Digital Sanskrit Buddhist Canon

शालिस्तम्बसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Śālistambasūtram

शालिस्तम्बसूत्रम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुसहस्रैः संबहुलैश्च बोधिसत्त्वमहासत्त्वैः। अथायुष्मान् शारिपुत्रो येन मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य चंक्रमः, तेनोपसमक्रमीत्। उपसंक्रम्य अन्योन्यं संमोदनीयां कथां बहुविधां व्यतिसारयित्वा उभौ शिलातले उपाविशताम्॥



अथायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्-अद्यात्र शालिस्तम्बमवलोक्य मैत्रेय भगवता भिक्षुभ्यः सूत्रमिदमुक्तम्-यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति, स धर्मं पश्यति। यो धर्मं पश्यति, स बुद्धं पश्यति। इत्युक्त्वा भगवांस्तूष्णीं बभूवं। अथ मैत्रेय सुगतोक्तसूत्रान्तस्य अर्थः कतमः ? प्रतीत्यसमुत्पादः कतमः ? धर्म कतमः ? बुद्धः कतमः ? कथं प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यति ? कथं धर्मं पश्यन् बुद्धं पश्यति ?



एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-अत्र यदुक्तं भदन्त शारिपुत्र भगवता धर्मस्वामिना सर्वज्ञेन-यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति, स धर्मं पश्यति। यो धर्मं पश्यति, स बुद्धं पश्यति इति, तत्र कतमः प्रतीत्यसमुत्पादो नाम ? प्रतीत्यसमुत्पादो नाम यदिदम्-अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते। यदुत अविद्याप्रत्ययाः संस्काराः। संस्कारप्रत्ययं विज्ञानम्। विज्ञानप्रत्ययं नामरूपम्। नामरूपप्रत्ययं षडायतनम्। षडायतनप्रत्ययः स्पर्शः। स्पर्शप्रत्यया वेदना। वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानम्। उपादानप्रत्ययो भवः। भवप्रत्यया जाति। जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। तत्र अविद्यानिरोधात् संस्कारनिरोधः। संस्कारनिरोधाद्विज्ञाननिरोधः। विज्ञाननिरोधान्नामरूपनिरोधः। नामरूपनिरोधात् षडायतननिरोधः। षडायतननिरोधात् स्पर्शनिरोधः। स्पर्शनिरोधात् वेदनानिरोधः। वेदनानिरोधात् तृष्णानिरोधः। तृष्णानिरोधादुपादाननिरोधः। उपादाननिरोधाद्भवनिरोधः। भवनिरोधाज्जातिनिरोधः। जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति। अयमुच्यते प्रतीत्यसमुत्पादो भगवता॥



कतमो धर्मः ? आर्याष्टाङ्गिको मार्गः। तद्यथा-सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः। अयमुक्तो भगवता आर्याष्टाङ्गिको मार्गः फललाभनिर्वाणैकसंगृहीतो धर्मः॥



तत्र कतमो बुद्धो भगवान् ? यः सर्वधर्मावबोधाद्बुद्ध उच्यते, स आर्यप्रज्ञानेत्रः धर्मकायसमन्वितः शैक्षाशैक्षधर्मानिमान् पश्यति॥



तत्र कथं प्रतीत्यसमुत्पादं पश्यति ? इहोक्तं भगवता-य इमं प्रतीत्यसमुत्पादं सततसमितम्, अजीवं निर्जीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बनं शिवमभयमनाहार्यमव्ययमव्युपशमस्वभावं पश्यति, (स धर्मं पश्यति)। यस्तु एवं धर्मं सततसमितमजीवं निर्जीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बनं शिवमनाहार्यमव्ययमव्युपशमस्वभावं पश्यति, सोऽनुत्तरधर्मशरीरं बुद्धं पश्यति। आर्यधर्माभिसमये सम्यग्ज्ञानोपनयेनैव॥



प्रतीत्यसमुत्पाद इति कस्मादुच्यते ? सहेतुकः सप्रत्ययो नाहेतुको नाप्रत्ययः, तस्मात् प्रतीत्यसमुत्पाद इत्युच्यते। तत्र भगवता प्रतीत्यसमुत्पादलक्षणं संक्षेपेणोक्तमिदंप्रत्ययताफलम्। उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेषा धर्माणां धर्मता यावद्यैषा धर्मता धर्मस्थितिता धर्मनियामता प्रतीत्यसमुत्पादसमता तथता अविपरीततथता अनन्यतथता भूतता सत्यता अविपरीतता अविपर्ययता इति॥



अथ च पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पद्यते। कतमाभ्यां द्वाभ्याम् ? यदिदं हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च। सोऽपि द्विविधो द्रष्टव्यः-बाह्यश्च आध्यात्मिकश्च। तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमाः ? यदिदं बीजादङ्कुरः। अङ्कुरात्पत्रम्। पत्रात्काण्डम्। काण्डान्नालम्। नालाद्गण्डः। गण्डाद्गर्भम्। गर्भाच्छूकः। शूकात्पुष्पम्। पुष्पात् फलम्। असति बीजे अङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति। सति तु बीजे अङ्कुरस्याभिनिर्वृत्तिर्भवति, एवं यावत् सति पुष्पे फलस्याभिनिर्वृत्तिर्भवति। तत्र बीजस्य नैवं भवति-अहमङ्कुरमभिनिर्वर्तयामीति। अङ्कुरस्यापि नैवं भवति-अहं बीजेनाभिनिर्वर्तित इति। एवं यावत् पुष्पस्य नैवं भवति-अहं फलमभिनिर्वर्तयामीति। फलस्यापि नैवं भवति-अहं पुष्पेणाभिनिर्वर्तितमिति। अथ पुनः बीजे सति अङ्कुरस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवं यावत् पुष्पे सति फलस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवं बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः॥



कथं बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः ? षण्णां धातूना समुदायात्। कतमेषां षण्णां समवायात् ? यदिदं पृथिव्यप्तेजोवाय्वाकाशऋतुधातुसमवायाद्बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। तत्र पृथिवीधातुर्बीजस्य संधारणकृत्यं करोति। अब्धातुर्बीजं स्नेहयति। तेजोधातुर्बीजं परिपाचयति। वायुधातुर्बीजमभिनिर्हरति। आकाशधातुर्बीजस्यानावरणकृत्यं करोतीति। ऋतुरपि बीजस्य परिणामनाकृत्यं करोति। असत्सु एषु प्रत्ययेषु बीजादङ्कुरस्याभिनिर्वृत्तिर्न भवति। यदा बाह्यश्च पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशऋतुधातवश्चाविकला भवन्ति, ततः सवषां समवायाद्बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति। तत्र पृथिवीधातोर्नैवं भवति-अहं बीजस्य संधारणकृत्यं करोमीति। एवमब्धातोरपि नैवं भवति-अहं बीजं स्नेहयामीति। तेजोधातोरपि नैवं भवति-अहं बीजं परिपाचयामीति। वायुधातोरपि नैवं भवति-अहं बीजमभिनिर्हरामीति। आकाशधातोरपि नैवं भवति-अहं बीजस्यानावरणकृत्यं करोमीति। ऋतोरपि नैवं भवति-अहं बीजस्य परिणामनाकृत्यं करोमीति। बीजस्यापि नैवं भवति-अहं बीजं (अङ्कुरं?) अभिनिर्वर्तयामीति। अङ्कुरस्यापि नैवं भवति-अहमेभिः प्रत्ययैरभिनिर्वर्तित इति। अथ पुनः सत्सु एतेषु प्रत्ययेषु बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिभवति। एवं यावत् पुष्पे सति फलस्याभिनिर्वृत्तिर्भवति। स च अङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरकृतो न कालपरिणामितो न प्रकृतिसंभूतो ( न चैककारणाधीनो) नाप्यहेतुसमुत्पन्नः। अथ पुनः पृथिव्यप्तेजोवाय्वाकाशऋतुधातुसमवायाद् बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति। एवं बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः॥



तत्र बाह्यः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः। कतमैः पञ्चभिः ? न शाश्वततः, नोच्छेदतः, न संक्रान्तितः, परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः, तत्सदृशानुप्रबन्धतश्च। कथं न शाश्वतत इति ? यस्मादन्योऽङ्कुरः अन्यद्बीजम्। न च य एवाङ्कुरः तदेव बीजम्। न च निरुद्धाद्बीजादङ्कुर उत्पद्यते नाप्यनिरुद्धात्। बीजं पुनर्निरुध्यते, तदैवाङ्कुरश्चोत्पद्यते। तस्मान्न शाश्वततः। कथं नोच्छेदतः ? न च पूर्वनिरुद्धाद् बीजादङ्कुरो निष्पद्यते। नाप्यनिरुद्धात्। अपि च बीजं च निरुध्यते, तस्मिन्नेव समये अङ्कुर उत्पद्यते तुलादण्डोन्नामावनामवत्। अतो नोच्छेदतः॥ कथं न संक्रान्तितः ? विसदृशो बीजादङ्कुर इति। अतो न संक्रान्तितः॥ कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तं बीजमुप्यते, विपुलफलमभिनिर्वर्तयतीति। अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः॥ कथं तत्सदृशानुप्रबन्धतः ? यादृशं बीजमुप्यते, तादृशं फलमभिनिर्वर्तयतीति। अतस्तत्सदृशानुप्रबन्धतश्चेति॥ एवं बाह्यः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः॥



एवमाध्यात्मिकोऽपि प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पद्यते। कतमाभ्यां द्वाभ्याम् ? यदिदं हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः ? यदिदमविद्याप्रत्ययाः संस्काराः, यावज्जातिप्रत्ययं जरामरणमिति। अविद्या चेन्नाभविष्यत्, नैव संस्काराः प्रज्ञास्यन्ते। एवं यावज्जातिश्चेन्नाभविष्यत्, जरामरणं न प्रज्ञास्यते। अथ सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति। एवं यावज्जात्यां सत्त्यां जरामरणस्याभिनिर्वृत्तिर्भवति। तत्र अविद्याया नैवं भवति-अहं संस्कारानभिनिर्वर्तयामीति। संस्काराणामपि नैवं भवति-वयमविद्यया अभिनिर्वतिता इति। एवं यावज्जातेरपि नैवं भवति-अहं जरामरणमभिनिर्वर्तयामीति। जरामरणस्यापि नैवं भवति-अहं जात्याभिनिर्वर्तितमिति। अथ च सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः॥



कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः ? षण्णां धातूनां समवायात्। कतमेषां षण्णां धातूनां समवायात् ? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। तत्र आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतमः ? योऽयं कायस्य संश्लेषतः कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातुः। यः कायस्य अनुपरिग्रहकृत्यं करोति, अयमुच्यतेऽब्धातुः। यं कायस्य अशितपीतभक्षितं परिपाचयति, अयमुच्यते तेजोधातुः। यं कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः। यं कायस्यान्तःशौषिर्यमभिनिर्वर्तयति, अयमुच्यते आकाशधातुः। य कायस्य नामरूपाङ्कुरमभिनिर्वर्तयति, नडकलापयोगेन, पञ्चविज्ञानकायसंयुक्तं सास्रवं च मनोविज्ञानम्, अयमुच्यते विज्ञानधातुः। तत्र असतामेषां प्रत्ययानां कायस्योत्पत्तिर्नं भवति। यदा आध्यात्मिकः पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्च अविकला भवन्ति, ततः सर्वेषां समवायात् कायस्याभिनिर्वृत्तिर्भवति। तत्र पृथिवीधातोर्नैवं भवति-अहं कायस्य संश्लेषतः कठिनभावमभिनिर्वर्तयामीति। अब्धातोर्नैवं भवति-अहं कायस्य अनुपरिग्रहकृत्यं करोमीति। तेजोधातोरपि नैवं भवति-अहं कायस्य अशितपीतभक्षितं परिपाचयामीति। वायुधातोर्नैवं भवति-अहं कायस्य आश्वासप्रश्वासकृत्यं करोमीति। आकाशधातोर्नैवं भवति-अहं कायस्यान्तःशौषिर्यमभिनिर्वर्तयामीति। विज्ञानधातोर्नैवं भवति-अहं कायस्य नामरूपमभिनिर्वर्तयामीति। कायस्यापि नैवं भवति-अहमेभिः प्रत्ययैर्जनित इति। अथ च सत्सु एषु प्रत्ययेषु कायस्योत्पत्तिर्भवति॥



तत्र पृथिवीधातुर्नात्मा न सत्त्वो न जीवो न जन्तुः न मनजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित्। एवमब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुः नात्मा न सत्त्वो न जीवो न जन्तुः न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित्॥



तत्र अविद्या कतमा ? या एषामेव षण्णां धातूनामेकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वजीवजन्तुपोषपुरुषपुद्गलसंज्ञा मनुजमानवसंज्ञा अहंकारममकारसंज्ञा, एवमादि विविधमज्ञानम्। इयमुच्यते अविद्येति। एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते। तत्र ये रागद्वेषमोहा विषयेषु, अमी (अविद्याप्रत्ययाः) संस्कारा इत्युच्यन्ते। वस्तुप्रतिविज्ञप्तिर्विज्ञानम्। विज्ञानसहभुवश्चत्वारः स्कन्धा अरूपिणः उपादानाख्याः तन्नाम। रूपं चत्वारि महाभूतानि तानि चोपादाय रूपम्। तच्च नाम तच्च रूपमैकध्यमभिसंक्षिप्य तन्नामरूपम्। नामरूपसंनिश्रितानि इन्द्रियाणि षडायतनम्। त्रयाणां धर्माणां संनिपातः स्पर्शः। स्पर्शानुभवो वेदना । वेदनाध्यवसानं तृष्णा। तृष्णावैपुल्यमुपादानम्। उपादाननिर्जातं पुनर्भवजनकं कर्म भवः। भवहेतुकः स्कन्धप्रादुर्भावो जातिः। जातस्य स्कन्धपरिपाको जरा। जीर्णस्य स्कन्धस्य विनाशो मरणम्। म्रियमाणस्य संमूढस्य साभिष्वङ्गस्य अन्तःपरिदाहः शोकः। शोकोत्थमालपनं परिदेवः। पञ्चविज्ञानकायसंयुक्तमसातमनुभवनं दुःखम्। मनसिकारसंयुक्तं मानसं दुःखं दौर्मनस्यम्। ये चापि अन्ये एवमादयः क्लेशाः, ते उपायासा इति॥



तत्र महान्धकारार्थेन अविद्या। अभिसंस्कारार्थेन संस्काराः। विज्ञापनार्थेन विज्ञानम्। अन्योन्योपस्तम्भनार्थेन नामरूपम्। आयद्वारार्थेन षडायतनम्। स्पर्शनार्थेन स्पर्शः। अनुभवनार्थेन वेदना। परितर्षणार्थेन तृष्णा। उपादानर्थेन उपादानम्। पुनर्भवजननार्थेन भवः। स्कन्धप्रादुर्भावार्थेन जातिः। स्कन्धपरिपाकार्थेन जरा। विनाशार्थेन मरणम्। शोचनार्थेन शोकः। वचनपरिदेवनार्थेन परिदेवः। कायसंपीडनार्थेन दुःखम्। चित्तसंपीडनार्थेन दौर्मनस्यम्। उपक्लेशार्थेन उपायासाः॥



पुनरपरम्-तत्त्वेऽप्रतिपत्तिर्मिथ्याप्रतिपत्तिरज्ञानमविद्या। एवमविद्यायां सत्यां त्रिविधाः संस्कारा अभिनिर्वर्तन्ते-पुण्योपगा अपुण्योपगा आनेञ्ज्योपगाः। तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति। अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति। आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति। इदमुच्यते संस्कारप्रत्ययं विज्ञानमिति। विज्ञानसहभुवश्चत्वारोऽरूपिणः स्कन्धा नामरूपम्। तद्विज्ञानप्रत्ययं नामरूपमुच्यते। नामरूपविवृद्ध्या षड्भिरायतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते। तन्नामरूपप्रत्ययं षडायतनमित्युच्यते। षड्भ्यश्चायतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्ते। अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते। यज्जातीयः स्पर्शो भवति, तज्जातीया वेदना प्रवर्तते। इयमुच्यते स्पर्शप्रत्यया वेदनेति। यस्तां वेदनां विशेषेणास्वादयति अभिनन्दति अध्यवस्यति अध्यवसाय तिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते। आस्वादनाभिनन्दनाध्यवसानाध्यवसायस्थानादात्मप्रियरूपसातरूपैर्वियोगो मा भूदिति नित्यमपरित्यागाय यैवं प्रार्थना, इदमुच्यते तृष्णाप्रत्ययमुपादानम्। एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च, स उपादानप्रत्ययो भव इत्युच्यते। तत्कर्मनिर्जातानां पञ्चस्कन्धानामभिनिर्वृत्तिर्या, सा भवप्रत्यया जातिरित्युच्यते। जात्याभिनिर्वृत्तानां स्कन्धानामुपचयनपरिपाकाद्विनाशो भवति, तदिदं जातिप्रत्ययं जरामरणमित्युच्यते॥



एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादः अन्योन्यहेतुकः अन्योन्यप्रत्ययः। न नित्यो नानित्यो न संस्कृतो नासंस्कृतो नाहेतुको नाप्रत्ययो न वेदयिता न क्षयधर्मो न विनाशधर्मो न निरोधधर्मोऽनादिकालप्रवृत्तोऽनुच्छिन्नोऽप्रवर्तते नदीस्रोतवत्॥



यद्ययं द्वादशाङ्गः प्रतीत्यसमुत्पादोऽन्योन्यहेतुकोऽन्योन्यप्रत्ययः, न नित्यो नानित्यो न संस्कृतो नासंस्कृतो नाहेतुको नाप्रत्ययो न वेदयिता न क्षयधर्मो न विनाशधर्मो न निरोधधर्मोऽनादिकालप्रवृत्तोऽनुच्छिन्नोऽनुप्रवर्तते नदीस्रोतवत्, अथ च इमान्यस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वारि अङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते। कतमानि चत्वारि ? यदुत अविद्या तृष्णा कर्म विज्ञानं च। तत्र विज्ञानं बीजस्वभावत्वेन हेतुः। कर्म क्षेत्रस्वभावेन हेतुः। अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः। तत्र कर्मक्लेशा विज्ञानबीजं जनयन्ति। तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति। तृष्णा विज्ञानबीजं स्नेहयति। अविद्या विज्ञानबीजमवकिरति। असतामेषां प्रत्ययानां विज्ञानबीजस्याभिनिर्वृत्तिर्न भवति। तत्र कर्मणो नैवं भवति-अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति। तृष्णाया अपि नैवं भवति-अहं विज्ञानबीजं स्नेहयामीति। अविद्याया अपि नैवं भवति-अहं विज्ञानबीजमवकिरामीति। विज्ञानबीजस्यापि नैवं भवति-अहमेभिः प्रत्ययैर्जनितमिति। अथ च विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिष्यन्दितमविद्यया स्ववकीर्णं विरोहति। तत्रतत्र उपपत्त्यायतनप्रतिसंधौ मातुःकुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति। स च नामरूपाङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरकृतो न कालपरिणामितो न प्रकृतिसंभूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः। अथ च मातापितृसंयोगदृतुसमवायादन्येषां च प्रत्ययानां समवायात् तत्र तत्र आस्वादविद्धं विज्ञानबीजमुपपत्त्यायतनप्रतिसंघौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति, अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात्। तद्यथा-पञ्चभिः कारणैः चक्षुर्विज्ञानमुत्पद्यते। कतमैः पञ्चभिः ? यदुत चक्षुः प्रतीत्य रूपं च आलोकं च आकाशं च तज्जमनसिकारं च प्रतीत्य उत्पद्यते चक्षुर्विज्ञानम्। तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति। रूपं चक्षुर्विज्ञानस्य आलम्बनकृत्यं करोति। आलोकः अवभासकृत्यं करोति। आकाशमनावरणकृत्यं करोति। तज्जमनसिकारः समन्वाहारकृत्यं करोति। असतामेषां प्रत्ययानां चक्षुर्विज्ञानं नोत्पद्यते। यदा तु चक्षुराध्यात्मिकमायतनमविकलं भवति, एवं रूपालोकाकाशतज्जमनसिकाराश्च अविकला भवन्ति, ततः सर्वेषां समवायाच्चक्षुर्विज्ञानमुत्पद्यते। तत्र चक्षुषो नैवं भवति-अहं चक्षुर्विज्ञानस्याश्रयकृत्यं करोमीति। रूपस्यापि नैवं भवति-अहं चक्षुर्विज्ञानस्य आलम्बनकृत्यं करोमीति। आलोकस्यापि नैवं भवति-अहं चक्षुर्विज्ञानस्य अवभासकृत्यं करोमीति। आकाशस्यापि नैवं भवति-अहं चक्षुर्विज्ञानस्य अनावरणकृत्यं करोमीति। तज्जमनसिकारस्यापि नैवं भवति-अहं चक्षुर्विज्ञानस्य समन्वाहारकृत्यं करोमीति। चक्षुर्विज्ञानस्यापि नैवं भवति-अहमेभिः प्रत्ययैर्जनितमिति। अथ च पुनः सत्सु एषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर्भवति। एवं शेषाणामिन्द्रियाणां यथायोगं योज्यम्॥



तत्र न कश्चिद्धर्मोऽस्माल्लोकात् परलोकं संक्रामति। अस्ति च कर्मफलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात्। तद्यथा सुपरिशुद्धे आदर्शमण्डले मुखप्रतिबिम्बकं दृश्यते। न च तत्र आदर्शमण्डले मुखं संक्रामति। अस्ति च मुखप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात्। एवमस्माल्लोकात् न कश्चित् च्युतः, नाप्यन्यत्रोपपन्नः। अस्ति च कर्मफलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात्। तद्यथा चन्द्रमण्डलं चत्वारिंशद्योजनशतमूर्ध्वं व्रजति। अथ च पुनः परीत्तेऽभ्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते। न च चन्द्रमण्डलं तस्मात्स्थानाच्च्युतम्, परीत्ते उदकस्य भाजने संक्रान्तं भवति। अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात्। एवमस्माल्लोकान्न कश्चित् च्युतः, नाप्यन्यत्रोपपन्नः। अस्ति च कर्मफलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात्॥



तद्यथा अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति, एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्र उपपत्त्यायतनप्रतिसंघौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति, अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात्। एवं आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः॥



तत्र आध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः। कतमैः पञ्चभिः ? न शाश्वततः, नोच्छेदतः, न संक्रान्तितः, परीत्तहेतुतो विपुलफलाभिनिर्वृत्ततः, तत्सदृशानुप्रबन्धतश्चेति। कथं न शाश्वततः ? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः, न तु य एवं मारणान्तिकाः स्कन्धाः, त एव औपपत्त्यंशिकाः। अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति। अतो न शाश्वततः॥ कथं नोच्छेदतः ? न च पूर्वनिरुद्धेषु मारणान्तिकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति, नाप्यनिरुद्धेषु। अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति तुलादण्डोन्नामावनामवत्। अतो नोच्छेदतः॥ कथं न संक्रान्तितः ? विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति। अतो न संक्रान्तितः। कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तं कर्म क्रियते, विपुलः फलविपाकोऽनुभूयते। अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः॥ कथं तत्सदृशानुप्रबन्धतः ? यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाकोऽनुभूयते। अतस्तत्सदृशानुप्रबन्धतश्च॥ एवमाध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः॥



यः कश्चिद् भदन्त शारिपुत्र इमं प्रतीत्यसमुत्पादं भगवता सम्यक्प्रणीतमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं निर्जीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बं शिवमभयमनाहार्यमव्ययमव्युपशमस्वभावं पश्यति, असतः तुच्छतः रिक्ततः असारतः रोगतः गण्डतः शल्यतः अघतः अनित्यतः दुःखतः शून्यतः अनात्मतः समनुपश्यति, न स पूर्वान्तं प्रतिसरति-किं न्वहमभूवमतीतेऽध्वनि, कथं न्वहमभूवमतीतेऽध्वनि इति। अपरान्तं वा न पुनः प्रतिसरति-किं न्वहं भविष्याम्यनागतेऽध्वनि, आहोस्विन्न भविष्याम्यनागतेऽध्वनि, को नु भविष्याम्यनागतेऽध्वनि, कथं नु भविष्याम्यनागतेऽध्वनि इति। प्रत्युत्पन्नं वा पुनर्नं प्रतिसरति-किं न्विदम्, कथं न्विदम्, के सन्तः के भविष्यामः, इमे सत्त्वाः कुत आगताः, इतश्च्युताः कुत्र गमिष्यन्तीति। यानि एकेषां श्रमणब्राह्मणानां पृथग् लोके दृष्टिगतानि भविष्यन्ति, तद्यथा-आत्मवादप्रतिसंयुक्तानि सत्त्ववादप्रतिसंयुक्तानि जीववादप्रतिसंयुक्तानि पुद्गलवादप्रतिसंयुक्तानि कौतुकमङ्गलवादप्रतिसंयुक्तानि उन्मिञ्जितानि निमिञ्जितानि च, तान्यस्य तस्मिन् समये प्रहीणानि भवन्ति परिज्ञातानि समुच्छिन्नमूलानि तालमस्तकवदनाभासगतानि आयत्यामनुत्पादानिरोधधर्माणि॥



यो भदन्त शारिपुत्र एवंविधधर्मक्षान्तिसमन्वितः प्रतीत्यसमुत्पादं सम्यगवगच्छति, तस्य तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकवित् पुरुषदम्यसारथिरनत्तरः शास्ता देवमनुष्याणां बुद्धो भगवान् सम्यक्संबोधिं व्याकरोति-सम्यक्संबुद्धो बुद्धो भविष्यसीति। मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन एवमुक्तम्॥



अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य भाषितमभिनन्द्य अनुप्रमोद्य उत्थायासनात् प्रक्रान्तः। प्रक्रान्तास्ते च भिक्षवः॥



आर्यशालिस्तम्बं नाम महायानसूत्रं संपूर्णम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project