सर्वत्र च श्रावक इति संज्ञायते स्म। स खल्वनेनोपायेन अप्रमेयाणामसंख्येयानां सत्त्वकोटीनयुतशतसहस्राणामर्थमकार्षीत्, अप्रमेयानसंख्येयांश्च सत्त्वान् परिपाचितवाननुत्तरायां सम्यक्संबोधौ। सर्वत्र च बुद्धकृत्येन सत्त्वानां प्रत्युपस्थितोऽभूत्। सर्वत्र चात्मनो बुद्धक्षेत्रं परिशोधयति स्म। सत्त्वानां च परिपाकायाभियुक्तोऽभूत्। एषामपि भिक्षवो विपश्यिप्रमुखानां सप्तानां तथागतानां येषामहं सप्तमः, एष एवाग्र्यो धर्मकथिकानामभूत्॥



यदपि तद्भिक्षवो भविष्यत्यनागतेऽध्वनि अस्मिन् भद्रकल्पे चतुर्भिर्बुद्धैरूनं बुद्धसहस्रम्, तेषामपि शासने एष एव पूर्णो मैत्रायणीपुत्रोऽग्र्यो धर्मकथिकानां भविष्यति, सद्धर्मपरिग्राहकश्च भविष्यति। एवमनागतेऽध्वनि अप्रमेयाणामसंख्येयानां बुद्धानां भगवतां सद्धर्ममाधारयिष्यति, अप्रमेयाणामसंख्येयानां सत्त्वानामर्थं करिष्यति, अप्रमेयानसंख्येयांश्च सत्त्वान् परिपाचयिष्यत्यनुत्तरायां सम्यक्संबोधौ। सततसमितं चाभियुक्तो भविष्यत्यात्मनो बुद्धक्षेत्रपरिशुद्धये सत्त्वपरिपाचनाय। स इमामेवंरूपां बोधिसत्त्वचर्यां परिपूर्य अप्रमेयैरसंख्येयैः कल्पैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। धर्मप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। अस्मिन्नेव बुद्धक्षेत्र उत्पत्स्यते॥



तेन खलु पुनर्भिक्षवः समयेन गङ्गानदीवालुकोपमास्त्रिसाहस्रमहासाहस्रलोकधातव एकं बुद्धक्षेत्रं भविष्यति। समं पाणितलजातं सप्तरत्नमयमपगतपर्वतं सप्तरत्नमयैः कूटागारैः परिपूर्णं भविष्यति। देवविमानानि चाकाशस्थितानि भविष्यन्ति। देवा अपि मनुष्यान् द्रक्ष्यन्ति, मनुष्या अपि देवान् द्रक्ष्यन्ति। तेन खलु पुनर्भिक्षवः समयेन इदं बुद्धक्षेत्रमपगतपापं भविष्यति अपगतमातृग्रामं च। सर्वे च ते सत्त्वा औपपादुका भविष्यन्ति ब्रह्मचारिणो मनोमयैरात्मभावैः स्वयंप्रभा ऋद्धिमन्तो वैहायसंगमा वीर्यवन्तः स्मृतिमन्तः प्रज्ञावन्तः सुवर्णवर्णैः समुच्छ्रयैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलंकृतविग्रहाः। तेन खलु पुनर्भिक्षवः समयेन तस्मिन् बुद्धक्षेत्रे तेषां सत्त्वानां द्वावाहारौ भविष्यतः। कतमौ द्वौ? यदुत धर्मप्रीत्याहारो ध्यानप्रीत्याहारश्च। अप्रमेयाणि चासंख्येयानि बोधिसत्त्वकोटीनयुतशतसहस्राणि भविष्यन्ति सर्वेषां च महाभिज्ञाप्राप्तानां प्रतिसंविद्गतिंगतानां सत्त्वाववादकुशलानाम्। गणनासमतिक्रान्ताश्चास्य श्रावका भविष्यन्ति महर्द्धिका महानुभावा अष्टविमोक्षध्यायिनः। एवमपरिमितगुणसमन्वागतं तद् बुद्धक्षेत्रं भविष्यति। रत्नावभासश्च नाम स कल्पो भविष्यति। सुविशुद्धा च नाम सा लोकधातुर्भविष्यति। अप्रमेयानसंख्येयांश्चास्य कल्पानायुष्प्रमाणं भविष्यति। परिनिर्वृतस्य च तस्य भगवतो धर्मप्रभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सद्धर्मश्चिरस्थायी भविष्यति। रत्नमयैश्च स्तूपैः सा लोकधातुः स्फुटा भविष्यति। एवमचिन्त्यगुणसमन्वागतं भिक्षवस्तस्य भगवतस्तद्बुद्धक्षेत्रं भविष्यति॥



इदमवोचद्भगवान्। इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता—



शृणोथ मे भिक्षव एतमर्थं

यथा चरी मह्य सुतेन चीर्णा।

उपायकौशल्यसुशिक्षितेन

यथा च चीर्णा इय बोधिचर्या॥१॥



हीनाधिमुक्ता इम सत्त्व ज्ञात्वा

उदारयाने च समुत्रसन्ति।

ततु श्रावका भोन्तिमि बोधिसत्त्वाः

प्रत्येकबोधिं च निदर्शयन्ति॥२॥



उपायकौशल्यशतैरनेकैः

परिपाचयन्ति बहुबोधिसत्त्वान्।

एवं च भाषन्ति वयं हि श्रावका

दूरे वयं उत्तममग्रबोधिया॥३॥



एतां चरिं तेष्वनुशिक्षमाणाः

परिपाकु गच्छन्ति हि सत्त्वकोट्यः।

हीनाधिमुक्ताश्च कुसीदरूपा

अनुपूर्व ते सर्वि भवन्ति बुद्धाः॥४॥



अज्ञानचर्यां च चरन्ति एते

वयं खलु श्रावक अल्पकृत्याः।

निर्विण्ण सर्वासु च्युतोपपत्तिषु

स्वकं च क्षेत्रं परिशोधयन्ति॥५॥



सरागतामात्मनि दर्शयन्ति

सदोषतां चापि समोहतां च।

दृष्टीविलग्नांश्च विदित्व सत्त्वां-

स्तेषां पि दृष्टिं समुपाश्रयन्ति॥६॥



एवं चरन्तो बहु मह्य श्रावकाः

सत्त्वानुपायेन विमोचयन्ति।

उन्मादु गच्छेयु नरा अविद्वसू

स चैव सर्वं चरितं प्रकाशयेत्॥७॥



पूर्णो अयं श्रावक मह्य भिक्षव-

श्चरितो पुरा बुद्धसहस्रकोटिषु।

तेषां च सद्धर्म परिग्रहीषीद्

बौद्धं इदं ज्ञान गवेषमाणः॥८॥



सर्वत्र चैषो अभु अग्रश्रावको

बहुश्रुतश्चित्रकथी विशारदः।

संहर्षकश्चा अकिलासि नित्यं

सद बुद्धकृत्येन च प्रत्युपस्थितः॥९॥



महा‍अभिज्ञासु सदा गतिंगतः

प्रतिसंविदानां च अभूषि लाभी।

सत्त्वान चो इन्द्रियगोचरज्ञो

धर्मं च देशेति सदा विशुद्धम्॥१०॥



सद्धर्म श्रेष्ठं च प्रकाशयन्तः

परिपाचयी सत्त्वसहस्रकोट्यः।

अनुत्तरस्मिन्निह अग्रयाने

क्षेत्रं स्वकं श्रेष्ठु विशोधयन्तः॥११॥



अनागते चापि तथैव अध्वे

पूजेष्यती बुद्धसहस्रकोट्यः।

सद्धर्म श्रेष्ठं च परिग्रहीष्यति

स्वकं च क्षेत्रं परिशोधयिष्यति॥१२॥



देशेष्यती धर्म सदा विशारदो

उपायकौशल्यसहस्रकोटिभिः।

बहूंश्च सत्त्वान् परिपाचयिष्यति

सर्वज्ञज्ञानस्मि अनास्रवस्मिन्॥१३॥



सो पूज कृत्वा नरनायकानां

सद्धर्म श्रेष्ठं सद धारयित्वा।

भविष्यती बुद्ध स्वयंभु लोके

धर्मप्रभासो दिशतासु विश्रुतः॥१४॥



क्षेत्रं च तस्य सुविशुद्ध भेष्यती

रत्नान सप्तान सदा विशिष्टम्।

रत्नवभासश्च स कल्पु भेष्यती

सुविशुद्ध सो भेष्यति लोकधातुः॥१५॥



बहुबोधिसत्त्वान सहस्रकोट्यो

महा‍अभिज्ञासु सुकोविदानाम्।

येहि स्फुटो भेष्यति लोकधातुः

सुविशुद्ध शुद्धेहि महर्द्धिकेहि॥१६॥



अथ श्रावकाणां पि सहस्रकोट्यः

संघस्तदा भेष्यति नायकस्य।

महर्द्धिकानष्टविमोक्षध्यायिनां

प्रतिसंविदासू च गतिंगतानाम्॥१७॥



सर्वे च सत्त्वास्तहि बुद्धक्षेत्रे

शुद्धा भविष्यन्ति च ब्रह्मचारिणः।

उपपादुकाः सर्वि सुवर्णवर्णा

द्वात्रिंशतीलक्षणरूपधारिणः॥१८॥



आहारसंज्ञा च न तत्र भेष्यति

अन्यत्र धर्मे रति ध्यानप्रीतिः।

न मातृग्रामोऽपि च तत्र भेष्यति

न चाप्यपायान च दुर्गतीभयम्॥१९॥



एतादृशं क्षेत्रवरं भविष्यति

पूर्णस्य संपूर्णगुणान्वितस्य।

आकीर्ण सत्त्वेहि सुभद्रकेहि

यत्किंचिमात्रं पि इदं प्रकाशितम्॥२०॥



अथ खलु तेषां द्वादशानां वशीभूतशतानामेतदभवत्-आश्चर्यप्राप्त स्म, अद्भुतप्राप्ताः स्म। सचेदस्माकमपि भगवान् यथेमेऽन्ये महाश्रावका व्याकृताः, एवमस्माकमपि तथागतः पृथक् पृथग् व्याकुर्यात्। अथ खलु भगवांस्तेषां महाश्रावकाणां चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं महाकाश्यपमामन्त्रयते स्म-इमानि काश्यप द्वादश वशीभूतशतानि, येषामहमेतर्हि संमुखीभूतः। सर्वाण्येतान्यहं काश्यप द्वादश वशीभूतशतान्यनन्तरं व्याकरोमि। तत्र काश्यप कौण्डिन्यो भिक्षुर्महाश्रावको द्वाषष्टीनां बुद्धकोटीनयुतशतसहस्राणां परेण परतरं समन्तप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तत्र काश्यप अनेनैकेन नामधेयेन पञ्च तथागतशतानि भविष्यन्ति। अतः पञ्च महाश्रावकशतानि सर्वाण्यनन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। सर्वाण्येव समन्तप्रभासनामधेयानि भविष्यन्ति। तद्यथा गयाकाश्यपो नदीकाश्यपः उरुबिल्वकाश्यपः कालः कालोदायी अनिरुद्धो रेवतः कप्फिणो बक्कुलश्चुन्दः स्वागतः इत्येवंप्रमुखानि पञ्च वशीभूतशतानि॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



कौण्डिन्यगोत्रो मम श्रावकोऽयं

तथागतो भेष्यति लोकनाथः।

अनागतेऽध्वानि अनन्तकल्पे

विनेष्यते प्राणिसहस्रकोट्यः॥२१॥



समन्तप्रभो नाम जिनो भविष्यति

क्षेत्रं च तस्य परिशुद्ध भेष्यति।

अनन्तकल्पस्मि अनागतेऽध्वनि

दृष्ट्वान बुद्धान् बहवो ह्यनन्तान्॥२२॥



प्रभास्वरो बुद्धबलेनुपेतो

विघुष्टशब्दो दशसु द्दिशासु।

पुरस्कृतः प्राणिसहस्रकोटिभि-

र्देशेष्यती उत्तममग्रबोधिम्॥२३॥



ततु बोधिसत्त्वा अभियुक्तरूपा

विमानश्रेष्ठान्यभिरुह्य चापि।

विहरन्त तत्र अनुचिन्तयन्ति

विशुद्धशीला सद साधुवृत्तयः॥२४॥



श्रुत्वान धर्मं द्विपदोत्तमस्य

अन्यानि क्षेत्राण्यपि चो सदा ते।

व्रजन्ति ते बुद्धसहस्रवन्दकाः

पूजां च तेषां विपुलां करोन्ति॥२५॥



क्षेणेन ते चापि तदास्य क्षेत्रं

प्रत्यागमिष्यन्ति विनायकस्य।

प्रभासनामस्य नरोत्तमस्य

चर्याबलं तादृशकं भविष्यति॥२६॥



षष्टिः सहस्रा परिपूर्णकल्पा-

नायुष्प्रमाणं सुगतस्य तस्य।

ततश्च भूयो द्विगुणेन तायिनः

परिनिर्वृतस्येह स धर्म स्थास्यति॥२७॥



प्रतिरूपकश्चास्य भविष्यते पुन-

स्त्रिगुणं ततो एत्तकमेव कालम्।

सद्धर्मभ्रष्टे तद तस्य तायिनो

दुखिता भविष्यन्ति नरा मरू च॥२८॥



जिनान तेषां समनामकानां

समन्तप्रभाणां पुरुषोत्तमानाम्।

परिपूर्ण पञ्चाशत नायकानां

एते भविष्यन्ति परंपराय॥२९॥



सर्वेष एतादृशकाश्च व्यूहा

ऋद्धिबलं च तथ बुद्धक्षेत्रम्।

गणश्च सद्धर्म तथैव ईदृशः

सद्धर्मस्थानं च समं भविष्यति॥३०॥



सर्वेषमेतादृशकं भविष्यति

नामं तदा लोकि सदेवकस्मिन्।

यथा मया पूर्वि प्रकीर्तितासीत्

समन्तप्रभासस्य नरोत्तमस्य॥३१॥



परंपरा एव तथान्यमन्यं

ते व्याकरिष्यन्ति हितानुकम्पी।

अनन्तरायं मम अद्य भेष्यति

यथैव शासाम्यहु सर्वलोकम्॥३२॥



एवं खु एते त्वमिहाद्य काश्यप

धारेहि पञ्चाशतनूनकानि।

वशिभूत ये चापि ममान्यश्रावकाः

कथयाहि चान्येष्वपि श्रावकेषु॥३३॥



अथ खलु तानि पञ्चार्हच्छतानि भगवतः संमुखमात्मनो व्याकरणानि श्रुत्वा तुष्टा उदग्रा आत्तमनस प्रमुदिताः प्रीतिसौमनस्यजाता येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादयोः शिरोभिर्निपत्य एवमाहुः-अत्ययं वयं भगवन् देशयामो यैरस्माभिर्भगवन्नेवं सततसमितं चित्तं परिभावितम्-इदमस्माकं परिनिर्वाणम्। परिनिर्वृता वयमिति। यथापीदं भगवन् अव्यक्ता अकुशला अविधिज्ञाः। तत्कस्य हेतोः? यैर्नाम अस्माभिर्भगवंस्तथागतज्ञानेऽभिसंबोद्धव्ये एवंरूपेण परीत्तेन ज्ञानेन परितोषं गताः स्म। तद्यथापि नाम भगवन् कस्यचिदेव पुरुषस्य कंचिदेव मित्रगृहं प्रविष्टस्य मत्तस्य वा सुप्तस्य वा स मित्रोऽनर्घमणिरत्नं वस्त्रान्ते बध्नीयात्-अस्येदं मणिरत्नं भवत्विति। अथ खलु भगवन् स पुरुष उत्थायासनात् प्रकामेत्। सोऽन्यं जनपदप्रदेशं प्रपद्येत। स तत्र कृच्छ्रप्राप्तो भवेत्। आहारचीवरपर्येष्टिहेतोः कृच्छ्रमापद्येत। महता च व्यायामेन कथंचित् कंचिदाहारं प्रतिलभेत। तेन च संतुष्टो भवेदात्तमनस्कः प्रमुदितः। अथ खलु भगवंस्तस्य पुरुषस्य स पुराणमित्रः पुरुषो येन तस्य तदनर्घेयं मणिरत्नं वस्त्रान्ते बद्धम्, स तं पुनरेव पश्येत्। तमेवं वदेत्-किं त्वं भोः पुरुष कृच्छ्रमापद्यसे आहारचीवरपर्येष्टिहेतोः, यदा यावद् भोः पुरुष मया तव सुखविहारार्थं सर्वकामनिवर्तकमनर्घेयं मणिरत्नं वस्त्रान्ते उपनिबद्धम्। निर्यातितं ते भोः पुरुष ममैतन्मणिरत्नम्। तदेवमुपनिबद्धमेव भोः पुरुष वस्त्रान्ते मणिरत्नम्। न च नाम त्वं भोः पुरुष प्रत्यवेक्षसे-किं मम बद्धं येन वा बद्धं को हेतुः किंनिदानं वा बद्धमेतत्? बालजातीयस्त्वं भोः पुरुष यस्त्वं कृच्छ्रेण आहारचीवरं पर्येषमाणस्तुष्टिमापद्यसे। गच्छ त्वं भोः पुरुष एतन्मणिरत्नं ग्रहाय महानगरं गत्वा परिवर्तयस्त्व। तेन च धनेन सर्वाणि धनकरणीयानि कुरुष्वेति॥



एवमेव भगवन् अस्माकमपि तथागतेन पूर्वमेव बोधिसत्त्वचर्यां चरता सर्वज्ञताचित्तान्युत्पादितान्यभूवन्। तानि च वयं भगवन् न जानीमो न बुध्यामहे। ते वयं भगवन् अर्हद्भूमौ निर्वृताः स्म इति संजानीमः। वयं कृच्छ्रं जीवामः, यद्वयं भगवन् एवं परीत्तेन ज्ञानेन परितोषमापद्यामः। सर्वज्ञज्ञानप्रणिधानेन सदा अविनष्टेन। ते वयं भगवंस्तथागतेन संबोध्यमानाः-मा यूयं भिक्षव एतन्निर्वाणं मन्यध्वम्। संविद्यन्ते भिक्षवो युष्माकं संताने कुशलमूलानि यानि मया पूर्वं परिपाचितानि। एतर्हि च ममैवेदमुपायकौशल्यं धर्मदेशनाभिलापेन यद् यूयमेतर्हि निर्वाणमिति मन्यध्वे। एवं च वयं भगवता संबोधयित्वा अद्यानुत्तरायां सम्यक्संबोधौ व्याकृताः॥



अथ खलु तानि पञ्च वशीभूतशतान्याज्ञातकौण्डिन्यप्रमुखानि तस्यां वेलायमिमा गाथा अभाषन्त—



हृष्टा प्रहृष्टा स्म श्रुणित्व एतां

आश्वासनामीदृशिकामनुत्तराम्।

यं व्याकृताः स्म परमाग्रबोधये

नमोऽस्तु ते नायक नन्तचक्षुः॥३४॥



देशेमहे अत्ययु तुभ्यमन्तिके

यथैव बाला अविदू अजानकाः।

यं वै वयं निर्वृतिमात्रकेण

परितुष्ट आसीत् सुगतस्य शासने॥३५॥



यथापि पुरुषो भवि कश्चिदेव

प्रविष्ट स स्यादिह मित्रशालम्।

मित्रं च तस्य धनवन्तमाढ्यं

सो तस्य दद्याद् बहू खाद्यभोज्यम्॥३६॥



संतर्पयित्वान च भोजनेन

अनेकमूल्यं रतनं च दद्यात्।

बद्ध्वान्तरीये वसनान्ति ग्रन्थिं

दत्वा च तस्येह भवेत तुष्टः॥३७॥



सो चापि प्रक्रान्तु भवेत बालो

उत्थाय सोऽन्यं नगरं व्रजेत।

सो कृच्छ्रप्राप्तः कृपणो गवेषी

आहार पर्येषति खिद्यमानः॥३८॥



पर्येषितः भोजननिर्वृतः स्याद्

भक्तं उदारं अविचिन्तयन्तः।

तं चापि रत्नं हि भवेत विस्मृतं

बद्ध्वान्तरीये स्मृतिरस्य नास्ति॥३९॥



तमेव सो पश्यति पूर्वमित्रो

येनास्य दत्तं रतनं गृहे स्वे।

तमेव सुष्ठू परिभाषयित्वा

दर्शेति रत्नं वसनान्तरस्मिन्॥४०॥



दृष्ट्वा च सो परमसुखैः समर्पितो

रत्नस्य तस्यो अनुभाव ईदृशः।

महाधनी कोशबली च सो भवेत्

समर्पितः कामगुणेहि पञ्चहि॥४१॥



एमेव भगवन् वयमेवरूपम्

अजानमाना प्रणिधानपूर्वकम्।

तथागतेनैव इदं हि दत्तं

भवेषु पूर्वेष्विह दीर्घरात्रम्॥४२॥



वयं च भगवन्निह बालबुद्धयो

अजानकाः स्मो सुगतस्य शासने।

निर्वाणमात्रेण वयं हि तुष्टा

न उत्तरी प्रार्थयि नापि चिन्तयी॥४३॥



वयं च संबोधित लोकबन्धुना

न एष एतादृश काचि निर्वृतिः।

ज्ञानं प्रणीतं पुरुषोत्तमानां

या निर्वृतीयं परमं च सौख्यम्॥४४॥



इदं चुदारं विपुलं बहूविधं

अनुत्तरं व्याकरणं च श्रुत्वा।

प्रीता उदग्रा विपुला स्म जाताः

परस्परं व्याकरणाय नाथ॥४५॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये पञ्चभिक्षुशतव्याकरणपरिवर्तो नामाष्टमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project