Digital Sanskrit Buddhist Canon

६ व्याकरणपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

6 vyākaraṇaparivartaḥ

६ व्याकरणपरिवर्तः।



अथ खलु भगवानिमा गाथा भाषित्वा सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म-आरोचयामि वो भिक्षवः, प्रतिवेदयामि। अयं मम श्रावकः काश्यपो भिक्षुस्त्रिंशतो बुद्धकोटीसहस्राणामन्तिके सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति, तेषां च बुद्धानां भगवतां सद्धर्मं धारयिष्यति। स पश्चिमे समुच्छ्रये अवभासप्राप्तायां लोकधातौ महाव्यूहे कल्पे रश्मिप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। द्वादश चास्यान्तरकल्पानायुष्प्रमाणं भविष्यति। विंशतिं चास्यान्तरकल्पान् सद्धर्मः स्थास्यति। विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति। तच्चास्य बुद्धक्षेत्रं शुद्धं भविष्यति शुचि अपगतपाषाणशर्करकठल्यमपगतश्वभ्रप्रपातमपगतस्यन्दनिकागूथोलिगल्लं समं रमणीयं प्रासादिकं दर्शनीयं वैडूर्यमयं रत्नवृक्षप्रतिमण्डितं सुवर्णसूत्राष्टापदनिबद्धं पुष्पाभिकीर्णम्। बहूनि च तत्र बोधिसत्त्वशतसहस्राण्युत्पत्स्यन्ते। अप्रमेयाणि च तत्र श्रावककोटीनयुतशतसहस्राणि भविष्यन्ति। न च तत्र मारः पापीयानवतारं लप्स्यते, न च मारपर्षत् प्रज्ञास्यते। भविष्यन्ति तत्र खलु पुनर्मारश्च मारपर्षदश्च। अपि तु खलु पुनस्तत्र लोकधातौ तस्यैव भगवतो रश्मिप्रभासस्य तथागतस्य शासने सद्धर्मपरिग्रहायाभियुक्ता भविष्यन्ति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



पश्याम्यहं भिक्षव बुद्धचक्षुषा

स्थविरो ह्ययं काश्यप बुद्ध भेष्यति।

अनागतेऽध्वानि असंख्यकल्पे

कृत्वान पूजां द्विपदोत्तमानाम्॥१॥



त्रिंशत्सहस्राः परिपूर्णकोट्यो

जिनानयं द्रक्ष्यति काश्यपो ह्ययम्।

चरिष्यती तत्र च ब्रह्मचर्यं

बौद्धस्य ज्ञानस्य कृतेन भिक्षवः॥२॥



कृत्वान पूजां द्विपदोत्तमानां

समुदानिय ज्ञानमिदं अनुत्तरम्।

स पश्चिमे चोच्छ्रयि लोकनाथो

भविष्यते अप्रतिमो महर्षिः॥३॥



क्षेत्रं च तस्य प्रवरं भविष्यति

विचित्र शुद्धं शुभ दर्शनीयम्।

मनोज्ञरूपं सद प्रेमणीयं

सुवर्णसूत्रैः समलंकृतं च॥४॥



रत्नामया वृक्ष तहिं विचित्रा

अष्टापदस्मिं तहि एकमेके।

मनोज्ञगन्धं च विमुञ्चमाना

भेष्यन्ति क्षेत्रस्मि इमस्मि भिक्षो॥५॥



पुष्पप्रकारैः समलंकृतं च

विचित्रपुष्पैरुपशोभितं च।

श्वभ्रप्रपाता न च तत्र सन्ति

समं शिवं भेष्यति दर्शनीयम्॥६॥



तहि बोधिसत्त्वान सहस्रकोट्यः

सुदान्तचित्तान महर्द्धिकानाम्।

वैपुल्यसूत्रान्तधराण तायिनां

बहू भविष्यन्ति सहस्र नेके॥७॥



अनास्रवा अन्तिमदेहधारिणो

भेष्यन्ति ये श्रावक धर्मराज्ञः।

प्रमाणु तेषां न कदाचि विद्यते

दिव्येन ज्ञानेन गणित्व कल्पान्॥८॥



सो द्वादश अन्तरकल्प स्थास्यति

सद्धर्म विंशान्तरकल्प स्थास्यति।

प्रतिरूपकश्चान्तरकल्प विंशतिं

रश्मिप्रभासस्य वियूह भेष्यति॥९॥



अथ खल्वायुष्मान् महामौद्गल्यायनः स्थविर आयुष्मांश्च सुभूतिरायुष्मांश्च महाकात्यायनः प्रवेपमानैः कायैर्भगवन्तमनिमिषैर्नेत्रैर्व्यवलोकयन्ति स्म। तस्यां च वेलायां पृथक् पृथङमनःसंगीत्या इमा गाथा अभाषन्त—



अर्हन्त हे महावीर शाक्यसिंह नरोत्तम।

अस्माकमनुकम्पाय बुद्धशब्दमुदीरय॥१०॥



अवश्यमवसरं ज्ञात्वा अस्माकं पि नरोत्तम।

अमृतेनेव सिञ्चित्वा व्याकुरुष्व विभोजन॥११॥



दुर्भिक्षादागतः कश्चिन्नरो लब्ध्वा सुभोजनम्।

प्रतीक्ष भूय उच्येत हस्तप्राप्तस्मि भोजने॥१२॥



एवमेवोत्सुका अस्मो हीनयानं विचिन्तय।

दुष्कालभुक्तसत्त्वा वा बुद्धज्ञानं लभामहे॥१३॥



न तावदस्मान् संबुद्धो व्याकरोति महामुनिः।

यथा हस्तस्मि प्रक्षिप्तं न तद्भुञ्जीत भोजनम्॥१४॥



एवं च उत्सुका वीर श्रुत्वा घोषमनुत्तरम्।

व्याकृता यद भेष्यामस्तदा भेष्याम निर्वृताः॥१५॥



व्याकरोहि महावीर हितैषी अनुकम्पकः।

अपि दारिद्र्यचित्तानां भवेदन्तो महामुने॥१६॥



अथ खलु भगवांस्तेषा महाश्रावकाणां स्थविराणामिममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय पुनरपि सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म-अयं मे भिक्षवो महाश्रावकः स्थविरः सुभूतिस्त्रिंशत एव बुद्धकोटीनयुतशतसहस्राणां सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति। तत्र च ब्रह्मचर्यं चरिष्यति, बोधिं च समुदानयिष्यति। एवंरूपांश्चाधिकारान् कृत्वा पश्चिमे समुच्छ्रये शशिकेतुर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। रत्नसंभवं च नामास्य तद् बुद्धक्षेत्रं भविष्यति। रत्नावभासश्च नाम स कल्पो भविष्यति। समं च तद् बुद्धक्षेत्रं भविष्यति, रमणीयं स्फटिकमयं रत्नवृक्षविचित्रितमपगतश्वभ्रप्रपातमपगतगूथोलिगल्लं मनोज्ञं पुष्पाभिकीर्णम्। कूटागारपरिभोगेषु चात्र पुरुषा वासं कल्पयिष्यन्ति। बहवश्चास्य श्रावका भविष्यन्त्यपरिमाणाः, येषां न शक्यं गणनया पर्यन्तोऽधिगन्तुम्। बहूनि चात्र बोधिसत्त्वकोटीनयुतशतसहस्राणि भविष्यन्ति। तस्य च भगवतो द्वादशान्तरकल्पानायुष्प्रमाणं भविष्यति। विंशतिं चान्तरकल्पान् सद्धर्मः स्थास्यति। विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति। स च भगवान् वैहायसमन्तरीक्षे स्थित्वा अभीक्ष्णं धर्मं देशयिष्यति, बहूनि च बोधिसत्त्वशतसहस्राणि बहूनि च श्रावकशतसहस्राणि विनेष्यति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



आरोचयामि अहमद्य भिक्षवः

प्रतिवेदयाम्यद्य ममा शृणोथ।

स्थविरः सुभूतिर्मम श्रावकोऽयं

भविष्यते बुद्ध अनागतेऽध्वनि॥१७॥



बुद्धांश्च पश्यित्व महानुभावान्

त्रिंशच्च पूर्णानयुतान कोटीः।

चरिष्यते चर्य तदानुलोमिकी-

मिमस्य ज्ञानस्य कृतेन चैषः॥१८॥



स पश्चिमे वीर समुच्छ्रयस्मिन्

द्वात्रिंशतीलक्षणरूपधारी।

सुवर्णयूपप्रतिमो महर्षि-

र्भविष्यते लोकहितानुकम्पी॥१९॥



सुदर्शनीयं च सुक्षेत्र भेष्यति

इष्टं मनोज्ञं च महाजनस्य।

विहरिष्यते यत्र स लोकबन्धु-

स्तारित्व प्राणीनयुतान कोटीः॥२०॥



बहुबोधिसत्त्वात्र महानुभावा

अविवर्त्यचक्रस्य प्रवर्तितारः।

तीक्ष्णेन्द्रियास्तस्य जिनस्य शासने

ये शोभयिष्यन्ति त बुद्धक्षेत्रम्॥२१॥



बहुश्रावकास्तस्य न संख्य तेषां

प्रमाणु नैवास्ति कदाचि तेषाम्।

षडभिज्ञ त्रैविद्य महर्द्धिकाश्च

अष्टाविमोक्षेषु प्रतिष्ठिताश्च॥२२॥



अचिन्तियं ऋद्धिबलं च भेष्यति

प्रकाशयन्तस्यिममग्रबोधिम्।

देवा मनुष्या यथ गङ्गवालिका

भेष्यन्ति तस्यो सततं कृताञ्जली॥२३॥



सो द्वादशो अन्तरकल्प स्थास्यपि

सद्धर्मु विंशान्तरकल्प स्थास्यति।

प्रतिरूपको विंशतिमेव स्थास्यति।

कल्पान्तराणि द्विपदोत्तमस्य॥२४॥



अथ खलु भगवान् पुनरेव सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म-आरोचयामि वो भिक्षयः, प्रतिवेदयामि। अयं मम श्रावकः स्थविरो महाकात्यायनोऽष्टानां बुद्धकोटीशतसहस्राणामन्तिके सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति। परिनिर्वृतानां च तेषां तथागतानां स्तूपान् करिष्यति योजनसहस्रं समुच्छ्रयेण पञ्चाशद् योजनानि परिणाहेन सप्तानां रत्नानाम्। तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मर्गभस्य मुसारगल्वस्य सप्तमस्य रत्नस्य। तेषां च स्तूपानां पूजां करिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिश्च। ततश्च भूयः परेण परतरेण पुनर्विशतीनां बुद्धकोटीनामन्तिके एवरूपमेव सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति। स पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे जाम्बूनदप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवन्। परिशुद्धं चास्य बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं दर्शनीयं स्फटिकमयं रत्नवृक्षाभिविचित्रितं सुवर्णसूत्राच्छोडितं पुष्पसंस्तरसंस्तृतमपगतनिरयतिर्यग्योनियमलोकासुरकायं बहुनरदेवप्रतिपूर्णं बहुश्रावकशतसहस्रोपशोभितं बहुबोधिसत्त्वशतसहस्रालंकृतम्। द्वादश चास्य अन्तरकल्पानायुष्प्रमाणं भविष्यति। विंशतिं चास्य अन्तरकल्पान् सद्धर्मः स्थास्यति। विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



शृणोथ मे भिक्षव अद्य सर्वे

उदाहरन्तस्य गिरामनन्यथाम्।

कात्यायनः स्थविरु अयं मि श्रावकः

करिष्यते पूज विनायकानाम्॥२५॥



सत्कारु तेषां च बहुप्रकारं

बहूविधं लोकविनायकानाम्।

स्तूपांश्च कारापयि निर्वृतानां

पुष्पेहि गन्धेहि च पूजयिष्यति॥२६॥



लभित्व सो पश्चिमकं समुच्छ्रयं

परिशुद्धक्षेत्रस्मि जिनो भविष्यति।

परिपूरयित्वा इममेव ज्ञानं

देशेष्यते प्राणिसहस्रकोटिनाम्॥२७॥



स सत्कृतो लोकि सदेवकस्मिन्

प्रभाकरो बुद्ध विभुर्भविष्यति।

जाम्बूनदाभासु स चापि नाम्ना

संतारको देवमनुष्यकोटिनाम्॥२८॥



बहुबोधिसत्त्वास्तथ श्रावकाश्च

अमिता असंख्या पि च तत्र क्षेत्रे।

उपशोभयिष्यन्ति ति बुद्धशासनं

भवप्रहीणा विभवाश्च सर्वे॥२९॥



अथ खलु भगवान् पुनरेव सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म-आरोचयामि वो भिक्षवः, प्रतिवेदयामि। अयं मम श्रावकः स्थविरो महामौद्गल्यायनोऽष्टाविंशतिबुद्धसहस्राण्यारागयिष्यति, तेषां च बुद्धानां भगवतां विविधं सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति। परिनिर्वृतानां च तेषां बुद्धानां भगवतां स्तूपान् कारयिष्यति सप्तरत्नमयान्। तद्यथा सुवर्णस्य रूप्यस्य वैदूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य। योजनसहस्रं समुच्छ्रयेण पञ्चयोजनशतानि परिणाहेन। तेषां च स्तूपानां विविधां पूजां करिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः।



ततश्च भूयः परेण परतरेण विंशतेर्बुद्धकोटीशतसहस्राणामेवंरूपमेव सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति। पश्चिमे च आत्मभावप्रतिलम्भे तमालपत्रचन्दनगन्धो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। मनोभिरामं च नामास्य तद्बुद्धक्षेत्रं भविष्यति। रतिप्रपूर्णश्च नाम स कल्पो भविष्यति। परिशुद्धं चास्य तद्बुद्धक्षेत्रं भविष्यति, समं रमणीयं प्रासादिकं सुदर्शनीयं स्फटिकमयं रत्नवृक्षाभिविचित्रितं मुक्तकुसुमाभिकीर्णं बहुनरदेवप्रतिपूर्णमृषिशतसहस्रनिषेवितं यदुत श्रावकैश्च बोधिसत्त्वैश्च। चतुर्विशतिं चास्य अन्तरकल्पानायुष्प्रमाणं भविष्यति। चत्वारिंशच्च अन्तरकल्पान् सद्धर्मः स्थास्यति। चत्वारिंशदेव अन्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—



मौद्गल्यगोत्रो मम श्रावकोऽयं

जहित्व मानुष्यकमात्मभावम्।

विंशत्सहस्राणि जिनान तायिना-

मन्यांश्च अष्टौ विरजान द्रक्ष्यति॥३०॥



चरिष्यते तत्र च ब्रह्मचर्यं

बौद्धं इमं ज्ञान गवेषमाणः।

सत्कारु तेषां द्विपदोत्तमानां

विविधं तदा काहि विनायकानाम्॥३१॥



सद्धर्मु तेषां विपुलं प्रणीतं

धारेत्व कल्पान सहस्रकोट्यः।

पूजां च स्तूपेषु करिष्यते तदा

परिनिर्वृतानां सुगतान तेषाम्॥३२॥



रत्नामयान् स्तूप सवैजयन्तान्

करिष्यते तेष जिनोत्तमानाम्।

पुष्पेहि गन्धेहि च पूजयन्तो

वाद्येहि वा लोकहितानुकम्पिनाम्॥३३॥



तत्पश्चिमे चैव समुच्छ्रयस्मिन्

प्रियदर्शने तत्र मनोज्ञक्षेत्रे।

भविष्यते लोकहितानुकम्पी

तमालपत्रचन्दनगन्ध नाम्ना॥३४॥



चतुर्विशपूर्णान्तरकल्प तस्य

आयुष्प्रमाणं सुगतस्य भेष्यति।

प्रकाशयन्तस्यिम बुद्धनेत्रीं

मनुजेषु देवेषु च नित्यकालम्॥३५॥



बहुश्रावकातस्य जिनस्य तत्र

कोटी सहस्रा यथ गङ्गवालिकाः।

षडभिज्ञ त्रैविद्य महर्द्धिकाश्च

अभिज्ञप्राप्ताः सुगतस्य शासने॥३६॥



अवैवर्तिकाश्चो बहुबोधिसत्त्वा

आरब्धवीर्याः सद संप्रजानाः।

अभियुक्तरूपाः सुगतस्य शासने

तेषां सहस्राणि बहूनि तत्र॥३७॥



परिनिर्वृतस्यापि जिनस्य तस्य

सद्धर्मु संस्थास्यति तस्मि काले।

विंशच्च विंशान्तरकल्प पूर्णा

एतत्प्रमाणं प्रतिरूपकस्य॥३८॥



महर्द्धिकाः पञ्च मि श्रावका ये

निर्दिष्ट ये ते मय अग्रबोधये।

अनागतेऽध्वानि जिनाः स्वयंभुव-

स्तेषां च चर्यां शृणुथा ममान्तिकात्॥३९॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये व्याकरणपरिवर्तो नाम षष्ठः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project