Digital Sanskrit Buddhist Canon

७ पूर्वयोगपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7 pūrvayogaparivartaḥ

७ पूर्वयोगपरिवर्तः।



भूतपूर्व भिक्षवोऽतीतेऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैरपरिमितैरप्रमाणैस्ततः परेण परतरेण यदासीत्-तेन कालेन तेन समयेन महाभिज्ञाज्ञानाभिभूर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ताः देवानां च मनुष्याणां च बुद्धो भगवान् संभवायां लोकधातौ महारूपे कल्पे। कियच्चिरोत्पन्नः स भिक्षवस्तथागतोऽभूत्। तद्यथापि नाम भिक्षवो यावानिह त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीधातुः, तं कश्चिदेव पुरुषः सर्वं चूर्णीकुर्यात्, मषिं कुर्यात्। अथ खलु स पुरुषस्तस्माल्लोकधातोरेकं परमाणुरजो गृहीत्वा पूर्वस्यां दिशि लोकधातुसहस्रमतिक्रम्य तदेकं परमाणुरज उपनिक्षिपेत्।



अथ स पुरुषो द्वितीयं च परमाणुरजो गृहीत्वा ततः परेण परतरं लोकधातुसहस्रमतिक्रम्य द्वितीयं परमाणुरज उपनिक्षिपेत्। अनेन पर्यायेण स पुरुषः सर्वावन्तं पृथिवीधातुमुपनिक्षिपेत् पूर्वस्यां दिशि। तत्किं मन्यध्वे भिक्षवः शक्यं तेषां लोकधातूनामन्तो वा पर्यन्तो वा गणनयाधिगन्तुम्? त आहुः-नो हीदं भगवन्, नो हीदं सुगत। भगवानाह-शक्यं पुनर्भिक्षवस्तेषां लोकधातूनां केनचिद् गणकेन वा गणकमहामात्रेण वा गणनया पर्यन्तोऽधिगन्तुम्, येषु वोपनिक्षिप्तानि तानि परमाणुरजांसि, येषु वा नोपनिक्षिप्तानि। न त्वेव तेषां कल्पकोटीनयुतशतसहस्राणां शक्यं गणनायोगेन पर्यन्तोऽधिगन्तुम्। यावन्तः कल्पास्तस्य भगवतो महाभिज्ञाज्ञानाभिभुवस्तथागतस्य परिनिर्वृतस्य, एतावान् स कालोऽभूदेवमचिन्त्यः, एवमप्रमाणः। तं चाहं भिक्षवस्तथागतं तावच्चिरं परिनिर्वृतमनेन तथागतज्ञानदर्शनबलाधानेन यथाद्य श्वो वा परिनिर्वृतमनुस्मरामि॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



अभू अतीता बहु कल्पकोट्यो

अनुस्मरामि द्विपदानमुत्तमम्।

अभिज्ञज्ञानाभिभूवं महामुनि-

मभूषि तत्कालमनुत्तमो जिनः॥१॥



यथा त्रिसाहस्रिम लोकधातुं

कश्चिद् रजं कुर्य अणुप्रमाणम्।

परमाणुमेकं च ततो गृहीत्वा

क्षेत्रं सहस्रं गमियान निक्षिपेत्॥२॥



द्वितीयं तृतीयं पि च एव निक्षिपेत्

सर्वं पि सो निक्षिपि तं रजोगतम्।

रिक्ता भवेता इय लोकधातुः

सर्वश्च सो पांसु भवेत क्षीणः॥३॥



यो लोकधातूषु भवेत तासु

पांसु रजो यस्य प्रमाणु नास्ति।

रजं करित्वान अशेषतस्तं

लक्ष्यं ददे कल्पशते गते च॥४॥



एवाप्रमेया बहु कल्पकोट्यः

परिनिर्वृतस्य सुगतस्य तस्य।

परमाणु सर्वे न भवन्ति लक्ष्या-

स्तावद्बहु क्षीण भवन्ति कल्पाः॥५॥



तावच्चिरं निर्वृतु तं विनायकं

तान् श्रावकांस्तांश्च पि बोधिसत्त्वान्।

एतादृशं ज्ञानु तथागतानां

स्मरामि वृत्तं यथ अद्य श्वो वा॥६॥



एतादृशं भिक्षव ज्ञानमेत-

दनन्तज्ञानश्च तथागतस्य।

बुद्धं मया कल्पशतैरनेकैः

स्मृतीय सूक्ष्माय अनास्रवाय॥७॥



तस्य खलु पुनर्भिक्षवो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्य चतुष्पञ्चाशत्कल्पकोटीनयुतशतसहस्राण्यायुष्प्रमाणमभूत्। पूर्वे च स भगवान् महाभिज्ञानाभिभूस्तथागतोऽनभिसंबुद्धोऽनुत्तरां सम्यक्संबोधिं बोधिमण्डवराग्रग्रत एव सर्वां मारसेनां प्राभञ्जीत् पराजैषीत्। प्रभञ्जयित्वा पराजयित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामिति न च तावत्तस्य ते धर्मा आमुखीभवन्ति स्म। स बोधिवृक्षमूले बोधिमण्डे एकमन्तरकल्पमस्थात्। द्वितीयमप्यन्तरकल्पस्थात्। न च तावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। तृतीयमपि चतुर्थमपि पञ्चममपि षष्ठमपि सप्तममपि अष्टममपि नवममपि दशममप्यन्तरकल्पं बोधिवृक्षमूले बोधिमण्डेऽस्थात् सकृद्वर्तनेन पर्यङ्केन अन्तरादव्युत्थितः। अनिञ्जमानेन चित्तेन अचलमानेन अवेपमानेन कायेनास्थात्। न च तावदस्य ते धर्मा आमुखीभवन्ति स्म॥



तस्य खलु पुनर्भिक्षवो भगवतो बोधिमण्डवराग्रगतस्य देवैस्त्रायस्त्रिंशैर्महासिंहासनं प्रज्ञप्तमभूद् योजनशतसहस्रं समुच्छ्रयेण, यत्र स भगवान् निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। समनन्तरनिषण्णस्य च खलु पुनस्तस्य भगवतो बोधिमण्डे, अथ ब्रह्मकायिका देवपुत्रा दिव्यं पुष्पवर्षमभिप्रवर्षयामासुः। बोधिमण्डस्य परिसामन्तकेन योजनशतमन्तरिक्षे च वातान् प्रमुञ्चन्ति, ये तं जीर्णपुष्पमवकर्षयन्ति। यथाप्रवर्षितं च तत् पुष्पवर्षं तस्य भगवतो बोधिमण्डे निषण्णस्य अव्युच्छिन्नं प्रवर्षयन्ति। परिपूर्णान् दशान्तरकल्पान् तं भगवन्तमभ्यवकिरन्ति स्म। तथा प्रवर्षितं च तत्पुष्पवर्षं प्रवर्षयन्ति यावत् परिनिर्वाणकालसमये तस्य भगवतस्तं भगवन्तमभ्यवकिरन्ति। चातुर्महाराजकायिकाश्च देवपुत्रा दिव्यां देवदुन्दुभिमभिप्रवादयामासुः। तस्य भगवतो बोधिमण्डवराग्रगतस्य सत्कारार्थमव्युच्छिन्नं प्रवादयामासुः परिपूर्णान् दशान्तरकल्पान् तस्य भगवतो निषण्णस्य। तत उत्तरि तानि दिव्याणि तूर्याणि सततसमितं प्रवादयामासुर्यावत्तस्य भगवतो महापरिनिर्वाणकालसमयात्॥



अथ खलु भिक्षवो दशानामन्तरकल्पानामत्ययेन स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। समनन्तराभिसंबुद्धं च तं विदित्वा ये तस्य भगवतः कुमारभूतस्य षोडश पुत्रा अभूवन्नौरसाः, ज्ञानाकरो नाम तेषां ज्येष्ठोऽभूत्। तेषां च खलु पुनर्भिक्षवः षोडशानां राजकुमाराणामेकैकस्य च विविधानि क्रीडनकानि रामणीयकान्यभूवन् विचित्राणि दर्शनीयानि। अथ खलु भिक्षवस्ते षोडश राजकुमारास्तानि विविधानि क्रीडनकानि रामणीयकानि विसर्जयित्वा, तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धमनुत्तरां सम्यक्संबोधिमभिसंबुद्धं विदित्वा, मातृभिर्धात्रीभिश्च रुदन्तीभिः परिवृताः पुरस्कृताः तेन च महाराज्ञा चक्रवर्तिना आर्यकेण महाकोशेन राजामात्यैश्च बहुभिश्च प्राणिकोटीनयुतशतसहस्रैः परिवृताः पुरस्कृताः येन भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिमण्डवराग्रगतः, तेनोपसंक्रामन्ति स्म। तस्य भगवतः सत्कारार्थाय गुरुकारार्थाय माननार्थाय पूजनार्थाय अर्चनार्थाय अपचायनार्थाय उपसंक्रान्ताः। उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तं त्रिष्प्रदक्षिणीकृत्य अञ्जलिं प्रगृह्य तं भगवन्तं संमुखमाभिर्गाथाभिः सारूप्याभिरभिष्टुवन्ति स्म—



महाभिषट्कोऽसि अनुत्तरोऽसि

अनन्तकल्पैः समुदागतोऽसि।

उत्तारणार्थायिह सर्वदेहिनां

परिपूर्ण संकल्पु अयं ति भद्रकः॥८॥



सुदुष्करा अन्तरकल्पिमान् दश

कृतानि एकासनि संनिषद्य।

न च तेऽन्तरा कायु कदाचि चालितो

न हस्तपादं न पि चान्यदङ्गम्॥९॥



चित्तं पि ते शान्तगतं सुसंस्थित-

मनिञ्ज्यभूतं सद अप्रकम्प्यम्।

विक्षेपु नैवास्ति कदाचि पि तव

अत्यन्तशान्तस्थितु त्वं अनास्रवः॥१०॥



दिष्टयासि क्षेमेण च स्वस्तिना च

अविहेठितः प्राप्त इमाग्रबोधिम्।

अस्माकमृद्धी इयमेवरूपा

दिष्टया च वर्धाम नरेन्द्रसिंह॥११॥



अनायिकेयं प्रज सर्व दुःखिता

उत्पाटिताक्षी व निहीनसौख्या।

मार्गं न जानन्ति दुखान्तगामिनं

न मोक्षहेतोर्जनयन्ति वीर्यम्॥१२॥



अपाय वर्धन्ति च दीर्घरात्रं

दिव्याश्च कायाः परिहाणधर्माः।

न श्रूयते जातु जिनान शब्द-

स्तमोन्धकारो अयु सर्वलोकः॥१३॥



प्राप्तं च ते लोकविदू इहाद्य

शिवं पदं उत्तम नास्रवं च।

वयं च लोकश्च अनुगृहीतः

शरणं च त्वा एति व्रजाम नाथ॥१४॥



अथ खलु भिक्षवस्ते षोडश राजकुमाराः कुमारभूता एव बालकाः, तं भगवन्तं महाभिज्ञाज्ञानाभिमुखं तथागतमर्हन्तं सम्यक्संबुद्धमाभिः सारूप्यभीर्गाथाभिः संमुखमभिष्टुत्य तं भगवन्तमध्येषन्ते स्म धर्मचक्रप्रवर्तनतायै-देशयतु भगवान् धर्मम्, देशयतु सुगतो धर्मं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च। तस्यां च वेलायामिमा गाथा अभाषन्त—



देशेहि धर्मं शतपुण्यलक्षणा

विनायका अप्रतिमा महर्षे।

लब्धं ति ज्ञानं प्रवरं विशिष्टं

प्रकाशया लोकि सदेवकस्मिन्॥१५॥



अस्मांश्च तारेहि इमांश्च सत्त्वान्

निदर्शय ज्ञानु तथागतानाम्।

यथा वयं पि इममग्रबोधिं

अनुप्राप्नुयामोऽथ इमे च सत्त्वाः॥१६॥



चर्यां च ज्ञानं पि च सर्व जानसि

अध्याशयं पूर्वकृतं च पुण्यम्।

अधिमुक्ति जानासि च सर्वप्राणिनां

प्रवर्तया चक्रवरं अनुत्तरम्॥१७॥ इति॥



तेन खलु पुनर्भिक्षवः समयेन तेन भगवता महाभिज्ञाज्ञानाभिभुवा तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरां सम्यक्संबोधिमभिसंबुध्यमानेन दशसु दिक्ष्वैकैकस्यां दिशि पञ्चाशल्लोकधातुकोटीनयुतशतसहस्राणि षड्विकारं प्रकम्पितान्यभूवन्, महता चावभासेन स्फुटान्यभूवन्। सर्वेषु च तेषु लोकधातुषु या लोकान्तरिकास्तासु ये अक्षणाः संवृता अन्धकारतमिस्राः यत्र इमावपि चन्द्रसूर्यौ एवंमहर्द्धिकौ एवंमहानुभावौ एवंमहौजस्कौ आभयाप्याभां नानुभवतः, वर्णेनापि वर्णं तेजसापि तेजो नानुभवतः, तास्वपि तस्मिन् समये महतोऽवभासस्य प्रादुर्भावोऽभूत्। येऽपि तासु लोकान्तरिकासु सत्त्वा उपपन्नाः, तेऽप्यन्योन्यमेवं पश्यन्ति अन्योन्यमेवं संजानन्ति-अन्येऽपि बत भोः सत्त्वाः सन्तीहोपपन्नाः। अन्येऽपि बत भोः सत्त्वाः सन्तीहोपपन्नाः इति। सर्वेषु च तेषु लोकधातुषु यानि देवभवनानि देवविमानानि च, यावद् ब्रह्मलोकाद् षड्विकारं प्रकम्पितान्यभूवन्, महता चावभासेन स्फुटान्यभूवन् अतिक्रम्य देवानां देवानुभावम्। इति हि भिक्षवस्तस्मिन् समये तेषु लोकधातुषु महतः पृथिवीचालस्य महतश्च औदारिकस्यावभासस्य लोके प्रादुर्भावोऽभूत्॥



अथ पूर्वस्यां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति, श्रीमन्ति औजस्वीनि च। अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत्-इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति औजस्वीनि च। कस्य खल्विदं पूर्वनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वेऽन्योन्यभवनानि गत्वा आरोचयामासुः॥



अथ खलु भिक्षवः सर्वसत्त्वत्राता नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत—



अतीव नो हर्षित अद्य सर्वे

विमानश्रेष्ठा इमि प्रज्वलन्ति।

श्रिया द्युतीया च मनोरमा ये

किं कारणं ईदृशु भेष्यतेऽद्य॥१८॥



साधु गवेषामथ एतमर्थं

को देवपुत्रो उपपन्नु अद्य।

यस्यानुभावो अयमेवरूपो

अभूतपूर्वो अयमद्य दृश्यते॥१९॥



यदि वा भवेद् बुद्ध नरेन्द्रराजा

उत्पन्नु लोकस्मि कहिंचिदद्य।

यस्यो निमित्तं इममेवरूपं

श्रिया दशो दिक्षु ज्वलन्ति अद्य॥२०॥



अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तोऽनुविचरन्तः पश्चिमं दिग्भागं प्रक्रान्ताः। अद्राक्षुः खलु पुनस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु भिक्षवस्ते महाब्रह्माणः पश्चिमे दिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडशभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै। दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैश्च सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म, तं च बोधिवृक्षं दशयोजनप्रमाणम्। अभ्यवकीर्य तानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः-परिगृह्णातु भगवानिमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय। परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय॥



अथ खलु भिक्षवस्ते महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिर्गाथाभिः सारूप्याभिरभिष्टुवन्ति स्म—



आश्चर्यभूतो जिन अप्रमेयो

उत्पन्न लोकस्मि हितानुकम्पी।

नाथोऽसि शास्तासि गुरूसि जातो

अनुगृहीता दशिमा दिशोऽद्य॥२१॥



पञ्चाशती कोटिसहस्र पूर्णा

या लोकधातून इतो भवन्ति।

यतो वयं वन्दन आगता जिनं

विमानश्रेष्ठान् प्रजहित्व सर्वशः॥२२॥



पूर्वेण कर्मेण कृतेन अस्मिन्

विचित्रचित्रा हि इमे विमानाः।

प्रतिगृह्य अस्माकमनुग्रहार्थं

परिभुञ्जतां लोकविदू यथेष्टम्॥२३॥



अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः-प्रवर्तयतु भगवान् धर्मचक्रम्, प्रवर्तयतु सुगतो धर्मचक्रं लोके। देशयतु भगवान् निर्वृतिम्। तारयतु भगवान् सत्त्वान्। अनुगृह्णातु भगवानिमं लोकम्। देशयतु भगवान् धर्मस्वामी धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः। तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥



अथ खलु भिक्षवस्तानि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राण्येकस्वरेण समसंगीत्या तं भगवन्तमाभिः सारूप्याभिर्गाथाभिरध्यभाषन्त—



देशेहि भगवन् धर्मं देशेहि द्विपदोत्तम।

मैत्रीबलं च देशेहि सत्त्वांस्तारेहि दुःखितान्॥२४॥



दुर्लभो लोकप्रद्योतः पुष्पमौदुम्बरं यथा।

उत्पन्नोऽसि महावीर अध्येषामस्तथागतम्॥२५॥



अथ खलु भिक्षवः स भगवांस्तेषां महाब्रह्मणां तूष्णींभावेनाधिवासयति स्म॥



तेन खलु पुनर्भिक्षवः समयेन पूर्वदक्षिणे दिग्भागे तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च। अथ खलु भिक्षवस्तेषां ब्रह्मणामेतदभवत्-इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च। कस्य खल्विदं पूर्वनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, तेऽपि सर्वेऽन्योन्यभवनानि गत्वा आरोचयामासुः। अथ खलु भिक्षवोऽधिमात्रकारुणिको नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत—



कस्य पूर्वनिमित्तेन मारिषा अथ दृश्यते।

विमानाः सर्वि भ्राजन्ति अधिमात्रं यशस्विनः॥२६॥



यदि वा देवपुत्रोऽद्य पुण्यवन्त इहागतः।

यस्येमे अनुभावेन विमानाः सर्वि शोभिताः॥२७॥



अथ वा बुद्ध लोकेऽस्मिन्नुत्पन्नो द्विपदोत्तमः।

अनुभावेन यस्याद्य विमाना इमि ईदृशाः॥२८॥



सहिताः सर्वि मार्गामो नैतत् कारणमल्पकम्।

न खल्वेतादृशं पूर्वं निमित्तं जातु दृश्यते॥२९॥



चतुर्दिशं प्रपद्यामो अञ्चामः क्षेत्रकोटियो।

व्यक्तं लोकेऽद्य बुद्धस्य प्रादुर्भावो भविष्यति॥३०॥



अथ खलु भिक्षवस्तान्यपि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राणि तानि स्वानि स्वानि दिव्यानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तोऽनुविचरन्त उत्तरपश्चिमं दिग्भागं प्रक्रान्ताः। अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माण उत्तरपश्चिमे दिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्ट परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडशभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै। दृष्ट्वा च पुनर्येन स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रन्ताः। उपसंक्रम्य च तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दशयोजनप्रमाणम्। अभ्यवकीर्य तानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः-परिगृह्णातु भगवानिमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय। परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय॥



अथ खलु भिक्षवस्ते महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म—



नमोऽस्तु ते अप्रतिमा महर्षे

देवातिदेवा कलविङ्कसुस्वरा।

विनायका लोकि सदेवकस्मिन्

वन्दामि ते लोकहितानुकम्पी॥३१॥



आश्चर्यभूतोऽसि कथंचिलोके

उत्पन्नु अद्यो सुचिरेण नाथ।

कल्पान पूर्णा शत शून्य आसी-

दशीति बुद्धैरयु जीवलोकः॥३२॥



शून्यश्च आसीद्द्विपदोत्तमेहि

अपायभूमी तद उत्सदासि।

दिव्याश्च कायाः परिहायिषू तदा

अशीति कल्पान शता सुपूर्णा॥३३॥



सो दानि चक्षुश्च गतिश्च लेणं

त्राणं पिता चो तथ बन्धुभूतः।

उत्पन्नु लोकस्मि हितानुकम्पी

अस्माक पुण्यैरिह धर्मराजा॥३४॥



अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः-प्रवर्तयतु भगवान् धर्मचक्रम्। प्रवर्तयतु सुगतो धर्मचक्रं लोके। देशयतु भगवान् निर्वृतिम्। तारयतु भगवान् सत्त्वान्। अनुगृह्णातु भगवानिमं लोकम्। देशयतु भगवान् धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरयाः। तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥



अथ खलु भिक्षवस्तानि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राणि एकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त—



प्रवर्तया चक्रवरं महामुने

प्रकाशया धर्मु दशादिशासु।

तारेहि सत्त्वान् दुखधर्मपीडितान्

प्रामोद्य हर्षं जनयस्व देहिनाम्॥३५॥



यं श्रुत्व बोधीय भवेयु लाभिनो

दिव्यानि स्थानानि व्रजेयु चापि।

हायेयु चो आसुरकाय सर्वे

शान्ताश्च दान्ताश्च सुखी भवेयुः॥३६॥



अथ खलु भिक्षवः स भगवांस्तेषामपि महाब्रह्मणां तूष्णीभावेनाधिवासयति स्म॥



तेन खलु पुनर्भिक्षवः समयेन दक्षिणस्यां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि तान्यतीव भ्राजन्ति तपन्ति विराजन्ति, श्रीमन्ति ओजस्वीनि च। अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत्-इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च। कस्य खल्विदमेवंरूपं पूर्वनिमित्तं भविष्यति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वेऽन्योन्यभवनानि गत्वा आरोचयामासुः। अथ खलु भिक्षवः सुधर्मो नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभ्यामध्यभाषत—



नाहेतु नाकारणमद्य मार्षाः

सर्वे विमाना इह जाज्वलन्ति।

निमित्त दर्शेन्ति ह किं पि लोके

साधु गवेषाम तमेतमर्थम्॥३७॥



अनून कल्पान शता ह्यतीता

नैतादृशं जातु निमित्तमासीत्।

यदि वोपपन्नो इह देवपुत्रो

उत्पन्नु लोके यदि वेह बुद्धः॥३८॥



अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तोऽनुविचरन्त उत्तरं दिग्भागं प्रक्रान्ताः। अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माण उत्तरं दिग्भागं तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडषभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै। दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दशयोजनप्रमाणम्। अभ्यवकीर्य तानि ब्राह्माणि दिव्यानि विमानानि तस्य भगवतो निर्यातयामासुः-परिगृह्णातु भगवानिमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय। परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय॥



अथ खलु भिक्षवस्तेऽपि महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म—



सुदुर्लभं दर्शन नायकानां

स्वभ्यागतं ते भवरागमर्दन।

सुचिरस्य ते दर्शनमद्य लोके

परिपूर्ण कल्पान शतेभि दृश्यसे॥३९॥



तृषितां प्रजां तर्पय लोकनाथ

अदृष्टपूर्वोऽसि कथंचि दृश्यसे।

औदुम्बरं पुष्प यथैव दुर्लभं

तथैव दृष्टोऽसि कथंचि नायक॥४०॥



विमान अस्माकमिमा विनायक

तवानुभावेन विशोभिताद्य।

परिगृह्य एतानि समन्तचक्षुः

परिभुञ्ज चास्माकमनुग्रहार्थम्॥४१॥



अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्यभिर्गाथाभिरभिष्टुत्य ते भगवन्तमेतदूचुः-प्रवर्तयतु भगवान् धर्मचक्रं लोके। देशयतु भगवान् निर्वृतिम्। तारयतु भगवान् सत्त्वान्। अनुगृह्णातु भगवानिमं लोकम्। देशयतु भगवान् धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः। तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥



अथ खलु भिक्षवस्तानि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राणि एकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त—



देशेहि धर्मं भगवन् विनायक

प्रवर्तया धर्ममयं च चक्रम्।

निर्नादया धर्ममयं च दुन्दुभिं

तं धर्मशङ्खं च प्रपूरयस्व॥४२॥



सद्धर्मवर्षं वर्षयस्व लोके

वल्गुस्वरं भाष सुभाषितं च।

अध्येषितो धर्ममुदीरयस्व

मोचेहि सत्त्वा नयुतान कोट्यः॥४३॥



अथ खलु भिक्षवः स भगवांस्तेषां महाब्रह्मणां तूष्णींभावेनाधिवासयति स्म। पेयालम्। एवं दक्षिणपश्चिमायां दिशि, एवं पश्चिमायां दिशि, एवं पश्चिमोत्तरस्यां दिशि, एवमुत्तरस्यां दिशि, एवमुत्तरपूर्वस्यां दिशि, एवमधोदिशि॥



अथ खलु भिक्षव ऊर्ध्वायां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च। अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत्-इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च। कस्य खल्विदमेवंरूपं पूर्वंनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वेऽन्योन्यभवनानि गत्वा आरोचयामासुः॥



अथ खलु भिक्षवः शिखी नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत—



किं कारणं मार्ष इदं भविष्यति

येना विमानानि परिस्फुटानि।

ओजेन वर्णेन द्युतीय चापि

अधिमात्र वृद्धानि किमत्र कारणम्॥४४॥



न ईदृशं नो अभिदृष्टपूर्वं

श्रुतं च केनो तथ पूर्व आसीत्।

ओजऽस्फुटानि यथ अद्य एता

अधिमात्र भ्राजन्ति किमत्र कारणम्॥४५॥



यदि वा नु कश्चिद्भवि देवपुत्रः

शुभेन कर्मेण समन्वितो इह।

उपपन्नु तस्यो अयमानुभावो

यदि वा भवेद् बुद्ध कदाचि लोके॥४६॥



अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तोऽनुविचरन्तो येन अधोदिग्भागस्तेनोपसंक्रान्ताः। अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माणोऽधोदिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडशभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै। दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दशयोजनप्रमाणम्। अभ्यवकीर्य तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः-प्रतिगृह्णातु भगवानिमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय। परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादायेति॥



अथ खलु भिक्षवस्तेऽपि महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म—



साधु दर्शन बुद्धान लोकनाथान तायिनाम्।

त्रधातुकस्मि बुद्धा वै सत्त्वानां ये प्रमोचकाः॥४७॥



समन्तचक्षु लोकेन्द्रा व्यवलोकेन्ति दिशो दश।

विवरित्वामृतद्वारमोतारेन्ति बहून् जनान्॥४८॥



शून्या अचिन्तियाः कल्पा अतीताः पूर्वि ये अभू।

अदर्शनाज्जिनेन्द्राणां अन्धा आसीद्दिशो दश॥४९॥



वर्धन्ति नरकास्तीव्रास्तिर्यग्योनिस्तथासुराः।

प्रेतेषु चोपपद्यन्ते प्राणिकोट्यः सहस्रशः॥५०॥



दिव्याः कायाश्च हीयन्ते च्युता गच्छन्ति दुर्गतिम्।

अश्रुत्वा धर्म बुद्धानां गत्येषां भोति पापिका॥५१॥



चर्याशुद्धिगतिप्रज्ञा हीयन्ते सर्वप्राणिनाम्।

सुखं विनश्यती तेषां सुखसंज्ञा च नश्यति॥५२॥



अनाचाराश्च ते भोन्ति असद्धर्मे प्रतिष्ठिताः।

अदान्ता लोकनाथेन दुर्गतिं प्रपतन्ति ते॥५३॥



दृष्टोऽसि लोकप्रद्योत सुचिरेणासि आगतः।

उत्पन्नु सर्वसत्त्वानां कृतेन अनुकम्पकः॥५४॥



दिष्टया क्षेमेण प्राप्तोऽसि बुद्धज्ञानमनुत्तरम्।

वयं ते अनुमोदामो लोकश्चैव सदेवकः॥५५॥



विमानानि सुचित्राणि अनुभावेन ते विभो।

ददाम ते महावीर प्रतिगृह्ण महामुने॥५६॥



अस्माकमनुकम्पार्थं परिभुञ्ज विनायक।

वयं च सर्वसत्त्वाश्च अग्रां बोधिं स्पृशेमहि॥५७॥



अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः-प्रवर्तयतु भगवान् धर्मचक्रम्। प्रवर्तयतु सुगतो धर्मचक्रम्। देशयतु भगवान् निर्वृतिम्। तारयतु भगवान् सर्वसत्त्वान्। अनुगृह्णातु भगवानिमं लोकम्। देशयतु भगवान्। धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः। तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकनुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥



अथ खलु भिक्षवस्तानि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राण्येकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त—



प्रवर्तया चक्रवरमनुत्तरं

पराहनस्वा अमृतस्य दुन्दुभिम्।

प्रमोचया दुःखशतैश्च सत्त्वान्

निर्वाणमार्गं च प्रदर्शयस्व॥५८॥



अस्माभिरध्येषितु भाष धर्म-

मस्माननुगृह्ण इमं च लोकम्।

वल्गुस्वरं चो मधुरं प्रमुञ्च

समुदानितं कल्पसहस्रकोटिभिः॥५९॥



अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां ब्रह्मकोटीनयुतशतसहस्राणामध्येषणां विदित्वा तेषां च षोडशानां पुत्राणां राजकुमाराणाम्, तस्यां वेलायां धर्मचक्रं प्रवर्तयामास त्रिपरिवर्तं द्वादशाकारमप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा अन्येन वा केनचित् पुनर्लोके सह धर्मेण। यदिदं दुःखम्, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति। प्रतीत्यसमुत्पादप्रवृत्तिं च विस्तरेण संप्रकाशयामास-इति हि भिक्षवोऽविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति।



एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। अविद्यानिरोधात् संस्कारनिरोधः, संस्कारनिरोधाद् विज्ञाननिरोधः, विज्ञाननिरोधान्नामरूपनिरोधः, नामरूपनिरोधात् षडायतननिरोधः, षडायतननिरोधात् स्पर्शनिरोधः, स्पर्शनिरोधाद् वेदनानिरोधः, वेदनानिरोधात्तृष्णानिरोधः, तृष्णानिरोधादुपादाननिरोधः, उपादाननिरोधाद् भवनिरोधः, भवनिरोधाज्जातिनिरोधः, जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति॥



सहप्रवर्तितं चेदं भिक्षवस्तेन भगवता महाभिज्ञाज्ञानाभिभुवा तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पर्षदः पुरस्तात्, अथ तस्मिन्नेव क्षणलवमुहूर्ते षष्टेः प्राणिकोटीनयुतशतसहस्राणामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि। सर्वे च ते त्रैविद्याः षडभिज्ञा अष्टविमोक्षध्यायिनः संवृत्ताः। पुनरनुपूर्वेण भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धो द्वितीयां धर्मदेशनामकार्षीत्, तृतीयामपि धर्मदेशनामकार्षीत्, चतुर्थीमपि धर्मदेशनामकार्षीत्॥



अथ खलु भिक्षवस्तस्य भगवतो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्यैकैकस्यां धर्मदेशनायां गङ्गानदीवालुकासमानां प्राणिकोटीनयुतशतसहस्राणामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि। ततः पश्चाद् भिक्षवस्तस्य भगवतो गणनासमतिक्रान्तः श्रावकसंघोऽभूत्॥



तेन खलु पुनर्भिक्षवः समयेन ते षोडश राजकुमाराः कुमारभूता एव समानाः श्रद्धया अगारादनागारिकां प्रव्रजिताः। सर्वे च ते श्रामणेरा अभूवन् पण्डिता व्यक्ता मेधाविनः कुशला बहुबुद्धशतसहस्रचरिताविनोऽर्थिनश्चानुत्तरायाः सम्यक्संबोधेः। अथ खलु भिक्षवस्ते षोडश श्रामणेरास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धमेतदूचुः-इमानि खलु पुनर्भगवंस्तथागतस्य बहूनि श्रावककोटीनयुतशतसहस्राणि महर्द्धिकानि महानुभावानि महेशाख्यानि भगवतो धर्मदेशनया परिनिष्पन्नानि। तत् साधु भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धोऽस्माकमनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमारभ्य धर्मं देशयतु, यद्वयमपि तथागतस्यानुशिक्षेमहि। अर्थिनो वयं भगवंस्तथागतज्ञानदर्शनेन। भगवानेवास्माकमस्मिन्नेवार्थे साक्षी। त्वं च भगवन् सर्वसत्त्वाशयज्ञो जानीषे अस्माकमध्याशयमिति॥



तेन खलु पुनर्भिक्षवः समयेन तान् बालान् दारकान् राजकुमारान् प्रव्रजितान् श्रामणेरान् दृष्ट्वा यावांस्तस्य राज्ञश्चक्रवर्तिनः परिवारः, ततोऽर्धः प्रव्रजितोऽभूदशीतिप्राणिकोटीनयुतशतसहस्राणि॥



अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां श्रामणेराणामध्याशयं विदित्वा विंशतेः कल्पसहस्राणामत्ययेन सद्धर्मपुण्डरीकं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं विस्तरेण संप्रकाशयामास तासां सर्वासां चतसृणां पर्षदाम्॥



तेन खलु पुनर्भिक्षवः समयेन तस्य भगवतो भाषितं ते षोदश राजकुमाराः श्रामणेरा उद्गृहीतवन्तो धारितवन्त आराधितवन्तः पर्याप्तवन्तः॥



अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तान् षोडश श्रामणेरान् व्याकार्षीदनुत्तरायां सम्यक्संबोधौ। तस्य खलु पुनर्भिक्षवो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्येमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषमाणस्य श्रावकाश्चाधिमुक्तवन्तः। ते च षोडश श्रामणेरा बहूनि च प्राणिकोटीनयुतशतसहस्राणि विचिकित्साप्राप्तान्यभूवन्॥



अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्ध इमं सद्धर्मपुण्डरीकं धर्मपर्यायमष्टौ कल्पसहस्राण्यविश्रान्तो भाषित्वा विहारं प्रविष्टः प्रतिसंलयनाय। तथा प्रतिसंलीनश्च भिक्षवः स तथागतश्चतुरशीतिकल्पसहस्राणि विहारस्थित एवासीत्॥



अथ खलु भिक्षवस्ते षोडश श्रामणेरास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतं प्रतिसंलीनं विदित्वा पृथक् पृथग् धर्मासनानि सिंहासनानि प्रज्ञाप्य तेषु निषण्णास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतं नमस्कृत्य तं सद्धर्मपुण्डरीकं धर्मपर्यायं विस्तरेण चतसृणां पर्षदां चतुरशीतिकल्पसहस्राणि संप्रकाशितवन्तः। तत्र भिक्षव एकैकः श्रामणेरो बोधिसत्त्वः षष्टिषष्टिगङ्गानदीवालुकासमानि प्राणिकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ परिपाचितवान् समादापितवान् संहर्षितवान् समुत्तेजितवान् संप्रहर्षितवानवतारितवान्॥



अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां चतुरशीतेः कल्पसहस्राणामत्ययेन स्मृतिमान् संप्रजानस्तस्मात् समाधेर्व्युत्तिष्ठत्। व्युत्थाय च स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो येन तद्धर्मासनं तेनोपसंक्रामत्। उपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत्। समनन्तरनिषण्णश्च खलु पुनर्भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतस्तस्मिन् धर्मासने, अथ तावदेव सर्वावन्तं पर्षन्मण्डलमवलोक्य भिक्षुसंघमामन्त्रयामासआश्चर्यप्राप्ता भिक्षवोऽद्भुतप्राप्ता इमे षोडश श्रामणेराः प्रज्ञावन्तो बहुबुद्धकोटीनयुतशतसहस्रपर्युपासिताश्चीर्णचरिता बुद्धज्ञानपर्युपासका बुद्धज्ञानप्रतिग्राहका बुद्धाज्ञानावतारका बुद्धज्ञानसंदर्शकाः। पर्युपासध्वं भिक्षव एतान् षोडश श्रामणेरान् पुनः पुनः। ये केचिद् भिक्षवः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा एषां कुलपुत्राणां धर्मदेशनां न प्रतिक्षेप्स्यन्ति। न प्रतिबाधिष्यन्ते, सर्वे ते क्षिप्रमनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति, सर्वे च ते तथागतज्ञानमनुप्राप्स्यन्ति॥



तै खलु पुनर्भिक्षवः षोडशभिः कुलपुत्रैस्तस्य भगवतः शासनेऽयं सद्धर्मपुण्डरीको धर्मपर्यायः पुनः पुनः संप्रकाशितोऽभूत्। तैः खलु पुनर्भिक्षवः षोडशभिः श्रामणेरैर्बोधिसत्त्वैर्महासत्त्वैर्यानि तान्येकैकेन बोधिसत्त्वेन महासत्त्वेन षष्टिषष्टिगङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि बोधाय समादापितान्यभूवन्, सर्वाणि च तानि तैरेव सार्धं तासु तासु जातिष्वनुप्रव्रजितानि। तान्येव समनुपश्यन्तस्तेषामेवान्तिकाद्धर्ममश्रौषुः। तैश्चत्वारिंशद् बुद्धकोटीसहस्राण्यारागितानि। केचिदद्याप्यारागयन्ति॥



आरोचयामि वो भिक्षवः, प्रतिवेदयामि वः। ये ते षोडश राजकुमाराः कुमारभूता ये तस्य भगवतः शासने श्रामणेरा धर्मभाणका अभूवन्, सर्वे तेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। सर्वे च त एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति। दशसु दिक्षु नानाबुद्धक्षेत्रेषु बहूनां श्रावकबोधिसत्त्वकोटीनयुतशतसहस्राणां धर्मं देशयन्ति। यदुत पूर्वस्यां दिशि भिक्षवोऽभिरत्यां लोकधातावक्षोभ्यो नाम तथागतोऽर्हन् सम्यक्संबुद्धो मेरुकूटश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः। पूर्वदक्षिणस्यां दिशि भिक्षवः सिंहघोषश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः सिंहध्वजश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः। दक्षिणस्यां दिशि भिक्षवः आकाशप्रतिष्ठितश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धो नित्यपरिनिर्वृतश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः। दक्षिणपश्चिमायां दिशि भिक्षव इन्द्रध्वजश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धो ब्रह्मध्वजश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः।



पश्चिमायां दिशि भिक्षवोऽमितायुश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः सर्वलोकधातूपद्रवोद्वेगप्रत्युत्तीर्णश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः। पश्चिमोत्तरस्यां दिशि भिक्षवस्तमालपत्रचन्दनगन्धाभिज्ञश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धो मेरुकल्पश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः। उत्तरस्यां दिशि भिक्षवो मेघस्वरदीपश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धो मेघस्वरराजश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः। उत्तरपूर्वस्यां दिशि भिक्षवः सर्वलोकभयच्छम्भितत्वविध्वंसनरकरश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः। अहं च भिक्षवः शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः षोडशमो मध्ये खल्वस्यां सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः॥



ये पुनस्ते भिक्षवस्तदा अस्माकं श्रामणेरभूतानां सत्त्वां धर्मं श्रुतवन्तः तस्य भगवतः शासन एकैकस्य बोधिसत्त्वस्य महासत्त्वस्य बहूनि गङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि यान्यस्माभिः समादापितान्यनुत्तरायां सम्यक्संबोधौ, तान्येतानि भिक्षवोऽद्यापि श्रावकभूमावेवावस्थितानि। परिपाच्यन्त एवानुत्तरायां सम्यक्संबोधौ। एषैवैषामानुपूर्वी अनुत्तरायाः सम्यक्संबोधेरभिसंबोधनाय। तत्कस्य हेतोः? एवं दुरधिमोच्यं हि भिक्षवस्तथागतज्ञानम्। कतमे च ते भिक्षवः सत्त्वाः, ये मया बोधिसत्त्वेन तस्य भगवतः शासने अप्रमेयाण्यसंख्येयानि गङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि सर्वज्ञताधर्ममनुश्रावितानि? यूयं ते भिक्षवस्तेन कालेन तेन समयेन सत्त्वा अभूवन्॥



ये च मम परिनिर्वृतस्य अनागतेऽध्वनि श्रावका भविष्यन्ति, बोधिसत्त्वचर्यां च श्रोष्यन्ति, न चावभोत्स्यन्ते बोधिसत्त्वा वयमिति, किंचापि ते भिक्षवः सर्वे परिनिर्वाणसंज्ञिनः परिनिर्वास्यन्ति, अपि तु खलु पुनर्भिक्षवो यदहमन्यासु लोकधातुष्वन्योन्यैर्नामधेयैर्विहरामि, तत्र ते पुनरुत्पत्स्यन्ते तथागतज्ञानं पर्येषमाणाः। तत्र च ते पुनरेवैतां क्रियां श्रोष्यन्ति। एकमेव तथागतानां परिनिर्वाणम्। नास्त्यन्यद् द्वितीयमितो बहिर्निर्वाणम्। तथागतानामेतद्भिक्षव उपायकौशल्यं वेदितव्यं धर्मदेशनाभिनिर्हारश्च। यस्मिन् भिक्षवः समये तथागतः परिनिर्वाणकालसमयमात्मनः समनुपश्यति, परिशुद्धं च पर्षदं पश्यति अधिमुक्तिसारां शून्यधर्मगतिं गतां ध्यानवतीं महाध्यानवतीम्, अथ खलु भिक्षवस्तथागतोऽयं काल इति विदित्वा सर्वान् बोधिसत्त्वान् सर्वश्रावकांश्च संनिपात्य पश्चादेतमर्थं संश्रावयति। न भिक्षवः किंचिदस्ति लोके द्वितीयं नाम यानं परिनिर्वाणं वा, कः पुनर्वादस्तृतीयस्य? उपायकौशल्यं खल्विदं भिक्षवस्तथागतानामर्हताम्-दूरप्रनष्टं सत्त्वधातुं विदित्वा हीनाभिरतान् कामपङ्कमग्नान्, तत एषां भिक्षवस्तथागतस्तन्निर्वाणं भाषते यदधिमुच्यन्ते॥



तद्यथापि नाम भिक्षव इह स्यात् पञ्चयोजनशतिकमटवीकान्तारम्। महांश्चात्र जनकायः प्रतिपन्नो भवेद् रत्नदीपं गमनाय। देशिकश्चैषामेको भवेद् व्यक्तः पण्डितो निपुणो मेधावी कुशलः खल्वटवीदुर्गाणाम्। स च तं सार्थमटवीमवक्रामयेत्। अथ खलु स महाजनकायः श्रान्तः क्लान्तो भीतस्त्रस्तः एवं वदेत्- यत् खल्वार्य देशिक परिणायक जानीयाः-वयं हि श्रान्ताः क्लान्ता भीतास्त्रस्ता अनिर्वृताः। पुनरेव प्रतिनिवर्तयिष्यामः। अतिदूरमितोऽटवीकान्तारमिति। अथ खलु भिक्षवः स देशिक उपायकुशलस्तान् पुरुषान् प्रतिनिवर्तितुकामान् विदित्वा एवं चिन्तयेत्-मा खल्विमे तपस्विनस्तादृशं महारत्नद्वीपं न गच्छेयुरिति। स तेषामनुकम्पार्थमुपायकौशल्यं प्रयोजयेत्। तस्या अटव्या मध्ये योजनशतं वा द्वियोजनशतं वा त्रियोजनशतं वा अतिक्रम्य ऋद्धिमयं नगरमभिनिर्मिमीयात्। ततस्तान् पुरुषानेवं वदेत्- मा भवन्तो भैष्ट, मा निवर्तध्वम्। अयमसौ महाजनपदः। अत्र विश्राम्यत। अत्र वो यानि कानिचित् करणीयानि तानि सर्वाणि कुरुध्वम्। अत्र निर्वाणप्राप्ता विहरध्वमत्र विश्रान्ताः। यस्य पुनः कार्यं भविष्यति, स तं महारत्नद्वीपं गमिष्यति॥



अथ खलु भिक्षवस्ते कान्तारप्राप्ताः सत्त्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता भवेयुः-मुक्ता वयमटवीकान्तारात्। इह निर्वाणप्राप्ता विहरिष्याम इति। अथ खलु भिक्षवस्ते पुरुषास्तदृद्धिमयं नगरं प्रविशेयुः, आगतसंज्ञिनश्च भवेयुः, निस्तीर्णसंज्ञिनश्च भवेयुः। निर्वृताः शीतीभूता स्म इति मन्येरन्। ततस्तान् देशिको विश्रान्तान् विदित्वा तदृद्धिमयं नगरमन्तर्धापयेत्। अन्तर्धापयित्वा च तान् पुरुषानेवं वदेत्-आगच्छन्तु भवन्तः सत्त्वाः। अभ्यासन्न एष महारत्नद्वीपः। इदं तु मया नगरं युष्माकं विश्रामणार्थमभिनिर्मितमिति॥



एवमेव भिक्षवस्तथागतोऽर्हन् सम्यक्संबुद्धो युष्माकं सर्वसत्त्वानां च देशिकः। अथ खलु भिक्षवस्तथागतोऽर्हन् सम्यक्संबुद्ध एवं पश्यति-महदिदं क्लेशकान्तारं निर्गन्तव्यं निष्क्रान्तव्यं प्रहातव्यम्। मा खल्विमे एकमेव बुद्धज्ञानं श्रुत्वा द्रवेणैव प्रतिनिवर्तयेयुः, नैवोपसंक्रमेयुः। बहुपरिक्लेशमिदं बुद्धज्ञानं समुदानयितव्यमिति। तत्र तथागतः सत्त्वान् दुर्बलाशयान् विदित्वा यथा स देशिकस्तदृद्धिमयं नगरमभिनिर्मितीते तेषां सत्त्वानां विश्रामणार्थम्, विश्रान्तानां चैषामेवं कथयति-इदं खलु ऋद्धिमयं नगरमिति, एवमेव भिक्षवस्तथागतोऽप्यर्हन् सम्यक्संबुद्धो महोपायकौशल्येन अन्तरा द्वे निर्वाणभूमी सत्त्वानां विश्रामणार्थं देशयति संप्रकाशयति यदिदं श्रावकभूमिं प्रत्येकबुद्धभूमिं च। यस्मिंश्च भिक्षवः समये ते सत्त्वास्तत्र स्थिता भवन्ति, अथ खलु भिक्षवस्तथागतोऽप्येवं संश्रावयति-न खलु पुनर्भिक्षवो यूयं कृतकृत्याः कृतकरणीयाः। अपि तु खलु पुनर्भिक्षवो युष्माकमभ्यासः। इतस्तथागतज्ञानं व्यवलोकयध्वं भिक्षवो व्यवचारयध्वम्। यद् युष्माकं निर्वाणं नैव निर्वाणम्, अपि तु खलु पुनरूपायकौशल्यमेतद् भिक्षवस्तथागतानामर्हतां सम्यक्संबुद्धानां यत् त्रीणि यानानि संप्रकाशयन्तीति॥



अथ खलु भगवानिममेवार्थं भूयस्या मात्रयोपदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत—



अभिज्ञज्ञानाभिभु लोकनायको

यद्बोधिमण्डस्मि निषण्ण आसीत्।

दशेह सो अन्तरकल्प पूर्णान्

न लप्सि बोधिं परमार्थदर्शी॥६०॥



देवाथ नागा असुराथ गुह्यका

उद्युक्त पूजार्थ जिनस्य तस्य।

पुष्पाण वर्षं प्रमुमोचु तत्र

बुद्धे च बोधिं नरनायकेऽस्मिन्॥६१॥



उपरिं च खे दुन्दुभयो विनेदुः

सत्कारपूजार्थ जिनस्य तस्य।

सुदुःखिता चापि जिनेन तत्र

चिरबुध्यमानेन अनुत्तरं पदम्॥६२॥



दशान चो अन्तरकल्प अत्ययात्

स्पृशे स बोधिं भगवाननाभिभूः।

हृष्टा उदग्रास्तद आसु सर्वे

देवा मनुष्या भुजगासुराश्च॥६३॥



वीराः कुमारा अथ तस्य षोडश

पुत्रा गुणाढ्या नरनायकस्य।

उपसंक्रमी प्राणीसहस्रकोटिभिः

पुरस्कृतास्तं द्विपदेन्द्रमग्र्यम्॥६४॥



वन्दित्व पादौ च विनायकस्य

अध्येषिषू धर्म प्रकाशयस्व।

अस्मांश्च तर्पेहि इमं च लोकं

सुभाषितेनेह नरेन्द्रसिंह॥६५॥



चिरस्य लोकस्य दशद्दिशेऽस्मिन्

विदितोऽसि उत्पन्नु महाविनायक।

निमित्तसंचोदनहेतु प्राणिनां

ब्राह्मा विमानानि प्रकम्पयन्तः॥६६॥



दिशाय पूर्वाय सहस्रकोट्यः

क्षेत्राण पञ्चाशदभूषि कम्पिताः।

तत्रापि ये ब्राह्म विमान अग्रा-

स्ते तेजवन्तो अधिमात्रमासि॥६७॥



विदित्व ते पूर्वनिमित्तमीदृश-

मुपसंक्रमी लोकविनायकेन्द्रम्।

पुष्पैरिहाभ्योकिरियाण नायक-

मर्पेन्ति ते सर्व विमान तस्य॥६८॥



अध्येषिषू चक्रप्रवर्तनाय

गाथाभिगीतेन अभिसंस्तविंसु।

तूष्णीं च सो आसि नरेन्द्रराजा

न ताव कालो मम धर्म भाषितुम्॥६९॥



एवं दिशि दक्षिणियां पि तत्र

अथ पश्चिमा हेष्टिम उत्तरस्याम्।

उपरिष्टिमायां विदिशासु चैव

आगत्य ब्रह्माण सहस्रकोट्यः॥७०॥



पुष्पेभि अभ्योकिरियाण नायकं

पादौ च वन्दित्व विनायकस्य।

निर्यातयित्वा च विमान सर्वा-

नभिष्टवित्वा पुनरभ्ययाचि॥७१॥



प्रवर्तया चक्रमनन्तचक्षुः

सुदुर्लभस्त्वं बहुकल्पकोटिभिः।

दर्शेहि मैत्रीबल पूर्वसेवित-

मपावृणोही अमृतस्य द्वारम्॥७२॥



अध्येषणां ज्ञात्व अनन्तचक्षुः।

प्रकाशते धर्म बहुप्रकारम्।

चत्वारि सत्यानि च विस्तरेण

प्रतीत्य सर्वे इमि भाव उत्थिताः॥७३॥



अविद्य आदीकरियाण चक्षुमान्

प्रभाषते स मरणान्तदुःखम्।

जातिप्रसूता इमि सर्वदोषा

मृत्युं च मानुष्यमिमेव जानथ॥७४॥



समनन्तरं भाषितु धर्म तेन

बहुप्रकारा विविधा अनन्ताः।

श्रुत्वानशीती नयुतान कोट्यः

सत्त्वाः स्थिताः श्रावक भूतले लघुम्॥७५॥



क्षणं द्वितीयं अपरं अभूषि

जिनस्य तस्यो बहु धर्म भाषतः।

विशुद्धसत्त्वा यथ गङ्गवालुकाः

क्षणेन ते श्रावकभूत आसीत्॥७६॥



ततोत्तरी अगणियु तस्य आसीत्

संघस्तदा लोकविनायकस्य।

कल्पान कोटीन्ययुता गणेन्त

एकैक नो चान्तु लभेय तेषाम्॥७७॥



ये चापि ते षोडश राजपुत्रा

ये औरसा चैलकभूत सर्वे।

ते श्रामणेरा अवचिंसु तं जिनं

प्रकाशया नायक अग्रधर्मम्॥७८॥



यथा वयं लोकविदू भवेम

यथैव त्वं सर्वजिनानमुत्तम।

इमे च सत्त्वा भवि सर्वि एव

यथैव त्वं वीर विशुद्धचक्षुः॥७९॥



सो चा जिनो आंशयु ज्ञात्व तेषां

कुमारभूतान तथात्मजानाम्।

प्रकाशयी उत्तममग्रबोधिं

दृष्टान्तकोटीनयुतैरनेकैः॥८०॥



हेतूसहस्रैरुपदर्शयन्तो

अभिज्ञज्ञानं च प्रवर्तयन्तः।

भूतां चरिं दर्शयि लोकनाथो

यथा चरन्तो विदु बोधिसत्त्वाः॥८१॥



इदमेव सद्धर्मपुण्डरीकं

वैपुल्यसूत्रं भगवानुवाच।

गाथासहस्रेहि अनल्पकेहि

येषां प्रमाणं यथ गङ्गवालिकाः॥८२॥



सो चा जिनो भाषिय सूत्रमेत-

द्विहारु प्रविशित्व विलक्षयीत।

पूर्णानशीतिं चतुरश्च कल्पान्

समाहितैकासनि लोकनाथः॥८३॥



ते श्रामणेराश्च विदित्व नायकं

विहारि आसन्नमनिष्क्रमन्तम्।

संश्रावयिंसु बहुप्राणिकोटिनां

बौद्ध इमं ज्ञानमनास्रवं शिवम्॥८४॥



पृथक् पृथगासन प्रज्ञपित्वा

अभाषि तेषामिदमेव सूत्रम्।

सुगतस्य तस्य तद शासनस्मिन्

अधिकार कुर्वन्ति ममेवरूपम्॥८५॥



गङ्गा यथा वालुक अप्रमेया

सहस्र षष्टिं तद श्रावयिंसु।

एकैकु तस्य सुगतस्य पुत्रो

विनेति सत्त्वानि अनल्पकानि॥८६॥



तस्यो जिनस्य परिनिर्वृतस्य।

चरित्व ते पश्यिसु बुद्धकोट्यः।

तेही तदा श्रावितकेहि सार्धं

कुर्वन्ति पूजां द्विपदोत्तमानाम्॥८७॥



चरित्व चर्यां विपुलां विशिष्टां

बुद्धा च ते बोधि दशद्दिशासु।

ते षोडशा तस्य जिनस्य पुत्रा

दिशासु सर्वासु द्वयो द्वयो जिनाः॥८८॥



ये चापि संश्रावितका तदासी

ते श्रावका तेष जिनान सर्वे।

इममेव बोधिं उपनामयन्ति

क्रमक्रमेण विविधैरुपायैः॥८९॥



अहं पि अभ्यन्तरि तेष आसी-

न्मयापि संश्रावित सर्वि यूयम्।

तेनो मम श्रावक यूयमद्य

बोधावुपायेनिह सर्वि नेमि॥९०॥



अयं खु हेतुस्तद पूर्व आसी-

दयं प्रत्ययो येन हु धर्म भाषे।

नयाम्यहं येन ममाग्रबोधिं

मा भिक्षवो उत्रसथेह स्थाने॥९१॥



यथाटवी उग्र भवेय दारुणा

शून्या निरालम्ब निराश्रया च।

बहुश्वापदा चैव अपानिया च

बालान सा भीषणिका भवेत॥९२॥



पुरूषाण चो तत्र सहस्र नेका

ये प्रस्थितास्तामटवीं भवेयुः।

अटवी च सा शून्य भवेत दीर्घा

पूर्णानि पञ्चाशत योजनानि॥९३॥



पुरुषश्च आढ्यः स्मृतिमन्तु व्यक्तो

धीरो विनीतश्च विशारदश्च।

यो देशिकस्तेष भवेत तत्र

अटवीय दुर्गाय सुभैरवाय॥९४॥



ते चापि खिन्ना बहुप्राणिकोट्य

उवाच तं देशिक तस्मि काले।

खिन्ना वयं आर्य न शक्नुयाम

निवर्तनं अद्यिह रोचते नः॥९५॥



कुशलश्च सो पि तद पण्डितश्च

प्रणायकोपाय तदा विचिन्तयेत्।

धिक्कष्ट रत्नैरिमि सर्वि बाला

भ्रश्यन्ति आत्मान निवर्तयन्तः॥९६॥



यन्नूनहं ऋद्धिबलेन वाद्य

नगरं महन्तं अभिनिर्मिणेयम्।

प्रतिमण्डितं वेश्मसहस्रकोटिभि-

र्विहार‍उद्यानुपशोभितं च॥९७॥



वापी नदीयो अभिनिर्मिणेयम्

आरामपुष्पैः प्रतिमण्डितं च।

प्राकारद्वारैरुपशोभितं च

नारीनरैश्चाप्रतिमैरुपेतम्॥९८॥



निर्माणु कृत्व इति तान् वदेय।

मा भायथा हर्ष करोथ चैव।

प्राप्ता भवन्तो नगरं वरिष्ठं

प्रविश्य कार्याणि कुरुष्व क्षिप्रम्॥९९॥



उदग्रचित्ता भणथेह निर्वृता

निस्तीर्ण सर्वा अटवी अशेषतः।

आश्वासनार्थाय वदेति वाचं

कथं न प्रत्यागत सर्वि अस्या॥१००॥



विश्रान्तरूपांश्च विदित्व सर्वान्

समानयित्वा च पुनर्ब्रवीति।

आगच्छथ मह्य शृणोथ भाषतो

ऋद्धीमयं नगरमिदं विनिर्मितम्॥१०१॥



युष्माक खेदं च मया वित्दिवा

निवर्तनं मा च भविष्यतीति।

उपायकौशल्यमिदं ममेति

जनेथ वीर्यं गमनाय द्वीपम्॥१०२॥



एमेव हं भिक्षव देशिको वा

प्रणायकः प्राणिसहस्रकोटिनाम्।

खिद्यन्त पश्यामि तथैव प्राणिनः

क्लेशाण्डकोशं न प्रभोन्ति भेत्तुम्॥१०३॥



ततो मया चिन्तितु एष अर्थो

विश्रामभूता इमि निर्वृतीकृताः।

सर्वस्य दुःखस्य निरोध एष

अर्हन्तभूमौ कृतकृत्य यूयम्॥१०४॥



समये यदा तु स्थित अत्र स्थाने

पश्यामि यूयामर्हन्त तत्र सर्वान्।

तदा च सर्वानिह संनिपात्य

भूतार्थमाख्यामि यथैष धर्मः॥१०५॥



उपायकौशल्य विनायकानां

यद् यान देशेन्ति त्रयो महर्षी।

एकं हि यानं न द्वितीयमस्ति

विश्रामणार्थं तु द्वियान देशिता॥१०६॥



ततो वदेमि अहमद्य भिक्षवो

जनेथ वीर्यं परमं उदारम्।

सर्वज्ञज्ञानेन कृतेन यूयं

नैतावता निर्वृति काचि भोति॥१०७॥



सर्वज्ञज्ञानं तु यदा स्पृशिष्यथ

दशो बला ये च जिनान धर्माः।

द्वात्रिंशतीलक्षणरूपधारी

बुद्धा भवित्वान भवेथ निर्वृताः॥१०८॥



एतादृशी देशन नायकानां

विश्रामहेतोः प्रवदन्ति निर्वृतिम्।

विश्रान्त ज्ञात्वान च निर्वृतीये

सर्वज्ञज्ञाने उपनेन्ति सर्वान्॥१०९॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये पूर्वयोगपरिवर्तो नाम सप्तमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project