Digital Sanskrit Buddhist Canon

१ निदानपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1 nidānaparivartaḥ

सद्धर्मपुण्डरीकसूत्रम्।



॥ नमः सर्वबुद्धबोधिसत्त्वेभ्यः। नमः सर्वतथागतप्रत्येकबुद्धार्यश्रावकेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यश्च बोधिसत्त्वेभ्यः॥



१ निदानपरिवर्तः।

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुशतैः सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरभिज्ञाताभिज्ञातैर्महाश्रावकैः। तद्यथा-आयुष्मता च आज्ञातकौण्डिन्येन, आयुष्मता च अश्वजिता, आयुष्मता च बाष्पेण, आयुष्मता च महानाम्ना, आयुष्मता च भद्रिकेण, आयुष्मता च महाकाश्यपेन, आयुष्मता च उरुबिल्वकाश्यपेन, आयुष्मता च नदीकाश्यपेन, आयुष्मता च गयाकाश्यपेन, आयुष्मता च शारिपुत्रेण, आयुष्मता च महामौद्गल्यायनेन, आयुष्मता च महाकात्यायनेन, आयुष्मता च अनिरुद्धेन, आयुष्मता च रेवतेन, आयुष्मता च कप्फिनेन, आयुष्मता च गवांपतिना, आयुष्मता च पिलिन्दवत्सेन, आयुष्मता च बक्कुलेन, आयुष्मता च महाकौष्ठिलेन, आयुष्मता च भरद्वाजेन, आयुष्मता च महानन्देन, आयुष्मता च उपनन्देन, आयुष्मता च सुन्दरनन्देन, आयुष्मता च पूर्णमैत्रायणीपुत्रेण, आयुष्मता च सुभूतिना आयुष्मता च राहुलेन। एभिश्चान्यैश्च महाश्रावकैः-आयुष्मता च आनन्देन शैक्षेण। अन्याभ्यां च द्वाभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाभ्याम्। महाप्रजापतीप्रमुखैश्च षड्भिर्भिक्षुणीसहस्रैः।



यशोधरया च भिक्षुण्या राहुलमात्रा सपरिवारया। अशीत्या च बोधिसत्त्वसहस्रैः सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैर्यदुत अनुत्तरायां सम्यक्संबोधौ, धारणीप्रतिलब्धैर्महाप्रतिभानप्रतिष्ठितैरवैवर्त्यधर्मचक्रप्रवर्तकैर्बहुबुद्धशतपर्युपासितैर्बहुबुद्धशतसहस्रावरोपितकुशलमूलैर्बुद्धशतसहस्रसंस्तुतैर्मैत्री

परिभावितकायचित्तैस्तथागतज्ञानावतारणकुशलैर्महाप्रज्ञैः प्रज्ञापारमितागतिंगतैर्बहुलोकधातुशतसहस्रविश्रुतैर्बहुप्राणिकोटीनयुतशतसहस्रसंतारकैः। तद्यथा-मञ्जुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन, अवलोकितेश्वरेण च महास्थामप्राप्तेन च सर्वार्थनाम्ना च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च रत्नपाणिना च भैषज्यराजेन च भैषज्यसमुद्गतेन च व्यूहराजेन च प्रदानशूरेण च रत्नचन्द्रेण च रत्नप्रभेण च पूर्णचन्द्रेण च महाविक्रामिणा च अनन्तविक्रामिणा च त्रैलोक्यविक्रामिणा च महाप्रतिभानेन च सततसमिताभियुक्तेन च धरणीधरेण च अक्षयमतिना च पद्मश्रिया च नक्षत्रराजेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, सिंहेन च बोधिसत्त्वेन महासत्त्वेन। भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः सार्धम्। तद्यथा-भद्रपालेन च रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च गुह्यगुप्तेन च वरुणदत्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च अनुपममतिना च सूर्यगर्भेण च धरणींधरेण च।



एवंप्रमुखैरशीत्या च बोधिसत्त्वसहस्रैः सार्धम्। शक्रेण च देवानामिन्द्रेण सार्धं विंशतिदेवपुत्रसहस्रपरिवारेण। तद्यथा-चन्द्रेण च देवपुत्रेण सूर्येण च देवपुत्रेण समन्तगन्धेन च देवपुत्रेण रत्नप्रभेण च देवपुत्रेण अवभासप्रभेण च देवपुत्रेण। एवंप्रमुखैर्विशत्या च देवपुत्रसहस्रैः। चतुर्भिश्च महाराजैः सार्धं त्रिंशद्देवपुत्रसहस्रपरिवारैः। तद्यथा-विरूढकेन च महाराजेन, विरूपाक्षेण च महाराजेन, धृतराष्ट्रेण च महाराजेन, वैश्रवणेन च महाराजेन। ईश्वरेण च देवपुत्रेण च महेश्वरेण च देवपुत्रेण त्रिंशद्देवपुत्रसहस्रपरिवाराभ्याम्। ब्रह्मणा च सहांपतिना सार्धं द्वादशब्रह्मकायिकदेवपुत्रसहस्रपरिवारेण। तद्यथा-शिखिना च ब्रह्मणा ज्योतिष्प्रभेण च ब्रह्मणा। एवंप्रमुखैर्द्वादशभिश्च ब्रह्मकायिकदेवपुत्रसहस्रैः। अष्टाभिश्च नागराजैः सार्धं बहुनागकोटीशतसहस्रपरिवारैः। तद्यथा-नन्देन च नागराजेन, उपनन्देन च नागराजेन, सागरेण च वासुकिना च तक्षकेण च मनस्विना च अनवतप्तेन च उत्पलकेन च नागराजेन। चतुर्भिश्च किन्नरराजैः सार्धं बहुकिन्नरकोटीशतसहस्रपरिवारैः। तद्यथा-द्रुमेण च किन्नरराजेन, महाधर्मेण च किन्नरराजेन, सुधर्मेण च किन्नरराजेन, धर्मधरेण च किन्नरराजेन। चतुर्भिश्च गन्धर्वकायिकदेवपुत्रैः सार्धं बहुगन्धर्वशतसहस्रपरिवारैः। तद्यथा-मनोज्ञेन च गन्धर्वेण मनोज्ञस्वरेण च मधुरेण च मधुरस्वरेण च गन्धर्वेण। चतुर्भिश्चासुरेन्द्रैः सार्धं बह्वसुरकोटीशतसहस्रपरिवारैः। तद्यथा-बलिना च असुरेन्द्रेण, खरस्कन्धेन च असुरेन्द्रेण, वेमचित्रिणा च असुरेन्द्रेण, राहुणा च असुरेन्द्रेण। चतुर्भिश्च गरुडेन्द्रैः सार्धं बहुगरुडकोटीशतसहस्रपरिवारैः। तद्यथा-महातेजसा च गरुडेन्द्रेण, महाकायेन च महापूर्णेन च महर्द्धिप्राप्तेन च गरुडेन्द्रेण। राज्ञा च अजातशत्रुणा मागधेन वैदेहीपुत्रेण सार्धम्॥



तेन खलु पुनः समयेन भगवांश्चतसृभिः पर्षद्भिः परिवृतः पुरस्कृतः सत्कृतो गुरुकृतो मानितः पूजितोऽर्चितोऽपचायितो महानिर्देशं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषित्वा तस्मिन्नेव महाधर्मासने पर्यङ्कमाभुज्य अनन्तनिर्देशप्रतिष्ठानं नाम समाधिं समापन्नोऽभूदनिञ्जमानेन कायेन स्थितोऽनिञ्जप्राप्तेन च चित्तेन। समनन्तरसमापन्नस्य खलु पुनर्भगवतो मान्दारवमहामान्दारवाणां मञ्जूषकमहामञ्जूषकाणां दिव्यानां पुष्पाणां महत्पुष्पवर्षमभिप्रावर्षत्, भगवन्तं ताश्च चतस्रः पर्षदोऽभ्यवाकिरन्। सर्वावच्च बुद्धक्षेत्रं षड्विकारं प्रकम्पितमभूच्चलितं संप्रचलितं वेधितं संप्रवेधितं क्षुभितं संप्रक्षुभितम्। तेन खलु पुनः समयेन तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः संनिपतिता अभूवन् संनिषण्णाः, राजानश्च मण्डलिनो बलचक्रवर्तिनश्चतुर्द्वीपकचक्रवर्तिनश्च। ते सर्वे सपरिवारा भगवन्तं व्यवलोकयन्ति स्म आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ताः॥



अथ खलु तस्यां वेलायां भगवतो भ्रूविवरान्तरादूर्णाकोशादेका रश्मिर्निश्चरिता। सा पूर्वस्यां दिशि अष्टादशबुद्धक्षेत्रसहस्राणि प्रसृता। तानि च सर्वाणि बुद्धक्षेत्राणि तस्या रश्मेः प्रभया सुपरिस्फुटानि संदृश्यन्ते स्म यावदवीचिर्महानिरयो यावच्च भवाग्रम्। ये च तेषु बुद्धक्षेत्रेषु षट्सु गतिषु सत्त्वाः संविद्यन्ते स्म, ते सर्वेऽशेषेण संदृश्यन्ते स्म। ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति च, तेऽपि सर्वे संदृश्यन्ते स्म। यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, स च सर्वो निखिलेन श्रूयते स्म। ये च तेषु बुद्धक्षेत्रेषु भिक्षुभिक्षुण्युपासकोपासिका योगिनो योगाचाराः प्राप्तफलाश्चाप्राप्तफलाश्च, तेऽपि सर्वे संदृश्यन्ते स्म। ये च तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वा अनेकविविधश्रवणारम्बणाधिमुक्तिहेतुकारणैरुपायकौशल्यैर्बोधिसत्त्वचर्यां चरन्ति, तेऽपि सर्वे संदृश्यन्ते स्म। ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः परिनिर्वृताः, तेऽपि सर्वे संदृश्यन्ते स्म। ये च तेषु बुद्धक्षेत्रेषु परिनिर्वृतानां बुद्धानां भगवतां धातुस्तूपा रत्नमयाः तेऽपि सर्वे संदृश्यन्ते स्म॥



अथ खलु मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्-महानिमित्तं प्रातिहार्यं बतेदं तथागतेन कृतम्। को न्वत्र हेतुर्भविष्यति किं कारणं यद्भगवता इदमेवंरूपं महानिमित्तं प्रातिहार्यं कृतम्? भगवांश्च समाधिं समापन्नः। इमानि चैवंरूपाणि महाश्चर्याद्भुताचिन्त्यानि महर्द्धिप्रातिहार्याणि संदृश्यन्ते स्म। किं नु खल्वहमेतमर्थं परिप्रष्टव्यं परिपृच्छेयम्? को न्वत्र समर्थः स्यादेतमर्थं विसर्जयितुम्? तस्यैतदभूत्-अयं मञ्जुश्रीः कुमारभूतः पूर्वजिनकृताधिकारोऽवरोपितकुशलमूलो बहुबुद्धपर्युपासितः। दृष्टपूर्वाणि च अनेन मञ्जुश्रिया कुमारभूतेन पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामेवंरूपाणि निमित्तानि भविष्यन्ति, अनुभूतपूर्वाणि च महाधर्मसांकथ्यानि। यन्न्वहं मञ्जुश्रियं कुमारभूतमेतमर्थं परिपृच्छेयम्॥



तासां चतसृणां पर्षदां भिक्षुभिक्षुण्युपासकोपासिकानां बहूनां च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याणामिममेवंरूपं भगवतो महानिमित्तं प्रातिहार्यावभासं दृष्ट्वा आश्चर्यप्राप्तानामद्भुतप्राप्तानां कौतूहलप्राप्तानामेतदभवत्-किं नु खलु वयमिममेवंरूपं भगवतो महर्द्धिप्रातिहार्यावभासं कृतं परिपृच्छेम?



अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्मिन्नेव क्षणलवमुहूर्ते तासां चतसृणां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय आत्मना च धर्मसंशयप्राप्तस्तस्यां वेलायां मञ्जुश्रियं कुमारभूतमेतदवोचत्-को न्वत्र मञ्जुश्रीर्हेतुः कः प्रत्ययो यदयमेवंरूप आश्चर्याद्भुतो भगवता ऋद्धयवभासः कृतः, इमानि चाष्टादशबुद्धक्षेत्रसहस्राणि विचित्राणि दर्शनीयानि परमदर्शनीयानि तथागतपूर्वंगमानि तथागतपरिणायकानि संदृश्यन्ते?



अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो मञ्जुश्रियं कुमारभूतमाभिर्गाथाभिरध्यभाषत–



किं कारणं मञ्जुशिरी इयं हि

रश्मिः प्रमुक्ता नरनायकेन।

प्रभासयन्ती भ्रमुकान्तरातु

ऊर्णाय कोशादियमेकरश्मिः॥१॥



मान्दारवाणां च महन्त वर्षं

पुष्पाणि मुञ्चन्ति सुराः सुहृष्टाः।

मञ्जूषकांश्चन्दनचूर्णमिश्रान्

दिव्यान् सुगन्धांश्च मनोरमांश्च॥२॥



येही मही शोभतियं समन्तात्

पर्षाश्च चत्वार सुलब्धहर्षाः।

सर्वं च क्षेत्रं इमु संप्रकम्पितं

षड्भिर्विकारेहि सुभीष्मरूपम्॥३॥



सा चैव रश्मी पुरिमादिशाय

अष्टादशक्षेत्रसहस्र पूर्णाः।

अवभासयी एकक्षणेन सर्वे

सुवर्णवर्णा इव भोन्ति क्षेत्राः॥४॥



यावानवीची परमं भवाग्रं

क्षेत्रेषु यावन्ति च तेषु सत्त्वाः।

षट्सू गतीषू तहि विद्यमाना

च्यवन्ति ये चाप्युपपद्यि तत्र॥५॥



कर्माणि चित्रा विविधानि तेषां

गतीषु दृश्यन्ति सुखा दुखा च।

हीना प्रणीता तथ मध्यमा च

इह स्थितो अद्दशि सर्वमेतत्॥६॥



बुद्धांश्च पश्यामि नरेन्द्रसिंहान्

प्रकाशयन्तो विवरन्ति धर्मम्।

प्रशासमानान् बहुसत्त्वकोटीः

उदाहरन्तो मधुरस्वरां गिरम्॥७॥



गम्भीरनिर्घोषमुदारमद्भुतं

मुञ्चन्ति क्षेत्रेषु स्वकस्वकेषु।

दृष्टान्तहेतूनयुतान कोटिभिः

प्रकाशयन्तो इमु बुद्धधर्मम्॥८॥



दुःखेन संपीडित ये च सत्त्वा

जातीजराखिन्नमना अजानकाः।

तेषां प्रकाशेन्ति प्रशान्तनिर्वृतिं

दुःखस्य अन्तो अयु भिक्षवे ति॥९॥



उदारस्थामाधिगताश्च ये नराः

पुण्यैरुपेतास्तथ बुद्धदर्शनैः।

प्रत्येकयानं च वदन्ति तेषां

संवर्णयन्तो इम धर्मनेत्रीम्॥१०॥



ये चापि अन्ये सुगतस्य पुत्रा

अनुत्तरं ज्ञान गवेषमाणाः।

विविधां क्रियां कुर्विषु सर्वकालं

तेषां पि बोधाय वदन्ति वर्णम्॥११॥



शृणोमि पश्यामि च मञ्जुघोष

इह स्थितो ईदृशकानि तत्र।

अन्या विशेषाण सहस्रकोट्यः

प्रदेशमात्रं ततु वर्णयिष्ये॥१२॥



पश्यामि क्षेत्रेषु बहूषु चापि

ये बोधिसत्त्वा यथ गङ्गवालिकाः।

कोटीसहस्राणि अनल्पकानि

विविधेन वीर्येण जनेन्ति बोधिम्॥१३॥



ददन्ति दानानि तथैव केचिद्

धनं हिरण्यं रजतं सुवर्णम्।

मुक्तामणिं शङ्खशिलाप्रवालं

दासांश्च दासी रथ‍अश्व‍एडकान्॥१४॥



शिबिकास्तथा रत्नविभूषिताश्च

ददन्ति दानानि प्रहृष्टमानसाः।

परिणामयन्तो इह अग्रबोधौ

वयं हि यानस्य भवेम लाभिनः॥१५॥



त्रैधातुके श्रेष्ठविशिष्टयानं

यद्बुद्धयानं सुगतेहि वर्णितम्।

अहं पि तस्यो भवि क्षिप्र लाभी

ददन्ति दानानि इमीदृशानि॥१६॥



चतुर्हयैर्युक्तरथांश्च केचित्

सवेदिकान् पुष्पध्वजैरलंकृतान्।

सवैजयन्तान् रतनामयानि

ददन्ति दानानि तथैव केचित्॥१७॥



ददन्ति पुत्रांश्च तथैव पुत्रीः

प्रियाणि मांसानि ददन्ति केचित्।

हस्तांश्च पादांश्च ददन्ति याचिताः

पर्येषमाणा इममग्रबोधिम्॥१८॥



शिरांसि केचिन्नयनानि केचिद्

ददन्ति केचित्प्रवरात्मभावान्।

दत्वा च दानानि प्रसन्नचित्ताः

प्रार्थेन्ति ज्ञानं हि तथागतानाम्॥१९॥



पश्याम्यहं मञ्जुशिरी कहिंचित्

स्फीतानि राज्यानि विवर्जयित्वा।

अन्तःपुरान् द्वीप तथैव सर्वान्

अमात्यज्ञातींश्च विहाय सर्वान्॥२०॥



उपसंक्रमी लोकविनायकेषु

पृच्छन्ति धर्मं प्रवरं शिवाय।

काषायवस्त्राणि च प्रावरन्ति

केशांश्च श्मश्रूण्यवतारयन्ति॥२१॥



कांश्चिच्च पश्याम्यहु बोधिसत्त्वान्

भिक्षू समानाः पवने वसन्ति।

शून्यान्यरण्यानि निषेवमाणान्

उद्देशस्वाध्यायरतांश्च कांश्चित्॥२२॥



कांश्चिच्च पश्याम्यहु बोधिसत्त्वान्

गिरिकन्दरेषु प्रविशन्ति धीराः।

विभावयन्तो इमु बुद्धज्ञानं

परिचिन्तयन्तो ह्युपलक्षयन्ति॥२३॥



उत्सृज्य कामांश्च अशेषतोऽन्ये

परिभावितात्मान विशुद्धगोचराः।

अभिज्ञ पञ्चेह च स्पर्शयित्वा

वसन्त्यरण्ये सुगतस्य पुत्राः॥२४॥



पादैः समैः स्थित्विह केचि धीराः

कृताञ्जली संमुखि नायकानाम्।

अभिस्तवन्तीह हर्षं जनित्वा

गाथासहस्रेहि जिनेन्द्रराजम्॥२५॥



स्मृतिमन्त दान्ताश्च विशारदाश्च

सूक्ष्मां चरिं केचि प्रजानमानाः।

पृच्छन्ति धर्मं द्विपदोत्तमानां

श्रुत्वा च ते धर्मधरा भवन्ति॥२६॥



परिभावितात्मान जिनेन्द्रपुत्रान्

कांश्चिच्च पश्याम्यहु तत्र तत्र।

धर्मं वदन्तो बहुप्राणकोटिनां

दृष्टान्तहेतूनयुतैरनेकैः॥२७॥



प्रामोद्यजाताः प्रवदन्ति धर्मं

समादपेन्तो बहुबोधिसत्त्वान्।

निहत्य मारं सबलं सवाहनं

पराहनन्ती इमु धर्मदुन्दुभिम्॥२८॥



पश्यामि कांश्चित् सुगतस्य शासने

संपूजितान्नरमरुयक्षराक्षसैः।

अविस्मयन्तान् सुगतस्य पुत्रान्

अनुन्नतान् शान्तप्रशान्तचारीन्॥२९॥



वनषण्ड निश्राय तथान्यरूपा

अवभासु कायातु प्रमुञ्चमानाः।

अभ्युद्धरन्तो नरकेषु सत्त्वां-

स्तांश्चैव बोधाय समादपेन्ति॥३०॥



वीर्ये स्थिताः केचि जिनस्य पुत्रा

मिद्धं जहित्वा च अशेषतोऽन्ये।

चंक्रम्ययुक्ताः पवने वसन्ति

वीर्येण ते प्रस्थित अग्रबोधिम्॥३१॥



ये चात्र रक्षन्ति सदा विशुद्धं

शीलं अखण्डं मणिरत्नसादृशम्।

परिपूर्णचारी च भवन्ति तत्र

शीलेन ते प्रस्थित अग्रबोधिम्॥३२॥



क्षान्तीबला केचि जिनस्य पुत्रा

अधिमानप्राप्तान क्षमन्ति भिक्षुणाम्।

आक्रोश परिभाष तथैव तर्जनां

क्षान्त्या हि ते प्रस्थित अग्रबोधिम्॥३३॥



कांश्चिच्च पश्याम्यहु बोधिसत्त्वान्

क्रीडारतिं सर्व विवर्जयित्वा।

बालान् सहायान् परिवर्जयित्वा

आर्येषु संसर्गरतान् समाहितान्॥३४॥



विक्षेपचित्तं च विवर्जयन्तान्

एकाग्रचित्तान् वनकन्दरेषु।

ध्यायन्त वर्षाण सहस्रकोट्यो

ध्यानेन ते प्रस्थित अग्रबोधिम्॥३५॥



ददन्ति दानानि तथैव केचित्

सशिष्यसंघेषु जिनेषु संमुखम्।

खाद्यं च भोज्यं च तथान्नपान्नं

गिलानभैषज्य बहू अनल्पकम्॥३६॥



वस्त्राण कोटीशत ते ददन्ति

सहस्रकोटीशतमूल्य केचित्।

अनर्घमूल्यांश्च ददन्ति वस्त्रान्

सशिष्यसंघान जिनान संमुखम्॥३७॥



विहार कोटीशत कारयित्वा

रत्नामयांश्चो तथ चन्दनामयान्।

प्रभूतशय्यासनमण्डितांश्च

निर्यातयन्तो सुगतान संमुखम्॥३८॥



आराम चौक्षांश्च मनोरमांश्च

फलैरुपेतान् कुसुमैश्च चित्रैः।

दिवाविहारार्थ ददन्ति केचित्

सश्रावकाणां पुरुषर्षभाणाम्॥३९॥



ददन्ति दानानिममेवरूपा

विविधानि चित्राणि च हर्षजाताः।

दत्वा च बोधाय जनेन्ति वीर्यं

दानेन ते प्रस्थित अग्रबोधिम्॥४०॥



धर्मं च केचित् प्रवदन्ति शान्तं

दृष्टान्तहेतूनयुतैरनेकैः।

देशेन्ति ते प्राणसहस्रकोटिनां

ज्ञानेन ते प्रस्थित अग्रबोधिम्॥४१॥



निरीहका धर्म प्रजानमाना

द्वयं प्रवृत्ताः खगतुल्यसादृशाः।

अनोपलिप्ताः सुगतस्य पुत्राः

प्रज्ञाय ते प्रस्थित अग्रबोधिम्॥४२॥



भूयश्च पश्याम्यहु मञ्जुघोष

परिनिर्वृतानां सुगतान शासने।

उत्पन्न धीरा बहुबोधिसत्त्वाः

कुर्वन्ति सत्कारु जिनान धातुषु॥४३॥



स्तूपान पश्यामि सहस्रकोट्यो

अनल्पका यथरिव गङ्गवालिकाः।

येभिः सदा मण्डित क्षेत्रकोटियो

ये कारिता तेहि जिनात्मजेहि॥४४॥



रत्नान सप्तान विशिष्ट उच्छ्रिताः

सहस्र पञ्चो परिपूर्ण योजना।

द्वे चो सहस्रे परिणाहवन्त-

श्छत्रध्वजास्तेषु सहस्रकोटयः॥४५॥



सवैजयन्ताः सद शोभमाना

घण्टासमूहै रणमान नित्यम्।

पुष्पैश्च गन्धैश्च तथैव वाद्यैः

संपूजिता नरमरुयक्षराक्षसैः॥४६॥



कारापयन्ती सुगतस्य पुत्रा

जिनान धातुष्विह पूजमीदृशीम्।

येभिर्दिशायो दश शोभिता यः

सुपुष्पितैर्वा यथ पारिजातैः॥४७॥



अहं चिमाश्चो बहुप्राणकोट्य

इह स्थिताः पश्यिषु सर्वमेतत्।

प्रपुष्पितं लोकमिमं सदेवकं

जिनेन मुक्ता इयमेकरश्मिः॥४८॥



अहो प्रभावः पुरुषर्षभस्य

अहोऽस्य ज्ञानं विपुलं अनास्रवम्।

यस्यैकरश्मिः प्रसृताद्य लोके

दर्शेति क्षेत्राण बहू सहस्रान्॥४९॥



आश्चर्यप्राप्ताः स्म निमित्त दृष्ट्वा

इममीदृशं चाद्भुतमप्रमेयम्।

वदस्व मञ्जुस्वर एतमर्थं

कौतूहलं ह्यपनय बुद्धपुत्र॥५०॥



चत्वारिमा पर्ष उदग्रचित्ता-

स्त्वां चाभिवीक्षन्तिह मां च वीर।

जनेहि हर्षं व्यपनेहि काङ्क्षां

त्वं व्याकरोही सुगतस्य पुत्र॥५१॥



किमर्थमेषः सुगतेन अद्य

प्रभास एतादृशको विमुक्तः।

अहो प्रभावः पुरुषर्षभस्य

अहोऽस्य ज्ञानं विपुलं विशुद्धम्॥५२॥



यस्यैकरश्मी प्रसृताद्य लोके

दर्शेति क्षेत्राण बहून् सहस्रान्।

एतादृशो अर्थ अयं भविष्यति

येनैष रश्मी विपुला प्रमुक्ता॥५३॥



ये अग्रधर्मा सुगतेन स्पृष्टा-

स्तद बोधिमण्डे पुरुषोत्तमेन।

किं तेह निर्देक्ष्यति लोकनाथो

अथ व्याकरिष्यत्ययु बोधिसत्त्वान्॥५४॥



अनल्पकं कारणमेत्त भेष्यति

यद्दर्शिताः क्षेत्रसहस्र नेके।

सुचित्रचित्रा रतनोपशोभिता

बुद्धाश्च दृश्यन्ति अनन्तचक्षुषः॥५५॥



पृच्छेति मैत्रेयु जिनस्य पुत्र

स्पृहेन्ति ते नरमरुयक्षराक्षसाः।

चत्वारिमा पर्ष उदीक्षमाणा

मञ्जुस्वरः किं न्विह व्याकरिष्यति॥५६॥



अथ खलु मञ्जुश्रीः कुमारभूतो मैत्रेयं बोधिसत्त्वं महासत्त्वं तं च सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म-महाधर्मश्रवणसांकथ्यमिदं कुलपुत्रास्तथागतस्य कर्तुमभिप्रायः, महाधर्मवृष्ठयभिप्रवर्षणं च महाधर्मदुन्दुभिसंप्रवादनं च महाधर्मध्वजसमुच्छ्रयणं च महाधर्मोल्कासंप्रज्वालनं च महाधर्मशङ्खाभिप्रपूरणं च महाधर्मभेरीपराहणनं च महाधर्मनिर्देशं च अद्य कुलपुत्रास्तथागतस्य कर्तुमभिप्रायः। यथा मम कुलपुत्राः प्रतिभाति, यथा च मया पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामिदमेवंरूपं पूर्वनिमित्तं दृष्टमभूत्, तेषामपि पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामेवं रश्मिप्रमोचनावभासोऽभुत्। तेनैवं प्रजानामि-महाधर्मश्रवणसांकथ्यं तथागतः कर्तुकामो महाधर्मश्रवणं श्रावयितुकामः, यथेदमेवंरूपं पूर्वनिमित्तं प्रादुष्कृतवान्। तत्कस्य हेतोः? सर्वलोकविप्रत्यनीयकधर्मपर्यायं श्रावयितुकामस्तथागतोऽर्हन् सम्यक्संबुद्धः, यथेदमेवंरूपं महाप्रातिहार्यं रश्मिप्रमोचनावभासं च पूर्वनिमित्तमुपदर्शयति॥



अनुस्मराम्यहं कुलपुत्रा अतीतेऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैरपरिमितैरप्रमाणैस्ततःपरेण परतरं यदासीत्-तेन कालेन तेन समयेन चन्द्रसूर्यप्रदीपो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। स धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम्। स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म। यदुत श्रावकाणां चतुरार्यसत्यसंप्रयुक्तं प्रतीत्यसमुत्पादप्रवृत्तं धर्मं देशयति स्म जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासानां समतिक्रमाय निर्वाणपर्यवसानम्। बोधिसत्त्वानां च महासत्त्वानां च षट्पारमिताप्रतिसंयुक्तमनुत्तरां सम्यक्संबोधिमारभ्य सर्वज्ञज्ञानपर्यवसानं धर्मं देशयति स्म॥



तस्य खलु पुनः कुलपुत्राः चन्द्रसूर्यप्रदीपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परेण परतरं चन्द्रसूर्यप्रदीप एव नाम्ना तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि। इति हि अजित एतेन परंपरोदाहारेण चन्द्रसूर्यप्रदीपनामकानां तथागतानामर्हतां सम्यक्संबुद्धानामेकनामधेयानामकेकुलगोत्राणां यदिदं भरद्वाजसगोत्राणां विंशतितथागतसहस्राण्यभूवन्।

तत्र अजित तेषां विंशतितथागतसहस्राणां पूर्वकं तथागतमुपादाय यावत् पश्चिमकस्तथागतः, सोऽपि चन्द्रसूर्यप्रदीपनामधेय एव तथागतोऽभूदर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। सोऽपि धर्मं देशितवान् आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम्। स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशितवान्। यदुत श्रावकाणां चतुरार्यसत्यसंयुक्तं प्रतीत्यसमुत्पादप्रवृत्तं धर्मं देशितवान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासानां समतिक्रमाय निर्वाणपर्यवसानम्। बोधिसत्त्वानां च महासत्त्वानां च षट्पारमिताप्रतिसंयुक्तमनुत्तरां सम्यक्संबोधिमारभ्य सर्वज्ञज्ञानपर्यवसानं धर्म देशितवान्॥



तस्य खलु पुनरजित भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूर्वं कुमारभूतस्यानभिनिष्क्रान्तगृहावासस्य अष्टौ पुत्रा अभूवन्। तद्यथा-मतिश्च नाम राजकुमारोऽभूत्। सुमतिश्च नाम राजकुमारोऽभूत्। अनन्तमतिश्च नाम, रत्नमतिश्च नाम, विशेषमतिश्च नाम, विमतिसमुद्धाटी च नाम, घोषमतिश्च नाम, धर्ममतिश्च नाम राजकुमारोऽभूत्। तेषां खलु पुनरजित अष्टानां राजकुमाराणां तस्य भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्यपुत्राणां विपुलर्द्धिरभूत्। एकैकस्य चत्वारो महाद्वीपाः परिभोगोऽभूत्। तेष्वेव च राज्यं कारयामासुः। ते तं भगवन्तमभिनिष्क्रान्तगृहावासं विदित्वा अनुत्तरां च सम्यक्संबोधिमभिसंबुद्धं श्रुत्वा सर्वराज्यपरिभोगानुत्सृज्य तं भगवन्तमनु प्रव्रजिताः। सर्वे च अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिता धर्मभाणकाश्चाभुवन्। सदा च ब्रह्मचारिणो बहुबुद्धशतसहस्रावरोपितकुशलमूलाश्च ते राजकुमारा अभुवन्॥



तेन खलु पुनरजित समयेन स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतोऽर्हन् सम्यक्संबुद्धो महानिर्देशं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषित्वा तस्मिन्नेव क्षणलवमुहूर्ते तस्मिन्नेव पर्षत्संनिपाते तस्मिन्नेव महाधर्मासने पर्यङ्कमाभुज्य अनन्तनिर्देशप्रतिष्ठानं नाम समाधिं समापन्नोऽभूदनिञ्जमानेन कायेन स्थितेन अनिञ्जमानेन चित्तेन। समनन्तरसमापन्नस्य खलु पुनस्तस्य भगवतो मान्दारवमहामान्दारवाणां मञ्जूषकमहामञ्जूषकाणां च दिव्यानां पुष्पाणां महत्पुष्पवर्षमभिप्रावर्षत्। तं भगवन्तं सपर्षदमभ्यवाकिरत्, सर्वावच्च तद् बुद्धक्षेत्रं षड्विकारं प्रकम्पितमभूत् चलितं संप्रचलितं वेधितं संप्रवेधितं क्षुभितं संप्रक्षुभितम्। तेन खलु पुनरजित समयेन तेन कालेन ये तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः संनिपतिता अभूवन् संनिषण्णाः, राजानश्च मण्डलिनो बलचक्रवर्तिनश्चतुर्द्वीपकचक्रवर्तिनश्च, ते सर्वे सपरिवारास्तं भगवन्तं व्यवलोकयन्ति स्म आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ताः। अथ खलु तस्यां वेलायां तस्य भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्य भ्रूविवरान्तरादूर्णाकोशादेका रश्मिर्निश्चरिता। सा पूर्वस्यां दिशि अष्टादशबुद्धक्षेत्रसहस्राणि प्रसृता। तानि च बुद्धक्षेत्राणि सर्वाणि तस्या रश्मेः प्रभया सुपरिस्फुटानि संदृश्यन्ते स्म, तद्यथापि नाम अजित एतर्ह्येतानि बुद्धक्षेत्राणि संदृश्यन्ते॥



तेन खलु पुनरजित समयेन तस्य भगवतो विंशतिबोधिसत्त्वकोट्यः समनुबद्धा अभुवन्। ये तस्यां पर्षदि धर्मश्रवणिकाः, ते आश्चर्यप्राप्ता अभूवन् अद्भुतप्राप्ता औद्बिल्यप्राप्ताः कौतूहलसमुत्पन्ना एतेन महारश्म्यवभासेनावभासितं लोकं दृष्ट्वा॥



तेन खलु पुनरजित समयेन तस्य भगवतः शासने वरप्रभो नाम बोधिसत्त्वोऽभूत्। तस्याष्टौ शतान्यन्तेवासिनामभूवन्। स च भगवांस्ततः समाधेर्व्युत्थाय तं वरप्रभं बोधिसत्त्वमारभ्य सद्धर्मपुण्डरीकं नाम धर्मपर्यायं संप्रकाशयामास। यावत् परिपूर्णान् षष्ट्यन्तरकल्पान् भाषितवान् एकासने निषण्णोऽसंप्रवेधमानेन कायेन अनिञ्जमानेन चित्तेन। सा च सर्वावती पर्षदेकासने निषण्णा तान् षष्ट्यन्तरकल्पांस्तस्य भगवतोऽन्तिकाद्धर्मं शृणोति स्म। न च तस्यां पर्षदि एकसत्त्वस्यापि कायक्लमथोऽभूत्, न च चित्तक्लमथः॥



अथ स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतोऽर्हन् सम्यक्संबुद्धः षष्टयन्तरकल्पानामत्ययात् तं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं निर्दिश्य तस्मिन्नेव क्षणलवमुहूर्ते परिनिर्वाणमारोचितवान् सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पुरस्तात्-अद्य भिक्षवोऽस्यामेव रात्र्यां मध्यमे यामे तथागतोऽनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति॥



अथ खल्वजित स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतोऽर्हन् सम्यक्संबुद्धः श्रीगर्भं नाम बोधिसत्त्वं महासत्त्वमनुत्तरायां सम्यक्संबोधौ व्याकृत्य तां सर्वावतीं पर्षदमामन्त्रयते स्म-अयं भिक्षवः श्रीगर्भो बोधिसत्त्वो ममानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। विमलनेत्रो नाम तथोगतोऽर्हन् सम्यक्संबुद्धो भविष्यति॥



अथ खल्वजित स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यामेव रात्र्यां मध्यमे यामेऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः। तं च सद्धर्मपुण्डरीकं धर्मपर्यायं स वरप्रभो बोधिसत्त्वो महासत्त्वो धारितवान्। अशीतिं चान्तरकल्पांस्तस्य भगवतः परिनिर्वृतस्य शासनं स वरप्रभो बोधिसत्त्वो महासत्त्वो धारितवान् संप्रकाशितवान्। तत्र अजित ये तस्य भगवतोऽष्टौ पुत्रा अभूवन्, मतिप्रमुखाः, ते तस्यैव वरप्रभस्य बोधिसत्त्वस्यान्तेवासिनोऽभूवन्। ते तेनैव परिपाचिता अभूवन्ननुत्तरायां सम्यक्संबोधौ। तैश्च ततः पश्चाद्बहूनि बुद्धकोटीनयुतशतसहस्राणि दृष्टानि सत्कृतानि च। सर्वे च तेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। पश्चिमकश्च तेषां दीपंकरोऽभूत्तथागतोऽर्हन् सम्यक्संबुद्धः॥



तेषां च अष्टानामन्तेवासिशतानामेको बोधिसत्त्वोऽधिमात्रं लाभगुरुकोऽभूत् सत्कारगुरुको ज्ञातगुरुको यशस्कामः। तस्योद्दिष्टोद्दिष्टानि पदव्यञ्जनान्यन्तर्धीयन्ते न संतिष्ठन्ते स्म। तस्य यशस्काम इत्येव संज्ञाभूत्। तेनापि तेन कुशलमूलेन बहूनि बुद्धकोटीनयुतशतसहस्राण्यारागितान्यभूवन्। आरागयित्वा च सत्कृतानि गुरुकृतानि मानितानि पूजितान्यर्चितान्यपचायितानि। स्यात्खलु पुनस्ते अजित काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्यः स तेन कालेन तेन समयेन वरप्रभो नाम बोधिसत्त्वो महासत्त्वोऽभूद्धर्मभाणकः। न खलु पुनरेवं द्रष्टव्यम्। तत्कस्य हेतोः ? अहं स तेन कालेन तेन समयेन वरप्रभो नाम बोधिसत्त्वो महासत्त्वोऽभूद्धर्मभाणकः। यश्चासौ यशस्कामो नाम बोधिसत्त्वोऽभूत् कौसीद्यप्राप्तः, त्वमेव अजित स तेन कालेन तेन समयेन यशस्कामो नाम बोधिसत्त्वोऽभूत् कौसीद्यप्राप्तः। इति हि अजित अहमनेन पर्यायेणेदं भगवतः पूर्वनिमित्तं दृष्ट्वा एवंरूपां रश्मिमुत्सृष्टामेवं परिमीमांसे, यथा भगवानपि तं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषितुकामः॥



अथ खलु मञ्जुश्रीः कुमारभूत एतमेवार्थं भूयस्या मात्रया प्रदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत-



अतीतमध्वानमनुस्मरामि

अचिन्तिये अपरिमितस्मि कल्पे।

यदा जिनो आसि प्रजान उत्तम-

श्चन्द्रस्य सूर्यस्य प्रदीप नाम॥५७॥



सद्धर्म देशेति प्रजान नायको

विनेति सत्त्वान अनन्तकोट्यः।

समादपेती बहुबोधिसत्त्वा-

नचिन्तियानुत्तमि बुद्धज्ञाने॥५८॥



ये चाष्ट पुत्रास्तद तस्य आसन्

कुमारभूतस्य विनायकस्य।

दृष्ट्वा च तं प्रव्रजितं महामुनिं

जहित्व कामाँल्लघु सर्वि प्राव्रजन्॥५९॥



धर्मं च सो भाषति लोकनाथो

अनन्तनिर्देशवरं ति सूत्रम्।

नामेव वैपुल्यमिदं प्रवुच्यति

प्रकाशयी प्राणिसहस्रकोटिनाम्॥६०॥



समनन्तरं भाषिय सो विनायकः

पर्यङ्क बन्धित्व क्षणस्मि तस्मिन्।

अनन्तनिर्देशवरं समाधिं

धर्मासनस्थो मुनिश्रेष्ठ ध्यायी॥६१॥



दिव्यं च मान्दारववर्षमासी-

दघट्टिता दुन्दुभयश्च नेदुः।

देवाश्च यक्षाश्च स्थितान्तरीक्षे

कुर्वन्ति पूजां द्विपदोत्तमस्य॥६२॥



सर्वं च क्षेत्रं प्रचचाल तत्क्षणम्

आश्चर्यमत्यद्भुतमासि तत्र।

रश्मिं च एकां प्रमुमोच नायको

भ्रुवान्तरात्तामतिदर्शनीयाम्॥६३॥



पूर्वां च गत्वा दिश सा हि रश्मि-

रष्टादशक्षेत्रसहस्र पूर्णा।

प्रभासयं भ्राजति सर्वलोकं

दर्शेति सत्त्वान च्युतोपपादम्॥६४॥



रत्नामया क्षेत्र तथात्र केचि-

द्वैडूर्यनिर्भास तथैव केचित्।

दृश्यन्ति चित्रा अतिदर्शनीया

रश्मिप्रभासेन विनायकस्य॥६५॥



देवा मनुष्यास्तथ नाग यक्षा

गन्धर्व तत्राप्सरकिन्नराश्च।

ये चाभियुक्ताः सुगतस्य पूजया

दृश्यन्ति पूजेन्ति च लोकधातुषु॥६६॥



बुद्धाश्च दृश्यन्ति स्वयं स्वयंभुवः

सुवर्णयूपा इव दर्शनीयाः।

वैडूर्यमध्ये च सुवर्णबिम्बं

पर्षाय मध्ये प्रवदन्ति धर्मम्॥६७॥



तहि श्रावकाणां गणना न विद्यते

ते चाप्रमाणाः सुगतस्य श्रावकाः।

एकैकक्षेत्रस्मि विनायकानां

रश्मिप्रभा दर्शयते हि सर्वान्॥६८॥



वीर्यैरुपेताश्च अखण्डशीला

अच्छिद्रशीला मणिरत्नसादृशाः।

दृश्यन्ति पुत्रा नरनायकानां

विहरन्ति ये पर्वतकन्दरेषु॥६९॥



सर्वस्वदानानि परित्यजन्तः

क्षान्तीबला ध्यानरताश्च धीराः।

बहुबोधिसत्त्वा यथ गङ्गवालिकाः

सर्वेऽपि दृश्यन्ति तया हि रश्म्या॥७०॥



अनिञ्जमानाश्च अवेधमानाः।

क्षान्तौ स्थिता ध्यानरताः समाहिताः।

दृश्यन्ति पुत्राः सुगतस्य औरसा

ध्यानेन ते प्रस्थित अग्रबोधिम्॥७१॥



भूतं पदं शान्तमनास्रवं च

प्रजानमानाश्च प्रकाशयन्ति।

देशेन्ति धर्मं बहुलोकधातुषु

सुगतानुभावादियमीदृशी क्रिया॥७२॥



दृष्ट्वा च ता पर्ष चतस्र तायिन-

श्चन्द्रार्कदीपस्य इमं प्रभावम्।

हर्षस्थिताः सर्वि भवित्व तत्क्षण-

मन्योन्य पृच्छन्ति कथं नु एतत्॥७३॥



अचिराच्च सो नरमरुयक्षपूजितः

समाधितो व्युत्थित लोकनायकः।

वरप्रभं पुत्र तदाध्यभाषत

यो बोधिसत्त्वो विदु धर्मभाणकः॥७४॥



लोकस्य चक्षुश्च गतिश्च त्वं विदु-

र्वैश्वासिको धर्मधरश्च मह्यम्।

त्वं ह्यत्र साक्षी मम धर्मकोशे

यथाहु भाषिष्यि हिताय प्राणिनाम्॥७५॥



संस्थापयित्वा बहुबोधिसत्त्वान्

हर्षित्व संवर्णिय संस्तवित्वा।

प्रभाषते तज्जिन अग्रधर्मान्

परिपूर्ण सो अन्तरकल्प षष्टिम्॥७६॥



यं चैव सो भाषति लोकनाथो

एकासनस्थः प्रवराग्रधर्मम्।

तं सर्वमाधारयि सो जिनात्मजो

वरप्रभो यो अभु धर्मभाणकः॥७७॥



सो चो जिनो भाषिय अग्रधर्मं

प्रहर्षयित्वा जनतामनेकाम्।

तस्मिंश्च दिवसे वदते स नायकः

पुरतो हि लोकस्य सदेवकस्य॥७८॥



प्रकाशिता मे इय धर्मनेत्री

आचक्षितो धर्मस्वभाव यादृशः।

निर्वाणकालो मम अद्य भिक्षवो

रात्रीय यामस्मिह मध्यमस्मिन्॥७९॥



भवथाप्रमत्ता अधिमुक्तिसारा

अभियुज्यथा मह्य इमस्मि शासने।

सुदुर्लभा भोन्ति जिना महर्षयः

कल्पान कोटीनयुतान अत्ययात्॥८०॥



संतापजाता बहुबुद्धपुत्रा

दुःखेन चोग्रेण समर्पिताभवन्।

श्रुत्वान घोषं द्विपदोत्तमस्य

निर्वाणशब्दं अतिक्षिप्रमेतत्॥८१॥



आश्वासयित्वा च नरेन्द्रराजा

ताः प्राणकोट्यो बहवो अचिन्तियाः।

मा भायथा भिक्षव निर्वृते मयि

भविष्यथ बुद्ध ममोत्तरेण॥८२॥



श्रीगर्भ एषो विदु बोधिसत्त्वो

गतिं गतो ज्ञानि अनास्रवस्मिन्।

स्पृशिष्यते उत्तममग्रबोधिं

विमलाग्रनेत्रो ति जिनो भविष्यति॥८३॥



तामेव रात्रिं तद यामि मध्यमे

परिनिर्वृतो हेतुक्षये व दीपः।

शरीर वैस्तारिकु तस्य चाभूत्

स्तूपान कोटीनयुता अनन्तका॥८४॥



भिक्षुश्च तत्रा तथ भिक्षुणीयो

ये प्रस्थिता उत्तममग्रबोधिम्।

अनल्पकास्ते यथ गङ्गबालिका

अभियुक्त तस्यो सुगतस्य शासने॥८५॥



यश्चापि भिक्षुस्तद धर्मभाणको

वरप्रभो येन स धर्म धारितः।

अशीति सो अन्तरकल्प पूर्णां

तहि शासने भाषति अग्रधर्मान्॥८६॥



अष्टाशतं तस्य अभूषि शिष्याः

परिपाचिता ये तद तेन सर्वे।

दृष्टा च तेभिर्बहुबुद्धकोट्यः

सत्कारु तेषां च कृतो महर्षिणाम्॥८७॥



चर्यां चरित्वा तद आनुलोमिकीं

बुद्धा अभूवन् बहुलोकधातुषु

परस्परं ते च अनन्तरेण

अन्योन्य व्याकर्षु तदाग्रबोधये॥८८॥



तेषां च बुद्धान परंपरेण

दीपंकरः पश्चिमको अभूषि।

देवातिदेवो ऋषिसंघपूजितो

विनीतवान् प्राणिसहस्रकोट्यः॥८९॥



यश्चासि तस्यो सुगतात्मजस्य

वरप्रभस्यो तद धर्म भाषतः।

शिष्यः कुसीदश्च स लोलुपात्मा

लाभं च ज्ञानं च गवेषमाणः॥९०॥



यशोर्थिकश्चाप्यतिमात्र आसीत्

कुलाकुलं च प्रतिपन्नमासीत्।

उद्देश स्वाध्यायु तथास्य सर्वो

न तिष्ठते भाषितु तस्मि काले॥९१॥



नामं च तस्यो इममेवमासीद्

यशकामनाम्ना दिशतासु विश्रुतः।

स चापि तेनाकुशलेन कर्मणा

कल्माषभूतेनभिसंस्कृतेन॥९२॥



आरागयी बुद्धसहस्रकोट्यः

पूजां च तेषां विपुलामकार्षीत्।

चीर्णा च चर्या वर आनुलोमिकी

दृष्टश्च बुद्धो अयु शाक्यसिंहः॥९३॥



अयं च सो पश्चिमको भविष्यति

अनुत्तरां लप्स्यति चाग्रबोधिम्।

मैत्रेयगोत्रो भगवान् भविष्यति

विनेष्यति प्राणसहस्रकोट्यः॥९४॥



कौसीद्यप्राप्तस्तद यो बभूव

परिनिर्वृतस्य सुगतस्य शासने।

त्वमेव सो तादृशको बभूव

अहं च आसीत्तद धर्मभाणकः॥९५॥



इमेन हं कारणहेतुनाद्य

दृष्ट्वा निमित्तं इदमेवरूपम्।

ज्ञानस्य तस्य प्रथितं निमित्तं

प्रथमं मया तत्र वदामि दृष्टम्॥९६॥



ध्रुवं जिनेन्द्रोऽपि समन्तचक्षुः

शाक्याधिराजः परमार्थदर्शी।

तमेव यं इच्छति भाषणाय

पर्यायमग्रं तदद्यो मया श्रुतः॥९७॥



तदेव परिपूर्ण निमित्तमद्य

उपायकौशल्य विनायकानाम्।

संस्थापनं कुर्वति शाक्यसिंहो

भाषिष्यते धर्मस्वभावमुद्राम्॥९८॥



प्रयता सुचित्ता भवथा कृताञ्जली

भाषिष्यते लोकहितानुकम्पी।

वर्षिष्यते धर्ममनन्तवर्षं

तर्पिष्यते ये स्थित बोधिहेतोः॥९९॥



येषां च संदेहगतीह काचिद्

ये संशया या विचिकित्स काचित्।

व्यपनेष्यते ता विदुरात्मजानां

ये बोधिसत्त्वा इह बोधिप्रस्थिताः॥१००॥



इत्यार्यसद्धर्मपुण्डरीके धमपर्याये निदानपरिवर्तो नाम प्रथमः॥१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project