Digital Sanskrit Buddhist Canon

५ ओषधीपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 oṣadhīparivartaḥ

५ ओषधीपरिवर्तः।



अथ खलु भगवानायुष्मन्तं महाकाश्यपं तांश्चान्यान् स्थविरान् महाश्रावकानामन्त्रयामास-साधु साधु महाकाश्यप। साधु खलु पुनर्युष्माकं काश्यप यद्यूयं तथागतस्य भूतान् गुणवर्णान् भाषध्वे। एते च काश्यप तथागतस्य भूता गुणाः। अतश्चान्येऽप्रमेया असंख्येयाः, येषां न सुकरः पर्यन्तोऽधिगन्तुमपरिमितानपि कल्पान् भाषमाणैः। धर्मस्वामी काश्यप तथागतः, सर्वधर्माणां राजा प्रभुर्वशी। यं च काश्यप तथागतो धर्मं यत्रोपनिक्षिपति, स तथैव भवति। सर्वधर्माश्च काश्यप तथागतो युक्त्योपनिक्षिपति। तथागतज्ञानेनोपनिक्षिपति। यथा ते धर्माः सर्वज्ञभूमिमेव गच्छन्ति। सर्वधर्मार्थगतिं च तथागतो व्यवलोकयति। सर्वधर्मार्थवशिताप्राप्तः सर्वधर्माध्याशयप्राप्तः सर्वधर्मविनिश्चयकौशल्यज्ञानपरमपारमिताप्राप्तः सर्वज्ञज्ञानसंदर्शकः सर्वज्ञज्ञानावतारकः सर्वज्ञज्ञानोपनिक्षेपकः काश्यप तथागतोऽर्हन् सम्यक्संबुद्धः॥



तद्यथापि नाम काश्यप अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यावन्तस्तृणगुल्मौषधिवनस्पतयो नानावर्णा नानाप्रकारा ओषधिग्रामा नानानामधेयाः पृथिव्यां जाताः पर्वतगिरिकन्दरेषु वा। मेघश्च महावारिपरिपूर्ण उन्नमेत्, उन्नमित्वा सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछादयेत्। संछाद्य च सर्वत्र समकालं वारि प्रमुञ्चेत्। तत्र काश्यप ये तृणगुल्मौषधिवनस्पतयोऽस्यां त्रिसाहस्रमहासाहस्रलोकधातौ, तत्र ये तरुणाः कोमलनालशाखापत्रपलाशास्तृणगुल्मौषधिवनस्पतयो द्रुमा महाद्रुमाः, सर्वे ते ततो महामेघप्रमुक्ताद्वारिणो यथाबलं यथाविषयमब्धातुं प्रत्यापिबन्ति। ते चैकरसेन वारिणा प्रभूतेन मेघप्रमुक्तेन यथाबीजमन्वयं विवृद्धिं विरूढिं विपुलतामापद्यन्ते, तथा च पुष्पफलानि प्रसवन्ति। ते च पृथक् पृथगू नानानामधेयानि प्रतिलभन्ते। एकधरणीप्रतिष्ठिताश्च ते सर्वे ओषधिग्रामा बीजग्रामा एकरसतोयाभिष्यन्दिताः। एवमेव काश्यप तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते। यथा महामेघः उन्नमते, तथा तथागतोऽप्युत्पद्य सर्वावन्तं सदेवमानुषासुरं लोकं स्वरेणाभिविज्ञापयति।



तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुमवच्छादयति, एवमेव काश्यप तथागतोऽर्हन् सम्यक्संबुद्धः सदेवमानुषासुरस्य लोकस्य पुरत एवं शब्दमुदीरयति, घोषमनुश्रावयति-तथागतोऽस्मि भवन्तो देवमनुष्याः अर्हन् सम्यक्संबुद्धः, तीर्णस्तारयामि, मुक्तो मोचयामि, आश्वस्त आश्वासयामि, परिनिर्वृतः परिनिर्वापयामि। अहमिमं च लोकं परं च लोकं सम्यक् प्रज्ञया यथाभूतं प्रजानामि सर्वज्ञः सर्वदर्शी। उपसंक्रामन्तु मां भवन्तो देवमनुष्या धर्मश्रवणाय। अहं मार्गस्याख्याता मार्गदेशिको मार्गवित् मार्गकोविदः। तत्र काश्यप बहूनि प्राणिकोटीनयुतशतसहस्राणि तथागतस्य धर्मश्रवणायोपसंक्रामन्ति। अथ तथागतोऽपि तेषां सत्त्वानामिन्द्रियवीर्यपरापरवैमात्रतां ज्ञात्वा तांस्तान् धर्मपर्यायानुपसंहरति, तां तां धर्मकथां कथयति बह्वीं विचित्रां हर्षणीयां परितोषणीयां प्रामोद्यकरणीयां हितसुखसंवर्तनकरणीयाम्। यया कथय ते सत्त्वाः दृष्ट एव धर्मे सुखिता भवन्ति, कालं च कृत्वा सुगतीषूपपद्यन्ते, यत्र प्रभूतांश्च कामान् परिभुञ्जन्ते, धर्मं च शृण्वन्ति। श्रुत्वा च तं धर्मं विगतनीवरणा भवन्ति। अनुपूर्वेण च सर्वज्ञधर्मेष्वभियुज्यन्ते यथाबलं यथाविषयं यथास्थानम्॥





तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछाद्य समं वारि प्रमुञ्चति, सर्वांश्च तृणगुल्मौषधिवनस्पतीन् वारिणा संतर्पयति। यथाबलं यथाविषयं यथास्थामं च ते तृणगुल्मौषधिवनस्पतयो वार्यापिबन्ति, स्वकस्वकां च जातिप्रमाणतां गच्छन्ति। एवमेव काश्यप तथागतोऽर्हन् सम्यक्संबुद्धो यं धर्मं भाषते, सर्वः स धर्म एकरसो यदुत विमुक्तिरसो विरागरसो निरोधरसः सर्वज्ञज्ञानपर्यवसानः। तत्र काश्यप ये ते सत्त्वास्तथागतस्य धर्मं भाषमाणस्य शृण्वन्ति धारयन्ति अभिसंयुज्यन्ते, न ते आत्मनात्मानं जानन्ति वा वेदयन्ति वा बुध्यन्ति वा। तत्कस्य हेतोः? तथागत एव काश्यप तान् सत्त्वांस्तथा जानाति, ये च ते, यथा च ते, यादृशाश्च ते। यं च ते चिन्तयन्ति, यथा च ते चिन्तयन्ति, येन च ते चिन्तयन्ति। यं च ते भावयन्ति, यथा च ते भावयन्ति, येन च ते भावयन्ति। यं च ते प्राप्नुवन्ति, यथा च ते प्राप्नुवन्ति, येन च ते प्राप्नुवन्ति। तथागत एव काश्यप तत्र प्रत्यक्षः प्रत्यक्षदर्शी यथा च दर्शी तेषां सत्त्वानां तासु तासु भूमिषु स्थितानां तृणगुल्मौषधिवनस्पतीनां हीनोत्कृष्टमध्यमानाम्। सोऽहं काश्यप एकरसधर्म विदित्वा यदुत विमुक्तिरसं निर्वृतिरसं निर्वाणपर्यवसानं नित्यपरिनिर्वृतमेकभूमिकमाकाशगतिकमधिमुक्तिं सत्त्वानामनुरक्षमाणो न सहसैव सर्वज्ञज्ञानं संप्रकाशयामि। आश्चर्यप्राप्ता अद्भुतप्राप्ता यूयं काश्यप यद्यूयं संधाभाषितं तथागतस्य न शक्नुथ अवतरितुम्। तत्कस्य हेतोः? दुर्विज्ञेयं काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां संधाभाषितमिति॥



अथ खलु भगवांस्तस्यां वेलायामिममेवार्थं भूयस्या मात्रया संदर्शयमान इमा गाथा अभाषत—



धर्मराजा अहं लोके उत्पन्नो भवमर्दनः।

धर्मं भाषामि सत्त्वानामधिमुक्तिं विजानिय॥१॥



धीरबुद्धी महावीरा चिरं रक्षन्ति भाषितम्।

रहस्यं चापि धारेन्ति न च भाषन्ति प्राणिनाम्॥२॥



दुर्बोध्यं चापि तज्ज्ञानं सहसा श्रुत्व बालिशाः।

काङ्क्षां कुर्युः सुदुर्मेधास्ततो भ्रष्टा भ्रमेयु ते॥३॥



यथाविषयु भाषामि यस्य यादृशकं बलम्।

अन्यमन्येहि अर्थेहि दृष्टिं कुर्वामि उज्जुकाम्॥४॥



यथापि काश्यपा मेघो लोकधातूय उन्नतः।

सर्वमोनहती चापि छादयन्तो वसुंधराम्॥५॥



सो च वारिस्य संपूर्णो विद्युन्माली महाम्बुदः।

निर्नादयन्त शब्देन हर्षयेत् सर्वदेहिनः॥६॥



सूर्यरश्मी निवारित्वा शीतलं कृत्व मण्डलम्।

हस्तप्राप्तोऽवतिष्ठन्तो वारि मुञ्चेत् समन्ततः॥७॥



स चैव मम मुञ्चेत आपस्कन्धमनल्पकम्।

प्राखरन्तः समन्तेन तर्पयेन्मेदिनीमिमाम्॥८॥



इह या काचि मेदिन्यां जाता ओषधयो भवेत्।

तृणगुल्मवनस्पत्यो द्रुमा वाथ महाद्रुमाः॥९॥



सस्यानि विविधान्येव यद्वापि हरितं भवेत्।

पर्वते कन्दरे चैव निकुञ्जेषु च यद्भवेत्॥१०॥



सर्वान् संतर्पयेन्मेघस्तृणगुल्मवनस्पतीन्।

तृषितां धरणीं तर्पेत् परिषिञ्चति चौषधीः॥११॥



तच्च एकरसं वारि मेघमुक्तमिहस्थितम्।

यथाबलं यथाविषयं तृणगुल्मा पिबन्ति तत्॥१२॥



द्रुमाश्च ये केचि महाद्रुमाश्च

खुद्राक मध्याश्च यथावयाश्च।

यथाबलं सर्वे पिबन्ति वारि

पिबन्ति वर्धन्ति यथेच्छकामाः॥१३॥



काण्डेन नालेन त्वचा यथैव

शाखाप्रशाखाय तथैव पत्रैः।

वर्धन्ति पुष्पेहि फलेहि चैव

मेघाभिवृष्टेन महौषधीयः॥१४॥



यथाबलं ता विषयश्च यादृशो

यासां च यद् यादृशकं च बीजम्।

स्वकस्वकं ताः प्रसवं ददन्ति

वारिं च तं एकरसं प्रमुक्तम्॥१५॥



एमेव बुद्धोऽपि ह लोके काश्यप

उत्पद्यते वारिधरो व लोके।

उत्पद्य च भाषति लोकनाथो

भूतां चरिं दर्शयते च प्राणिनाम्॥१६॥



एवं च संश्रावयते महर्षिः

पुरस्कृतो लोके सदेवकेऽस्मिन्।

तथागतोऽहं द्विपदोत्तमो जिनो

उत्पन्नु लोकस्मि यथैव मेघः॥१७॥



संतर्पयिष्याम्यहु सर्वसत्त्वान्

संशुष्कगात्रांस्त्रिभवे विलग्नान्।

दुःखेन शुष्यन्त सुखे स्थपेयं

कामांश्च दास्याम्यहु निर्वृतिं च॥१८॥



शृणोथ मे देवमनुष्यसंघा

उपसंक्रमध्वं मम दर्शनाय।

तथागतोऽहं भगवाननाभिभूः

संतारणार्थं इह लोकि जातः॥१९॥



भाषामि च प्राणिसहस्रकोटिनां

धर्मं विशुद्धं अभिदर्शनीयम्।

एका च तस्यो समता तथत्वं

यदिदं विमुक्तिश्चथ निर्वृती च॥२०॥



स्वरेण चैकेन वदामि धर्मं

बोधिं निदानं करियान नित्यम्।

समं हि एतद्विषमत्व नास्ति

न कश्चि विद्वेषु न रागु विद्यते॥२१॥



अनुनीयता मह्य न काचिदस्ति

प्रेमा च दोषश्च न मे कहिंचित्।

समं च धर्मं प्रवदामि देहिनां

यथैकसत्त्वस्य तथा परस्य॥२२॥



अनन्यकर्मा प्रवदामि धर्मं

गच्छन्तु तिष्ठन्तु निषीदमानः।

निषण्ण शय्यासनमारुहित्वा

किलासिता मह्य न जातु विद्यते॥२३॥



संतर्पयामी इमु सर्वलोकं

मेघो व वारिं सम मुञ्चमानः।

आर्येषु नीचेषु च तुल्यबुद्धि-

र्दुःशीलभूतेष्वथ शीलवत्सु॥२४॥



विनष्टचारित्र तथैव ये नरा-

श्चारित्रआचारसमन्विताश्च।

दृष्टिस्थिता ये च विनष्टदृष्टी

सम्यग्दृशो ये चाविशुद्धदृष्टयः॥२५॥



हीनेषु चोत्कृष्टमतीषु चापि

मृद्विन्द्रियेषु प्रवदामि धर्मम्।

किलासितां सर्व विवर्जयित्वा

सम्यक् प्रमुञ्चाम्यहु धर्मवर्षम्॥२६॥



यथाबलं च श्रुणियान मह्यं

विविधासु भूमीषु प्रतिष्ठिहन्ति।

देवेषु मर्त्येषु मनोरमेषु

शक्रेषु ब्रह्मेष्वथ चक्रवर्तिषु॥२७॥



क्षुद्रानुक्षुद्रा इम ओषधीयो

क्षुद्रीक एता इह याव लोके।

अन्या च मध्या महती च ओषधी

शृणोथ ताः सर्व प्रकाशयिष्ये॥२८॥



अनास्रवं धर्म प्रजानमाना

निर्वाणप्राप्ता विहरन्ति ये नराः।

षडभिज्ञ त्रैविद्य भवन्ति ये च

सा क्षुद्रिका ओषधि संप्रवुत्ता॥२९॥



गिरिकन्देषू विहरन्ति ये च

प्रत्येकबोधिं स्पृहयन्ति ये नराः।

ये ईदृशा मध्यविशुद्धबुद्धयः

सा मध्यमा ओषधि संप्रवुत्ता॥३०॥



ये प्रार्थयन्ते पुरुषर्षभत्वं

बुद्धो भविष्ये नरदेवनाथः।

वीर्यं च ध्यानं च निषेवमाणाः

सा ओषधी अग्र इयं प्रवुच्चति॥३१॥



ये चापि युक्ताः सुगतस्य पुत्रा

मैत्रीं निषेवन्तिह शान्तचर्याम्।

निष्काङ्क्षप्राप्ता पुरुषर्षभत्वे

अयं द्रुमो वुच्यति एवरूपः॥३२॥



अविवर्तिचक्रं हि प्रवर्तयन्ता

ऋद्धीबलस्मिन् स्थित ये च धीराः।

प्रमोचयन्तो बहु प्राणिकोटी

महाद्रुमो सो च प्रवुच्चते हि॥३३॥



समश्च सो धर्म जिनेन भाषितो

मेघेन वा वारि समं प्रमुक्तम्।

चित्रा अभिज्ञा इम एवरूपा

यथौषधीयो धरणीतलस्थाः॥३४॥



अनेन दृष्टान्तनिदर्शनेन

उपायु जानाहि तथागतस्य।

यथा च सो भाषति एकधर्मं

नानानिरुक्ती जलबिन्दवो वा॥३५॥



ममापि चो वर्षतु धर्मवर्षं

लोको ह्ययं तर्पितु भोति सर्वः।

यथाबलं चानुविचिन्तयन्ति

सुभाषितं एकरसं पि धर्मम्॥३६॥



तृणगुल्मका वा यथ वर्षमाणे

मध्या पि वा ओषधियो यथैव।

द्रुमा पि वा ते च महाद्रुमा वा

यथ शोभयन्ते दशदिक्षु सर्वे॥३७॥



इयं सदा लोकहिताय धर्मता

तर्पेति धर्मेणिमु सर्वलोकम्।

संतर्पितश्चाप्यथ सर्वलोकः

प्रमुञ्चते ओषधि पुष्पकाणि॥३८॥



मध्यापि च ओषधियो विवर्धयी

अर्हन्त ये ते स्थित आस्रवक्षये।

प्रत्येकबुद्धा वनषण्डचारिणो

निष्पादयी धर्ममिमं सुभाषितम्॥३९॥



बहुबोधिसत्त्वाः स्मृतिमन्त धीराः

सर्वत्र त्रैधातुकि ये गतिंगताः।

पर्येषमाणा इममग्रबोधिं

द्रुमा व वर्धन्ति ति नित्यकालम्॥४०॥



ये ऋद्धिमन्तश्चतुध्यानध्यायिनो

ये शून्यतां श्रुत्व जनेन्ति प्रीतिम्।

रश्मीसहस्राणि प्रमुञ्चमाना-

स्ते चैव वुच्चन्ति महाद्रुमा इह॥४१॥



एतादृशी काश्यप धर्मदेशना

मेघेन वा वारि समं प्रमुक्तम्।

बह्वी विवर्धन्ति महौषधीयो

मनुष्यपुष्पाणि अनन्तकानि॥४२॥



स्वप्रत्ययं धर्म प्रकाशयामि

कालेन दर्शेमि च बुद्धबोधिम्।

उपायकौशल्यु ममैतदग्रं

सर्वेष चो लोकविनायकानाम्॥४३॥



परमार्थ एवं मयं भूतभाषितो

ते श्रावकाः सर्वि न एन्ति निर्वृतिम्।

चरन्ति एते वर बोधिचारिकां

बुद्धा भविष्यन्तिमि सर्वश्रावकाः॥४४॥



पुनरपरं काश्यप तथागतः सत्त्वविनये समो न चासमः। तद्यथा काश्यप चन्द्रसुर्यप्रभा सर्वलोकमवभासयति कुशलकारिणमकुशलकारिणं चोर्ध्वावस्थितमधरावस्थितं च सुगन्धि दुर्गन्धि, सा सर्वत्र समं प्रभा निपतति न विषमम्, एवमेव काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञज्ञानचित्तप्रभा सर्वेषु पञ्चगत्युपपन्नेषु सत्त्वेषु यथाधिमुक्तिं महायानिकप्रत्येकबुद्धयानिकश्रावकयानिकेषु सद्धर्मदेशना समं प्रवर्तते। न च तथागतस्य ज्ञानप्रभाया ऊनता वा अतिरिक्तता वा यथापुण्यज्ञानसमुदागमाय संभवति। न सन्ति काश्यप त्रीणि यानानि। केवलमन्योन्यचरिताः सत्त्वाः, तेन त्रीणि यानानि प्रज्ञप्यन्ते॥



एवमुक्ते आयुष्मान् महाकाश्यपो भगवन्तमेतदवोचत्-यदि भगवन् न सन्ति त्रीणि यानानि, किं कारणं प्रत्युत्पन्नेऽध्वनि श्रावकप्रत्येकबुद्धबोधिसत्त्वानां प्रज्ञप्तिः प्रज्ञप्यते? एवमुक्ते भगवानायुष्मन्तं महाकाश्यपमेतदवोचत्-तद्यथा काश्यप कुम्भकारः समासु मृत्तिकासु भाजनानि करोति। तत्र कानिचिद् गुडभाजनानि भवन्ति, कानिचिद् घृतभाजनानि, कानिचिद् दधिक्षीरभाजनानि, कानिचिद् हीनान्यशुचिभाजनानि भवन्ति, न च मृत्तिकाया नानात्वम्, अथ च द्रव्यप्रक्षेपमात्रेण भाजनानां नानात्वं प्रज्ञायते। एवमेव काश्यप एकमेवेदं यानं यदुत बुद्धयानम्। न द्वितीयं न तृतीयं वा यानं संविद्यते॥



एवमुक्ते आयुष्मान् महाकाश्यपो भगवन्तमेतदवोचत्-यद्यपि भगवन् सत्त्वा नानाधिमुक्तयो ये त्रैधातुकान्निःसृताः, किं तेषामेकं निर्वाणमुत द्वे त्रीणि वा? भगवानाह-सर्वधर्मसमतावबोधाद्धि काश्यप निर्वाणम्। तच्चैकम्, न द्वे न त्रीणि। तेन हि काश्यप उपमां ते करिष्यामि। उपमया इहैकत्या विज्ञपुरुषा भाषितस्यार्थमाजानन्ति। तद्यथा काश्यप जात्यन्धः पुरुषः। स एवं ब्रूयान्न सन्ति सुवर्णदुर्वणानि रूपाणि, न सन्ति सुवर्णदुर्वर्णानां रूपाणां द्रष्टारः, न स्तः सूर्याचन्द्रमसौ, न सन्ति नक्षत्राणि, न सन्ति ग्रहाः, न सन्ति ग्रहाणां द्रष्टारः। अथान्ये पुरुषास्तस्य जात्यन्धस्य पुरुषस्य पुरत एवं वदेयुः-सन्ति सुवर्णदुर्वर्णानि रूपाणि, सन्ति सुवर्णदुर्वर्णानां रूपाणां द्रष्टारः, स्तः सूर्याचन्द्रमसौ, सन्ति नक्षत्राणि, सन्ति ग्रहाः, सन्ति ग्रहाणां द्रष्टारः। स च जात्यन्धः पुरुषस्तेषां पुरुषाणां न श्रद्दध्यात्, नोक्तं गृह्णीयात्। अथ कश्चिद् वैद्यः सर्वव्याधिज्ञः स्यात्। स तं जात्यन्धं पुरुषं पश्येत्। तस्यैवं स्यात्-तस्य पुरुषस्य पूर्वपापेन कर्मणा व्याधिरुत्पन्नः। ये च केचन व्याधय उत्पद्यन्ते, ते सर्वे चतुर्विधाः-वातिकाः पैत्तिकाः श्लैष्मिकाः सांनिपातिकाश्च। अथ स वैद्यस्तस्य व्याधेर्व्युपशमनार्थं पुनः पुनरुपायं चिन्तयेत्।



तस्यैवं स्यात्-यानि खल्विमानि द्रव्याणि प्रचरन्ति, न तैः शक्योऽयं व्याधिश्चिकित्सितुम्। सन्ति तु हिमवति पर्वतराजे चतस्र ओषधयः। कतमाश्चतस्रः? तद्यथा-प्रथमा सर्ववर्णरसस्थानानुगता नाम, द्वितीया सर्वव्याधिप्रमोचनी नाम, तृतीया सर्वविषविनाशनी नाम, चतुर्थी यथास्थानस्थितसुखप्रदा नाम। इमाश्चतस्रः ओषधयः। अथ स वैद्यस्तस्मिन् जात्यन्धे कारुण्यमुत्पाद्य तादृशमुपायं चिन्तयेत्, येनोपायेन हिमवन्तं पर्वतराजं शक्नुयाद्गन्तम्। गत्वा चोर्ध्वमप्यारोहेत्, अधोऽप्यवतरेत्, तिर्यगपिप्रविचिनुयात्। स एवं प्रविचिन्वंस्ताश्चतस्र ओषधीरारागयेत्। आराग्य च कांचिद्दन्तैः क्षोदितां कृत्वा दद्यात्, कांचित् पेषयित्वा दद्यात्, कांचिदन्यद्रव्यसंयोजितां पाचयित्वा दद्यात्, कांचिदामद्रव्यसंयोजितां कृत्वा दद्यात्, कांचिच्छलाकया शरीरस्थानं विद्ध्वा दद्यात्, कांचिदग्निना परिदाह्य दद्यात्, कांचिदन्योन्यद्रव्यसंयुक्तां यावत् पानभोजनादिष्वपि योजयित्वा दद्यात्। अथ स जात्यन्धपुरुषस्तेनोपाययोगेन चक्षुः प्रतिलभेत। स प्रतिलब्धचक्षुर्बहिरध्यात्मं दूरे आसन्ने च चन्द्रसूर्यप्रभां नक्षत्राणि ग्रहान् सर्वरूपाणि च पश्येत्। एवं च वदेत्-अहो बताहं मूढः, योऽहं पूर्वमाचक्षमाणानां न श्रद्दधामि, नोक्तं गृह्णामि। सोऽहमिदानीं सर्वं पश्यामि। मुक्तोऽस्मि अन्धभावात्।



प्रतिलब्धचक्षुश्चास्मि। न च मे कश्चिद् विशिष्टतरोऽस्तीति। तेन च समयेन पञ्चाभिज्ञा ऋषयो भवेयुर्दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिज्ञानर्द्धिविमोक्षक्रियाकुशलाः, ते तं पुरुषमेवं वदेयुः-केवलं भोः पुरुष त्वया चक्षुः प्रतिलब्धम्। न तु भवान् किंचिज्जानाति। कुतोऽभिमानस्ते समुत्पन्नः? न च तेऽस्ति प्रज्ञा। न चासि पण्डितः। तमेनमेवं वदेयुः-यदा त्वं भोः पुरुष अन्तर्गृहं निषण्णो बहिरन्यानि रूपाणि न पश्यसि, न च जानासि, नापि ते ये सत्त्वाः स्निग्धचित्ता वा द्रुग्धचित्ता वा। न विजानीषे पञ्चयोजनान्तरस्थितस्य जनस्य भाषमाणस्य। भेरीशङ्खादीनां शब्दं न प्रजानासि, न शृणोषि। क्रोशान्तरमप्यनुत्क्षिप्य पादौ न शक्नोषि गन्तुम्। जातसंवृद्धश्चासि मातुः कुक्षौ। तां च क्रियां न स्मरसि। तत्कथमसि पण्डितः? कथं च सर्वं पश्यामीति वदसि? तत्साधु भोः पुरुष यदन्धकारं तत्प्रकाशमिति संजानीषे, यच्च प्रकाशं तदन्धकारमिति संजानीषे॥



अथ स पुरुषस्तान् ऋषीनेवं वदेत्-क उपायः, किं वा शुभं कर्म कृत्वेदृशीं प्रज्ञां प्रतिलभेय, युष्माकं प्रसादाच्चैतान् गुणान् प्रतिलभेय? अथ खलु ते ऋषयस्तस्य पुरुषस्यैवं कथयेयुः-यदीच्छसि, अरण्ये वस। पर्वतगुहासु वा निषण्णो धर्मं चिन्तय। क्लेशाश्च ते प्रहातव्याः। तथा धूतगुणसमन्वागतोऽभिज्ञाः प्रतिलप्स्यसे। अथ स पुरुषस्तमर्थं गृहीत्वा प्रव्रजितः। अरण्ये वसन् एकाग्रचित्तो लोकतृष्णां प्रहाय पञ्चाभिज्ञाः प्राप्नुयात्। प्रतिलब्धाभिज्ञश्च चिन्तयेत्-यदहं पूर्वमन्यत्कर्म कृतवान्, तेन मे न कश्चिद् गुणोऽधिगतः। इदानीं यथाचिन्तितं गच्छामि। पूर्वं चाहमल्पप्रज्ञोऽल्पप्रतिसंवेदी अन्धभूतोऽस्म्यासीत्॥



इति हि काश्यप उपमैषा कृता अस्यार्थस्य विज्ञप्तये। अयं च पुनरत्रार्थो द्रष्टव्यः। जात्यन्ध इति काश्यप षड्गतिसंसारस्थितानां सत्त्वानामेतदधिवचनम्, ये सद्धर्मं न जानन्ति, क्लेशतमोन्धकारं च संवर्धयन्ति। ते चाविद्यान्धाः। अविद्यान्धाश्च संस्कारानुपविचिन्वति, संस्कारप्रत्ययं च नामरूपम्, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। एवमविद्यान्धास्तिष्ठन्ति सत्त्वाः संसारे। तथागतस्तु करुणां जनयित्वा त्रैधातुकान्निःसृतः पितेव प्रिये एकपुत्रके करुणां जनयित्वा त्रैधातुकेऽवतीर्य सत्त्वान् संसारचक्रे परिभ्रमतः संपश्यति। न च ते संसारान्निःसरणं प्रजानन्ति। अथ भगवांस्तान् प्रज्ञाचक्षुषा पश्यति। दृष्ट्वा च जानाति-अमी सत्त्वाः पूर्वं कुशलं कृत्वा मन्दद्वेषास्तीव्ररागाः, मन्दरागास्तीव्रद्वेषाः, केचिदल्पप्रज्ञाः, केचित् पण्डिताः, केचित्परिपाकशुद्धाः, केचिन्मिथ्यादृष्टयः। तेषां सत्त्वानां तथागत उपायकौशल्येन त्रीणि यानानि देशयति। तत्र यथा ते ऋषयः पञ्चाभिज्ञा विशुद्धचक्षुषः, एवं बोधिसत्त्वा बोधिचित्तान्युत्पाद्य अनुत्पत्तिकीं धर्मक्षान्तिं प्रतिलभ्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते॥



तत्र यथासौ महावैद्यः, एवं तथागतो द्रष्टव्यः। यथासौ जात्यन्धस्तथा मोहान्धाः सत्त्वा द्रष्टव्याः। यथा वातपित्तश्लेष्माणः, एवं रागद्वेषमोहाः, द्वाषष्टि च दृष्टिकृतानि द्रष्टव्यानि। यथा चतस्र ओषधयस्तथा शून्यतानिमित्ताप्रणिहितनिर्वाणद्वारं च द्रष्टव्यम्। यथा यथा द्रव्याण्युपयुज्यन्ते, तथा तथा व्याधयः प्रशाम्यन्तीति। एवं शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि भावयित्वा सत्त्वा अविद्यां निरोधयन्ति। अविद्यानिरोधात् संस्कारनिरोधः, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति। एवं चास्य चित्तं न कुशले तिष्ठति न पापे॥



यथा अन्धश्चक्षुः प्रतिलभते, तथा श्रावकप्रत्येकबुद्धयानीयो द्रष्टव्यः। संसारक्लेशबन्धनानि च्छिनत्ति। क्लेशबन्धनान्निर्मुक्तः प्रमुच्यते षङ्गतिकात् त्रैधातुकात्। तेन श्रावकयानीयः एवं जानाति, एवं च वाचं भाषते-न सन्त्यपरे धर्मा अभिसंबोद्धव्याः। निर्वाणप्राप्तोऽस्मीति। अथ खलु तथागतस्तस्मै धर्मं देशयति। येन सर्वधर्मा न प्राप्ताः, कुतस्तस्य निर्वाणमिति? तं भगवान् बोधौ समादापयति। स उत्पन्नबोधिचित्तो न संसारस्थितो न निर्वाणप्राप्तो भवति। सोऽवबुध्य त्रैधातुकं दशसु दिक्षु शून्यं निर्मितोपमं मायोपमं स्वप्नमरीचिप्रतिश्रुत्कोपमं लोकं पश्यति। स सर्वधर्माननुत्पन्नाननिरुद्धान् अबद्धानमुक्तान् अतमोन्धकारान् नप्रकाशान् पश्यति। य एवं गम्भीरान् धर्मान् पश्यति, स पश्यति अपश्यनया सर्वत्रैधातुकं परिपूर्णमन्योन्यसत्त्वाशयाधिमुक्तम्॥



अथ खलु भगवानिममेवार्थं भूयस्या मात्रया संदर्शयमानः तस्यां वेलायामिमा गाथा अभाषत—



चन्द्रसूर्यप्रभा यद्वन्निपतन्ति समं नृषु।

गुणवत्स्वथ पापेषु प्रभाया नोनपूर्णता॥४५॥



तथागतस्य प्रज्ञाभा समा ह्यादित्यचन्द्रवत्।

सर्वसत्त्वान् विनयते न चोना नैव चाधिका॥४६॥



यथा कुलालो मृद्भाण्डं कुर्वन् मृत्सु समास्वपि।

भवन्ति भाजना तस्य गुडक्षीरधृताम्भसाम्॥४७॥



अशुचेः कानिचित्तत्र दध्नोऽन्यानि भवन्ति तु।

मृदमेकां स गृह्णाति कुर्वन् भाण्डानि भार्गवः॥४८॥



यादृक् प्रक्षिप्यते द्रव्यं भाजनं तेन लक्ष्यते।

सत्त्वाविशेषेऽपि तथा रुचिभेदात्तथागताः॥४९॥



यानभेदं वर्णयन्ति बुद्धयानं तु निंश्चितम्।

संसारचक्रस्याज्ञानान्निर्वृतिं न विजानते॥५०॥



यस्तु शून्यान् विजानाति धर्मानात्मविवर्जितान्।

संबुद्धानां भगवतां बोधिं जानाति तत्त्वतः॥५१॥



प्रज्ञामध्यव्यवस्थानात् प्रत्येकजिन उच्यते।

शून्यज्ञानविहीनत्वाच्छ्रावकः संप्रभाष्यते॥५२॥



सर्वधर्मावबोधात्तु सम्यक्संबुद्ध उच्यते।

तेनोपायशतैर्नित्यं धर्मं देशेति प्राणिनाम्॥५३॥



यथा हि कश्चिज्जात्यन्धः सूर्येन्दुग्रहतारकाः।

अपश्यन्नेवमाहासौ नास्ति रूपाणि सर्वशः॥५४॥



जात्यन्धे तु महावैद्यः कारुण्यं संनिवेश्य ह।

हिमवन्तं स गत्वान तिर्यगूर्ध्वमधस्तथा॥५५॥



सर्ववर्णरस्थाना नगाल्लभत ओषधीः।

एवमादीश्चतस्रोऽथ प्रयोगमकरोत्ततः॥५६॥



दन्तैः संचूर्ण्य कांचित्तु पिष्ट्वा चान्यां तथापराम्।

सूच्यग्रेण प्रवेश्याङ्गे जात्यन्धाय प्रयोजयेत्॥५७॥



स लब्धचक्षुः संपश्येत् सूर्येन्दुग्रहतारकाः।

एवं चास्य भवेत्पूर्वज्ञानात्तदुदाहृतम्॥५८॥



एवं सत्त्वा महाज्ञाना जात्यन्धाः संसरन्ति हि।

प्रतीत्योत्पादचक्रस्य अज्ञानाद्दुःखवर्त्मनः॥५९॥



एवमज्ञानसंमूढे लोके सर्वविदुत्तमः।

तथागतो महावैद्य उत्पन्नः करुणात्मकः॥६०॥



उपायकुशलः शास्ता सद्धर्मं देशयत्यसौ।

अनुत्तरां बुद्धबोधिं देशयत्यग्रयानिके॥६१॥



प्रकाशयति मध्यां तु मध्यप्रज्ञाय नायकः।

संसारभीरवे बोधिमन्यां संवर्णयत्यपि॥६२॥



त्रैधातुकान्निःसृतस्य श्रावकस्य विजानतः।

भवत्येवं मया प्राप्तं निर्वाणममलं शिवम्॥६३॥



तामेव तत्र प्रकाशेमि नैतन्निर्वाणमुच्यते।

सर्वधर्मावबोधात्तु निर्वाणं प्राप्यतेऽमृतम्॥६४॥



महर्षयो यथा तस्मै करुणां संनिवेश्य वै।

कथयन्ति च मूढोऽसि मा तेऽभूज्ज्ञानवानहम्॥६५॥



अभ्यन्तरावस्थितस्त्वं यदा भवसि कोष्ठके।

बहिर्यद्वर्तते तद्वै न जानीषे त्वमल्पधीः॥६६॥



योऽभ्यन्तरेऽवस्थितस्तु बहिर्ज्ञातं कृताकृतम्।

सो अद्यापि न जानाति कुतस्त्वं वेत्स्यसेऽल्पधीः॥६७॥



पञ्चयोजनमात्रं तु यः शब्दो निश्चरेदिह।

तं श्रोतुं न समर्थोऽसि प्रागेवान्यं विदूरतः॥६८॥



त्वयि ये पापचित्त वा अनुनीतास्तथापरे।

ते न शक्यं त्वया ज्ञातुमभिमानः कुतोऽस्ति ते॥६९॥



क्रोशमात्रेऽपि गन्तव्ये पदवीं न विना गतिः।

मातुः कुक्षौ च यद्वृत्तं विस्मृतं तत्तदेव ते॥७०॥



अभिज्ञा यस्य पञ्चैताः स सर्वज्ञ इहोच्यते।

त्वं मोहादप्यकिंचिज्ज्ञः सर्वज्ञोऽस्मीति भाषसे॥७१॥



सर्वज्ञत्वं प्रार्थयसे यद्यभिज्ञाभिनिर्हरेः।

तं चाभिज्ञाभिनिर्हारमरण्यस्थो विचिन्तय।

धर्मं विशुद्धं तेन त्वमभिज्ञाः प्रतिलप्स्यसे॥७२॥



सोऽर्थं गृह्य गतोऽरण्यं चिन्तयेत् सुसमाहितः।

अभिज्ञाः प्राप्तवान् पञ्च नचिरेण गुणान्वितः॥७३॥



तथैव श्रावकाः सर्वे प्राप्तनिर्वाणसंज्ञिनः।

जिनोऽथ देशयेत्तस्मै विश्रामोऽयं न निर्वृतिः॥७४॥



उपाय एष बुद्धानां वदन्ति यदिमं नयम्।

सर्वज्ञत्वमृते नास्ति निर्वाणं तत्समारभ॥७५॥



त्र्यध्वज्ञानमनन्तं च षट् च पारमिताः शुभाः।

शून्यतामनिमित्तं च प्रणिधानविवर्जितम्॥७६॥



बोधिचित्तं च ये चान्ये धर्मा निर्वाणगामिनः।

सास्रवानास्रवाः शान्ताः सर्वे गगनसंनिभाः॥७७॥



ब्रह्मविहाराश्चत्वारः संग्रहा ये च कीर्तिताः।

सत्त्वानां विनयार्थाय कीर्तिताः परमर्षिभिः॥७८॥



यश्च धर्मान् विजानाति मायास्वप्नस्वभावकान्।

कदलीस्कन्धनिःसारान् प्रतिश्रुत्कासमानकान्॥७९॥



तत्स्वभावं च जानाति त्रैधातुकमशेषतः।

अबद्धमविमुक्तं च न विजानाति निर्वृतिम्॥८०॥



सर्वधर्मान् समान् शून्यान्निर्नानाकरणात्मकान्।

न चैतान् प्रेक्षते नापि किंचिद्धर्मं विपश्यति॥८१॥



स पश्यति महाप्रज्ञो धर्मकायमशेषतः।

नास्ति यानत्रयं किंचिदेकयानमिहास्ति तु॥८२॥



सर्वधर्माः समाः सर्वे समाः समसमाः सदा।

एवं ज्ञात्वा विजानाति निर्वाणममृतं शिवम्॥८३॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये ओषधीपरिवर्तो नाम पञ्चमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project