Digital Sanskrit Buddhist Canon

२ उपायकौशल्यपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

2 upāyakauśalyaparivartaḥ

२ उपायकौशल्यपरिवर्तः।



अथ खलु भगवान् स्मृतिमान् संप्रजानंस्ततः समाधेर्व्युत्थितः। व्युत्थाय आयुष्मन्तं शारिपुत्रमामन्त्रयते स्म-गम्भीरं शारिपुत्र दुर्दृशं दुरनुबोधं बुद्धज्ञानं तथागतैरर्हद्भिः सम्यक्संबुद्धैः प्रतिबुद्धम्, दुर्विज्ञेयं सर्वश्रावकप्रत्येकबुद्धैः। तत्कस्य हेतोः? बहुबुद्धकोटीनयुतशतसहस्रपर्युपासिताविनो हि शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा बहुबुद्धकोटीनयुतशतसहस्रचीर्णचरिताविनोऽनुत्तरायां सम्यक्संबोधौ दूरानुगताः कृतवीर्या आश्चर्याद्भुतधर्मसमन्वागता दुर्विज्ञेयधर्मसमन्वागता दुर्विज्ञेयधर्मानुज्ञाताविनः॥



दुर्विज्ञेयं शारिपुत्र संधाभाष्यं तथागतानामर्हतां सम्यक्संबुद्धानाम्। तत्कस्य हेतोः? स्वप्रत्ययान् धर्मान् प्रकाशयन्ति विविधोपायकौशल्यज्ञानदर्शनहेतुकारणनिर्देशनारम्बणनिरुक्तिप्रज्ञप्तिभिस्तैरुपायकौशल्यैस्तस्मिंस्तस्मिंल्लग्नान् सत्त्वान् प्रमोचयितुम्। महोपायकौशल्यज्ञानदर्शनपरमपारमिताप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः। असङ्गाप्रतिहतज्ञानदर्शनबलवैशारद्यावेणिकेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्त्यद्भुतधर्मसमन्वागता विविधधर्मसंप्रकाशकाः। महाश्चर्याद्भुतप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः। अलं शारिपुत्र एतावदेव भाषितुं भवतु-परमाश्चर्यप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः। तथागत एव शारिपुत्र तथागतस्य धर्मान् देशयेत्, यान् धर्मांस्तथागतो जानाति। सर्वधर्मानपि शारिपुत्र तथागत एव देशयति। सर्वधर्मानपि तथागत एव जानाति, ये च ते धर्माः, यथा च ते धर्माः, यादृशाश्च ते धर्माः, यल्लक्षणाश्च ते धर्माः, यत्स्वभावाश्च ते धर्माः, ये च यथा च यादृशाश्च यल्लक्षणाश्च यत्स्वभावाश्च ते धर्मा इति। तेषु धर्मेषु तथागत एव प्रत्यक्षोऽपरोक्षः॥



अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत—



अप्रमेया महावीरा लोके समरुमानुषे।

न शक्यं सर्वशो ज्ञातुं सर्वसत्त्वैर्विनायकाः॥१॥



बला विमोक्षा ये तेषां वैशारद्याश्च यादृशाः।

यादृशा बुद्धधर्माश्च न शक्यं ज्ञातु केनचित्॥२॥



पूर्वे निषेविता चर्या बुद्धकोटीन अन्तिके।

गम्भीरा चैव सूक्ष्मा च दुर्विज्ञेया सुदुर्दृशा॥३॥



तस्यां चीर्णाय चर्यायां कल्पकोट्यो अचिन्तिया।

फलं मे बोधिमण्डस्मिन् दृष्टं यादृशकं हि तत्॥४॥



अहं च तत्प्रजानामि ये चान्ये लोकनायकाः।

यथा यद् यादृशं चापि लक्षणं चास्य यादृशम्॥५॥



न तद्दर्शयितुं शक्यं व्याहारोऽस्य न विद्यते।

नाप्यसौ तादृशः कश्चित् सत्त्वो लोकस्मि विद्यते॥६॥



यस्य तं देशयेद्धर्म देशितं चापि जानियात्।

अन्यत्र बोधिसत्त्वेभ्यो अधिमुक्तीय ये स्थिताः॥७॥



ये चापि ते लोकविदुस्य श्रावकाः

कृताधिकाराः सुगतानुवर्णिताः।

क्षीणास्रवा अन्तिमदेहधारिणो

न तेष विषयोऽस्ति जिनान ज्ञाने॥८॥



स चैव सर्वा इय लोकधातु

पूर्णा भवेच्छारिसुतोपमानाम्।

एकीभवित्वान विचिन्तयेयुः

सुगतस्य ज्ञानं न हि शक्य जानितुम्॥९॥



सचेह त्वं सादृशकेहि पण्डितैः

पूर्णा भवेयुर्दशा पि द्दिशायो।

ये चापि मह्यं इमि श्रावकान्ये

तेषां पि पूर्णा भवि एवमेव॥१०॥



एकीभवित्वान च तेऽद्य सर्वे

विचिन्तयेयुः सुगतस्य ज्ञानम्।

न शक्त सर्वे सहिता पि ज्ञातुं

यथाप्रमेयं मम बुद्धज्ञानम्॥११॥



प्रत्येकबुद्धान अनास्रवाणां

तीक्ष्णेन्द्रियाणान्तिमदेहधारिणाम्।

दिशो दशः सर्व भवेयुः पूर्णा

यथा नडानां वनवेणुनां वा॥१२॥



एको भवित्वान विचिन्तयेयु-

र्ममाग्रधर्माण प्रदेशमात्रम्।

कल्पान कोटीनयुताननन्ता-

न्न तस्य भूतं परिजानि अर्थम्॥१३॥



नवयानसंप्रस्थित बोधिसत्त्वाः

कृताधिकारा बहुबुद्धकोटिषु।

सुविनिश्चितार्था बहुधर्मभाणका-

स्तेषां पि पूर्णा दशिमा दिशो भवेत्॥१४॥



नडान वेणून व नित्यकाल-

मच्छिद्रपूर्णो भवि सर्वलोकः।

एकीभवित्वान विचिन्तयेयु-

र्यो धर्म साक्षात् सुगतेन दृष्टः॥१५॥



अनुचिन्तयित्वा बहुकल्पकोट्यो

गङ्गा यथा वालिक अप्रमेयाः।

अनन्यचित्ताः सुखुमाय प्रज्ञया

तेषां पि चास्मिन् विषयो न विद्यते॥१६॥



अविवर्तिका ये भवि बोधिसत्त्वा

अनल्पका यथरिव गङ्गवालिकाः।

अनन्यचित्ताश्च विचिन्तयेयु-

स्तेषां पि चास्मिन् विषयो न विद्यते॥१७॥



गम्भीर धर्मा सुखुमा पि बुद्धा

अतर्किकाः सर्वि अनास्रवाश्च।

अहं च जानामिह यादृशा हि ते

ते वा जिना लोकि दशद्दिशासु॥१८॥



यं शारिपुत्रो सुगतः प्रभाषते

अधिमुक्तिसंपन्न भवाहि तत्र।

अनन्यथावादि जिनो महर्षी

चिरेण पी भाषति उत्तमार्थम्॥१९॥



आमन्त्रयामी इमि सर्वश्रावकान्

प्रत्येकबोधाय च येऽभिप्रस्थिताः।

संस्थापिता ये मय निर्वृतीय

संमोक्षिता दुःखपरंपरातः॥२०॥



उपायकौशल्य ममेतदग्रं

भाषामि धर्मं बहु येन लोके।

तहिं तहिं लग्न प्रमोचयामि

त्रीणी च यानान्युपदर्शयामि॥२१॥



अथ खलु ये तत्र पर्षत्संनिपाते महाश्रावका आज्ञातकौण्डिन्यप्रमुखा अर्हन्तः क्षीणास्रवा द्वादश वशीभूतशतानि ये चान्ये श्रावकयानिका भिक्षुभिक्षुण्युपासकोपासिका ये च प्रत्येकबुद्धयानसंप्रस्थिताः, तेषां सर्वेषामेतदभवत्-को नु हेतुः किं कारणं यद् भगवानधिमात्रमुपायकौशल्यं तथागतानां संवर्णयति? गम्भीरश्चायं मया धर्मोऽभिसंबुद्ध इति संवर्णयति? दुर्विज्ञेयश्च सर्वश्रावकप्रत्येकबुद्धैरिति संवर्णयति? यथा तावद् भगवता एकैव विमुक्तिराख्याता, वयमपि बुद्धधर्माणां लाभिनो निर्वाणप्राप्ताः। अस्य च वयं भगवतो भाषितस्यार्थ न जानीमः॥



अथ खल्वायुष्मान् शारिपुत्रस्तासां चतसृणां पर्षदां विचिकित्साकथंकथां विदित्वा चेतसैव चेतःपरिवितर्कमाज्ञाय आत्मना च धर्मसंशयप्राप्तस्तस्यां वेलायां भगवन्तमेतदवोचत्-को भगवन् हेतुः, कः प्रत्ययो यद् भगवानधिमात्रं पुनः पुनस्तथागतानामुपायकौशल्यज्ञानदर्शनधर्मदेशनां संवर्णयति-गम्भीरश्च मे धर्मोऽभिसंबुद्ध इति। दुर्विज्ञेयं च संघाभाष्यमिति पुनः पुनः संवर्णयति। न च मे भगवतोऽन्तिकादेवंरूपो धर्मपर्यायः श्रुतपूर्वः। इमाश्च भगवंश्चतस्रः पर्षदो विचिकित्साकथंकथाप्राप्ताः। तत्साधु भगवान्निर्दिशतु यत्संघाय तथागतो गम्भीरस्य तथागतधर्मस्य पुनः पुनः संवर्णनां करोति॥



अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायामिमा गाथा अभाषत–



चिरस्याद्य नरादित्य ईदृशीं कुरुते कथाम्।

बला विमोक्षा ध्यानाश्च अप्रमेया मि स्पर्शिताः॥२२॥



बोधिमण्डं च कीर्तेसि पृच्छकस्ते न विद्यते।

संधाभाष्यं च कीर्तेसि न च त्वां कश्चि पृच्छति॥२३॥



अपृच्छितो व्याहरसि चर्यां वर्णेसि चात्मनः।

ज्ञानाधिगम कीर्तेसि गम्भीरं च प्रभाषसे॥२४॥



अद्येमे संशयप्राप्ता वशीभूता अनास्रवाः।

निर्वाणं प्रस्थिता ये च किमेतद् भाषते जिनः॥२५॥



प्रत्येकबोधिं प्रार्थेन्ता भिक्षुण्यो भिक्षवस्तथा।

देवा नागाश्च यक्षाश्च गन्धर्वाश्च महोरगाः॥२६॥



समालपन्तो अन्योन्यं प्रेक्षन्ते द्विपदोत्तमम्।

कथंकथी विचिन्तेन्ता व्याकुरुष्व महामुने॥२७॥



यावन्तः श्रावकाः सन्ति सुगतस्येह सर्वशः।

अहमत्र पारमीप्राप्तो निर्दिष्टः परमर्षिणा॥२८॥



ममापि संशयो ह्यत्र स्वके स्थाने नरोत्तम।

किं निष्ठा मम निर्वाणे अथ चर्या मि दर्शिता॥२९॥



प्रमुञ्च घोषं वरदुन्दुभिस्वरा

उदाहरस्वा यथ एष धर्मः।

इमे स्थिता पुत्र जिनस्य औरसा

व्यवलोकयन्तश्च कृताञ्जली जिनम्॥३०॥



देवाश्च नागाश्च सयक्षराक्षसाः

कोटीसहस्रा यथ गङ्गवालिकाः।

ये चापि प्रार्थेन्ति समग्रबोधिं

सहस्रशीतिः परिपूर्ण ये स्थिताः॥३१॥



राजान ये महिपति चक्रवर्तिनो

ये आगताः क्षेत्रसहस्रकोटिभिः।

कृताञ्जली सर्वि सगौरवाः स्थिताः

कथं नु चर्यां परिपूरयेम॥३२॥



एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्-अलं शारिपुत्र। किमनेनार्थेन भाषितेन? तत्कस्य हेतोः?उत्रसिष्यति शारिपुत्र अयं सदेवको लोकोऽस्मिन्नर्थे व्याक्रियमाणे। द्वैतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमध्येषते स्म-भाषतां भगवान्, भाषतां सुगत एतमेवार्थम्। तत्कस्य हेतोः? सन्ति भगवंस्तस्यां पर्षदि बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनयुतशतसहस्राणि पूर्वबुद्धदर्शावीनि प्रज्ञावन्ति, यानि भगवतो भाषितं श्रद्धास्यन्ति प्रतीयिष्यन्ति उद्ग्रहीष्यन्ति॥



अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमनया गाथयाध्यभाषत—



विस्पष्टु भाषस्व जिनान उत्तमा

सन्तीह पर्षाय सहस्र प्राणिनाम्।

श्राद्धाः प्रसन्नाः सुगते सगौरवा

ज्ञास्यन्ति ये धर्ममुदाहृतं ते॥३३॥



अथ खलु भगवान् द्वैतीयकमप्यायुष्मन्तं शारिपुत्रमेतदवोचत्-अलं शारिपुत्र अनेनार्थेन प्रकाशितेन। उत्रसिष्यति शारिपुत्र अयं सदेवको लोकोऽस्मिन्नर्थे व्याक्रियमाणे। अभिमानप्राप्ताश्च भिक्षवो महाप्रपातं प्रपतिष्यन्ति॥



अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत—



अलं हि धर्मेणिह भाषितेन

सूक्ष्मं इदं ज्ञानमतर्किकं च।

अभिमानप्राप्ता बहु सन्ति बाला

निर्दिष्टधर्मस्मि क्षिपे अजानकाः॥३४॥



त्रैतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमध्येषते स्म-भाषतां भगवान्, भाषतां सुगत एतमेवार्थम्। मादृशानां भगवन्निह पर्षदि बहूनि प्राणिशतानि संविद्यन्ते, अन्यानि च भगवन् बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनयुतशतसहस्राणि, यानि भगवता पूर्वभवेषु परिपाचितानि, तानि भगवतो भाषितं श्रद्धास्यन्ति प्रतीयिष्यन्ति उद्गहीष्यन्ति। तेषां तद्भभविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति॥



अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायामिमा गाथा अभाषत—



भाषस्व धर्मं द्विपदानमुत्तमा

अहं त्वामध्येषमि ज्येष्ठपुत्रः।

सन्तीह प्राणीन सहस्रकोटयो

ये श्रद्दधास्यन्ति ते धर्म भाषितम्॥३५॥



ये च त्वया पूर्वभवेषु नित्यं

परिपाचिताः सत्त्व सुदीर्घरात्रम्।

कृताञ्जली ते पि स्थितात्र सर्वे

ये श्रद्दधास्यन्ति तवैत धर्मम्॥३६॥



अस्मादृशा द्वादशिमे शताश्च

ये चापि ते प्रस्थित अग्रबोधये।

तान् पश्यमानः सुगतः प्रभाषतां

तेषां च हर्षं परमं जनेतु॥३७॥



अथ खलु भगवांस्त्रैतीयकमप्यायुष्मतः शारिपुत्रस्याध्येषणां विदित्वा आयुष्मन्तं शारिपुत्रमेतदवोचत्-यदिदानीं त्वं शारिपुत्र यावत्रैतीयकमपि तथागतमध्येषसे। एवमध्येषमाणं त्वां शारिपुत्र किं वक्ष्यामि ? तेन हि शारिपुत्र शृणु, साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं ते॥



समनन्तरभाषिता चेयं भगवता वाक्, अथ खलु ततः पर्षद आभिमानिकानां भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानां पञ्चमात्राणि सहस्राण्युत्थाय आसनेभ्यो भगवतः पादौ शिरसाभिवन्दित्वा ततः पर्षदोऽपक्रामन्ति स्म, यथापीदमभिमानाकुशलमूलेन अप्राप्ते प्राप्तसंज्ञिनोऽनधिगतेऽधिगतसंज्ञिनः। ते आत्मानं सव्रणं ज्ञात्वा ततः पर्षदोऽपक्रान्ताः। भगवांश्च तूष्णींभावेनाधिवासयति स्म॥



अथ खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म-निप्पलावा मे शारिपुत्र पर्षत् अपगतफल्गुः श्रद्धासारे प्रतिष्ठिता। साधु शारिपुत्र एतेषामाभिमानिकानामतोऽपक्रमणम्। तेन हि शारिपुत्र भाषिष्ये एतमर्थम्। साधु भगवन्नित्यायुष्मान् शारिपुत्रो भगवतः प्रत्यश्रौषीत्॥



भगवानेतदवोचत्-कदाचित् कर्हिचिच्छारिपुत्र तथागत एवंरूपां धर्मदेशनां कथयति। तद्यथापि नाम शारिपुत्र उदुम्बरपुष्पं कदाचित् कर्हिचित् संदृश्यते, एवमेव शारिपुत्र तथागतोऽपि कदाचित् कर्हिचित् एवंरूपां धर्मदेशनां कथयति। श्रद्दधत मे शारिपुत्र, भूतवाद्यहमस्मि, तथावाद्यहमस्मि, अनन्यथावाद्यहमस्मि। दुर्बोध्यं शारिपुत्र तथागतस्य संधाभाष्यम्। तत्कस्य हेतोः? नानानिरुक्तिनिर्देशाभिलापनिर्देशनैर्मया शारिपुत्र विविधैरुपायकौशल्यशतसहस्रैर्धर्मः संप्रकाशितः। अतर्कोऽतर्कावचरस्तथागतविज्ञेयः शारिपुत्र सद्धर्मः। तत्कस्य हेतोः? एककृत्येन शारिपुत्र एककरणीयेन तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते महाकृत्येन महाकरणीयेन। कतमं च शारिपुत्र तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयं येन कृत्येन तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते? यदिदं तथागतज्ञानदर्शनसमादापनहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते। तथागतज्ञानदर्शनसंदर्शनहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते। तथागतज्ञानदर्शनावतारणहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते। तथागतज्ञानप्रतिबोधनहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते। तथागतज्ञानदर्शनमार्गावतारणहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते।



इदं तच्छारिपुत्र तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयमेकप्रयोजनं लोके प्रादुर्भावाय। इति हि शारिपुत्र यत्तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयम्, तत्तथागतः करोति। तत्कस्य हेतोः? तथागतज्ञानदर्शनसमादापक एवाहं शारिपुत्र, तथागतज्ञानदर्शनसंदर्शक एवाहं शारिपुत्र, तथागतज्ञानदर्शनावतारक एवाहं शारिपुत्र, तथागतज्ञानदर्शनप्रतिबोधक एवाहं शारिपुत्र, तथागतज्ञानदर्शनमार्गावतारक एवाहं शारिपुत्र। एकमेवाहं शारिपुत्र यानमारभ्य सत्त्वानां धर्म देशयामि यदिदं बुद्धयानम्। न किंचिच्छारिपुत्र द्वितीयं वा तृतीयं वा यानं संविद्यते। सर्वत्रैषा शारिपुत्र धर्मता दशदिग्लोके। तत्कस्य हेतोः? येऽपि तु शारिपुत्र अतीतऽध्वन्यभूवन् दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च। ये नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशितवन्तः। तेऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशितवन्तः, यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशितवन्तः। यैरपि शारिपुत्र सत्त्वैस्तेषामतीतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात् सद्धर्मः श्रुतः, तेऽपि सर्वेऽनुत्तरायाः सम्यक्संबोधेर्लाभिनोऽभूवन्॥



येऽपि ते शारिपुत्र अनागतेऽध्वनि भविष्यन्ति दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च, ये च नानाभिर्निहारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयिष्यन्ति, तेऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशयिष्यन्ति यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयिष्यन्ति। येऽपि ते शारिपुत्र सत्त्वास्तेषामनागतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात् तं धर्मं श्रोष्यन्ति, तेऽपि सर्वेऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति॥



येऽपि ते शारिपुत्र एतर्हि प्रत्युत्पन्नेऽध्वनि दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति घ्रियन्ते यापयन्ति, धर्मं च देशयन्ति बहुजनहिताय बहुजनहिताय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च, ये नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयन्ति, तेऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशयन्ति यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयन्ति। येऽपि ते शारिपुत्र सत्त्वास्तेषां प्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात् तं धर्मं शृण्वन्ति, तेऽपि सर्वेऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति॥



अहमपि शारिपुत्र एतर्हि तथागतोऽर्हन् सम्यक्संबुद्धो बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयामि। अहमपि शारिपुत्र एकमेव यानमारभ्य सत्त्वानां धर्मं देशयामि यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयामि। येऽपि ते शारिपुत्र सत्त्वा एतर्हि ममेमं धर्मं शृण्वन्ति, तेऽपि सर्वेऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति। तदनेनापि शारिपुत्र पर्यायेण एवं वेदितव्यं यथा नास्ति द्वितीयस्य यानस्य क्वचिद्दशसु दिक्षु लोके प्रज्ञप्तिः, कुतः पुनस्तृतीयस्य॥



अपि तु खलु पुनः शारिपुत्र यदा तथागता अर्हन्तः सम्यक्संबुद्धा कल्पकषाये वोत्पद्यन्ते सत्त्वकषाये वा क्लेशकषाये वा दृष्टिकषाये वा आयुष्कषाये वोत्पद्यन्ते। एवंरूपेषु शारिपुत्र कल्पसंक्षोभकषायेषु बहुसत्त्वेषु लुब्धेष्वल्पकुशलमूलेषु तदा शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा उपायकौशल्येन तदेवैकं बुद्धयानं त्रियाननिर्देशेन निर्दिशन्ति। तत्र शारिपुत्र ये श्रावका अर्हन्तः प्रत्येकबुद्धा वा इमां क्रियां तथागतस्य बुद्धयानसमादपनां न शृण्वन्ति नावतरन्ति नावबुध्यन्ति, न ते शारिपुत्र तथागतस्य श्रावका वेदितव्याः, नाप्यर्हन्तो नापि प्रत्येकबुद्धा वेदितव्याः। अपि तु खलु पुनः शारिपुत्र यः कश्चिद् भिक्षुर्वा भिक्षुणी वा अर्हत्त्वं प्रतिजानीयात्, अनुत्तरायां सम्यक्संबोधौ प्रणिधानमपरिगृह्य उच्छिन्नोऽस्मि बुद्धयानादिति वदेत्, एतावन्मे समुच्छ्रयस्य पश्चिमकं परिनिर्वाणं वदेत्, आभिमानिकं तं शारिपुत्र प्रजानीयाः। तत्कस्य हेतोः? अस्थानमेतच्छारिपुत्र अनवकाशो यद्भिक्षुरर्हन् क्षीणास्रवः संमुखीभूते तथागते इमंः धर्मं श्रुत्वा न श्रद्दध्यात् स्थापयित्वा परिनिर्वृतस्य तथागतस्य। तत्कस्य हेतोः? न हि शारिपुत्र श्रावकास्तस्मिन् काले तस्मिन् समये परिनिर्वृते तथागते एतेषामेवंरूपाणां सूत्रान्तानां धारका वा देशका वा भविष्यन्ति। अन्येषु पुनः शारिपुत्र तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु निःसंशया भविष्यन्ति। इमेषु बुद्धधर्मेषु श्रद्दधाध्वं मे शारिपुत्र पत्तीयत अवकल्पयत। न हि शारिपुत्र तथागतानां मृषावादः संविद्यते। एकमेवेदं शारिपुत्र यानं यदिदं बुद्धयानम्॥



अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत—



अथाभिमानप्राप्ता ये भिक्षुभिक्षुण्युपासकाः।

उपासिकाश्च अश्राद्धाः सहस्राः पञ्चनूनकाः॥३८॥



अपश्यन्त इमं दोषं छिद्रशिक्षासमन्विताः।

व्रणांश्च परिरक्षन्तः प्रक्रान्ता बालबुद्धयः॥३९॥



पर्षत्कषायतां ज्ञात्वा लोकनाथोऽधिवासयि।

तत्तेषां कुशलं नास्ति शृणुयुर्धर्म ये इमम्॥४०॥



शुद्धा च निष्पलावा च सुस्थिता परिषन्मम।

फल्गुव्यपगता सर्वा सारा चेयं प्रतिष्ठिता॥४१॥



शृणोहि मे शारिसुता यथैष

संबुद्ध धर्मः पुरुषोत्तमेहि।

यथा च बुद्धाः कथयन्ति नायका

उपायकौशल्यशतैरनेकैः॥४२॥



यथाशयं जानिय ते चरिं च

नानाधिमुक्तानिह प्राणकोटिनाम्।

चित्राणि कर्माणि विदित्व तेषां

पुराकृतं यत्कुशलं च तेहि॥४३॥



नानानिरुक्तीहि च कारणेहि

संप्रापयामी इम तेष प्राणिनाम्।

हेतूहि दृष्टान्तशतेहि चाहं

तथा तथा तोषयि सर्वसत्त्वान्॥४४॥



सूत्राणि भाषामि तथैव गाथा

इतिवृत्तकं जातकमद्भुतं च।

निदान औपम्यशतैश्च चित्रै-

र्गेयं च भाषामि तथोपदेशान्॥४५॥



ये भोन्ति हीनाभिरता अविद्वसू

अचीर्णचर्या बहुबुद्धकोटिषु।

संसारलग्नाश्च सुदुःखिताश्च

निर्वाण तेषामुपदर्शयामि॥४६॥



उपायमेतं कुरुते स्वयंभू-

र्बौद्धस्य ज्ञानस्य प्रबोधनार्थम्।

न चापि तेषां प्रवदे कदाचिद्

युष्मेऽपि बुद्धा इह लोकि भेष्यथ॥४७॥



किं कारणं कालमवेक्ष्य तायी

क्षणं च दृष्ट्वा ततु पश्च भाषते।

सोऽयं क्षणो अद्य कथंचि लब्धो

वदामि येनेह च भूतनिश्चयम्॥४८॥



नवाङ्गमेतन्मम शासनं च

प्रकाशितं सत्त्वबलाबलेन।

उपाय एषो वरदस्य ज्ञाने

प्रवेशनार्थाय निदर्शितो मे॥४९॥



भवन्ति ये चेह सदा विशुद्धा

व्यक्ता शुची सूरत बुद्धपुत्राः।

कृताधिकारा बहुबुद्धकोटिषु

वैपुल्यसूत्राणि वदामि तेषाम्॥५०॥



तथा हि ते आशयसंपदाय

विशुद्धरूपाय समन्विताभून्।

वदामि तान् बुद्ध भविष्यथेति

अनागतेऽध्वानि हितानुकम्पकाः॥५१॥



श्रुत्वा च प्रीतिस्फुट भोन्ति सर्वे

बुद्धा भविष्याम जगत्प्रधानाः।

पुनश्च हं जानिय तेष चर्यां

वैपुल्यसूत्राणि प्रकाशयामि॥५२॥



इमे च ते श्रावक नायकस्य

येहि श्रुतं शासनमेतमग्र्यम्।

एकापि गाथा श्रुत धारिता वा

सर्वेष बोधाय न संशयोऽस्ति॥५३॥



एकं हि यानं द्वितियं न विद्यते

तृतियं हि नैवास्ति कदाचि लोके।

अन्यत्रुपाया पुरुषोत्तमानां

यद्याननानात्वुपदर्शयन्ति॥५४॥



बौद्धस्य ज्ञानस्य प्रकाशनार्थं

लोके समुत्पद्यति लोकनाथः।

एकं हि कार्यं द्वितियं न विद्यते

न हीनयानेन नयन्ति बुद्धाः॥५५॥



प्रतिष्ठितो यत्र स्वयं स्वयंभू-

र्यच्चैव बुद्धं यथ यादृशं च।

बलाश्च ये ध्यानविमोक्ष-इन्द्रिया-

स्तत्रैव सत्त्वा पि प्रतिष्ठपेति॥५६॥



मात्सर्यदोषो हि भवेत मह्यं

स्पृशित्व बोधिं विरजां विशिष्टाम्।

यदि हीनयानस्मि प्रतिष्ठपेय-

मेकं पि सत्त्वं न ममते साधु॥५७॥



मात्सर्य मह्यं न कहिंचि विद्यते

ईर्ष्या न मे नापि च छन्दरागः।

उच्छिन्न पापा मम सर्वधर्मा-

स्तेनास्मि बुद्धो जगतोऽनुबोधात्॥५८॥



यथा ह्यहं चित्रितु लक्षणेहि

प्रभासयन्तो इमु सर्वलोकम्।

पुरस्कृतः प्राणिशतैरनेकै-

र्देशेमिमां धर्मस्वभावमुद्राम्॥५९॥



एवं च चिन्तेम्यहु शारिपुत्र

कथं नु एवं भवि सर्वसत्त्वाः।

द्वात्रिंशतीलक्षणरूपधारिणः

स्वयंप्रभा लोकविदू स्वयंभूः॥६०॥



यथा च पश्यामि यथा च चिन्तये

यथा च संकल्प ममासि पूर्वम्।

परिपूर्णमेतत् प्रणिधानु मह्यं

बुद्धा च बोधिं च प्रकाशयामि॥६१॥



सचेदहं शारिसुता वदेयं

सत्त्वान बोधाय जनेथ छन्दम्।

अजानकाः सर्व भ्रमेयुरत्र

न जातु गृह्णीयु सुभाषितं मे॥६२॥



तांश्चैव हं जानिय एवरूपान्

न चीर्णचर्याः पुरिमासु जातिषु।

अध्योषिताः कामगुणेषु सक्ता-

स्तृष्णाय संमूर्छित मोहचित्ताः॥६३॥



ते कामहेतोः प्रपतन्ति दुर्गतिं

षट्सू गतीषू परिखिद्यमानाः।

कटसी च वर्धेन्ति पुनः पुनस्ते

दुःखेन संपीडित अल्पपुण्याः॥६४॥



विलग्न दृष्टीगहनेषु नित्य-

मस्तीति नास्तीति तथास्ति नास्ति।

द्वाषष्टि दृष्टीकृत निश्रयित्वा

असन्त भावं परिगृह्य ते स्थिताः॥६५॥



दुःशोधका मानिन दम्भिनश्च

वङ्काः शठा अल्पश्रुताश्च बालाः।

ते नैव शृण्वन्ति सुबुद्धघोषं

कदाचि पि जातिसहस्रकोटिषु॥६६॥



तेषामहं शारिसुता उपायं

वदामि दुःखस्य करोथ अन्तम्।

दुःखेन संपीडित दृष्ट्व सत्त्वान्

निर्वाण तत्राप्युपदर्शयामि॥६७॥



एवं च भाषाम्यहु नित्यनिर्वृता

आदिप्रशान्ता इमि सर्वधर्माः।

चर्यां च सो पूरिय बुद्धपुत्रो

अनागतेऽध्वानि जिनो भविष्यति॥६८॥



उपायकौशल्य ममैवरूपं

यत् त्रीणि यानान्युपदर्शयामि।

एकं तु यानं हि नयश्च एक

एका चियं देशन नायकानाम्॥६९॥



व्यपनेहि काङ्क्षां तथ संशयं च

येषां च केषां चिह काङ्क्ष विद्यते।

अनन्यथावादिन लोकनायका

एकं इदं यानु द्वितीयु नास्ति॥७०॥



ये चाप्यभूवन् पुरिमास्तथागताः

परिनिर्वृता बुद्धसहस्र नेके।

अतीतमध्वानमसंख्यकल्पे

तेषां प्रमाणं न कदाचि विद्यते॥७१॥



सर्वेहि तेहि पुरुषोत्तमेहि

प्रकाशिता धर्म बहू विशुद्धाः।

दृष्टान्तकैः कारणहेतुभिश्च

उपायकौशल्यशतैरनेकैः॥७२॥



सर्वे च ते दर्शयि एकयान-

मेकं च यानं अवतारयन्ति।

एकस्मि याने परिपाचयन्ति

अचिन्तिया प्राणिसहस्रकोट्यः॥७३॥



अन्ये उपाया विविधा जिनानां

येही प्रकाशेन्तिममग्रधर्मम्।

ज्ञात्वाधिमुक्तिं तथ आशयं च

तथागता लोकि सदेवकस्मिन्॥७४॥



ये चापि सत्त्वास्तहि तेष संमुखं

शृण्वन्ति धर्मं अथ वा श्रुताविनः।

दानं च दत्तं चरितं च शीलं

क्षान्त्या च संपादित सर्वचर्याः॥७५॥



वीर्येण ध्यानेन कृताधिकाराः

प्रज्ञाय वा चिन्तित एति धर्माः।

विविधानि पुण्यानि कृतानि येहि

ते सर्वि बोधाय अभूषि लाभिनः॥७६॥



परिनिर्वृतानां च जिनान तेषां

ये शासने केचिदभूषि सत्त्वाः।

क्षान्ता च दान्ता च विनीत तत्र

ते सर्वि बोधाय अभूषि लाभिनः॥७७॥



ये चापि धातून करोन्ति पूजां

जिनान तेषां परिनिर्वृतानाम्।

रत्नामयान् स्तूपसहस्र नेकान्

सुवर्णरूप्यस्य च स्फाटिकस्य॥७८॥



ये चाश्मगर्भस्य करोन्ति स्तूपान्

कर्केतनामुक्तमयांश्च केचित्।

वैडूर्यश्रेष्ठस्य तथेन्द्रनीलान्

ते सर्वि बोधाय अभूषि लाभिनः॥७९॥



ये चापि शैलेषु करोन्ति स्तूपान्

ये चन्दनानामगुरुस्य केचित्।

ये देवदारूस्य करोन्ति स्तूपान्

ये दारुसंघातमयांश्च केचित्॥८०॥



इष्टामयान् मृत्तिकसंचितान् वा

प्रीताश्च कुर्वन्ति जिनान स्तूपान्।

उद्दिश्य ये पांसुकराशयोऽपि

अटवीषु दुर्गेषु च कारयन्ति॥८१॥



सिकतामयान् वा पुन कूट कृत्वा

ये केचिदुद्दिश्य जिनान स्तूपान्।

कुमारकाः क्रीडिषु तत्र तत्र

ते सर्वि बोधाय अभूषि लाभिनः॥८२॥



रत्नामया बिम्ब तथैव केचिद्

द्वात्रिंशतीलक्षणरूपधारिणः।

उद्दिश्य कारापित येहि चापि

ते सर्वि बोधाय अभूषि लाभिनः॥८३॥



ये सप्तरत्नामय तत्र केचिद्

ये ताम्रिका वा तथ कांसिका वा।

कारापयीषु सुगतान बिम्बा

ते सर्वि बोधाय अभूषि लाभिनः॥८४॥



सीसस्य लोहस्य च मृत्तिकाय वा

कारापयीषु सुगतान विग्रहान्।

ये पुस्तकर्मामय दर्शनीयां-

स्ते सर्वि बोधाय अभूषि लाभिनः॥८५॥



ये चित्रभित्तीषु करोन्ति विग्रहान्

परिपूर्णगात्रान् शतपुण्यलक्षणान्।

लिखेत्स्वयं चापि लिखापयेद्वा

ते सर्वि बोधाय अभूषि लाभिनः॥८६॥



ये चापि केचित्तहि शिक्षमाणाः

क्रीडारतिं चापि विनोदयन्तः।

नखेन काष्ठेन कृतासि विग्रहान्

भित्तीषु पुरुषा च कुमारका वा॥८७॥



सर्वे च ते कारूणिका अभूवन्

सर्वेऽपि ते तारयि प्राणिकोट्यः।

समादपेन्ता बहुबोधिसत्वां-

स्ते सर्वि बोधाय अभूषि लाभिनः॥८८॥



धातूषु यैश्चापि तथागतानां

स्तूपेषु वा मृत्तिकविग्रहेषु वा।

आलेख्यभित्तीष्वपि पांसुस्तूपे

पुष्पा च गन्धा च प्रदत्त आसीत्॥८९॥



वाद्या च वादापित येहि तत्र

भेर्योऽथ शङ्खाः पटहाः सुघोषकाः।

निर्नादिता दुन्दुभयश्च येहि

पूजाविधानाय वराग्रबोधिनाम्॥९०॥



वीणाश्च ताला पणवाश्च येहि

मृदङ्ग वंशा तुणवा मनोज्ञाः।

एकोत्सवा वा सुकुमारका वा

ते सर्वि बोधाय अभूषि लाभिनः॥९१॥



वादापिता झल्लरियोऽपि येहि

जलमण्डका चर्पटमण्डका वा।

सुगतान उद्दिश्यथ पूजनार्थं

गीतं सुगीतं मधुरं मनोज्ञम्॥९२॥



सर्वे च ते बुद्ध अभूषि लोके

कृत्वान तां बहुविधधातुपूजाम्।

किमल्पकं पि सुगतान धातुषु

एकं पि वादापिय वाद्यभाण्डम्॥९३॥



पुष्पेण चैकेन पि पूजयित्वा

आलेख्यभित्तौ सुगतान बिम्बान्।

विक्षिप्तचित्ता पि च पूजयित्वा

अनुपूर्व द्रक्ष्यन्ति च बुद्धकोट्यः॥९४॥



यैश्चाञ्जलिस्तत्र कृतोऽपि स्तूपे

परिपूर्ण एका तलसक्तिका वा।

उन्नामितं शीर्षमभून्मुहूर्त-

मवनामितः कायु तथैकवारम्॥९५॥



नमोऽस्तु बुद्धाय कृतैकवारं

येही तदा धातुधरेषु तेषु।

विक्षिप्तचित्तैरपि एकवारं

ते सर्वि प्राप्ता इममग्रबोधिम्॥९६॥



सुगतान तेषां तद तस्मि काले

परिनिर्वृतानामथ तिष्ठतां वा।

ये धर्मनामापि श्रुणिंसु सत्त्वा-

स्ते सर्वि बोधाय अभूषि लाभिनः॥९७॥



अनागता पी बहुबुद्धकोट्यो

अचिन्तिया येषु प्रमाणु नास्ति।

ते पी जिना उत्तमलोकनाथाः

प्रकाशयिष्यन्ति उपायमेतम्॥९८॥



उपायकौशल्यमनन्तु तेषां

भविष्यति लोकविनायकानाम्।

येना विनेष्यन्तिह प्राणकोट्यो

बौद्धस्मि ज्ञानस्मि अनास्रवस्मिन्॥९९॥



एकोऽपि सत्त्वो न कदाचि तेषां

श्रुत्वान धर्मं न भवेत बुद्धः।

प्रणिधानमेतद्धि तथागतानां

चरित्व बोधाय चरापयेयम्॥१००॥



धर्मामुखा कोटिसहस्र नेके

प्रकाशयिष्यन्ति अनागतेऽध्वे।

उपदर्शयन्तो इममेकयानं

वक्ष्यन्ति धर्मं हि तथागतत्वे॥१०१॥



स्थितिका हि एषा सद धर्मनेत्री

प्रकृतिश्च धर्माण सदा प्रभा[सते]।

विदित्व बुद्धा द्विपदानमुत्तमा

प्रकाशयिष्यन्ति ममेकयानम्॥१०२॥



धर्मस्थितिं धर्मनियामतां च

नित्यस्थितां लोकि इमामकम्प्याम्।

बुद्धाश्च बोधिं पृथिवीय मण्डे

प्रकाशयिष्यन्ति उपायकौशलम्॥१०३॥



दशसू दिशासू नरदेवपूजिता-

स्तिष्ठन्ति बुद्धा यथ गङ्गवालिकाः।

सुखापनार्थं इह सर्वप्राणिनां

ते चापि भाषन्तिममग्रबोधिम्॥१०४॥



उपायकौशल्य प्रकाशयन्ति

विविधानि यानान्युपदर्शयन्ति।

एकं च यानं परिदीपयन्ति

बुद्धा इमामुत्तमशान्तभूमिम्॥१०५॥



चरितं च ते जानिय सर्वदेहिनां

यथाशयं यच्च पुरा निषेवितम्।

वीर्यं च स्थामं च विदित्व तेषां

ज्ञात्वाधिमुक्तिं च प्रकाशयन्ति॥१०६॥



दृष्टान्तहेतून् बहु दर्शयन्ति

बहुकारणान् ज्ञानबलेन नायकाः।

नानाधिमुक्तांश्च विदित्व सत्त्वान्

नानाभिनिर्हारुपदर्शयन्ति॥१०७॥



अहं पि चैतर्हि जिनेन्द्रनायको

उत्पन्न सत्त्वान सुखापनार्थम्।

संदर्शयामी इम बुद्धबोधिं

नानाभिनिर्हारसहस्रकोटिभिः॥१०८॥



देशेमि धर्मं च बहुप्रकारं

अधिमुक्तिमध्याशय ज्ञात्व प्राणिनाम्।

संहर्षयामी विविधैरुपायैः

प्रत्यात्मिकं ज्ञानबलं ममैतत्॥१०९॥



अहं पि पश्यामि दरिद्रसत्त्वान्

प्रज्ञाय पुण्येहि च विप्रहीणान्।

प्रस्कन्न संसारि निरुद्ध दुर्गे

मग्नाः पुनर्दुःखपरंपरासु॥११०॥



तृष्णाविलग्नांश्चमरीव बाले

कामैरिहान्धीकृत सर्वकालम्।

न बुद्धमेषन्ति महानुभावं

न धर्म मार्गन्ति दुखान्तगामिनम्॥१११॥



गतीषु षट्सु परिरुद्धचित्ताः

कुदृष्टिदृष्टीषु स्थिता अकम्प्याः।

दुःखातु दुःखानुप्रधावमानाः

कारुण्य मह्यं बलवन्तु तेषु॥११२॥



सोऽहं विदित्वा तहि बोधिमण्डे

सप्ताह त्रीणि परिपूर्ण संस्थितः।

अर्थं विचिन्तेमिममेवरूपं

उल्लोकयन् पादपमेव तत्र॥११३॥



प्रेक्षामि तं चानिमिषं द्रुमेन्द्रं

तस्यैव हेष्ठे अनुचंक्रमामि।

आश्चर्यज्ञानं च इदं विशिष्टं

सत्त्वाश्च मोहान्ध अविद्वसू इमे॥११४॥



ब्रह्मा च मां याचति तस्मि काले

शक्रश्च चत्वारि च लोकपालाः।

महेश्वरो ईश्वर एव चापि

मरुद्गणानां च सहस्रकोटयः॥११५॥



कृताञ्जली सर्वि स्थिताः सगौरवा

अर्थं च चिन्तेमि कथं करोमि।

अहं च बोधीय वदामि वर्णान्

इमे च दुःखैरभिभूत सत्त्वाः॥११६॥



ते मह्य धर्मं क्षिपि बालभाषितं

क्षिपित्व गच्छेयुरपायभूमिम्।

श्रेयो ममा नैव कदाचि भाषितुं

अद्यैव मे निर्वृतिरस्तु शान्ता॥११७॥



पुरिमांश्च बुद्धान् समनुस्मरन्तो

उपायकौशल्यु यथा च तेषाम्।

यं नून हं पि इम बुद्धबोधिं

त्रिधा विभज्येह प्रकाशयेयम्॥११८॥



एवं च मे चिन्तितु एष धर्मो

ये चान्ये बुद्धा दशसु द्दिशासु।

दर्शिंसु ते मह्य तदात्मभावं

साधुं ति घोषं समुदीरयन्ति॥११९॥



साधू मुने लोकविनायकाग्र

अनुत्तरं ज्ञानमिहाधिगम्य।

उपायकौशल्यु विचिन्तयन्तो

अनुशिक्षसे लोकविनायकानाम्॥१२०॥



वयं पि बुद्धाय परं तदा पदं

तृधा च कृत्वान प्रकाशयामः।

हीनाधिमुक्ता हि अविद्वसू नरा

भविष्यथा बुद्ध न श्रद्दधेयुः॥१२१॥



ततो वयं कारणसंग्रहेण

उपायकौशल्य निषेवमाणाः।

फलाभिलाषं परिकीर्तयन्तः

समादपेमो बहुबोधिसत्त्वान्॥१२२॥



अहं चुदग्रस्तद आसि श्रुत्वा

घोषं मनोज्ञं पुरुषर्षभाणाम्।

उदग्रचित्तो भणि तेष तायिनां

न मोहवादी प्रवरा महर्षी॥१२३॥



अहं पि एवं समुदाचरिष्ये

यथा वदन्ती विदु लोकनायकाः।

अहं पि संक्षोभि इमस्मि दारुणे

उत्पन्न सत्त्वान कषायमध्ये॥१२४॥



ततो ह्यहं शारिसुता विदित्वा

वाराणसीं प्रस्थितु तस्मि काले।

तहि पञ्चकानां प्रवदामि भिक्षुणां

धर्मं उपायेन प्रशान्तभूमिम्॥१२५॥



ततः प्रवृत्तं मम धर्मचक्रं

निर्वाणशब्दश्च अभूषि लोके।

अर्हन्तशब्दस्तथ धर्मशब्दः

संघस्य शब्दश्च अभूषि तत्र॥१२६॥



भाषामि वर्षाणि अनल्पकानि

निर्वाणभूमिं चुपदर्शयामि।

संसारदुःखस्य च एष अन्तो

एवं वदामी अहु नित्यकालम्॥१२७॥



यस्मिंश्च काले अहु शारिपुत्र

पश्यामि पुत्रान् द्विपदोत्तमानाम्।

ये प्रस्थिता उत्तममग्रबोधिं

कोटीसहस्राणि अनल्पकानि॥१२८॥



उपसंक्रमित्वा च ममैव अन्तिके

कृताञ्जलीः सर्वि स्थिताः सगौरवाः।

येही श्रुतो धर्म जिनान आसीत्

उपायकौशल्यु बहुप्रकारम्॥१२९॥



ततो ममा एतदभूषि तत्क्षणं

समयो ममा भाषितुमग्रधर्मम्।

यस्याहमर्थं इह लोकि जातः

प्रकाशयामी तमिहाग्रबोधिम्॥१३०॥



दुःश्रद्दधं एतु भविष्यतेऽद्य

निमित्तसंज्ञानिह बालबुद्धिनाम्।

अधिमानप्राप्तान अविद्वसूनां

इमे तु श्रोष्यन्ति हि बोधिसत्त्वाः॥१३१॥



विशारदश्चाहु तदा प्रहृष्टः

संलीयनां सर्व विवर्जयित्वा।

भाषामि मध्ये सुगतात्मजानां

तांश्चैव बोधाय समादपेमि॥१३२॥



संदृश्य चैतादृशबुद्धपुत्रां-

स्तवापि काङ्क्षा व्यपनीत भेष्यति।

ये चा शता द्वादशिमे अनास्रवा

बुद्धा भविष्यन्तिमि लोकि सर्वे॥१३३॥



यथैव तेषां पुरिमाण तायिनां

अनागतानां च जिनान धर्मता।

ममापि एषैव विकल्पवर्जिता

तथैव हं देशयि अद्य तुभ्यम्॥१३४॥



कदाचि कहिंचि कथंचि लोके

उत्पादु भोति पुरुषर्षभाणाम्।

उत्पद्य चा लोकि अनन्तचक्षुषः

कदाचिदेतादृशु धर्म देशयुः॥१३५॥



सुदुर्लभो ईदृशु अग्रधर्मः

कल्पान कोटीनयुतैरपि स्यात्।

सुदुर्लभा ईदृशकाश्च सत्त्वाः

श्रत्वान ये श्रद्दधि अग्रधर्मम्॥१३६॥



औदुम्बरं पुष्प यथैव दुर्लभं

कदाचि कहिंचि कथंचि दृश्यते।

मनोज्ञरूपं च जनस्य तद्भवे-

दाश्चर्यु लोकस्य सदेवकस्य॥१३७॥



अतश्च आश्चर्यतरं वदामि

श्रुत्वान यो धर्ममिमं सुभाषितम्।

अनुमोदि एकं पि भणेय वाचं

कृत सर्वबुद्धान भवेय पूजा॥१३८॥



व्यपनेहि काङ्क्षामिह संशयं च

आरोचयामि अहु धर्मराजा।

समादपेमि अहमग्रबोधौ

न श्रावकाः केचिदिहास्ति मह्यम्॥१३९॥



तव शारिपुत्रैतु रहस्यु भोतु

ये चापि मे श्रावक मह्य सर्वे।

ये बोधिसत्त्वाश्च इमे प्रधाना

रहस्यमेतन्मम धारयन्तु॥१४०॥



किं कारणं पञ्चकषायकाले

क्षुद्राश्च दुष्टाश्च भवन्ति सत्त्वाः।

कामैरिहान्धीकृत बालबुद्धयो

न तेष बोधाय कदाचि चित्तम्॥१४१॥



श्रुत्वा च यानं मम एतदेकं

प्रकाशितं तेन जिनेन आसीत्।

अनागतेऽध्वानि भ्रमेयु सत्त्वाः

सूत्रं क्षिपित्वा नरकं व्रजेयुः॥१४२॥



लज्जी शुची ये च भवेयु सत्त्वाः

संप्रस्थिता उत्तममग्रबोधिम्।

विशारदो भूत्व वदेमि तेषा-

मेकस्य यानस्य अनन्तवर्णान्॥१४३॥



एतादृशी देशन नायकाना-

मुपायकौशल्यमिदं वरिष्ठम्।

बहूहि संधावचनेहि चोक्तं

दुर्बोध्यमेतं हि अशिक्षितेहि॥१४४॥



तस्माद्धि संधावचनं विजानिया

बुद्धान लोकाचरियाण तायिनाम्।

जहित्व काङ्क्षां विजहित्व संशयं

भविष्यथा बुद्ध जनेथ हर्षम्॥१४५॥



इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये उपायकौशल्यपरिवर्तो नाम द्वितीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project