Digital Sanskrit Buddhist Canon

विमलकीर्तिनिर्देश सूत्रम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
विमलकीर्तिनिर्देश सूत्रम्

Chapter १
नमः सर्वबुद्धबोधिसत्वेभ्यः //

$१ एवं मया श्रुतम् / एकस्मिन् समये भगवान् वैशाल्यां विहरति स्म , आम्रपालीवने महता भिक्षुसम्घेन सार्धम् अष्टाभिर् भिक्षुसहस्रैः ,

$२ सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैः ,

$३ द्वात्रिंशता च बोधिसत्वसहस्रैर् अभिज्ञानाभिज्ञातैः सर्वैर् महाभिज्ञापरिकर्मनिर्यातैः , बुद्धाधिष्ठानाधिष्ठितैः, सद्धर्मनगरपालैः , सद्धर्मपरिग्राहकैः , महासिंहनादनादिभिः , दशदिग्विघुष्टशब्दैः , सर्वसत्वानध्येषितकल्याणमित्रैः , त्रिरत्नवंशानुपच्छेतृभिः , निहतमारप्रत्यर्थिकैः , सर्वपरप्रवाद्यनभिभूतैः , स्मृतिसमाधिधारणीसंपन्नैः , सर्वनिवरणपर्युत्थानविगतैः , अनावरणविमोक्षप्रतिष्ठितैः , अनाच्छेद्यप्रतिभानैः , दानदमनियमसंयमशीलक्षान्तिवीर्यध्यानप्रज्ञोपायनिर्यातैः , अनुपलम्भानुत्पत्तिकधर्मक्षान्तिसमन्वागतैः , अवैवर्तिकधर्मचक्रप्रवर्तकैः , अलक्षणमुद्रामुद्रितैः , सर्वसत्वेन्द्रियज्ञानकुशलैः , सर्वपर्षदनभिभूतवैशारद्यविक्रामिभिः , महापुण्यज्ञानसंभारोपचितैः , लक्षणानुव्यञ्जनसमलम्कृतकायैः , परमरूपधारिभिः , अपगतभूषणैः , मेरुशिखराभ्युद्गतयशःकीर्तिसमुद्गतैः , दृढवज्राध्याशयाभेद्यबुद्धधर्मप्रसादप्रतिलब्धैः , धर्मरत्नविकरणामृतजलसंप्रवर्षकैः , सर्वसत्वरुतरवितस्वराण्गघोषविशुद्धस्वरैः , गम्भीरधर्मप्रतीत्यावतारान्तानन्तदृष्टिवासनानुसम्धिसमुच्छिन्नैः , विगतभयसिंहोपमनादिभिः , तुल्यातुल्यसमतिक्रान्तैः , धर्मरत्नप्रज्ञासमुदानीतमहासार्थवाहैः , ऋजुसूक्ष्ममृदुदुर्दृशदुरनुबोधसर्वधर्मकुशलैः , आगतिसत्वाशयमतिं अनुप्रविष्टज्ञानविषयिभिः असमसमबुद्धज्ञानाभिषेकाभिषिक्तैः , दशबलवैशारद्यावेणिकबुद्धधर्माध्याशयगतैः , सर्वापायादुर्गतिविनिपातोत्क्षिप्तपरिखैः , सम्चिन्त्यभवगत्युपपत्तिसम्दर्शय्तिऋभिः , महावैद्यराजैः , सर्वसत्वविनयविधिज्ञैः , यथार्हधर्मभिषज्यप्रयोगप्रत्युक्तैः , अनन्तगुणाकरसमन्वागतैः , अनन्तबुद्धक्षेत्रगुणव्यूहसमलम्कृतैः , अमोघश्रवणदर्शनैः , अमोघपदविक्रमैः , अपरिमितकल्पकोटीनियुतशतसहस्रगुणपरिकीर्तनापर्यन्तगुणौघैः /

$४ तद्यथा समदर्शिना च नाम बोधिसत्वेन महासत्वेन, समविषमदर्शिना च, समाधिविकुर्वणराजेन च, धर्मेश्वरेण च, धर्मकेतुना च, प्रभाकेतुना च, प्रभाव्यूहेन च, महाव्यूहेन च, रत्नकूटेन च, प्रतिभानकूटेन च, रत्नमुद्राहस्तेन च, नित्योत्क्षिप्तहस्तेन च, नित्योपलकृतहस्तेन च, नित्योकण्ठितेन च, नित्यप्रहसितप्रमुदितेन्द्रियेण च, प्रामोद्यराजेन च, देवराजेन च, प्रणिधिप्रयातप्राप्तेन च, प्रतिसंवित्प्रणादप्राप्तेन च, गगनगञ्जेन च, रत्नोल्काधारिणा च, रत्नवीरेण च, रत्नश्रिया च, रत्ननन्दिना च, इन्द्रजालिना च, जालिनीप्रभेण च, अनारम्बणध्यायिना च, प्रज्ञाकूटेन च, रत्नजहेन च, मारप्रमर्दिना च, विद्युद्देवेन च, विकुर्वणराजेन च, लक्षणकूटेन च, लक्षणकूतसमतिक्रान्तेन च, सिंहघोषाभिगर्जितस्वरेण च, शैलशिखरसम्घट्टनराजेन च , गन्धहस्तिना च , गजगन्धहस्तिना च , सततोद्युक्तेन च , अनिक्षिप्तधुरेण च , सुमतिना च, सुजातेन च, पद्मश्रीगर्भेण च, पद्मव्यूहेन च, अवलोकितेश्वरेण च, महास्थामप्राप्तेन च, ब्रह्मजालिना च, रत्नयष्टिना च, मारजितेन च, क्षेत्रालम्कृतेन च, मणिरत्नच्छत्रेण च, सुवर्णचूडेन च, मणिचूडेन च, मैत्रेयेण च, मञ्जुश्रिया च कुमारभूतेन बोधिसत्वेन महासत्वेन, एवंप्रमुखैर् द्वात्रिंशता बोधिसत्वसहस्रैः /

$५ दशभिश् च ब्रह्मसहस्रैर् जटिब्रह्मप्रमुखैः, अनेकाच् चतुर्महाद्वीपकाल् लोकधातोर् अभ्यागतैर् भगवतो दर्शनायै वन्दनायै पर्युपासनायै ध्रमश्रवणाय च / ते तत्रव पर्षदि सम्निपतिताः / द्वादश च शक्रसहस्राण्य् अन्यान्येभ्यश् चतुर्महाद्वीपकेभ्यो 'भ्यागतानि तत्रव पर्षदि सम्निपतितान्य् अभूवन् / तथान्ये ऽपि महेशाख्यमहेशाख्याः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगास् तत्रव पर्षदि सम्निपतिता अभूवन् सम्निषण्णाः / तथा चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकाश् चोपसम्क्रान्ता अभूवन् /

$६ तत्र भगवान् अनेकशतसहस्रया प्रषदा परिवृतः पुरस्कृतो धर्मं देशयति स्म / सुमेरुर् इव पर्वतराजः सागरमध्याद् अभ्युद्गतः सर्वपर्षदम् अभिभूय भासते तपति विरोचते श्रीगर्भे सिंहासने निषण्णः /

$७ अथ रत्नाकरो बोधिसत्वो लिच्छविकुमारः सार्धं पञ्चमात्रैर् लिच्छविकुमारशतैः सप्तरत्नमयानि च्छत्राणि गृहीत्वा वैशाल्यां महानगर्यां निष्क्रम्य येनाम्रपालीवनं येन च भगवांस् तेनोपसम्क्रामत् / उपसम्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् सप्तकृत्वः प्रदक्षिणीकृत्य यथा परिगृहीतैस् तैश् छत्रैर् भगवन्तम् अभिच्छादयुति स्म / अभिच्छाद्यैकान्ते स्थितो ऽभूत् /

$८ समन्तरनिःसृष्तानि च तानि रत्नच्छत्राण्य् अथ तावद् एव बुद्धानुभावेनैकं महारत्नच्छत्रं संस्थितम् / तेन च महारत्नच्छत्रेणायं त्रिसाहस्रमहासाहस्रो लोकधातुः सर्वः सम्छादितः सम्दृश्यते स्म / यश् चास्मिंस् त्रिसाहस्रमहासाहस्रे लोकधाताव् आयामविस्तारः, स तस्मिन् महारत्नच्छत्रे सम्दृश्यते स्म / ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरवो महापर्वतराजा हिमवन्मुचिलिन्दमहामुचिलिन्दगन्धमादनरत्नपर्वता वा चक्रवाडमहाचक्रवाडाः, ते ऽपि सर्वे तस्मिन्न् एवैकमहारत्नच्छत्रे सम्दृश्यन्ते स्म / ये ऽपीह त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रा वा सरस्तडागानि वा नदीकुनद्यः स्रवन्त्यो वा प्रवहन्ति, ता अपि सर्वास् तस्मिन्न् एवैकमहारत्नच्छत्रे सम्दृश्यन्ते स्म / यान्य् अपीह त्रिसाहस्रमहासाहस्रे लोकधातौ सूर्याचन्द्रमसां विमानानि तारारूपाणि वा देवभवनानि वा नागभवनानि वा यक्षभवनानि वा गन्धर्वासुरगरुडकिन्नरमहोरगभवनानि वा चातुर्महाराजभवनानि वा ग्रामनगरनिगमराष्ट्रराजधान्यो वा, तान्य् अपि सर्वाणि तस्मिन्न् एवैकमहारत्नच्छत्रे सम्दृश्यन्ते स्म / यापि च दशदिशि लोके बुद्धानां भगवतां धर्मदेशना प्रवर्तते, सापि तस्माद् एवैकमहारत्नच्छत्रान् निश्चरन्ती श्रूयते स्म /

$९ तत्र सा सर्वा पर्षद् आश्चर्यप्राप्ता भगवतो ऽन्तिकाद् इदम् एवंरूपं महाप्रातिहार्यं दृष्ट्वा तुष्टोदग्रात्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता तथागतं नमस्यती स्थितानिमिषं प्रेक्षमाणा /

$१० अथ खलु रत्नाकरो लिच्छविकुमारो भगवतो ऽन्तिकाद् इदम् एवंरूपं महाप्रातिहार्यं दृष्ट्वैकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिर् अभ्यष्टावीत्:

शुभशुद्धकमलवरपत्रविशालनेत्र
शुद्धाशया शमथपारमिताग्रप्राप्त /
शुभकर्मसम्चय विशालगुणाप्रमेय
वन्दामि त्वां श्रमणशान्तिपथप्रणेतुम् // १ //

पश्याथ ऋद्धि पुरुषर्षभनायकस्य
सम्दृश्यते सुगतक्षेत्रवरप्रकाशः /
अमृतम्गमा च वरधर्मकथा उदारा
सा सर्व श्रूयति इतो गगनतलातः // २ //

धर्मेण ते जितम् इदं वरधर्मराज्यं
धर्मं धनं च ददसे जगतो जितारे /
धर्मप्रभेदकुशलं परमार्थदर्शिन्
धर्मेश्वरं शिरसि वन्दमि धर्मराजम् // ३ //

न च नाम अस्ति न च नास्ति गिरं प्रभाषि
हेतुं प्रतीत्य इमि संभवि सर्वधर्माः /
नैवात्र आत्मन च कारकु वेदको वा
न च कर्मु नश्यति शुभं अशुभं च किम्चित् // ४ //

मारस् त्वयास्तु विजितस् सबलो मुनीन्द्रः
प्राप्ता शिवा अमृतशान्तवराग्रबोधिः /
यस्मिन्न् अवेदित न चित्तमनःप्रचारा
सर्वकुतीर्थकगणाश् च न यान्ति गाहम् // ५ //

चक्रं च ते त्रिपरिवर्ति बहुप्रकारं
प्रावर्तितं प्रशमनं प्रकृतीविशुद्धम् /
प्रत्यक्ष देवमनुजाद्भुतधर्मराजा
रत्नानि त्रीणि उपदर्शित तत्र काले // ६ //

ये तुभ्य धर्मरतनेन विनीत सम्यक्
तेषाम् अकल्पन पुनः सतते प्रशान्ता /
वैद्योत्तमं मरणजातिजरान्तकारिं
शिरसा नतो ऽस्मि गुणसागरम् अप्रमेयम् // ७ //

सत्कारसत्कृत न वेधसि मेरुकल्प
दुःशीलशीलवति तुल्यगताधिमैत्री /
गगनप्रकाशमनसे समताविहारी
को नाम सत्वरतने ऽस्मि न कुर्यु पूजाम् // ८ //

समागता ते जनता महामुने
मुखं उदीक्षन्ति प्रसन्नमानसा /
सर्वे च पश्यन्ति जिनं पुरस्ताज्
जिनस्य आवेणिकबुद्धलक्षणम् // ९ //

एकां च वाचं भगवान् प्रमुञ्चसे
नानारुतं च परिषद् विजानति /
यथास्वकं चार्थ विजानते जनो
जिनस्य आवेणिकबुद्धलक्षणम् // १० //

एकाय वाचाय उदीरिताय
वासेसि एके अपरे निविद्यसि /
आकाण्क्षतां काण्क्ष शमेसि नायको
जिनस्य आवेणिकबुद्धलक्षणम् // ११ //

वन्दामि त्वां दशबल सत्यविक्रमं
वन्दामि त्वाम् अभयगतं विशारदम् /
धर्मेषु आवेणिकनिश्चयं गतं
वन्दामि त्वां सर्वजगत्प्रणायकम् // १२ //

वन्दामि संयोजनबन्धनच्छिदं
वन्दामि त्वां पारगतं स्थले स्थितम् /
वन्दामि खिन्नस्य जनस्य तारकं
वन्दामि संसारगताव् अनिश्रितम् // १३ //

सत्वैर् समाधानगतं गतीगतं
गतीषु सर्वासु विमुक्तमानसम् /
जलेरुहं वा सलिले न लिप्यसे
निषेविता ते मुनिपद्म शून्यता // १४ //

विभाविता सर्वनिमित्त सर्वशो
न ते कहिम्चित् प्रणिधान विद्यते /
अचिन्तियं बुद्धमहानुभावं
वन्दे ऽहम् आकाशसमं अनिश्रितम् // १५ //

$११ अथ रत्नाकरो लिच्छविकुमारो भगवन्तम् आभिर् गाथाभिर् अभिष्टुत्य भगवन्तम् एतद् अवोचत् : इमानि भगवन् पञ्चमात्राणि लिच्छविकुमारशतानि सर्वाण्य् अनुत्तरायां सम्यक्संबोधौ संप्रस्थितानि / तानि चेमानि बुद्धक्षेत्रपरिशुद्धिं परिपृच्छन्ति - कतमा बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिर् इति / तत् साधु भगवन् देशयतु तथागतो ऽमीषां बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिम् /

एवम् उक्ते भगवान् रत्नाकराय लिच्छविकुमाराय साधुकारम् अदात् : साधु साधु कुमार / साधु खलु पुनस् त्वं कुमार यस् त्वं बुद्धक्षेत्रपरिशुद्धिम् आरभ्य तथागतं परिपृच्छसि / तेन हि कुमार शृणु साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते यथा बोधिसत्वानां बुद्धक्षेत्रपरिशुद्धिम् आरभ्य /

साधु भगवन् इति रत्नाकरो लिच्छविकुमारस् तानि च पञ्चमात्राणि लिच्छविकुमारशतानि भगवतः प्रत्यश्रौषुः /

भगवांस् तेषाम् एतद् अवोचत् :

$१२ सत्वक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम् / तत् कस्य हेतोः / यावन्तं बोधिसत्वः सत्वेषूपचयं करोति तावद् बुद्धक्षेत्रं परिगृह्णाति / यादृशः सत्वानां विनयो भवति तादृशं बुद्धक्षेत्रं परिगृह्णाति / यादृशेन बुद्धक्षेत्रावतारेण सत्वा बुद्धज्ञानम् अवतरन्ति तादृशं बुद्धक्षेत्रं परिगृह्णाति / यादृशेन बुद्धक्षेत्रावतारेण सत्वानाम् आर्याकाराणीद्रियाण्य् उत्पद्यन्ते तादृशं बुद्धक्षेत्रं परिगृह्णाति / तत् कस्य हेतोः / सत्वार्थनिर्जातं हि कुलपुत्र बोधिसत्वानां बुद्धक्षेत्रम् /तद्यथा रत्नाकर यादृशम् इच्छेद् आकाशं मापयितुं तादृशं मापयेत, न चाकाशं शक्यते मापयितुं नाप्य् अलम्कर्तुम् / एवं एव रत्नाकर आकाशसमान् सर्वधर्माञ् ज्ञात्वा, यादृशम् इच्छेद् बोधिसत्वः सत्वपरिपाकाय बुद्धक्षेत्रं मापयितुं तादृशं बुद्धक्षेत्रं मापयति, न च बुद्धक्षेत्राकाशता शक्यं मापयितुं नाप्य् अलम्कर्तुम् /

$१३ अपि च रत्नाकर,
आशयक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्याशठा अमायाविनः सत्वा बुद्धक्षेत्र उपपद्यन्ते /

अध्याशयक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धषेत्रं, तस्य बोधिप्राप्तस्य सर्वकुशलसंभारोपचिताः सत्वा बुद्धक्षेत्रे संभवन्ति /

प्रयोगक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वकुशलधर्मोपस्थिताः सत्वास् तत्र बुद्धक्षेत्र उपापद्यन्ते /

उदारो बोधिसत्वस्य बोधिचित्तोत्पादो बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य महायानसंप्रस्थिताः सत्वास् तत्र बुद्धक्षेत्रे संभवन्ति /

दानक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वपरित्यागिनः सत्वास् तत्र बुद्धक्षेत्रे संभवन्ति /

शीलक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रं, तस्य बोधिप्राप्तस्य सर्वाभिप्रायसंपन्ना देशकुशलकर्मपथसंरक्षकाः सत्वास् तत्र बुद्धक्षेत्रे संभवन्ति /

क्षान्तिक्षेत्रं कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रं, तस्य बोधिप्राप्तस्य द्वात्रिंशल्लक्षनालम्कृताः क्षाण्तिदमशमथपारमिप्राप्ताः सत्वा बुद्धक्षेत्रे संभवन्ति /

वीर्यक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य स्रवकुशलपर्येष्टिष्व् आरब्धवीर्याः सत्वा बुद्धक्षेत्रे संभवन्ति /

ध्यानक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य स्मृतिसंप्रजन्यसमाहिताः सत्वा बुद्धक्षेत्रे संभवन्ति /

प्रज्ञाक्षेत्रम् बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सम्यक्त्वनियताः सत्वा बुद्धक्षेत्रे संभवन्ति /

चत्वार्य् अप्रमाणानि च बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य मैत्रीकरुणामुदितोपेक्षाविहारिणः सत्वा बुद्धक्षेत्रे संभवन्ति /

चत्वारि सम्ग्रहवस्तूनि कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वविमुक्तिसम्गृहीताः सत्वा बुद्धक्षेत्रे संभवन्ति /

उपायकौशल्यं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वोपायमीमांसाकुशलाः सत्वा बुद्धक्षेत्रे संभवन्ति /

सप्तत्रिंशद्बोधिपक्षा धर्मा बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सम्यक्स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यण्गमार्गविधिज्ञाः सत्वा बुद्धक्षेत्रे संभवन्ति /

परिणामनाचित्तं बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वगुणालम्कारं बुद्धक्षेत्रं दृश्यते /

अष्टाक्षणप्रशमदेशना कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य सर्वापायसमुच्छिन्नम् अष्टाक्षणविगतं बुद्ध्क्षेत्रं संभवन्ति /

स्वयं शिक्षापदेषु वर्तमाना परापत्त्यचोदनता बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्यापत्तिशब्दो ऽपि बुद्धक्षेत्रे न संभवति /

दशकुशलकर्मपथपरिशुद्धिः कुलपुत्र बोधिसत्वस्य बुद्धक्षेत्रम्, तस्य बोधिप्राप्तस्य नियतायुषो महाभोगा ब्रह्मचारिणः सत्यानुपरिवर्तिन्या वाचालम्स्कृता मधुरवचना अभिन्नपर्षदो भिन्नसम्धानकुशला ईर्ष्याविगता अव्यापन्नचित्ताः सम्यग्दृष्टिसमन्वागताः सत्वा बुद्धक्षेत्रे संभवन्ति /

$१४ इति हि कुलपुत्र, यावन्तो बोधिसत्वस्य प्रयोगास् तावन्त आशयाः / यावन्त आशयास् तावन्तो ऽध्याशयाः / यावन्तो ऽध्याशयास् तावन्त्यो निध्यप्तयः / यावन्त्यो निध्यप्तयस् तावन्त्यः प्रतिपत्तयः / यावन्त्यः प्रतिपत्तयस् तावन्त्यः परिणामनाः / यावन्त्यः परिणामनास् तावन्त उपायाः / यावन्त उपायास् तावन्त्यः क्षेत्रपरिशुद्धयः / यादृशी क्षेत्रपरिशुद्धिस् तादृशी सत्वापरिशुद्धिः / यादृशी सत्वपरिशुद्धिस् तादृशी ज्ञानपरिशुद्धिः / यादृशी ज्ञानपरिशुद्धिस् तादृशी देशनापरिशुद्धिः / यादृशी देशनापरिशुद्धिस् तादृशी ज्ञानप्रतिपत्तिपरिशुद्धिः / यादृशी ज्ञानप्रतिपत्तिपरिशुद्धिस् तादृशी स्वचित्तपरिशुद्धिः /

तस्मात् तर्हि कुलपुत्र बुद्धक्षेत्रं परिशोधयितुकामेन बोधिसत्वेन स्वचित्तपरिशोधने यत्नः करणीयः / तत् कस्य हेतोः / यादृशी बोधिसत्वस्य चित्तपरिशुद्धिस् तादृशी बुद्धक्षेत्रपरिशुद्धिः संभवति /

$१५ अथ बुद्धानुभावेनायुष्मतः शारिपुत्रस्यैतद् अभवत् : यदि यादृशी चित्तपरिशुद्धिस् तादृशी बोधिसत्वस्य बुद्धक्षेत्रपरिशुद्धिः संभवति, तन् मा आहैव भगवतः शाक्यमुनेर् बोधिसत्वचर्यां चरतश् चित्तम् अपरिशुद्धं येनेदं बुद्धक्षेत्रम् एवम् अपरिशुद्धं सम्दृश्यते /

अथ खलु भगवान् आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् एतद् अवोचत् : तत् किं मन्यसे, शरीपुत्र मा आहैव सूर्याचन्द्रमसाव् अपरिशुद्धौ यज् जात्यन्धो न पश्यति /

आह : नो हीदम् भगवन् जात्यन्धापराध एष न सूर्यचन्द्रमसोः /
आह : एवम् एव शारिपुत्र सत्वानाम् अज्ञानापराध एष यस् तथागतस्य बुद्धक्षेत्रगुणालम्कारव्यूहं केचित् सत्वा न पश्यन्ति, न तत्र तथागतस्यापराधः / परिशुद्धं हि शारिपुत्र तथागतस्य बुद्धक्षेत्रं यूयं पुनर् इदं न पश्यथ /

$१६ अथ खलु जटी ब्रह्मा स्थविरं शारिपुत्रम् एतद् अवोचत् : मा भदन्तशारिपुत्र तथागतस्यापरिशुद्धं बुद्धक्षेत्रम् इदं व्याहार्षीत् / परिशुद्धं हि भदन्तशारिपुत्र भगवतो बुद्धक्षेत्रम् / तद्यथापि नाम शारिपुत्र वशवर्तिनां देवानां भवनव्यूहाः / ईदृशान् वयं बुद्धक्षेत्रगुणव्यूहान् भगवतः शाक्यमुनेः पश्यामः /

अथ खलु स्थविरः शारिपुत्रो जटिनं ब्रह्माणम् एतद् अवोचत् : वयं पुनर् ब्रह्मन् इमां महापृथिवीम् उत्कूलनिकूलां कण्टकप्रपातगिरिशेखरश्वभ्रगूथोडिगल्लप्रतिपूर्णां पश्यामः /

जटी ब्रह्माह : नूनं भदन्तशारिपुत्रस्योत्कूलनिकूलं चित्तम् अपरिशुद्धबुद्धज्ञानाशयं येनेदृशं बुद्धक्षेत्रं पश्यसि / ये पुनस् ते भदन्तशारिपुत्र बोधिसत्वाः सर्वसत्वसमचित्ताः परिशुद्धबुद्धज्ञानाशयास् ते इमं बुद्धक्षेत्रं परिशुद्धं पश्यन्ति /

$१७ अथ भगवान् पादाण्गुष्ठेन इमं त्रिसाहस्रमहासाहस्रं लोकधातुं पराहन्ति स्म / अथ खलु तस्मिन् समये ऽयं त्रिसाहस्रमहासाहस्रो लोकधातुर् अनेकरत्नशतसहस्रसम्चितो ऽनेकरत्नशतसहस्रप्रत्यर्पितः संस्थितो ऽभूत् / तद्यथापि नाम रत्नव्यूहस्य तथागतस्यानन्तगुणरत्नव्यूहो लोकधातुस् तादृशो ऽयं लोकधातुः सम्दृश्यन्ते स्म / तत्र सा सर्वावती पर्षद् आश्चर्यप्राप्ता रत्नपद्मनिषण्णम् आत्मानं सम्जानीते स्म /

$१८ तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: पश्यसि त्वं शारिपुत्र इमान् बुद्धक्षेत्रगुणव्यूहान् /

आह : पश्यामि भगवन् अदृष्टाश्रुतपूर्वा इमे व्यूहाः सम्दृश्यन्ते /
आह : इदृशं मम शारिपुत्र सदा बुद्धक्षेत्रम् / हीनसत्वपरिपाकाय तु तथागत एवं बहुदोषदुष्टं बुद्धक्षेत्रम् उपदर्शयति / तद्यथा शारिपुत्र देवपुत्राणाम् एकपात्र्यां भुञ्जानानां यथा पुण्योपचयविशेषेण सुधादेवभोजनम् उपतिष्ठतः, एवम् एव शारिपुत्र एकबुद्धक्षेत्रोपपन्ना यथा चित्तपरिशुद्ध्या सत्वा बुद्धानां बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति /

$१९ अस्मिन् खलु पुनर् बुद्धक्षेत्रगुणव्यूहालम्कारे सम्दर्श्यमाने चतुरशीतेः प्राणिसहस्राणाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि / यानि च तानि रत्नाकरेण लिच्छविकुमारेण सार्धं पञ्च लिच्छविकुमारशतान्य् आगतानि तेषाम् अप्य् आनुलोमिक्याः क्षान्तेः प्रतिलम्भो ऽभूत् /

$२० अथ भगवान् पुनर् एव ताम् ऋद्धिं प्रतिसंहरति स्म / ततः पुनर् एवेदं बुद्धक्षेत्रं तत्स्वभावम् एव संवृतम्, तत्र श्रावकयानिकाणां देवमनुष्यानां - अनित्या बत इमे सर्वसंस्कारा इति विदित्वा द्वात्रिंशता प्राणिसहस्राणां विरजोविगतमलं धर्मेषु धर्मचक्षुर् विशुद्धम् / अष्टानां च भिक्षुसहस्राणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि / चतुरशीतेश् च प्राणिसहस्राणाम् उदारबुद्धधर्माधिमुक्तानां - विठपनप्रत्युपस्थानलक्षणाः सर्वधर्मा इति विदित्वानुत्तरस्यां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि //

बुद्धक्षेत्रपरिशुद्धिनिदानपरिवर्तः प्रथमः //

Chapter २
$१ तेन खलु पुनः समयेन वैशाल्यां महानगर्यां विमलकीर्तिर् नाम लिच्छविः प्रतिवसति स्म / पूर्वजिनकृताधिकारः, अवरोपितकुशलमूलः, बहुबुद्धपर्युपासितः, प्रतिलब्धक्षान्तिकः, लब्धप्रतिभानः, महाभिज्ञाविक्रीडितः, धारणीप्रतिलब्धः, वैशारद्यप्राप्तः, निहतमारप्रत्यर्थिकः, गम्भीरधर्मनयसुप्रविष्टः, प्रज्ञापारमितानिर्जातः, उपायकौशल्यगतिम्गतः, प्रतिभानसमन्वागतः, सत्वाशयचरितकुशलः, इन्द्रियपरापरज्ञाननिर्यातः, यथाप्रत्यर्हधर्मदेशकः, कृतनिश्चयः कृतश्रम इह महायाने, सुपरीक्षितकर्मकारी, बुद्धेर्यापथप्रतिष्ठितः, सागरवरबुद्ध्यनुप्रविष्टः, सर्वबुद्धस्तुतस्तोमितप्रशंसितः, सर्वशक्रब्रह्मलोकपालनमस्कृतः, स सत्वपरिपाकायोपायकौशल्येन वैशाल्यां महानगर्यां प्रतिवसति स्म /

$२ अक्षयभोगो दरिद्रानाथसत्वसम्ग्रहाय / परिशुद्धशीलो दुःशीलसम्ग्रहाय / क्षमदमप्राप्तो दुष्टव्यापन्नक्रुधचित्तानां सत्वानां सम्ग्रहाय / उत्तप्तवीर्यः कुसीदानां सत्वानां सम्ग्रहाय / ध्यानस्मृतिसमाधिस्थितो विभ्रान्तचित्तानां सत्वानां सम्ग्रहाय / प्रज्ञानिश्चयप्राप्तो दुःप्रज्ञानां सत्वानां सम्ग्रहाय /

$३ अवदातवस्त्रधारी श्रमणेर्यापथसंपन्नः / गृहवासस्थितः कामधातुरूपधात्वारूप्यधात्वसंसृष्टः / भार्यापुत्रदारांश् च सम्दर्शयति, सदा च ब्रह्मचारी / परिवारपरिवृतश् च भवति, सदा च विवेकचारी / आभरणविभूषितश् च सम्दृश्यते, सदा च लक्षणपरिच्छिन्नः / अन्नपानभोजनजीवः सम्दृश्यते, सदा च ध्यानाहारः / सर्वद्यूतकरशालासु च सम्दृश्यते, द्यूतक्रीडासक्तचित्तांश् च सत्वान् परिपाचयति, सदा चाप्रमादचारी / सर्वपाषण्डप्रत्येषकश् च, बुद्धे चाभेद्याशयः / सर्वलौकिकलोकोत्तरशास्त्रविधिज्ञश् च, सदा च धर्मारामरतिरतः / सर्वसम्गणिकासु च सम्दृश्यते, सर्वत्र चाग्रपूजितः /

$४ धर्मवादी च वृद्धमध्यदह्रसहायकश् च लोकानुवर्तनाय /
सर्वव्यहारोद्युक्तश् च न च लाभभोगाभिलाषी /
सर्वचत्वरशृण्गाटकेषु च सम्दृश्यते सर्वसत्ववैनयिकतायै /
राजकार्यानुप्रविष्टश् च सत्वारक्षायै /
सर्वधर्मश्रवणसाम्कथ्येषु च सम्दृश्यते हीनयानविच्छन्दनाय महायाने समादापनतया /
सर्वलिपिशालासु चोपसम्क्रामति दारकपरिपाचनाय /
सर्वगणिकाकुलानि च प्रविशति कामदोषसम्दर्शनाय /
सर्वकल्लवालगृहाणि च प्रविशति स्मृतिसंप्रजन्योपस्थापनाय /

$५ श्रेष्ठिषु च श्रेष्ठिसंमतः श्रेष्ठधर्मारोचनतायै /
गृहपतिषु च गृहपतिसंमतः सर्वग्राहोद्ग्रहपरिच्छेदाय /
क्षत्रियेषु च क्षत्रियसंमतः क्षान्तिसौरत्यबलप्रतिष्ठापनाय /
ब्राह्मणेषु च ब्राह्मणसंमतो मानमददर्पनिर्घातनाय /
आमात्येषु चामात्यसंमतः सर्वराजकार्यसहधर्मनियोजनाय /
कुमारेषु च कुमारसंमतो राजभोगैश्वर्याभिलाषविनिवर्तनाय /
अन्तःपुरेषु च काञ्चुकीयसंमतः स्त्रीकुमारिकापरिपाचनाय /

$६ प्राकृतजनानुवर्तकश् च सामान्यपुण्यविशिष्टाध्यालम्बनाय /
शक्रेषु च शक्रसंमत ऐश्वर्यानित्यत्वसम्दर्शनाय /
ब्रह्मसु च ब्रह्मसंमतो विशेषज्ञानसम्द्रशनाय /
लोकपालेषु च लोकपालसंमतः सर्वसत्वपरिपालनाय /
इति हि विमलकीर्तिर् लिच्छविर् एवम् अप्रमाणोपायकौशलज्ञानसमन्वागतो वैशाल्यां महानगर्यां प्रतिवसति स्म /

$७ स उपायकौशल्येन ग्लानम् आत्मानम् उपदर्शयति स्म / तस्य ग्लानस्य वैशाल्यां महानगर्यां राजराजमहामात्रामात्यकुमारपारिषद्या ब्राह्मणगृहपतयः श्रेष्ठिनैगमजानपदास् तदन्यानि च बहूनि प्राणिसहस्राणि ग्लानपरिपृच्छकान्य् उपसम्क्रामन्ति स्म /

$८ तेषाम् उपसम्क्रान्तानां विमलकीर्तिर् लिच्छविः / इमम् एव चातुर्महाभौतिकं कायम् आरभ्य धर्मं देशयति स्म : एवम् अनित्यो ऽयं मार्षाः कायः, एवम् अध्रुवः, एवम् अनास्वासिकः, एवं दुर्बलः, एवम् असारः, एवं जर्जरः, एवम् इत्वरः, एवं दुःखः, एवम् आबाधिकः, एवं विपरिणामधर्मा, एवं बहुरोगभाजनो ऽयं मार्षाः कायः / तत्र पण्डितेन निश्रयो न कर्तव्यः /

$९ फेनपिण्डोपमो ऽयं मार्षाः कायो ऽपरिमर्दनक्षमः /
बुद्बुदोपमो ऽयं कायो ऽचिरस्थितिकः /
मरीच्युपमो ऽयं कायः क्लेशतृष्णासंभूतः /
कदलीस्कन्धोपमो ऽयं कायो ऽसारकत्वात् /
यन्त्रभूतो बत अयं कायो ऽस्थिस्नायुविनिबद्धः /
मायोपमो ऽयं कायो विपर्याससंभूतः /
स्वप्नोपमो ऽयं कायो वितथदर्शनः /
प्रतिभासोपमो ऽयं कायः पूर्वकर्मप्रतिभासतया सम्दृश्यते /
प्रतिश्रुत्कोपमो ऽयं कायः प्रत्ययाधीनत्वात् /
मेघोपमो ऽयं कायश् चित्ताकुलविगमलक्षणः /
विद्युत्सदृशो ऽयं कायः क्षणभण्गयुक्तो ऽनवस्थितः /
अस्वामिको ऽयं कायो नानाप्रत्ययसंभूतः /

$१० निर्व्यापारो ऽयं कायः पृथिवीसदृशः /
अनात्मो ऽयं कायो ऽप्सदृशः /
निर्जीवो ऽयं कायस् तेजःसदृशः /
निष्पुद्गलो ऽयं कायो वायुसदृशः /
निःस्वभावो ऽयं काय आकाशसदृशः /

$११ असंभूतो ऽयं कायो महाभूतानाम् आलयः /
शून्यो ऽयं काय आत्मात्मीयविगतः /
जडो ऽयं कायस् तृणकाष्ठकुड्यलोष्टप्रतिभाससदृशः /
निश्चेष्टो ऽयं कायो वातयन्त्रयुक्तो वर्तते /
रिक्तो ऽयं कायो ऽशुचिपूतिसम्चयः /
तुच्छो ऽयं काय उच्छादनपरिमर्दनविकिरणविध्वन्सनधर्मा /
उपद्रुतो ऽयं कायश् चतुरुत्तरैश् चतुर्भी रोगशतैः /
जीर्णोदपानसदृशो ऽयं कायः सदा जराभिभूतः /
पर्यन्तस्थायी बत अयं कायो मरणपर्यवसानः /
वधकाशीविषशून्यग्रामोपमो ऽयं कायः स्कन्धधात्वायतनपरिगृहीतः /

तत्र युष्माभिर् एवंरूपे काये निर्विद्विराग उत्पादयितव्यस् तथागतकाये च स्पृहोत्पादयितव्या /

$१२ धर्मकायो हि मार्षाः तथागतकायो दाननिर्जातः शीलनिर्जातः समाधिनिर्जातः प्रज्ञानिर्जातो विमुक्तिनिर्जातो विमुक्तिज्ञानदर्शननिर्जातः / मैत्रीकरुणामुदितोपेक्षानिर्जातः / दानदमसंयमनिर्जातः क्षान्तिसौरत्यनिर्जातो दृढवीर्यकुशलमूलनिर्जातो ध्यानविमोक्षसमाधिसमापत्तिनिर्जातः श्रुतप्रज्ञोपायनिर्जातः / सप्तत्रिंशद्बोधिपक्ष्यनिर्जातः शमथविदर्शनानिर्जातो दशबलनिर्जातश् चतुर्वैशारद्यनिर्जातः / अष्टादशावेणिकबुद्धधर्मनिर्जातः सर्वपारमितानिर्जातः / अभिज्ञाविद्यानिर्जातः सर्वाकुशलधर्मप्रहाणाय निर्जातः सर्वकुशलधर्मपरिग्रहनिर्जातः सत्यनिर्जातो भूतनिर्जातो ऽप्रमादनिर्जातः / अप्रमाणशुभकर्मनिर्जातो मार्षाः तथागतकायस् तत्र युष्माभिः स्पृहा कर्तव्या / सर्वसत्वानां च सर्वक्लेशव्याधिप्रहाणायानुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयितव्यानि /

$१३ एवं विमलकीर्तिर् लिच्छविस् तथा सम्निपतितानां तेषां ग्लानपरिपृछकानां तथा तथा धर्मं देशयति यद् बहूनि सत्वशतसहस्राण्य् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयन्ति //

अचिन्त्योपायकौशल्यपरिवर्तो नाम द्वितीयः //

Chapter ३
$१ अथ विमलकीर्तेर् लिच्छवेर् एतद् अभवत् : अहं च ग्लान आबाधिको मञ्चसमारूढः, न च मां तथागतो ऽर्हन् सम्यक्संबुद्धः समन्वाहरति, न च मे ग्लानपरिपृच्छकं कम्चित् प्रेषयत्य् अनुकम्पाम् उपादाय /

$२ समन्वाहृतश् च भगवता विमलकीर्तिर् लिच्छविः / अथ भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म : गच्छ त्वं शारिपुत्र विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

एवम् उक्त आयुष्माञ् शारिपुत्रो भगवन्तम् एतद् अवोचत् : नाहं भगवन् उत्सहे विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छको गन्तुम् / तत् कस्य हेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये ऽन्यतमस्मिन् वृक्षमूले प्रतिसंलीनो ऽभूवम् /

विमलकीर्तिश् च लिच्छविर् येन तद् वृक्षमूलं तेनोपसम्क्रम्य माम् एतद् अवोचत् :

$३ न भदन्तशारिपुत्र एवं प्रतिसंलयनं संलातव्यं यथा त्वं प्रतिसंलीनः / अपि तु तथा प्रतिसंलीयश् च यथा त्रैधातुके न कायश् चित्तं वा सम्दृश्यते / तथा प्रतिसंलीयश् च यथा निरोधाच् च न व्युतिष्ठसि सर्वेर्यापथेषु च सम्दृश्यसे / तथा प्रतिसंलीयश् च यथा प्राप्तिलक्षणं च न विजहासि पृथग्जनलक्षणेषु च सम्दृश्यसे / तथा प्रतिसंलीयश् च यथा ते न चाध्यात्मं चित्तम् अवस्थितं भवेन् न बहिर्धोपविचरेत् / तथा प्रतिसंलीयश् च यथा सर्वदृष्टिगतेभ्यश् च न चलसि सप्तत्रिंशत्सु च बोधिपक्ष्येषु धर्मेषु सम्दृश्यसे / तथा प्रतिसंलीयश् च यथा संसारावचरांश् च क्लेशान् न प्रजहासि निर्वाणसमवसरणश् च भवसि / ये भदन्तशारिपुत्र एवं प्रतिसंलयनं प्रतिसंलीयन्ते तेषां भगवान् प्रतिसंलयनम् अनुजानाति /

$४ सो ऽहं भगवन् एतां श्रुत्वा तूष्णीम् एवाभूवम् / न तस्य शक्नोम्य् उत्तरे प्रतिवचनं दातुम् / तन् नाहम् उत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् /

$५ तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते स्म : गच्छ त्वं मौद्गल्यायन विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

मौद्गल्यायनो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्य हेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये वैशाल्यां महानगर्याम् अन्यतमस्मिन् वीथीमुखे गृहपतिभ्यो धर्मं देशयामि / तत्र मां विमलकीर्तिर् लिच्छविर् उपसम्क्राम्यैवम् आह :

$६ न भदन्तमौद्गल्यायन गृहिभ्यो ऽवदातवसनेभ्य एवं धर्मो देशयितव्यो यथा भदन्तो देशयति / अपि तु तथा भदन्तमौद्गल्यायन धर्मो देशयितव्यो यथैव स धर्मः / धर्मो हि भदन्तमौद्गल्यायन असत्वः सर्वरजोविगतः, नैरात्म्यो रागरजोविगतः, निर्जीवो जातिच्युतिविगतः, निष्पुद्गलः पूर्वान्तापरान्तपरिच्छिन्नः, शान्त उपशान्तलक्षणः, विरागो ऽनारम्बणगतिकः, अनक्षरः सर्ववाक्यच्छेदः, अनुदाहारः सर्वोर्मिविगतः, सर्वत्रानुगत आकाशसमसदृशः, अवर्णलीण्गसंस्थानः सर्वप्रचारविगतः, अममो ममकारविगतः, अविज्ञप्तिश् चित्तमनोविज्ञानविगतः, असदृशो निष्प्रतिपक्षत्वात्, हेतुविलक्षणः प्रत्ययासमारोपः, धर्मधातु समवसरणः सर्वधर्मसमाहितः, तथतानुगतो ऽननुगमनयोगेन, भूतकोटिप्रतिष्ठितो त्यन्ताचलितत्वात्, अचलितः षडविषयानिश्रितत्वात्, न क्वचिद् गमनागमनो ऽनवस्थितत्वात्, शून्यतासमाहित आनिमित्तप्रभावितो ऽप्रणिहितलक्षणः, ऊहापोहविगतः, अनुत्क्षेपो ऽप्रक्षेपः, उत्पादभण्गविगतः, अनालयश् चक्षुःश्रोतघ्राणजिह्वाकायमनःपथसमतिक्रान्तः, अनुन्नतो ऽनवनतः, स्थितो ऽनेञ्ज्यं प्राप्तः, सर्वप्रचारविगतः /

$७ ईदृशस्य भदन्तमहामौद्गल्यायन धर्मस्य कीदृशी देशना / धर्मदेशनेति भदन्तमहामौद्गल्यायन समारोपपदम् एतत् / ये ऽपि शृण्वन्ति ते ऽपि समारोपेनैव शृण्वन्ति / यत्र भदन्तमौद्गल्यायन असमारोपपदं न तत्र देश्यते न श्रूयते न विज्ञायते / तद्यथा मायापुरुषो मायापुरुषेभ्यो धर्मं देशयति /

$८ एवं हि चित्तावस्थानेन धर्मो देशयितव्यः / सत्वेन्द्रियकुशलेन च ते भवितव्यम्, सुदृष्टप्रज्ञादर्शनेन महाकरुणामुखीभूतेन महायानसंवर्णकेन बुधेकृतज्ञेन शुद्धाशयेन धर्मनिरुक्तिविधिज्ञेन, त्रिरत्नवंशानुपच्छेदाय च ते धर्मो देशयितव्यः /

$९ तेन भगवन् तथा तथा धर्मो देशितो यथा ततो गृहपतिपर्षदो ऽष्टानां गृहपतिशतानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि / अहं च निष्प्रतिभानो ऽभूवम् / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरुपृच्छको गन्तुम् /

$१० तत्र भगवान् आयुष्मन्तं महाकाश्यपम् आमन्त्रयते स्म : गच्छ त्वं महाकाश्यप विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

महाकाश्यपो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् दरिद्रवीथ्यां पिण्डाय चरामि / तत्र मां विमलकीर्तिर् लिच्छविर् उपसम्क्रम्यैवम् आह :

$११ प्रादेशिकी भदन्तमहाकाश्यपस्य करुणामैत्री, यन् महाकुलान्य् उत्सृज्य दरिद्रकुलान्य् उपसम्क्रामसि / अपि तु भदन्तमहाकाश्यप धर्मसमताप्रतिष्ठितेन ते भवितव्यम् / सर्वदा सर्वसत्वसमन्वाहारेण पिण्डपातः पर्येष्टव्यः / अनाहारेण चाहारः पर्येष्टव्यः / परपिण्डग्राहापनयाय च ते पिण्डाय चरितव्यम् / शून्यग्रामाधिष्ठितेन च ग्रामः प्रवेष्टव्यः / नरनारीपरिपाकाय च ते नगरं प्रवेष्टव्यम् / बुद्धकुलकुलीनेन च ते कुलान्य् उपसम्क्रमितव्यानि /

$१२ अप्रतिग्रहणतया च पिण्डपातः प्रतिग्राह्यः / जात्यन्धसमतया च रूपाणि द्रष्टव्यानि / प्रतिश्रुतकोपमतया च शब्दाः श्रोतव्याः / वातसमतया च गन्धा घ्रातव्याः / अविज्ञप्तितो रसा आस्वादयितव्याः / ज्ञानास्पर्शनतया च स्पर्शाः स्प्रष्टव्याः / मायापुरुषविज्ञाप्त्या च धर्मा विज्ञातव्याः / यो ऽस्वभावो परभावश् च तद् अनुज्ज्वलितम् / यद् अनुज्ज्वलितं तन् न शाम्यति /

$१३ यदि स्थविरो महाकाश्यपो ऽष्टौ च मिथ्यात्वानि समतिक्रामेत्, अष्टौ च विमोक्षान् समापद्येत, मिथ्यासमतया च सम्यक्त्वसमताम् अवतरेत्, एकेन च पिण्डपातेन सर्वसत्वान् प्रतिपादयेत्, सर्वबुद्धान् सर्वार्यांश् च प्रतिपाद्य पश्चाद् आत्मना परिभुञ्जीत, तथा च परिभुञ्जीत यथा न सम्क्लेशो न विगतक्लेशः, परिभुञ्जीत न समाहितो न व्युत्थितः, न संसारस्थितो न निर्वाणस्थितः परिभुञ्जीत / ये च भदन्ताय पिण्डपातं ददति ते तेषां नाल्पफलं न महाफलं भवेत्, न च हानाय न विशेषाय गच्छेत्, बुद्धगतिसमवसरणाय च भवेत न श्रावकगतिसमवसरणाय / एवं स्थविरो महाकाश्यपो ऽमोघं राष्ट्रपिण्डं परिभुञ्जीत /

$१४ सो ऽहं भगवन् इमं धर्मनिर्देशं श्रुत्वाश्चर्यप्राप्तः सर्वबोधिसत्वान् नमस्यामि / गृहिणो ऽपि नामैवंरूपं प्रतिभानम्, को ऽनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादयेत् / ततः प्रभृति मे न कश्चित् सत्वः श्रावकयाने प्रत्येकबुद्धयाने वा समादापितपूर्वो ऽन्यत्र महायानात् / तन् नाहं भगवन् उत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् /

$१५ तत्र भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म : गच्छ त्वं सुभूते विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

सुभूतिर् अप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्य हेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये वैशाल्यां महानगर्यां पिण्डाय चरामि, विमलकीर्तेर् लिच्छवेर् निवेशनं पिण्डाय प्रविष्टः / तस्य मे विमलकीर्तिर् लिच्छविः पात्रं गृहित्वा प्रणीतेन भोजनेन प्रतिपूर्यैवम् आह :

$१६ सचेत् त्वं भदन्तसुभूते आमिषसमतया सर्वधर्मसमताम् अनुगतः सर्वधर्मसमतया च बुद्धधर्मसमताम् अनुगत एव, त्वम् इमं पिण्डपातं प्रतिगृह्णीष्व / सचेत् त्वं भदन्तसुभूते न रागदोषमोहप्रहीणो न च तैः सार्धं संवससि / सचेद् एवम् अस्य् अविकोप्य सत्कायम् एकायनं मार्गम् अनुगतः / न च ते ऽविद्या भवतृष्णा च समुद्घातिता न च विद्याविमुक्ती उत्पादिते / आनन्तर्यसमतया च ते समाधिविमुक्तिः / न चासि मुक्तो न बद्धः / न च ते चत्वार्य् आर्यसत्यानि दृष्टानि न च न दृष्टसत्यः / न प्राप्तफलो न पृथग्जनसमवसरणः / न चास्य् आर्यो नानार्यः / न सर्वधर्मसमन्वागतश् च सर्वधर्मसमधिगतश् च /

$१७ न च ते शास्ता दृष्टो न धर्मः श्रुतो न सम्घः पर्युपासितः / ये च ते षट् शास्तारस् तद्यथा पूरणः काश्यपः, मस्करी गोशालीपुत्रः, सम्जयो वैराष्ट्रिकपुत्रः, ककुदः कात्यायनः, अजितः केशकम्बलः, निर्ग्रन्थो ज्ञातिपुत्रः, ते च भदन्तस्य शास्तारस् तांश् च निश्रित्य प्रवर्जितो यद्गामिनस् ते षट् शास्तारस् तद्गाम्य् एवार्यसुभूतिः,

$१८ सर्वदृष्टिगतेषु चार्यमन् अन्तर्गतो न चान्तमध्यप्राप्तः, अष्टाक्षणसमवसरणश् चासि न चासि लक्षणम् अनुप्राप्तः, सम्क्लेशेन चासि समो ऽव्यवदानम् अधिगतः, या च सर्वसत्वानाम् अरणा सा भदन्तस्याप्य् अरणा, न च त्वया दक्षिणा विशोध्यते, ये च भदन्ताय पिण्डपातं ददति तांश् च विनिपातयसि, सर्वमारैश् च ते सार्धम् एकहस्तः कृतः, सर्वक्लेशाश् च ते सहायाः, यत्स्वभावाश् च क्लेशास् तत्स्वभावो भदन्तः, सर्वसत्वेषु ते वधकचित्तं प्रत्युपस्थितम्, सर्वबुद्धाश् च ते ऽभ्याख्याताः, सर्वबुद्धधर्मांश् च प्रतिक्रोशसि, न चासि सम्घप्रतिसरणः, न च जातु परिनिर्वास्यसि / एवं त्वम् इमं पिण्डपातं प्रतिगृहीण /

$१९ तस्य मे भगवन् इमं धर्मनिर्देशं श्रुत्वान्धकारप्राप्ता दिशो ऽभूवन् - तत् किम् अस्मै निर्दिशामि, कथं वा प्रतिपद्य इति / सो ऽहं तत् पात्रम् उत्सृज्य ततो गृहान् निष्क्रमिष्यामीति /

विमलकीर्तिर् लिच्छविर् माम् एवम् आह : मा भदन्तसुभूते अक्षरेभ्य उत्त्रसीः, प्रतिगृहाणेदं पात्रम् / तत् किम् मन्यसे भदन्तसुभूते, यदि तथागतनिर्मित एवम् उच्येत कच्चित् स उत्त्रसेत् /

सो ऽहम् अवोचम् : नो हीदं कुलपुत्र /
स माम् एवम् आह : निर्मितमायास्वभावेभ्यो भदन्तसुभूते सर्वधर्मेभ्यो नोत्त्रसितव्यम् / तत् कस्माद् धेतोः / सर्वाणि हि तानि वचनानि तत्स्वभावानि, एवं पण्डिता अक्षरेषु न सज्जन्ति न तेभ्य उत्त्रस्यन्ति / तत् कस्माद् धेतोः / सर्वाणि तान्य् अक्षराण्य् अनक्षराणि स्थापयित्वा विमुक्तिं विमुक्तिलक्षणांश् च सर्वधर्मान् /

$२० इह निर्देशे निर्दिश्यमाने द्वयोर् देवपुत्रशतयोर् विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धम्, पञ्चानां च देवपुत्रशतानाम् आनुलोमिक्याः क्षान्तेः प्रतिलम्भो ऽभूत् / अहं च निष्प्रतिभानो ऽभूवम्, न चास्य शक्नोम्य् उत्तरे प्रतिवचनं दातुम् / तन् नाहम् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$२१ अथ खलु भगवान् आयुष्मन्तं पूर्णं मैत्रायणीपुत्रम् आमन्त्रयते स्म : गच्छ त्वं पूर्ण विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

पूर्णो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये वनस्यान्यतमस्मिन् पृथिवीप्रदेश आदिकर्मिकाणां भिक्षूणां धर्मं देशयामि .
तत्र विमलकीर्तिर् लिच्छविर् उपसम्क्रम्य माम् एवम् आह :

$२२ समापद्य भदन्तपूर्ण एतेषां भिक्षूणां चित्तं व्यवलोक्य धर्मं देशय / मा महारत्नभाजनेषु प्रति कुल्माषान् प्राक्षैप्सीः / जानीष्व तावत् किमाशया एते भिक्षव इति / मा वैदूर्यरत्नं काचमणिकैः समानीकार्षीः / मा भदन्तपूर्ण अप्रत्यवेक्ष्य सत्वेन्द्रियेषु प्रादेशिकेन्द्रियत्वम् उपसंहार्षीः / मा अक्षतां क्षिणुष्व / मा महामार्गम् अवतर्तुकामान् भण्डरथ्यां प्रवेशय / मा महासागरं गोष्पदे प्रवेशय / मा सूर्यप्रभां खद्योतकैर् निर्वर्तय / मा संहनादसंप्रस्थितान् सृगालनादे नियोजय / अपि भदन्तपूर्ण सर्वे ह्य् एते भिक्षवो महायानसंप्रस्थिता अमुषितबोधिचित्ताः / तेषां भदन्तपूर्ण मा श्रावकयानम् उपदर्शय / कष्टं हि श्रावकायनम् / जात्यन्धा इव मे श्रावकाः प्रतिभान्ति सत्वेन्द्रियविमात्रताज्ञाने /

$२३ अथ विमलकीर्तिर् लिच्छविस् तस्यां वेलायां तथारूपं समाधिं समापद्यते स्म / यथा ते भिक्षवो ऽनेकविधं पूर्वेनिवासम् अनुस्मरन्ति स्म / ते पञ्चबुद्धशतपर्युपास्तिकुशलमूलाः सम्यक्संबोधये, तेषां तद् बोधिचित्तम् आमुखीभूतम् / ते तस्य सत्पुरुषस्य पादौ शिरोभिः प्रणम्य तत्रैव निषण्णाः प्राञ्जलयो भूत्वा, तेषां तादृशी धर्मदेशना कृता यथावैवर्तिकाः संवृत्ता अनुत्तरस्यां सम्यक्संबोधौ /

$२४ तद् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /
य्
$२५ तत्र भगवान् आयुष्मन्तं कात्यायनम् आमन्त्रयते स्म : गच्छ त्वं कात्यायन विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

कात्यायनो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : भगवता सम्क्षिप्तेन भिक्षूणाम् अववादो दत्तः / तेषां सूत्रपदविनिश्चयाय धर्मं देशायामि, यद् इदम् अनित्यार्थं दुःखार्थम् अनात्मार्थं शान्तार्थम् /

तत्र विमलकीर्तिर् लिच्छविर् उपसम्क्रम्य माम् एवम् आह :

$२६ मा भदन्तकात्यायन सप्रचाराम् उत्पादभण्गयुक्तां धर्मतां निर्दिश / यो भदन्तमहाकात्यायन अत्यन्ततया न जातो न जनिष्यति नोत्पन्नो न निरुद्धो न निरोत्स्यते ऽयम् अनित्यार्थः / यः पञ्चानां स्कन्धानां शून्यतानुगमानुत्पादानिरोधार्थो ऽयं दुःखार्थः / यद् आत्मानात्मयोर् अद्वयत्वम् अयम् अनात्मार्थः / यो ऽस्वभावो ऽपरभावस् तद् अनुज्ज्वलितम्, यद् अनुज्ज्वलितं न तच् छाम्यति, यो ऽत्यन्तोपशमो ऽयं शान्तार्थः /

$२७ अस्मिन् खलु पुनर् निर्देशे निर्दिश्यमाने तेषां भिक्षूणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि / तद् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$२८ तत्र भगवान् आयुष्मन्तम् अनिरुद्धम् आमन्त्रयते स्म : गच्छ त्वम् अनिरुद्ध विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

अनिरुद्धो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः /

$२९ अभिजानाम्य् अहं भगवन् : अन्यतमस्मिंश् चण्क्रमे चण्क्रमामि / तत्र शुभव्यूहो नाम ब्रह्मा दशभिर् ब्रह्मसहस्रैः सार्धं तं प्रदेशम् अवभास्य येनाहं तेनोपसम्क्रम्य मम पादौ शिरसाभिवन्द्यैकान्ते स्थित्वा माम् एतद् अवोचत् : कियद् आयुष्मान् अनिरुद्धो दिव्येन चक्षुषा पश्यति /

तम् एनम् अहम् एतद् अवोचम् : अहं मार्ष इमं त्रिं साहस्रमहासाहस्रं लोकधातुं भगवतः शाक्यमुनेर् बुद्धक्सेत्रं तद् यथापि नाम करतले न्यस्तम् आमलकफलम् एवं पश्यामि /

$३० इयं च कथा प्रवृत्ता विमलकीर्तिश् च लिच्छविस् तं प्रदेशम् उपसम्क्रामत् / उपसम्क्रम्य मम पादौ शिरसा वन्दित्वैवम् आह : किम् भदन्तानिरुद्ध दिव्यं चक्षुर् अभिसंस्कारलक्षणम् उतानभिसंस्कारलक्षणम् / यद्य् अभिसंस्कारलक्षणं तद् बाह्यैः पञ्चाभिज्ञैः समम्, अथानभिसंस्कारलक्षणम् अनभिसंस्कारो ऽसंस्कृतस् तेन न शक्यं द्रष्टुम् / तत् कथं स्थविरः पश्यति /
सो ऽहं तूष्णीम् अभूवम् /

$३१ स च ब्रह्मा तस्य सत्पुरुषस्येमं निर्देशं श्रुत्वाश्चर्यप्राप्तस् तं नमस्कृत्यैतद् अवोचत् : के लोके दिव्यचक्षुषः /

आह : बुद्धा भगवन्तो लोके दिव्यचक्षुषो ये समाहितावस्थां च न विजहति सर्वबुद्धक्षेत्राणि च पश्यन्ति / न च द्वयप्रभाविताः /

$३२ अथ स ब्रह्मेमं निर्देशं श्रुत्वा दशसहस्रपरिवारो ऽध्याशयेननुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति स्म / स मां वन्दित्वा तं च सत्पुरुषम् अभिवाद्य तत्रैवान्तर्हितः / अहं च निष्प्रतिभानो ऽभूवम् / तन् नाहम् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$३३ तत्र भगवान् आयुष्मन्तम् उपालिम् आमन्त्रयते स्म : गच्छ त्वम् उपाले विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृछकः /

उपालिर् अप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : अन्यतमौ द्वौ भिक्षू आपत्तिम् आपन्नौ, तौ भगवतः पर्यपत्रपमाणौ भगवन्तं नोपसम्क्रामतः / तौ येनाहं तेनोपसम्क्रान्ताव् उपसम्क्राम्य माम् एद् अवोचताम् / आवाम् भदन्तोपाले आपत्तिम् आपन्नौ, ताव् आवां पर्यपत्रपमाणौ भगवन्तम् उपसम्क्रमितुं नोत्सहावहे / उत्साहाय आयुष्मन्न् उपाले विनोदयस्वायोः कौकृत्यं व्युत्थापयस्वावाम् आपत्तेः /

$३४ सो ऽहं भगवंस् तौ भिक्षू धर्म्यया कथया सम्दर्शयामि / विमलकीर्तिश् च लिच्छविस् तं प्रदेशम् अनुप्राप्तः स माम् एतद् अवोचत् : मा भदन्तोपाले एतौ भिक्षू आगाढीकार्षीः, विनोदयानयोर् आपत्तिम्, मा आविलीकार्षीः / न हि भदन्तोपाले आपत्तिर् अध्यात्मप्रतिष्ठिता न बहिर्धासम्क्रान्ता नोभयम् अनतरेणोपलभ्यते / तत् कस्माद् धेतोः / उक्तं हि भगवता "चित्तसम्क्लेशात् सत्वाः सम्क्लिश्यन्ते चित्तव्यवदानाद् विशुध्यन्ते / चित्तं च भदन्तोपाले नाध्यात्मप्रतिष्ठितं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते / यथा चित्तं तथापत्तिः, यथापत्तिस् तथा सर्वधर्माः, तथतां न व्यतिवर्तन्ते / या भदन्तोपाले चित्तस्य प्रकृतिर् यया चित्तप्रकृत्या भदन्तस्य चित्तं विमुक्तम्, किं जातु सा चित्तप्रकृतिः सम्क्लिष्टा /
आह : नो हीदं /
आह : तत्प्रकृतिकानि भदन्तोपाले सर्वसत्वानां चित्तानि /

$३५ सम्कल्पो भदन्तोपाले क्लेशः, अकल्पाविकल्पा च प्रकृतिः / विपर्यासः सम्क्लेशह्, अविपर्यस्ता च प्रकृतिः / आत्मसमारोपः सम्क्लेशः, नैरात्म्या च प्रकृतिः / उत्पन्नभग्नानवस्थिता भदन्तोपाले सर्वधर्मा मायामेघविद्युत्सदृशाः / निरपेक्षाः सर्वधर्माः क्षणम् अपि नावतिष्ठन्ते / स्वप्नमरीचिसदृशाः सर्वधर्मा वितथदर्शनाः / दकचन्द्रप्रतिबिम्बसदृशाः सर्वधर्माश् चित्तपरिकल्पेनोत्पद्यन्ते / ये त्व् एवं जानन्ति ते विनयधरा इत्य् उच्यन्ते / य एवं विनीतास् ते सुविनीताः /

$३६ अथ तौ भिक्षू एतद् अवोचताम् : प्रज्ञाधरो विनयधरो ऽयम् उपासकः / न त्व् अयं भदन्तोपालिर् यो भगवता विनयधराणाम् अग्रो निर्दिष्टः /

ताव् अहम् एवं वदामि : मा भिक्षू अत्र गृहपतिसम्ज्ञाम् उत्पादयताम् / तत् कस्माद् धेतोः / तथागतं स्थापयित्वा नास्ति कश्चिच् छ्रावको वा बोधिसत्वो वा, य एतस्य प्रतिभानम् आच्छिन्द्यात् / तादृश एतस्य प्रज्ञालोकः /

$३७ अथ तौ भिक्षू विनीतकौकृत्याव् अध्याशयेन तत्रैवानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितवन्तौ, तं च सत्पुरुषम् अभिवन्द्यैवम् आहतुः : सर्वसत्वा ईदृशस्य प्रतिभानस्य लाभिनो भवन्तु / तन् नाहम् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$३८ तत्र भगवान् आयुष्मन्तं राहुलम् आमन्त्रयते स्म : गच्छ त्वं राहुल विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /
राहुलो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये संबहुला लिच्छविकुमारका येनाहं तेनोपसम्क्रम्य माम् एतद् अवोचन् : त्वं राहुल तस्य भगवतः पुत्रश् चक्रवर्तिराज्यम् उत्सृज्य प्रव्रजितः, तत्र के ते प्रव्रज्याया गुणानुशंसाः /
तेषाम् अहं यथारूपं प्रव्रज्याया गुणानुशंसा निर्दिशामि, विमलकीर्तिर् लिच्छविर् येनाहं तेनोपसम्क्रान्तः / स माम् अभिवन्द्यैतद् अवोचत् :

$३९ न भदन्तराहुल एवं प्रव्रज्याया गुणानुशंसा निर्देष्टव्या यथा त्वं निर्दिशसि / तत् कस्माद् धेतोः / निर्गुणा निरनुशंसा हि प्रव्रज्या / यत्र भदन्तराहुल संस्कृतप्रवृत्तिस् तत्र गुणानुशंसा / प्रव्रज्या चासंस्कृता, असंस्कृते च न गुणा नानुशांसा / प्रव्रज्या भदन्तराहुल अरूपिणी रूपविगता, पन्था निर्वाणस्य, प्रशंसिता पण्डितैः, परिगृहीतार्यैः, पराजयः सर्वमाराणाम्, पञ्चगत्युत्तारणी, पञ्चचक्षुविशोधनी, पञ्चबलप्रतिलम्भा, पञ्चेन्द्रियप्रतिष्ठा, परेषाम् अनुपघातः, पापधर्मासंसृष्टा, परतीर्थ्यप्रमर्दनी, प्रज्ञप्तिसमतिक्रान्ता, पण्के सम्क्रमः, अममा ममकारविगता, अपरिग्रहा, अनुपादाना, अनाकुला, आकुलप्रहीणा, स्वचित्तदर्शनी परचित्तसंरक्षणी, शमथानुकूला, सर्वतो ऽनवद्या / इयम् उच्यते प्रव्रज्या / य एवं प्रव्रजितास् ते सुप्रव्रजिताः /

$४० प्रव्रजत यूयं कुमारकाः स्वाख्याते धर्मविनये / दुर्लभो हि बुद्धोत्पादः, दुर्लभा क्षणसंपत्, दुर्लभो मनुष्यप्रतिलम्भः /
ते कुमारका एवम् आहुः : श्रुतम् अस्माभिर् गृहपते, न तथागतो ऽनवसृष्टं मातापितृभ्यां प्रव्राजयतीति /
स तान् आह : उत्पादयत यूयं कुमारकाः अनुत्तरायां सम्यक्संबोधौ चित्तम्, प्रतिपत्त्या च संपादयत, सैव युष्माकं भविष्यति प्रव्रज्या सोपसंपत् /

$४१ तत्र द्वात्रिंशता लिच्छविकुमारैर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादितानि / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$४२ तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म : गच्छ त्वम् आनन्द विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /

आनद आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये भगवतः कायस्य कश्चिद् एवाबाधः / तत्र च क्षीरेण कृत्यम् आसीत् / सो ऽहम् अन्यतमस्मिन् ब्राह्मणमहाशालस्य गृहमूले पात्रं गृहीत्वा स्थितः /
विमलकीर्तिर् लिच्छविस् तं प्रदेशम् अनुप्राप्तः / स मां वन्दित्वैवम् आह :

$४३ किं भदन्तानन्द काल्यम् एव पात्रम् आदायास्मिन् गृहद्वारसमीपे तिष्ठसि /
तम् एनम् अहम् एतद् अवोचम् : भगवतो गृहपते कायस्य कश्चिद् एवाबाधः / तत्र च क्षीरेण कृत्यम्, तत् पर्येषामि /
स माम् एवम् आह : अलं भदन्तानन्द मा एवं वोचः / वज्रसंहतनो हि भदन्तानन्द तथागतकायः सर्वाकुशलवासनाप्रहीणः सर्वमहौजस्ककुशलधर्मसमन्वागतः / कुतस् तस्य व्याधिः कुत उपद्रवः /

$४४ तूष्णींभूतो भदन्तानन्द गच्छ / मा भगवन्तम् अभ्याचक्ष्व / मा कस्यचिद् भूय एवं वोचः / मा महौजस्का देवपुत्रा अन्यबुद्धक्षेत्रसम्निपतिताश् च बोधिसत्वाः श्रोष्यन्ति / राज्ञस् तावद् भदन्तानन्द चक्रवर्तिन इत्वरकुशलसमन्वागतस्य व्याधिर् न संविद्यते / कुतस् तस्य भगवतो ऽप्रमणाकुशलसमन्वागतस्य व्याधिर् भविष्यति / नेदं स्थानं विद्यते / गच्छ गच्छ भदन्तानन्द / मा माम् अध्यपत्रापय, मा अन्यतीर्थिकचरकपरिव्राजकनिग्रन्थाजीवाः श्रोष्यन्ति, मा तेषाम् एवं भविष्यति / कीदृशो बत अयम् एषां शास्ता यः स्वयम् एव तावद् आत्मानं ग्लानं न शक्नोति परित्रातुम्, कुतः पुनर् ग्लानानां सत्वानां त्राणं भविष्यति / ततः प्रच्छन्नं भदन्तानन्द गच्छ शीघ्रम् / मा कश्चिच् छृणुयात् /

$४५ अपि तु भदन्तानन्द धर्मकायास् तथागता नामिषकायाः / लोकोत्तरकायास् तथागताः सर्वलोकधर्मसमतिक्रान्ताः / अनाबाधस् तथागतस्य कायस् सर्वास्रवविनिवृतः / असंस्कृतस् तथागतस्य कायः सर्वसम्ख्याविगतः / तस्य भदन्तो व्याधिम् इच्छतीत्य् अयुक्तम् असदृशम् /

$४६ तस्य मे भगवन् महदपत्राप्यं जातम् / मा मे भगवतो ऽन्तिकाद् दुःश्रुतं दुर्गृहीतं वा कृतम् इति / सो ऽहम् अन्तरीक्षाच् छब्दम् अश्रौषम् /
एवम् एतद् आनन्द यथा गृहपतिर् निर्दिशति / अथ च पुनः पञ्चकषाये भगवान् उत्पन्नः, तेनानर्थलूहदरिद्रचर्यया सत्वा विनेतव्याः / तद् गच्छ त्वम् आनन्द क्षीरं गृहीत्वा, मा पर्यपत्रपश् चेति /

$४७ ईदृशा भगवन् विमलकीर्तेर् लिच्छवेः प्रश्नव्याकरणनिर्देशाः / तन् नाहं भगवन् उत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् /

$४८ एवं तानि पञ्चमात्राणि श्रावकशतान्य् अनुत्सहमानानि भगवते निवेदयन्ति / ये च तैर् विमलकीर्तिना लिच्छविना सार्धं कथासंलापाः कृतास् तान् सर्वान् भगवते निवेदयन्ति स्म /

$४९ तत्र भगवान् मैत्रेयं बोधिसत्वम् आमन्त्रयते स्म : गच्छ त्वं मैत्रेय विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /
मैत्रेयो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये सम्तुषितेन देवपुत्रेण सार्धं तुषितकायिकैश् च देवपुत्रैः सार्धं धर्म्यां कथां कथयामि यद् इदं बोधिसत्वानां महासत्वानाम् अविवर्त्यां भूमिम् आरभ्य / तत्र च विमलकीर्तिर् लिच्छविस् तं प्रदेशम् उपसम्क्रान्तः / स माम् एतद् अवोचत :

$५० त्वं मैत्रेय एकजातिप्रतिबद्धो भगवता व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ / तत् कतमयासि मैत्रेय जात्या व्याकृतः, किम् अतीतया वानागतयोत प्रत्युत्पन्नया / तत्र यतीता जातिः सा क्षीणा, याप्य् अनागता साप्य् असंप्राप्ता, प्रत्युत्पन्नायाः स्थितिर् नास्ति जातेः / यथोक्तं भगवता : तथा हि त्वं भिक्षः क्षणे क्षणे जायसे जीर्यसि म्रियसे च्यवसे उपपद्यसे चेति / अजातितश् च नियामावक्रान्तिः / न चाजातिर् व्याक्रियते / नाप्य् अजातिर् अभिसंबुध्यते /

$५१ तत् कथं त्वं मैत्रेय व्याकृतस् तथतोत्पादेन तथतानिरोधेन वा / न च तथतोत्पद्यते न निरुध्यते, न निरोत्स्यते / या च सर्वसत्वानां तथता, या च सर्वधर्माणां तथता, सैव मैत्रेयस्यापि तथता / एवं यदि त्वं व्याकृतः सर्वसत्वा अपि व्याकृता भवन्ति / तत् कस्माद् धेतोः / न हि तथता द्वयप्रभाविता नानात्वप्रभाविता / तद् यदा मैत्रेयो बोधिम् अभिसंभोत्स्यते, सर्वसत्वा अपि तस्मिन् समये तादृशीम् एव बोधिम् अभिसंभोत्स्यन्ते / तत् कस्माद् धेतोः / सर्वसत्वानुबोधो हो बोधिः / यदा च मैत्रेयः परिनिर्वास्यति, सर्वसत्वा अपि तदा परिनिर्वास्यन्ति / तत् कस्माद् धेतोः / न ह्य् अपरिनिर्वृतानां सर्वसत्वानां तथागताः परिनिर्वान्ति / परिनिर्वृतानि ते सत्वानि पश्यन्ति निर्वाणप्रकृतिकानि / तस्माद् इह मैत्रेय मा एतान् देवपुत्रान् उल्लापय मा विसंवादय /

$५२ न बोधौ कश्चित् प्रतिष्ठते, न निवर्तते / अपि तु खलु पुनर् मैत्रेय यैषां देवपुत्राणां बोधिपरिकल्पनदृष्टिस् ताम् एताम् उत्सर्जय /
न हि बोधिः कायेनाभिसंबुध्यते, न चित्तेन / व्युपशमो बोधिः सर्वनिमित्तानां, असमारोपो बोधिः स्रवारम्बणानाम्, अप्रचारो बोधिः सर्वमनस्काराणाम्, परिच्छेदो बोधिः सर्वदृष्टिगतानाम्, विगमो बोधिः सर्वपरिकल्पानाम्, विसंयोगो बोधिः सर्वेञ्जितमन्यस्यन्दितानाम्, अनधिष्ठानं बोधिः सर्वप्रणिधानानाम्, असण्गप्रवेशो बोधिः सर्वोद्ग्रहविगता, स्थिता बोधिर् धर्मधातुस्थाने, अनुगता बोधिस् तथतायाम्, प्रतिष्ठिता बोधिर् भूतकोट्याम्, अद्वया बोधिर् मनोधर्मविगता, समा बोधिर् आकाशसमतया, असम्स्कृता बोधिर् उत्पादभण्गस्थित्यन्यथात्वविगता, परिज्ञा बोधिः सर्वसत्वचित्तचरिताशयानाम्, अद्वारा बोधिर् आयतनानाम्, असंसृष्टा बोधिः सर्ववासनानुसम्धिक्लेशविगता, न देशस्था न प्रदेशस्था बोधिः स्थानास्थानविगता, तथताप्रतिष्ठिता बोधिः सर्वतो ऽदृश्या, नामधेयमात्रं बोधिस् तच् च नाम निरीहकम्, निरात्मिका बोधिर् आयूहनिर्यूहविगता, अनाकुला बोधिः प्रकृतिपरिशुद्धा, प्रकाशा बोधिः स्वभावपरिशुद्धा, अनुद्ग्रहा बोधिर् अध्यालम्बनविगता, निर्नानात्वा बोधिः सर्वधर्मसमतावबोधत्वात्, अनुपमा बोधिर् उपमोपन्यासविगताः, सूक्ष्मा बोधिर् दुरनुबोधत्वात्, सर्वत्रानुगता बोधिर् आकाशस्वभावत्वात् / सा न शक्या कायेन वाचा चित्तेनाभिसंबोद्धुम् /

$५३ इह भगवन् निर्देशे निर्दिश्यमाने ततः परिषदो द्वयोर् देवपुत्रशतयोर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत् / अहं च निष्प्रतिभानो ऽभूवम् / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$५४ तत्र भगवान् प्रभाव्यूहं लिच्छविकुमारम् आमन्त्रयते स्म : गच्छ त्वं सत्पुरुष विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /
प्रभाव्यूहो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये भगवन् वैशाल्या महानगर्या निष्क्रमामि / विमलकीर्तिश् च लिच्छविः प्रविशति / सो ऽहं तम् अभिवाद्यैवम् अवोचम् : कुतस् त्वं गृहपते आगच्छसीति /
स माम् एवम् आह : आगच्छामि बोधिमण्डाद् इति /
तम् अहम् एतद् अवोचम् : बोधिमण्ड इति कस्यैतन् नाम /
स माम् एतद् अवोचत् :

$५५ बोधिमण्ड इति कुलपुत्र आशयमण्ड एषो ऽकृत्रिमतया, प्रयोगमण्ड एष आरम्भोत्तारणतया, अध्याशयमण्ड एषा विशेषाधिगमतया, बोधिचित्तमण्ड एषो ऽसंप्रमोषणतया,

$५६ दानमण्ड एष विपाकाप्रतिकाण्क्षणतया, शीलमण्ड एष प्रणिधानपरिपूरणतया, क्षान्तिमण्ड एष सर्वसत्वाप्रतिहतचित्ततया, वीर्यमण्ड एषो ऽविनिवर्तनतया, ध्यानमण्ड एष चित्तकर्मण्यतया, प्रज्ञामण्ड एष प्रत्यक्षदर्शितया,

$५७ मैत्रीमण्ड एष सर्वसत्वसमचित्ततया, करुणामण्ड एष खेदसहिष्णुतया, मुदितामण्ड एष धर्मारामरतिरततया, उपेक्षामण्ड एषो ऽनुनयप्रतिघप्रहणातया,

$५८ अभिज्ञामण्ड एष षडभिज्ञतया, विमोक्षमण्ड एषो ऽकल्पनतया, उपायमण्ड एष सत्वपरिपाचनतया, सम्ग्रहवस्तुमण्ड एष सर्वसत्वसम्ग्रहणतया, श्रुतमण्ड एष प्रतिपत्तिसारकत्वात्, निध्यप्तिमण्ड एष योनिशःप्रत्यवेक्षणतया, बोधिपक्ष्यधर्ममण्ड एष संस्कृतासंस्कृतोत्सर्जनतया, सत्यमण्ड एष सर्वलोकाविसंवादनतया, प्रतीत्यसमुत्पादमण्ड एषो ऽविद्यास्रवक्षयतया यावज् जरामरणास्रवक्षयतया, सर्वक्लेशप्रशमनमण्ड एष यथाभूताभिसंबोधनतया,

$५९ सर्वसत्वमण्ड एष सत्वास्वभावतया, सर्वधर्ममण्ड एष शून्यताभिसंबोधनतया, सर्वमारनिर्घातनमण्ड एषो ऽचलनतया, त्रैधातुकमण्ड एष प्रस्थानविगमनतया, सिंहनादनदनवीर्यमण्ड एषो ऽभीतानुत्त्रासनयता, बलवैशारद्यावेणिकसर्वबुद्धधर्ममण्ड एष सर्वतो ऽनुपाक्रुष्टत्वात्, त्रैविद्यविद्यामण्ड एष निरवशेषत्वात् क्लेशानां, एकचित्तनिरवशेषसर्वधर्मानुबोधमण्ड एष सर्वज्ञज्ञानसमुदागमत्वात् /

$६० इति हि कुलपुत्र यावन्तो बोधिसत्वाः पारमिताप्रतिसंयुक्तं सत्वपरिपाकप्रतिसंयुक्तं सद्धर्मपरिग्रहप्रतिसंयुक्तं कुशलमूलप्रतिसंयुक्तं क्रमम् उत्क्षिपन्ति निक्षिपन्ति च / सर्वे ते बोधिमण्डाद् आगच्छन्ति, बुद्धधर्मेभ्य आगच्छन्ति, बुद्धधर्मेषु च प्रतिष्ठन्ते /

$६१ इह भगवन् निर्देशे निर्दिश्यमाने पञ्चमात्रैर् देवमनुष्यशतैर् बोधाय चित्तान्य् उत्पादितानि / अहं च निष्प्रतिभानो ऽभूवम् / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$६२ तत्र भगवान् जगतिन्धरं बोधिसत्वम् आमन्त्रयते स्म : गच्छ त्वं जगतिन्धर विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /
जगतिन्धरो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : एकस्मिन् समये स्वके विहारे विहरामि / अथ मारः पापीयान् द्वादशभिर् अप्सरःसहस्रैः परिवृतः शक्रवेषेण तूर्यसम्गीतिसंप्रवादितेन येनाहं तेनोपसम्क्रम्य मम पादौ शिरसा वन्दित्वा सपरिवारो मां पुरस्कृत्यैकान्ते ऽस्थात्/ तम् एनम् अहं जानामि - शक्र एष देवेन्द्र इति /
तम् अहम् एतद् अवोचम् : स्वागतं ते कौशिक, अप्रमत्तेन ते भवितव्यं सर्वकामरतिषु, अनित्यप्रत्यवेक्षणाबहुलेनात्तसारेण ते भवितव्यं कायजीवितभोगेभ्यः /
स माम् एवम् आह : प्रतीच्छ त्वं सत्पुरुष इमानि द्वादशाप्सरःसहस्राणि ममान्तिकात्, एतास् ते परिचारिका भवन्ताम् /
तम् अहम् एतद् अवोचम् : मा त्वं कौषिक अकल्पिकेन वस्तुना श्रमणान् शाक्यपुत्रीयान् निमन्त्रय, यथा न ह्य् एता अस्माकं कल्प्यन्त इति /

$६३ एषा च कथा प्रवृत्ता, विमलकीर्तिर् लिच्छविर् उपसम्क्रान्तः / स माम् एवम् आह : मा अत्र कुलपुत्र शक्रसम्ज्ञाम् उत्पादय / मार एष पापीयांस् तव विहेठनाभिप्राय उपसम्क्रान्तः, नैष शक्र इति /
अथ विमलकीर्तिर् लिच्छविस् तं मारं पापीयांसम् एतद् अवोचत् : अस्मभ्यं पापीयन् एता अप्सरसो निर्यातय / अस्माकम् एताः कल्प्यन्ते, न श्रमणानां शाक्यपुत्रीयाणाम् इति /
अथ मारः पापीयान् भीतस् त्रस्तः संविग्नः / मा विमलकीर्तिना लिच्छविना विप्रलप्स्य इति, इच्छति चान्तर्धातुम्, न च शक्नोति सर्वर्द्धिम् अपि दर्शयित्वान्तर्धातुम् / सो ऽन्तरीक्षाच् छब्दम् अश्रौषित् : निर्यातय त्वम् एताः पापीयन् अप्सरस एतस्मै सत्पुरुषाय, ततः शक्ष्यसि स्वभवनं गन्तुम् / अथ मारो भीतस् त्रस्तो ऽकामको ऽस्मै ता अप्सरसो निर्यातयति /

$६४ प्रतिगृह्य च विमलकीर्तिस् ता अप्सरस एतद् अवोचत् : निर्यातिता यूयं मह्यं मारेण पापीयसा, उत्पादयतेदानीम् अनुत्तरायां सम्यक्संबोधौ चित्तम् / स तासां तदानुलोमिकीं बोधिपरिपाचनीं कथां कृत्वा बोधौ चित्तम् उत्पादयति स्म /
स ता एवम् आह : उत्पादितम् इदानीं युष्माभिर् बोधिचित्तम्, धर्मारामरतिरताभिर् इदानीं युष्माभिर् भवितव्यम्, न कामरतिरताभिः /
ता आहुः : कतमा च पुनर् धर्मारामरतिः /
स आह : बुद्धे ऽभेद्यप्रसादरतिः, धर्मे शुश्रूषणरतिः, सम्घ उपस्थानरतिः, गुरुषु गौरवोपस्थानरतिः, त्रैधातुकान् निःसरणरतिः, विषयेष्व् अनिश्रितरतिः, स्कन्धेषु वधकानित्यप्रत्यवेक्षणारतिः, धातुष्व् आशीविषपरितुलनारतिः, आयतनेषु शून्यग्रामविवेकरतिः, बोधिचित्तारक्षणरतिः, सत्वेषु हितवस्तुतारतिः, दाने संविभागरतिः, शीलेष्व् अशैथिल्यरतिः, क्षान्त्यां क्षमदमरतिः, वीर्ये कुशलसमुदानयनरतिः, ध्यानेषु परिकर्मरतिः, प्रज्ञायाम् अपगतक्लेशावभासरतिः, बोधौ विस्तीर्णरतिः, मारस्य निग्रहरतिः, क्लेशानां प्रघातनारतिः, बुद्धक्षेत्रस्य विशोधनारतिः, लक्षणानुव्याञ्जनपरिनिष्पत्त्यर्थं सर्वकुशलमूलोपचयरतिः, गम्भीरधर्मश्रवणानुत्त्रासरतिः, त्रिविमोक्षमुखपरिजयरतिः, निर्वाणारम्बणरतिः, बोधिमण्डालम्काररतिः, न चाकालप्राप्तिरतिः, सभागजनसेवनारतिः, विसभागेष्व् अदोषाप्रतिघातरतिः, कल्याणमित्रेषु सेवारतिः, पापामित्रेषु विसर्जनारतिः, धर्मप्रीतिप्रामोद्यरतिः, उपाये सम्ग्रहरतिः, अप्रमादबोधिपक्ष्यधर्मसेवनारतिः / एवं हि बोधिसत्वो धर्मारामरतिरतो भवति /

$६५ अथ मारः पापीयांस् ता अप्सरस एतद् अवोचत् : आगच्छत / इदानीं गमिष्यामः स्वभवनम् इति /
ता एवम् आहुः : निर्यातिता इदानीं त्वया वयम् अस्मै गृहपतये / धर्मारामरतिरताभिर् अस्माभिर् इदानीं भवितव्यम्, न कामरतिरताभिः /
अथ मारः पापीयान् विमलकीर्तिं लिच्छविम् एवम् आह : निःसृज त्वं गृहपते इमा अप्सरसः / सर्वस्वपरित्यागिनो बोधिसत्वा महासत्वा भवन्ति /
विमलकीर्तिर् आह : अवसृष्टा भवन्तु / गच्छ पापीयन् / सर्वसत्वानां धार्मिका अभिप्रायाः परिपूर्यन्ताम् /
अथ ता अप्सरसो विमलकीर्तिं नमस्कृत्यैवम् आहुः : कथं वयं गृहपते मारभवने ऽवतिष्ठेम /

$६६ आह : अस्ति भगिन्यः अक्षयप्रदीपं नाम धर्ममुखम् / तत्र प्रतिपद्यध्वम् / तत् पुनः कतमत् / तद्यथा भगिन्यः एकस्मात् तैलप्रदीपाद् दीपशतसहस्राण्य् आदीप्यन्ते / न च तस्य दीपस्य परिहाणिर् भवति / एवम् एव भगिन्यः एको बोधिसत्वो बहूनि सर्वशतसहस्राणि बोधौ प्रतिष्ठापयति / न च तस्य बोधिसत्वस्य चित्तस्मृतिर् हीयते, न परिहीयते, उत च वर्धते / एवं सर्वान् कुशलान् धर्मान् यथा यथा परेषाम् आरोचयति देशयति, तथा तथा विवर्धते सर्वैः कुशलैर् धर्मैः / इदं तद् अक्षयप्रदीपं नाम धर्ममुखम् / तत्र युष्माभिर् मारभवने स्थिताभिर् अपरिमाणानां देवपुत्राणाम् अप्सरसां च बोधिचित्तं रोचयितव्यम् / एवं यूयं तथागतस्य कृतज्ञा भविष्यथ / सर्वसत्वानां चोपजीव्या भविष्यथ /

$६७ अथ ता अप्सरसो विमलकीर्तेर् लिच्छवेः पादौ शिरसा वन्दित्वा सार्धं मारेण प्रक्रान्ताः / इमे भगवन् विमलकीर्तेर् लिच्छवेर् विकुर्वणविशेषाः, यान् अहं नाज्ञासिषम् / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$६८ तत्र भगवान् सुदत्तं श्रेष्ठिपुत्रम् आमन्त्रयते स्म : गच्छ त्वं कुलपुत्र विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /
सुदत्तो ऽप्य् आह : नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् / तत् कस्माद् धेतोः / अभिजानाम्य् अहं भगवन् : स्वके पैतृके निवेशने महायज्ञं यजामि / सर्वदरिद्रदुःखितेभ्यः सर्वश्रमणब्राह्मणकृपणवनीयकयाचनकेभ्यो दानं ददामि / सप्तदिवसान् महायज्ञं यजामि /
तत्र सप्तमे दिवसे विमलकीर्तिर् लिच्छविस् तां महायज्ञशालां प्रविश्य माम् एतद् अवोचत् : न श्रेष्ठिपुत्र एवं यज्ञो यष्टव्यो यथा त्वं यजसे / धर्मयज्ञस् ते यष्टव्यः / किं त आमिषयज्ञेन /
तम् अहम् एतद् अवोचम् : कथं पुनर् धर्मयज्ञो यष्टव्यः /
स माम् एवम् आह :

$६९ येन धर्मयज्ञेनापूर्वाचरमं सर्वसत्वाः परिपाच्यन्ते, अयं धर्मयज्ञः / स पुनः कतमः / यद् इदं बोध्याकाराभिनिर्हृता महामैत्री, सद्धर्मसम्ग्रहाभिनिर्हृता महाकरुणा, सर्वसत्वप्रामोद्यारम्बणाभिनिर्हृता महामुदिता, ज्ञानसम्ग्रहाभिनिर्हृता महोपेक्षा,

$७० शान्तदान्ताभिनिर्हृता दानपारमिता, दुःशीलसत्वपरिपाचनाभिनिर्हृता शीलपारमिता नैरात्म्यधर्माभिनिर्हृता क्षान्तिपारमिता, बोध्यण्गाभिनिर्हृता वीर्यपारमिता, कायचित्तविवेकाभिनिर्हृता ध्यानपारमिता, सर्वज्ञज्ञानाभिनिर्हृता प्रज्ञापारमिता,

$७१ सर्वसत्वपरिपाचनाभिनिर्हृता शून्यताभावना, संस्कृतपरिकर्माभिनिर्हृतानिमित्तभावना, सम्चिन्त्योपपत्त्यभिनिर्हृताप्रणिहितभावना,

$७२ सद्धर्मपरिग्रहाभिनिर्हृतो बलपराक्रमः, सम्ग्रहवस्त्वभिनिर्हृतं जीवितेन्द्रियम्, सर्वसत्वानां दासत्वशिष्यत्वाभिनिर्हृता निर्मानता, असारात् सारादानाभिनिर्हृतः कायजीवितभोगप्रतिलम्भः, षडनुस्मृत्यभिनिर्हृता स्मृतिः, संरञ्जनीयधर्माभिनिर्हृतो ऽध्याशयः, सम्यक्प्रतिपत्त्यभिनिर्हृताजीवपरिशुद्धिः, प्रसादप्रामोद्यसेवनाभिनिर्हृतार्यपर्युपासना, अनार्येष्व् अप्रतिघाताभिनिर्हृता चित्तनिध्यप्तिः, प्रव्रज्याभिनिर्हृतो ऽध्याशयः, प्रतिपत्त्यभिनिर्हृतं श्रुतकौशलम्, अरणाधर्मप्रतिवेधाभिनिर्हृतो ऽरण्यवासः, बुद्धज्ञासंप्रापणाभिनिर्हृतं संलयनम्, सर्वसत्वक्लेशमोचनयोगाभिनिर्हृता योगाचारभूमिः,

$७३ लक्षणानुव्यञ्जनसंभाराभिनिर्हृतः सत्वपरिपाकः, बुद्धक्षेत्रालम्काराभिनिर्हृतः पुण्यसम्भारः, सर्वसत्वचित्तचरितयथाशयधर्मदेशनाभिनिर्हृतो ज्ञानसंभारः, सर्वधर्मानायूहानिर्यूहैकनयज्ञनाभिनिर्हृतः प्रज्ञासंभारः, सर्वक्लेशसर्वावरणसर्वाकुशलधर्मप्रहाणाभिनिहृतः सर्वकुशलमूलसंभारः,

$७४ सर्वज्ञज्ञानानुबोधनसर्वकुशलधर्माभिनिर्हृतः सर्वबोधिपक्ष्यधर्मसमुद्गमः /
अयं स कुलपुत्र धर्मयज्ञः, यत्र धर्मयज्ञे प्रतिष्ठिता बोधिसत्वा इष्टयज्ञयाजूका दक्षिणीया भवन्ति सदेवकस्य लोकस्य / एवं हि भगवन् तस्य गृहपतेर् निर्दिशतस् तस्या ब्राह्मणपर्षदो द्वयोर् ब्राह्मणशतयोर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि /

$७५ अहं चाश्चर्यप्रसादप्रतिलब्धस् तस्य सत्पुरुषस्य चरणौ प्रणम्य शतसहस्रमूल्यं मुक्ताहारं कण्ठाद् अवतार्य ददामि / स तं मुक्ताहारं न प्रतिगृह्णाति स्म / तम् अहम् एतद् अवोचम् : प्रतिगृह्येमम्, यत्र ते प्रसादो भवति तस्मै प्रयच्छेति /
तेन स मुक्ताहारो गृहित्वा द्विधाकृतः / एको भागो यस् तत्र यज्ञशालायां सर्वलोकजुगुप्सितो नगरदरिद्रस् तस्मै दत्तः / द्वितीयश् च भागो दुष्प्रसहाय तथागताय दत्तः / यथा च सर्वा पर्षत् पश्यति तं च मरीचिं लोकधातुं तं च दुष्प्रसहं तथागतं तं च मुक्ताहारं दुष्प्रसहस्य मूर्धसम्धौ मुक्ताहारकूटागारं प्रादुर्भूतं चित्रं दर्शनीयं चतुरस्रं चतुःस्थूणं समंभागशः सुविभक्तम् /

$७६ स इदं प्रातिहार्यं सम्दर्श्येमां वाचम् अभाषत : यस्य दायकस्य दानपतेर् यादृशी तथागते दक्षिणीयसम्ज्ञा तादृशी नगरदरिद्रे निर्नानात्वेन समा, महाकरुणाचित्तेन विपाकाप्रतिकाण्क्षणतया परित्यागः / इयं धर्मयज्ञास्य परिपूरिः /

$७७ तत्रासौ नगरदरिद्र इदं प्रातिहार्यं दृष्ट्वा, इमं च धर्मनिर्देशं श्रुत्वा, अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति स्म / तन् नाहं भगवन् उत्सहे तस्य सत्पुरुषस्य ग्लानपरिपृच्छको गन्तुम् /

$७८ इति हि सर्वे ते बोधिसत्वा महासत्वाः स्वकस्वकान् निर्देशान् निर्दिशन्ति स्म, ये चैषां तेन सत्पुरुषेण सार्धम् अन्तराकथासमुदाहारा अभूवन्, न चोत्सहन्ते गन्तुम् //

श्रावकबोधिसत्वविसर्जनप्रश्नो नाम तृतीयः परिवर्तः //

Chapter ४
$१ तत्र भगवान् मञ्जुश्रियं कुमारभूतम् आमन्त्रयते स्म : गच्छ त्वं मञ्जुश्रीः विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छकः /
मञ्जुश्रीर् अप्य् आह : किं चापि दुरासदो ऽसौ भगवन् विमलकीर्तिर् लिच्छविः गम्भीरनयप्रतिभानप्रविष्टः, व्यस्तसमस्तवचननिर्हारकुशलः, अविष्ठितप्रतिभानः, अप्रतिमबुद्धिः सर्वसत्वेषु, सर्वबोधिसत्वक्रियासु निर्यातः, सर्वबोधिसत्वसर्वबुद्धगुह्यस्थानेषु सुप्रविष्टः, सर्वमारस्थानविवर्तनकुशलमहाभिज्ञाविक्रीडितः, अद्वयासंभेदधर्मधातुगोचरपरमपारमिप्राप्तः, एकव्यूहधर्मधात्वनन्ताकारव्यूहधर्मनिर्देशकः, सर्वसत्वेन्द्रियव्यूहसंप्रापणज्ञानकुशलः, उपायकौशल्यगतिम्गतः प्राप्तप्रश्नविनिश्चयः / स न शक्यो ऽल्पकेन सम्नाहेनाभिराधयितुम् / अथ च पुनर् गमिष्यामि बुद्धाधिष्ठानेन, तत्र यथाशक्ति यथाबलं निर्देक्ष्यामि /

$२ अथ ततः पर्षदस् तेषां बोधिसत्वानां तेषां च श्रावकाणां तेषां च शक्रब्रह्मलोकपालानां तेषां च देवपुत्राणाम् एतद् अभवत् : निश्चयेन तत्र महाधर्मश्रवणसाम्कथ्यं भविष्यति, यत्र मञ्जुश्रीः कुमारभूतः स च सत्पुरुष उभौ संलपिष्यतः / तत्राष्टौ च बोधिसत्वसहस्राणि पञ्चमात्राणि च श्रावकशतानि संबहुलाश् च शक्रब्रह्मलोकपालाः संबहुलानि च देवपुत्रशतसहस्राणि मञ्जुश्रियम् अनुबद्धानि धर्मश्रवणाय / अथ मञ्जुश्रीः कुमारभूतस् तैर् बोधिसत्वैर् महासत्वैस् तैश् च श्रावकैस् तैश् च शक्रब्रह्मलोकपालैर् देवपुत्रैश् च परिवृतो वैशालीं महानगरीं प्रविशति स्म /

$३ अथ विमलकीर्तेर् एतद् अभवत् : अयं मञ्जुश्रीः कुमारभूत आगच्छति महता परिवारेण / यन् न्व् अहं शून्यं गृहम् अधितिष्ठेयम् / तेन तं गृहं शून्यम् अधिष्ठितम् अपगतद्वारपालम् / न तत्र मञ्चा वा पीठा वासनानि वा सम्दृश्यन्ते ऽन्यत्रैकस्मान् मञ्चात्, यत्रात्मना ग्लानः समारूढः शयितः /

$४ अथ मञ्जुश्रीः सपरिवारो येन विमलकीर्तेर् निवेशनं तेनोपसम्क्रामत् / उपसम्क्रम्य प्रविशति स्म / स तं गृहं शून्यम् अपश्यद् विगतद्वारपालम् / न चात्र मञ्चान् वा पीठान् वापश्यद् अन्यत्रैकमञ्चात्, यत्र विमलकीर्तिः शयितः / अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् अद्राक्षीत् / दृष्ट्वा च पुनर् एवम् आह : स्वागतं मञ्जुश्रियो ऽस्वागतं मञ्जुश्रियो ऽनागतस्यादृष्टश्रुतपूर्वस्य दर्शनम् /
मञ्जुश्रीर् आह : एवम् एतद् गृहपते यथा वदसि / य आगतो न स भूय आगमिष्यति / यश् च गतो न स भूयो गमिष्यति / तत् कस्माद् धेतोः / न चागतस्यागमनं प्रज्ञायते, न च गतस्य गमनम्, यश् च दृष्टो न भूयो द्रष्टव्यः /

$५ अपि तु कच्चित् ते सत्पुरुष क्षपणीयम्, कच्चिद् यापनीयम्, कच्चिद् वातेन प्रतिकुप्यन्ति धातवः, कच्चिद् अपगच्छति व्याधिर् न विवर्धते / भगवांस् ते ऽल्पाबाधतां परिपृच्छति, अल्पातण्कतां चाल्पग्लान्यतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च /

$६ कुत्र ते गृहपते इदं व्याधिसमुत्थानम् / कियच्चिरम् उपादाय ते व्याधिः / कदा चोपशमिष्यति /

विमलकीर्तिर् आह : यावच्चिरम् उपादाय मञ्जुश्रीः अविद्या भवतृष्णा च तावच्चिरम् उपादाय ममैष व्याधिः / यदा च सर्वसत्वा विगतव्याधयो भविष्यन्ति तदा मम व्याधिः प्रश्रब्धो भविष्यति / तत् कस्माद् धेतोः / सत्वाधिष्ठानो हि मञ्जुश्रीः बोधिसत्वस्य संसारः / संसारनिश्रितश् च व्याधिः / यदा सर्वसत्वा विगतव्याधयो भविष्यन्ति तदा बोधिसत्वो ऽरोगो भविष्यति /

$७तद्यथा मञ्जुश्रीः श्रेष्ठिन एकपुत्रको ग्लानो भवेत् / तस्य मातापितराव् अपि ग्लानौ स्याताम् / तावच् च दुःखितौ भवेतां यावन् नासाव् एकपुत्रकस् तयोर् विगतव्याधिः स्यात् / एवं मञ्जुश्रीः बोधिसत्वस्य सर्वसत्वेष्व् एकपुत्रकप्रेम / स सत्वग्लान्येन ग्लानो भवति, सत्वारोग्यात् त्व् अरोगः / यत् पुनर् मञ्जुश्रीः एवं वदसि - कुतः समुत्थितो व्याधिर् इति, महाकरुणासमुत्थितो बोधिसत्वानां व्याधिः /

$८ मञ्जुश्रीर् आह : शून्यं ते गृहपते गृहम् / न च ते कश्चिद् उपस्थायकः /
आह : सर्वबुद्धक्षेत्राण्य् अपि मञ्जुश्रीः शून्यानि /
आह : केन शून्यानि /
आह : शून्यतया शून्यानि /
आह : शून्यतायाः का शून्यता /
आह : अपरिकल्पनाश् च शून्यतायाः शून्यताः /
आह : शक्या पुनः शून्यता परिकल्पयितुम् /
आह : येनापि परिकल्प्येत तद् अपि शून्यम् / न च शून्यता शून्यतां परिकल्पयति /
आह : शून्यता गृहपते कुतो मार्गितव्या /
आह : शून्यता मञ्जुश्रीः द्वाषष्टिभ्यो दॄष्टिगतेभ्यो मार्गितव्या /
आह : द्वाषष्टिः पुनर् दृष्टिगतानि कुतो मार्गितव्यानि /
आह : तथागतविमुक्तितो मार्गितव्यानि /
आह : तथागतविमुक्तिः पुनः कुतो मार्गितव्या /
आह : सर्वसत्वचित्तचरितेभ्यो मार्गितव्या / यत् पुनर् मञ्जुश्रीः एवं वदसि कस् त उपस्थायक इति, सर्वमाराः सर्वपरप्रवादिनश् च ममोपस्थायकाः / तत् कस्माद् धेतोः / मारा हि संसारस्य वर्णवादिनः / संसारश् च बोधिसत्वस्योपस्थायकः / परप्रवादिनो दृष्टिगतानां वर्णवादिनः / बोधिसत्वश् च सर्वदृष्टिगतेभ्यो न चलति / तस्मात् सर्वमाराः सर्वपरप्रवादिनश् च ममोपस्थायकाः /

$९ मञ्जुश्रीर् आह : कीदृशो ऽयं ते गृहपते व्याधिः /
आह : अदृश्यो ऽनिदर्शनः /
आह : किम् एष व्याधिः कायसंप्रयुक्त उत चित्तसंप्रयुक्तः /
आह : न कायसंप्रयुक्तः कायविविक्ततया / न चित्तसंप्रयुक्तो मायाधर्मतया चित्तस्य /

आह : चत्वार इमे गृहपते धातवः / कतमे चत्वारः, यद् उत पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् इति / तत् कतमस् तत्र धातुर् बाधते /

आह : य एवं धातुको मञ्जुश्रीः सर्वसत्वानां व्याधिस् तेनाहं व्याधितः /

$१० अपि तु खलु पुनर् मञ्जुश्रीः कथं बोधिसत्वेन ग्लानको बोधिसत्वः प्रतिसंमोदितव्यः /
मञ्जुश्रीर् आह : कायानित्यतया न च निर्विद्विरागतया, कायदुःखतया न च निर्वाणाभिनन्दनतया, कायानात्मतया सत्वपरिपाचनतया च, कायशान्ततया न चात्यन्तशमतया, सर्वदुश्चरितदेशनतया न च सम्क्रान्तितः, स्वग्लान्येन परसत्वग्लानकरुणतया, पूर्वान्तकोटीदुःखानुस्मरणतया, सत्वार्थक्रियानुस्मरणतया, कुशलमूलाभिमुखीकरणतया, आदिविशुद्धतया, अपरितर्षणतया, सदावीर्यारम्भाच् च, वैद्यराजो भविष्यसि सर्वव्याधीनां शमयितेति / एवं बोधिसत्वेन बोधिसत्वो ग्लानः प्रतिसंमोदितव्यः /

$११ मञ्जुश्रीर् आह : कथं कुलपुत्र बोधिसत्वेन ग्लानेन स्वचित्तं निध्यपयितव्यम् /
विमलकीर्तिर् आह : इह मञ्जुश्रिः बोधिसत्वेन ग्लानेनैवं स्वचित्तं निध्यपयितव्यम् / पूर्वान्तासद्विपर्यासकर्मसमुत्थानसमुत्थितो ऽयं व्याधिर् अभूतपरिकल्पक्लेशसमुत्थितः / न पुनर् अत्र कश्चित् परमार्थतो धर्म उपलभ्यते यस्यैष व्याधिः / तत् कस्माद् धेतोः / चातुर्महाभौतिको ऽयं समुच्छ्रयः / न चैषां धातूनां कश्चित् स्वामी न समुत्थापयिता / अनात्मा ह्य् अयं समुच्छ्रयः / यो ऽयं व्याधिर् नाम नायं परमार्थत उपलभ्यते, अन्यत्रात्माभिनिवेशात् / उत नात्मन्य् अभिनिविष्टा विहरिष्यामो व्याधिमूलपरिज्ञाताविनः / तेनात्मसम्ज्ञां विष्ठाप्य धर्मसम्ज्ञोत्पादयितव्या / धर्मसम्घातो ऽयं कायः / धर्मा एवोत्पद्यमाना उत्पद्यन्ते / धर्मा एव निरुध्यामाना निरुध्यन्ते / ते च धर्माः परस्परं न चेतयन्ति न जानन्ति / न च तेषाम् उत्पद्यमानानाम् एवं भवत्य् उत्पद्यामह इति / न निरुध्यमानानाम् एवं भवति निरुध्यामह इति /

$१२ तेन धर्मसम्ज्ञाया एवं चित्तम् उत्पादयितव्यम् / याप्य् एषा धर्मसम्ज्ञा सो ऽपि विपर्यासः / विपर्यासश् च महाव्याधिः / विगतव्याधिकेन च मया भवितव्यम् / व्याधिप्रहाणाय च योगः करणीयः / तत्र कतमद् व्याधिप्रहाणम्, यद् इदम् अहम्कारममकारप्रहाणम् / तच् च कतमद् अहम्कारममकारप्रहाणम्, यद् इदं द्वयविगमः / तत्र कतमो द्वयविगमः, यद् इदम् अध्यात्मं बहिर्धा च समुदाचारः / तत्र कतमो ऽध्यात्मं बहिर्धा समुदाचारः, यद् उत समतयाचलनताप्रचलनता / कतमा च समता, आत्मसमतया च निर्वाणसमता / तत् कस्माद् धेतोः / उभे ऽप्य् एते शून्ये, यद् उतात्मा निर्वाणं च / केनैते शून्ये, नामोदाहारेणैते शून्ये / उभाव् अप्य् एताव् अपरिनिष्पन्नौ, यद् उतात्मा निर्वाणं च / तेन समदर्शिना नान्यो व्याधिर् नान्या शून्यता कर्तव्या / व्याधिर् एव शून्यता /

$१३ अविदिता च सा वेदना वेदितव्या / न चानेन वेदनानिरोधः साक्षात्कर्तव्यः / अपरिपूर्णेषु बुद्धधर्मेषूभे वेदने नोत्स्रष्टव्ये / न च दुर्गत्युपपन्नानां सत्वानाम् अन्तिके महाकरुणा नोत्पादयितव्या / तथा करिष्यामो यथैषां सत्वानाम् एवम् अयोनिशोनिध्यप्त्या व्याधिम् अपनेष्यामः /

$ १४ न चैषां कम्चिद् धर्मम् उपनेष्यामो नापनेष्यामः / यतो निदानाच् च पुनर् व्याधिर् उत्पद्यते तस्य परिज्ञायै तेभ्यो धर्मं देशयिष्यामः / कतमच् च पुनर् निदानम्, यद् इदम् अध्यालम्बननिदानम् / यावताध्यालम्बननिदानम् अध्यालम्बते, तावद् व्याधिनिदानम् / किं चाध्यालम्बते, त्रैधातुकम् अध्यालम्बते / तस्याध्यालम्बनतया का परिज्ञा, यद् इदम् आलम्बनानुपलम्भः / यं हि नोपलभ्यते तं नालम्बते / किं च नोपलभते, उभे दृष्टी नोपलभते, यद् इदम् आत्मदृष्टिं परदृष्टिं च / तद् उच्यते ऽनुपलम्भ इति / एवं हि मञ्जुश्रीः ग्लानेन बोधिसत्वेन स्वचित्तं निध्यपयितव्यं जराव्याधिमरणोपपत्तिप्रहाणाय / एवं च मञ्जुश्रीः बोधिसत्वानां बोधिर् यदि न भवेत्, निरर्थको ननु व्यायामो भवेत् / यथा प्रत्यर्थिकनिर्घाताच् छूरा इत्य् उच्यन्ते, एवम् एव जराव्याधिमरणदुःखोपशमनाद् बोधिसत्वा इत्य् उच्यन्ते /

$१५ तेन बोधिसत्वेन व्याधितेनैवं प्रत्यवेक्षितव्यम् / यथा मम व्याधिर् अभूतो ऽसन्न् एवं सर्वसत्वानाम् अपि व्याधिर् अभूतो ऽसन्न् इति / तस्यैवं प्रत्यवेक्षमाणस्य नानुशंसादृष्टिपतिता सत्वेषु महाकरुणोत्पद्यते, अन्यत्रागन्तुकक्लेशप्रहाणाभियुक्ता सत्वेषु महाकरुणोत्पद्यते / तत् कस्मद् धेतोः / अनुशंसदृष्टिपतितयैव हि महाकरुणया बोधिसत्वस्य खेदो भवत्य् उपपत्तिषु / अनुशंसदृष्टिपर्युत्थानविगतया पुनर् महाकरुणया बोधिसत्वय्स खेदो न भवत्य् उपपत्तिषु / सो ऽयम् उपपद्यते, न च दृष्टिपर्युत्थानापर्युत्थित उपपद्यते / सो ऽपर्युत्थितचित्त उपपद्यमानो मुक्त एवोत्पद्यते मुक्त एव जायते / स मुक्त एवोत्पद्यमानो मुक्त एव जायमानो बद्धानां सत्वानां शक्तः प्रतिबलो बन्धमोक्षाय धर्मं देशयितुम् / यथोक्तं भगवता " स तावद् आत्मना बद्धः परं बन्धनान् मोचय्ष्यतीति नेदं स्थानं विद्यते / यस् त्व् आत्मना मुक्तः परं बन्धनान् मोचयिष्यतीति स्थानम् एतद् विद्यते" / तस्मान् मुक्तेन बोधिसत्वेन भवितव्यम्, न बद्धेन /

$१६ तत्र कतमो बन्धः, कतमो मोक्षः / अनुपायाद् भवगतिपरिग्रहो बोधिसत्वस्य बन्धः, उपायाद् भवगतिगमनं मोक्षः / अनुपायाद् ध्यानसमाध्यास्वादनता बोधिसत्वस्य बन्धः, उपायेन ध्यानसमाध्यास्वादनता मोक्षः / अनुपायसम्गृहीता प्रज्ञा बन्धः, उपायसम्गृहीता प्रज्ञा मोक्षः / प्रज्ञायासम्गृहीता उपायो बन्धनम्, प्रज्ञासम्गृहीता उपायो मोक्षः /

$१७ तत्र कतमो ऽनुपायसम्गृहीता प्रज्ञा बन्धः, यद् इदं शून्यतानिमित्ताप्रणिहितनिध्याप्तिः, न च लक्षणानुव्यञ्जनबुद्धक्षेत्रालम्कारसत्वपरिपाचननिध्यप्तिः / इयम् अनुपायसम्गृहीता प्रज्ञा बन्धः / तत्र कतमोपायसम्गृहीता प्रज्ञा मोक्षः, यद् इदं लक्षणानुव्यञ्जनबुद्धक्षेत्रालम्कारसत्वपरिपाचननिध्यप्तिचित्तं च शून्यतानिमित्ताप्रणिहितपरिजयश् च / इयम् उपायसम्गृहीता प्रज्ञा मोक्षः / तत्र कतमः प्रज्ञयासम्गृहीता उपायो बन्धः, यद् इदं सर्वदृष्टिक्लेशपर्युत्थानानुशयानुनयप्रतिघप्रतिष्ठितस्य सर्वकुशलमूलारम्भो बोधौ चापरिणामना / अयं प्रज्ञयासम्गृहीत उपायो बन्धः / तत्र कतमः प्रज्ञा सम्गृहीत उपायो मोक्षः, यद् इदं सर्वदृष्टिक्लेशपर्युत्थानानुशयानुनयप्रतिघप्रहीणस्य सर्वकुशलमूलारम्भो बोधौ परिणामितस् तस्य चापरामर्शः / अयं बोधिसत्वस्य प्रज्ञासम्गृहीत उपायो मोक्षः /

$१८ तत्र मञ्जुश्रीः ग्लानेन बोधिसत्वेनैवम् इमे धर्मा निध्यपयितव्याः / यत् कायस्य चित्तस्य च व्याधेश् चानित्यदुःखशून्यानात्मप्रत्यवेक्षणा, इयम् अस्य प्रज्ञा / यत् पुनः कायव्याधिपरिहरणतया न खिद्यते, न प्रतिबध्नाति संसारम्, सत्वार्थयोगम् अनुयुक्तः, अयम् अस्योपायः / पुनर् अपरं यत् कायस्य व्याधेश् चित्तस्य चान्योन्यपरापरतां न निर्नवतानिःपुराणतां प्रत्यवेक्षते, इयम् अस्य प्रज्ञा / यत् पुनः कायस्य व्याधेश् चित्तस्य च नात्यन्तोपशमं निरोधम् अत्ययति, अयम् अस्योपायः /

$१९ एवं हि मञ्जुश्रीः ग्लानेन बोधिसत्वेन चित्तं निध्यपयितव्यम् / न च तेन निध्यप्तौ वानिध्यप्तौ वा स्थातव्यम् / तत् कस्माद् धेतोः / यदि ह्य् अनिध्यप्तौ तिष्ट्ःएद् बालधर्म एषः / अथ निध्यप्तौ तिष्ठेच् छ्रावकधर्म एषः / तस्माद् बोधिसत्वेन न निध्यप्तौ स्थातव्यम् / यद् अत्रास्थानम् अयं बोधिसत्वस्य गोचरः /

$२० यन् न पृथग्जनगोचरो नार्यगोचरः, अयं बोधिसत्वस्य गोचरः / यत् संसारगोचरश् च न च क्लेशगोचरः, अयं बोधिसत्वस्य गोचरः / यन् निर्वाणप्रत्यवेक्षणगोचरश् च न चात्यन्तपरिनिर्वाणगोचरः, अयं बोधिसत्वस्य गोचरः / यच् चतुर्मारसम्दर्शनगोचरश् च सर्वमारविषयातिक्रान्तगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् सर्वज्ञज्ञानपर्येष्टिगोचरश् च न चाकाले ज्ञानप्राप्तिगोचरः, अयं बोधिसत्वस्य गोचरः / यच् चतुःसत्यज्ञानगोचरश् च न चाकाले सत्यप्रतिवेधगोचरः, अयं बोधिसत्वस्य गोचरः / यद् अध्यात्मप्रत्यवेक्षणगोचरश् च सम्चिन्त्यभवोपपत्तिपरिग्रहगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अजातिप्रत्यवेक्षणगोचरश् च न च नियामावक्रान्तिगोचरः, अयं बोधिसत्वस्य गोचरः / यत् प्रतीत्यसमुत्पादगोचरश् च सर्वदृष्टिविगतगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् सर्वसत्वसम्गणिकागोचरश् च न च क्लेशानुशयगोचरः, अयं बोधिसत्वस्य गोचरः / यद् विवेकगोचरश् च न च क्लेशानुशयगोचरः, अयं बोधिसत्वस्य गोचरः / यद् विवेकगोचरश् च न च कायचित्तक्षयनिश्रयगोचरः, अयं बोधिसत्वस्य गोचरः / यत् त्रैधातुकगोचरश् च न च धर्मधातुसंभेदगोचरः, अयं बोधिसत्वस्य गोचरः / यच् छून्यतागोचरश् च सर्वाकारगुणपर्येष्टिगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् आनिमित्तगोचरश् च सत्वप्रमोचनारम्बणवितर्कगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अप्रणिहितगोचरश् च सम्चिन्त्यभवगतिसम्दर्शनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अनभिसंस्कारगोचरश् च सर्वकुशलमूलाभिसंस्करप्रतिप्रस्रब्धिगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् षट्पारमितागोचरश् च सर्वसत्वचित्तचरितपारगमनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् षडनुस्मृतिगोचरश् च न च सर्वास्रवक्षयगोचरः, अयं बोधिसत्वस्य गोचरः / यत् सद्धर्मप्रतिष्ठानगोचरश् च न च कुमार्गाध्यालम्बनगोचरः, अयं बोधिसत्वस्य गोचरः / यत् षडभिज्ञागोचरश् न च चास्रवक्षयगोचरः, अयं बोधिसत्वस्य गोचरः / यच् चतुर्प्रमाणगोचरश् च न च ब्रह्मलोकोपपत्तिस्पर्शनगोचरः, अयं बोधिसत्वस्य गोचरः / यद् ध्यानसमाधिसमापत्तिगोचरश् च न च समाधिसमापत्तिवशेनोपपत्तिगोचरः, अयं बोधिसत्वस्य गोचरः / यत् स्मृत्युपस्थानगोचरश् च न च कायवेदनाचित्तधर्मात्यर्थगोचरः, अयं बोधिसत्वस्य गोचरः / यत् सम्यक्प्रहणागोचरश् च न च कुशलाकुशलद्वयोपलम्भगोचरः, अयं बोधिसत्वस्य गोचरः / यद् ऋद्धिपादाभिनिर्हारगोचरश् चानाभोगर्द्धिपादवशवर्तिगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् पञ्चेन्द्रियगोचरश् च सर्वसत्वेन्द्रियपरापरज्ञानगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् पञ्चबलप्रतिष्ठानगोचरश् च दशतथागतबलाभिसम्दर्शनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यत् सप्तबोध्यण्गपरिनिष्पत्तिगोचरश् च बुद्धिप्रभेदज्ञानकौशल्यगोचरश् च, अयं बोधिसत्वस्य गोचरः / यन् मार्गप्रतिष्ठानगोचरश् च कुमार्गानध्यालम्बनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यच् छमथविदर्शनासंभारपर्येष्टिगोचरश् च न चात्यन्तशान्तिपतनगोचरः, अयं बोधिसत्वस्य गोचरः / यद् अनुत्पादलक्षणसर्वधर्ममीमांसनगोचरश् च रूपलक्षणानुव्याञ्जनबुद्धकायालम्कारपरिनिष्पत्तिगोचरः, अयं बोधिसत्वस्य गोचरः / यच् छ्रावकप्रत्येकबुद्धाकल्पसम्दर्शनगोचरश् च बुद्धधर्मात्यजनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अत्यन्तविशुद्धिप्रकृतिसमापन्नसर्वधर्मानुगमनगोचरश् च यथाधिमुक्तिसर्वसत्वेर्यापथसम्दर्शनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् अत्यन्तासंवर्तविवर्ताकाशस्वभावसर्वबुद्धक्षेत्रप्रत्यवेक्षणगोचरश् च नानाव्युहानेकव्यूहबुद्धक्षेत्रगुणव्यूहसम्दर्शनगोचरश् च, अयं बोधिसत्वस्य गोचरः / यद् धर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनगोचरश् च बोधिसत्वचर्यात्यजनगोवरश् च, अयम् अपि बोधिसत्वस्य गोचरः /
इह निर्देशे निर्दिश्यमाने ये मञ्जुश्रिया कुमारभूतेन सार्धम् आगता देवपुत्रास् ततो ऽष्टानां देवपुत्रसहस्राणाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि //

ग्लानप्रतिसंमोदनापरिवर्तश् चतुर्थः //

Chapter ५
$१ अथायुष्मतः शारिपुत्रस्यैतद् अभवत् : कुत्रेमे बोधिसत्वा निषत्स्यन्ति, इमे च महाश्रावकाः / नेह गृह आसनानि संविद्यन्ते /
अथ विमलकीर्तिर् लिच्छविर् आयुष्मतः शारिपुत्रस्य चेतोवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् एतद् अवोचत् : किं भदन्तशारिपुत्रो धर्मार्थिक आगत उतासनार्थिकः /
आह : धर्मार्थिका वयम् आगता नासनार्थिकाः /

$२ आह : तेन हि भदन्तशारिपुत्र यो धर्मार्थिको भवति, नासौ स्वकायार्थिको भवति / किं पुनर् आसनार्थिको भविष्यति / यो भदन्तशारिपुत्र धर्मार्थिको भवति, न स रूपवेदनासम्ज्ञासंस्कारविज्ञानार्थिको भवति, न स्कन्धधात्वायतनार्थिकः / यो धर्मार्थिकः, न स कामधातुरूपधात्वारूप्यधात्वर्थिको भवति, नासौ बुद्धाभिनिवेशार्थिको भवति, न धर्मसम्घाभिनिवेशार्थिकः /

$३ पुनर् अपरं भदन्तशारुपुत्र यो धर्मार्थिकः, नासौ दुःखपरिज्ञानार्थिको न समुदयप्रहाणार्थिको न निरोधसाक्षात्क्रियार्थिको न मार्गभावनार्थिको भवति / तत् कस्माद् धेतोः / अप्रपञ्चो हि धर्मो निरक्षरः / तत्र यः प्रपञ्चयति - दुःखं परिज्ञास्यामि समुदयं प्रहास्यामि निरोधं साक्षात्करिष्यामि मार्गं भावयिष्यामीति, नासौ धर्मार्थिकः, प्रपञ्चार्थिको ऽसौ / धर्मो हि भदन्तशारिपुत्र उपशान्तः / तत्र य उत्पादव्यये चरन्ति, न ते धर्मार्थिका न विवेकार्थिकाः, उत्पादव्ययार्थिकास् ते / धर्मो ह्य् अरजो रजोऽपगतः / तत्र ये क्वचिद् धर्मे रक्षन्ते ऽन्तशो निर्वाणे ऽपि, न ते ध्रमार्थिकाः, रजोऽर्थिकास् ते / धर्मो ह्य् अविषयः / ये विषयसम्ख्याताः, न ते धर्मार्थिकाः, विषयार्थिकास् ते / धर्मो नायूहो निर्यूहः / ये केचिद् धर्मं गृह्णन्ति वा मुञ्चन्ति वा, न ते धर्मार्थिकाः, उद्ग्रहनिःसर्गार्थिकास् ते /

$४ धर्मो ऽनालयः / य आलयारामाः, न ते धर्मार्थिकाः, आलयार्थिकास् ते / धर्मो निर्निमित्तः / येषां निमित्तानुसारिविज्ञानम्, न ते धर्मार्थिकाः, निमित्तार्थिकास् ते / धर्मो ऽसंवासः / ये केचिद् धर्मेण सार्धं संवसन्ति, न ते धर्मार्थिकाः, संवासार्थिकास् ते / धर्मो ऽदृष्टश्रुतमतविज्ञातः / ये दृष्टश्रुतमतविज्ञातेषु चरन्ति, न ते धर्मार्थिकाः, दृष्टश्रुतमतविज्ञातार्थिकास् ते /

$५ धर्मो भदन्तशारिपुत्र असंस्कृतः संस्कृतापगतः / ये संस्कृतगोचराः, न ते धर्मार्थिकाः, संस्कृतोद्ग्रहणार्थिकास् ते / तस्माद् इह भदन्तशारिपुत्र धर्मार्थिकेन ते भवितुकामेन सर्वधर्मानर्थिकेन भवितव्यम् / इह धर्मनिर्देशे निर्दिश्यमाने पञ्चानां देवपुत्रशतानां धर्मेषु धर्मचक्षुर् विशुद्धम् /

$६ अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् आमन्त्रयते स्म : त्वं मञ्जुश्रीः दशसु दिक्ष्व् असम्ख्येयेषु बुद्धक्षेत्रशतसहस्रेषु बुद्धक्षेत्रचारिकां चरसि / तत् कतरस्मिन् बुद्धक्षेत्रे त्वया सर्वविशिष्टानि सर्वगुणोपेतानि सिंहासनानि दृआष्टानि / एवम् उक्ते मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविम् एतद् अवोचत् : अस्ति कुलपुत्र पूर्वे दिग्भागे षट्त्रिंशद्गण्गानदीवालिकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य मेरुध्वजा नाम लोकधातुः / तत्र मेरुप्रदीपराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति / तस्य तथागतस्य चतुरशीतियोजनशतसहस्र आत्मभावः / अष्टषष्टियोजनशतसहस्रं तस्य भगवतः सिंहासनम् / तेषां च बोधिसत्वानां चत्वारिंशद्योजनशतसहस्र आत्मभावः / चतुस्त्रिंशद्योजनशतसहास्राणि तेषां बोधिसत्वानां सिंहासनानि / मेरुध्वजायां लोकधातौ तस्य भगवतो मेरुप्रदीपराजस्य तथागतस्य बुद्धक्षेत्रे सर्वविशिष्टानि सर्वगुणोपेतानि सिंहासनानि /

$७ अथ विमलकीर्तिर् लिच्छविस् तस्यां वेलायां तथारूपं समन्वाहारं समन्वाहरति स्म / तादृशं चार्द्ध्यभिसंस्कारम् अभिसंस्कृतवान्, यत् ततो मेरुध्वजालोकधातोर् द्वात्रिंशत्सिंहासनशतसहस्राणि तेन भगवता मेरुपदीपराजेन तथागतेन प्रेषितानि / तावद् उद्विद्धानि तावद् विस्तीर्णानि तावद् दर्शनीयानि यद् अपूर्वाणि तैर् बोधिसत्वैस् तैश् च महाश्रावकैस् तैश् च शक्रब्रह्मलोकपालैर् देवपुत्रैश् च / तान्य् उपर्य् अन्तरीक्षेणागत्य विमलकीर्तेर् लिच्छवेर् निवेशने प्रत्यतिष्ठन् / तच् च गृहं तावद् विस्तीर्णं सम्दृष्यते, यत्र तानि द्वात्रिंशतसिंहासनशतसहस्राणि विचित्रान्य् अनुत्पीडनतया / न च वैशाल्या महानगर्या आवरणं कृतम्, न जम्बूद्वीपस्य, न चातुर्द्वीपिकस्यावरणम् / सर्वे ते तथैव सम्दृश्यन्ते यथा पूर्वं तथा पश्चात् /

$८ अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् एतद् अवोचत् : निषीद त्वं मञ्जुश्रीः सिंहासने सार्धम् एतैर् बोधिसत्वैः / तादृशांश् चात्मभावान् अधितिष्ठत यत् सिंहासनेष्व् अनुरूपाः स्युः /
अथ ये ऽभिज्ञाप्रतिलब्धा बोधिसत्वास् ते द्वाचत्वारिंशद्योजनशतसहस्रम् आत्मभावम् अधिष्ठाय तेषु सिंहासनेषु निषीदन्ति स्म / ये चादिकर्मिका बोधिसत्वास् ते न शक्नुवन्ति स्म तेषु सिंहासनेषु निषत्तुम् /
अथ विमलकीर्तिर् लिच्छविर् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म : निषीद भदन्तशारिपुत्र सिंहासने /
आह : न शक्नोमि सत्पुरुष निषत्तुम् उच्चानि प्रगृहीतानि चेमानि सिंहासनानि /
आह : तेन हि भदन्तशारिपुत्र तस्यैव भगवतो मेरुप्रदीपराजस्य तथागतस्य नमस्कारं कुरु / ततः शक्ष्यसि निषत्तुम् /
अथ ते महाश्रावकास् तस्य भगवतो मेरुप्रदीपराजस्य तथागतस्य नमस्कारं कुर्वन्ति स्म / ते तत्र पश्चात् तेषु सिंहासनेषु न्यषीदन् /

$९ अथायुष्माञ् शारिपुत्रो विमलकीर्तिं लिच्छविम् एवम् आह : आश्चर्यं कुलपुत्र यद् इहैवं परीत्ते गृह इमानीयन्ति सिंहासनसहस्राण्य् एवम् उच्चान्य् एवं प्रगृहीतानि विचित्रानि / न च वैशाल्या महानगर्या आवरणं कृतम्, न जम्बूद्वीपस्य, न ग्रामनगरनिगमजनपदराष्ट्रराजाधानीनाम्, न चातुर्महाद्वीपिकस्य किम्चिद् आवरणम्, न देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणाम् आवरणं कृतम् / तथैव सम्दृश्यन्ते यथा पूर्वं तथा पश्चात् /

$१० विमलकीर्तिर् आह : अस्ति भदन्तशारिपुत्र तथागतानां बोधिसत्वानां चाचिन्त्यो नाम विमोक्षः, यत्रचिन्त्यविमोक्षे प्रतिष्ठितो बोधिसत्वः सुमेरुं पर्वतराजम् तावद् उच्चं तावत् प्रगृहीतं तावद् उद्विद्धं तावद् विस्तीर्णं सर्षपफलकोशे प्रवेशयेत् / न च सर्षपफलकोशं विवर्धयेत् / न च सुमेरुं हापयेत् / तां च क्रियाम् आदर्शयेत् / न चातुर्महाराजकायिका देवास् त्रयस्त्रिंशतो वा जानीरन् - कस्मिन् वयं प्रक्षिप्ताः / अन्ये च सत्वा ऋद्धिविनेया जानीयूः पश्येयुस् तं सुमेरुं पर्वतराजं सर्शपफलकोशप्रविष्तम् / अयं भदन्तशारिपुत्र बोधिसत्वानाम् अचिन्त्यस्य विमोक्षस्य विसयप्रवेशः /

$११ पुनर् अपरं भदन्तशारिपुत्र अचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वो यश् चतुर्षु महासमुद्रेष्व् अप्स्कन्धस् तम् एकस्मिन् रोमकूपे प्रक्षिपेत् / न च मत्स्यकच्छपशिशुमारमण्डूकानाम् अन्येषां वौदकानां प्राणिनां पीडा भवेत् / न च नागयक्षगन्धर्वासुराणाम् एवं भवेत् - कस्मिन् वयं प्रक्षिप्ताः / सा न क्रिया प्रज्ञायेत / न च कश्चित् सत्वो विहिंसितो विहेठितो वा भवेत् /

$१२ इमं च त्रिसाहस्रमहासाहस्रं लोकधातुं भार्गवचक्रम् इव परिगृह्य दक्षिणे पाणाव् अवभ्राम्य गण्गानदीवालिकासमान् लोकधातून् क्षिपेत् / न च सत्वा जानीरन् - कस्मिन् वयं नीताः, कुतो वागता इति / पुनर् अपि चानाय्य यथास्थानं स्थापयेत् / न च गमनागमनं सम्जानीरम् / सा च क्रिया सम्दृश्येत /

$१३ पुनर् अपरं भदन्तशारिपुत्र सन्ति सत्वा अप्रमाणसंसारवैनयिकाः / सन्ति सम्क्षिप्तसंसारवैनयिकाः / तत्राचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वो ऽप्रमानसंसारवैनयिकानां सत्वानां वैनयिकवशम् उपादाय सप्तरात्रं कल्पम् अतिक्रान्तम् आदर्शयेत् / सम्क्षिप्तसंसारवैनयिकानां सत्वानां वैनयिकवशम् उपादाय कल्पं सप्तरात्रम् अतिक्रान्तम् आदर्शयेत् / तत्राप्रमाणसंसारविनेयाः सत्वाः सप्तरात्रं कल्पम् अतिक्रान्तं सम्जानीरन् / सम्क्षिप्तसंसारविनेयाः सत्वाः कल्पं सप्तरात्रम् अतिक्रान्तं सम्जानीरन् /

$१४ इति ह्य् अचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वः सर्वबुद्धक्षेत्रगुणव्यूहान् एकस्मिन् बुद्धक्षेत्रे सम्दर्शयति / सर्वसत्वान् अपि दक्षिणे करतले प्रतिष्ठाप्य चित्तजाविकयर्द्ध्या क्रमेत् / सर्वबुद्धक्षेत्रेषु च सम्दर्शनं दद्यात् / न चैकतो ऽपि क्षेत्राच् चलेत् / यावत्यश् च दशसु दिक्षु बुद्धानां भगवतां पूजा वर्तन्ते, ताः सर्वा एकरोमकूप आदर्शयेत् / यावन्तश् च दशसु दिक्षु चन्द्रसूर्यास् तारारूपाणि च, तान्य् अपि सर्वाण्य् एकरोमकूप आदर्शयेत् / यावत्यश् च दशसु दिक्षु वातमण्डल्यः प्रवान्ति, ता अपि सर्वा मुखद्वारे प्रवेशयेत् / न चास्य कायो विकीर्येत / न च तत्र बुद्धक्षेत्रे तृणवनस्पतयो नमेयुः /

$१५ यानि च दशसु दिक्षु बुद्धक्षेत्राण्य् उद्दःयन्ते कल्पोद्दाहेन, तद् अपि सर्वम् अग्निस्कन्धं स्वमुखे प्रक्षिपेत् / यच् च तेन कर्म कर्तव्यम् भवेत्, तच् च कुर्यात् / यच् चावस्ताद् गण्गानदीवालिकाकोटीसमेषु बुद्धक्षेत्रेष्व् अतिक्रम्य बुद्धक्षेत्रम्, तद् अभ्युत्क्षिप्योर्धं दिग्धागं गण्गानदीवालिकोटीसमेषु बुद्धक्षेत्रेषु प्रतिष्ठापयेत् / तद्यथापि नाम बलवान् पुरुषः सूच्यग्रेण बदरीपत्रम् उत्क्षिपेत् /

$१६ एवम् अचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वः सर्वसत्वानि चक्रवर्त्यादिरूपाण्य् अधितिष्ठेत् /

$१७ यावन्तश् च दशसु दिक्षु शब्दावभासाः शब्दप्रज्ञाप्तयः, ताः सर्वा हीनमध्यविशिष्टानाम् सत्वानां सर्वबुद्धघोषरुतरचितान्य् अधितिष्ठन्, ततश् च रुतघोषाद् अनित्यदुःखशून्यानात्मशब्दरुतानि निश्चारयेत् / यावद्भिश् चाकारनिर्देशैर् दशसु दिक्षु बुद्धा भगवन्तो धर्मं देशयन्ति, तांस् ततो रुतनिर्घोषान् निश्चारयेत् /

$१८ अयं भदन्तशारिपुत्र अचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानां यत्किम्चिन्मात्रो विषयावतारनिर्देशः / अपि तु कल्पम् अहं भदन्तशारिपुत्र कल्पावशेषं वाचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानां विषयानां विषयावतारनिर्देशं निर्दिशेयम्, अतो वोत्तरि /

$१९ अथ खलु स्थविरो महाकाश्यप इमं बोधिसत्वानाम् अचिन्त्यविमोक्षं श्रुत्वाश्चर्यप्राप्तः स्थाविरं शारिपुत्रम् एतद् अवोचत् : तद्यथापि नाम आयुष्मञ् शारिपुत्र जात्यन्धस्य पुरुषस्य पुरस्तात् कश्चिद् एव सर्वरूपगतान्य् उपदर्शयेत् / न च तत्र स जात्यन्ध एकरूपम् अपि पश्येत् / एवम् एव आयुष्मञ् शारिपुत्र इहाचिन्त्यविमोक्षे निर्दिश्यमाने सर्वश्रावकप्रत्येकबुद्धा इह जात्यन्धा इव चक्षुर्विहीना एकस्मिन्न् अप्य् अचिन्त्यकारणे न प्रत्यक्षाः / को नाम विद्वान् इमम् अचिन्त्यं विमोक्षं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादयेत् / तत् किं नु भूयः करिष्यामो ऽत्यन्तोपहतेन्द्रिया दग्धविनष्टानीव बीजान्य् अभाजनीभूता इह महायाने / सर्वश्रावकप्रत्येकबुद्धैर् इमं धर्मनिर्देशं श्रुत्वा रुदद्भिस् त्रिसाहस्रमहासाहस्रो लोकधातुर् विज्ञापयितव्यः / सर्वबोधिसत्वैश् च प्रमुदितैर् इमम् अचिन्त्यविमोक्षं श्रुत्वा मूर्ध्ना संप्रत्येतव्यः, अधिमुक्तिबलं च सम्जनयितव्यम् / यस्यैषाचिन्त्यविमोक्षाधिमुक्तिः सर्वमारस् तस्य किं करिष्यन्ति / इमं निर्देशं निर्दिशतः स्थविरस्य महाकाश्यपस्य द्वात्रिंशता देवपुत्रसहस्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि /

$२० अथ विमलकीर्तिर् लिच्छविः स्थाविरं महाकाश्यपम् एवम् आह : यावन्तो भदन्तमहाकाश्यप दशसु दिक्ष्व् अप्रमेयेषु लोकधातुषु मारा मारत्वं कारयन्ति, सर्वे ते यद्भूयसाचिन्त्यविमोक्षप्रतिष्ठिता बोधिसत्वा उपायकौशल्येन सत्वपरिपाचनाय मारत्वं कारयन्ति / यावद्भिर् भदन्तमहाकाश्यप दशसु दिक्ष्व् अप्रमेयेषु लोकधातुषु बोधिसत्वा याचनकैर् याच्यन्ते हस्तपादान् वा कर्णनासं वा शोणितं स्नायुं वास्थिमज्जानं वा नेत्राणि वोत्तमाण्गानि शिरांसि वाण्गप्रत्यण्गानि वा राज्यराष्ट्रजनपदान् वा भार्यापुत्रदुहिटृर् वा दासदासीर् वा हयगजरथवाहनानि वा सुवर्णमणिमुक्तावैडूर्यशण्खशिलाप्रवाडमणिरत्नजातं वान्नपानानि रसान् वा, वस्त्राणि चोत्पीड्य याच्यन्ते, सर्वे ते याचनका यद्भूयसाचिन्त्यविमोक्षप्रतिष्ठिता बोधिसत्वा उपायकौशल्येनेमां दृढाध्याशयतां दर्शयन्ति / तत् कस्माद् धेतोः / उग्रतपसो हि भदन्तमहाकाश्यप बोधिसत्वास् त एवं दर्शयन्ति / नास्ति हि प्राकृतजनस्यास्थानानवकाशकृतस्य बोधिसत्वम् उत्पीडयितुम् /
तद्यथापि नाम भदन्तमहाकाश्यप न शक्तिर् अस्ति खद्योतकस्य सूर्यमण्डलप्रभाम् अभिभवितुम् / एवम् एव भदन्तमहाकाश्यप न शक्तिर् अस्ति प्राकृतस्य जनस्य बोधिसत्वेनानवकाशकृतस्योपसम्क्रमितुं याचितुं वा / तद्यथा भदन्तमहाकाश्यप यो हस्तिनागस्य प्रहारो न स शक्यो गर्दभेन सोढुम् / एवम् एव भदन्तमहाकाश्यप न शक्यम् अबोधिसत्वेन बोधिसत्वस्योत्पीडनं सोढुम् / बोधिसत्व एव बोधिसत्वोत्पीडां सहते / अयम् भदन्तमहाकाश्यप अचिन्त्यविमोक्षप्रतिष्ठितानां बोधिसत्वानाम् उपायज्ञानबलप्रवेशः //

अचिन्त्यविमोक्षसम्दर्शनपरिवर्तः पञ्चमः //

chapter ६
$१ अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविम् एतद् अवोचत् : कथं सत्पुरुष बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः /
आह : तद्यथापि नाम मञ्जुश्रीः विज्ञपुरुष उदकचन्द्रम् अवेक्षेत, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथापि नाम मञ्जुश्रीः आदर्शमण्डले मुखमण्डलम् आलोकयेत्, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथा मञ्जुश्रीः मरीचिकायाम् उदकम्, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथा मञ्जुश्रीः मायाकारो मायाकारनिर्मितं पुरुषम् अवेक्षेत, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथा मञ्जुश्रीः प्रतिश्रुत्काया रुतघोषः, एवं बोधिसत्वेन सर्वसत्वा अवेक्षितव्याः / तद्यथा मञ्जुश्रीः गगने ऽभ्रकूटम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः फेनपिण्ड्सय पूर्वान्तः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः उदकबुद्बुदानाम् उत्पादव्ययः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः कदल्याः सारदर्शनम्, एवं बोधिसत्वेन सर्वस्तवाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः विद्युतः सम्क्रान्तिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः पञ्चमो धातुः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः सप्तमम् आयतनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः आरूप्येषु रूपावभासः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः परितप्तानां बीजानाम् अण्कुरपरिनिष्पत्तिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः मण्डूकरोमप्रवारः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः मृतस्य कामक्रीडारतिः, एवं बोधिसत्वेन सर्वस्तवाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः स्रोतआपन्नस्य सत्कायदृष्टिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः सकृदागामिनस् तृतीयो भवः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः अनागामिनो गर्भावक्रान्तिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः अर्हतः रागदोषमोहाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः क्षान्तिप्रतिलब्धस्य बोधिसत्वस्य मात्सर्यदौःशील्यव्यापादविहिंसाचित्तनि, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः तथागतस्य क्लेशवासना, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः जात्यन्धस्य पुरुषस्य रूपदर्शनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः निरोधसमापन्नस्याश्वासाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः आकाशे शकुनिपदम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः पण्डकस्येन्द्रियस्य प्रादुर्भावः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः बन्ध्यायाः पुत्रप्रतिलम्भः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः तथागतनिर्मितस्यानुत्पन्नाः क्लेशाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः स्वप्नदर्शनप्रतिबुद्धस्य दर्शनम्, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः अपरिकल्पयतः क्लेशाः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः अनुपादानस्याग्नेः संभवः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / तद्यथा मञ्जुश्रीः परिनिर्वृतस्य प्रतिसम्धिः, एवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः / एवं हि मञ्जुश्रीः बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः /

$२ आह : यदि कुलपुत्रैवं बोधिसत्वेन सर्वसत्वाः प्रत्यवेक्षितव्याः, कथं पुनर् अस्य महामैत्री भवति सर्वसत्वेषु /
आह: यदा मञ्जुश्रीः बोधिसत्व एवं प्रत्यवेक्षते, मया ह्य् एषां सत्वानाम् एवं धर्मपरिज्ञायै धर्मो देशयितव्य इति, अतो ऽस्य भूता सत्वत्राणमैत्री सर्वसत्वेषूत्पद्यते ऽनारम्बणतया, उपशममैत्र्य् अनुत्पादनतया, निष्परिदाहमैत्री निःक्लेशतया, यथावद्मैत्री त्र्यध्वसमतया, अविरोधमैत्र्य् अपर्युपस्थानतया, अद्वयमैत्र्य् अध्यात्मबहिर्धासंसृष्टतया, अकोप्यमैत्र्य् अत्यन्तनिष्ठतया/ दृढमत्री वज्रदृढाभेद्याशयतया, शुद्धमैत्री प्रकृतिशुद्धतया, सममैत्र्य् आकाशसमतया, अर्हन्मैत्र्य् अरिनिर्घातनतया, बोहिसत्वमैत्री सत्वपरिपाकास्रंसनतया, तथागतमैत्री तथतानुबोधनतया, बुद्धमैत्री सुप्तसत्वप्रबोधनतया, स्वयंभुमैत्री स्वयमभिसंबोधनतया बोधिमैत्री समरसतया, असमारोपमैत्र्य् अनुनयप्रतिघप्रहाणतया, महाकरुणामैत्री महायानपरिदीपनतया, अपरिखेदमैत्री शून्यनैरात्म्यप्रत्यवेक्षणतया, धर्मदानमैत्र्य् अनाचार्यमुष्टितया, शीलमैत्री दुःशीलसत्वावेक्षणतया, क्षान्तिमैत्र्य् आत्मपराक्षण्यनतया, वीर्यमैत्री सर्वसत्वभारवहनतया, ध्यानमैत्र्य् अनास्वादनतया, प्रज्ञामैत्री कालसंप्रापणतया, उपायमैत्री सर्वत्रमुखोद्दर्शनतया, अकुहनमैत्र्य् अशयपरिशुद्धितया, अशाठ्यमैत्र्य् आशयतया, अध्याशयमैत्री निरण्गणतया, अमायामैत्र्य् अकृत्रिमतया, सौख्यमैत्री बुद्धसौख्यप्रतिष्ठापनतया / इयं मञ्जुश्रीः बोधिसत्वस्य महामैत्री /

$३ आह : कतरा पुनर् अस्य महाकरुणा /
आह : यत् कृतं कृतं कुशलमूलं सर्वसत्वेभ्य उत्सृजति /
आह : कतरा पुनर् अस्य महामुदिता /
आह : यद् दत्वात्तमना भवति, न विप्रतिसारी /
आह : कतरा पुनर् अस्य महोपेक्षा /
आह : योभयतोऽर्थता /

$४ आह : संसारभयभीतेन किं प्रतिपत्तव्यम् /
आह : संसारभयभीतेन मञ्जुश्रीः बोधिसत्वेन बुद्धमाहात्म्यं प्रतिपत्तव्यम् /
आह : बुद्धमाहात्म्ये स्थातुकामेन कुत्र स्थातव्यम् /
आह : बुद्धमाहात्म्ये स्थातुकामेन सर्वसत्वसमतायां स्थातव्यम् /
आह : सर्वसत्वसमतायां स्थातुकामेन कुत्र स्थातव्यम् /
आह : सर्वसत्वसमतायां स्थातुकामेन सर्वसत्वप्रमोक्षाय स्थातव्यम् /

$५ आह : सर्वसत्वप्रमोक्षं कर्तुकामेन किं कर्तव्यम् /
आह : सर्वसत्वप्रमोक्षं कर्तुकामेन क्लेशप्रमोक्षः कर्तव्यः /
आह : क्लेशान् उत्स्रष्टुकामेन कथं प्रयुक्तेन भवितव्यम् /
आह : क्लेशान् उत्स्रष्टुकामेन योनिशः प्रयुक्तेन भवितव्यम् /
आह : कथं प्रयुक्तः पुनर् योनिशः प्रयुक्तो भवति /
आह : अनुत्पादानिरोधप्रयुक्तो योनिशः प्रयुक्तो भवति /
आह : किं नोत्पादयति, किं न निरोधयति /
आह : अकुशलं नोत्पादयति, कुशलं न निरोधयति /
आह : कुशलस्याकुशलस्य च किं मूलम् /
आह : सत्कायो मूलम् /
आह : सत्कायस्य च पुनः किं मूलम् /
आह : सत्कायस्येच्छालोभौ मूलम् /
आह : इच्छालोभयोः किं मूलम् /
आह : इच्छलोभयोर् अभूतपरिकल्पो मूलम् /

$६ आह : अभूतपरिकल्पस्य किं मूलम् /
आह : अभूतपरिकल्पस्य विपर्यस्ता सम्ज्ञा मूलम् /
आह : विपर्यस्तायाः सम्ज्ञायाः किं मूलम् /
आह : विपर्यस्तायाः सम्ज्ञाया अप्रतिष्ठा मूलम् /
आह : अप्रतिष्ठायाः किं मूलम् /
आह : यन् मञ्जुश्रीः अप्रतिष्ठानं तस्य किं मूलं भविष्यति / इति ह्य् अप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्माः /

$७ अथ या तत्र गृहे देवता प्रतिवसति, सा तेषां बोधिसत्वानां महासत्वानाम् इमं धर्मनिर्देशं श्रुत्वा तुष्टोदग्रात्तमना, औदारिकम् आत्मभावं सम्दर्श्य दिव्यैः पुष्पैस् तान् महासत्वांस् तांश् च महाश्रावकान् अभ्यवकिरति स्म / अभ्यवकीर्णानां च तत्र यानि बोधिसत्वानां काये पुष्पाणि पतितानि, तानि धरणितले प्रतिष्ठितानि / यानि पुनर् महाश्रावकाणां काये पुष्पाणि पतितानि, तानि तत्रैव स्थितानि न भूमौ पतितानि / ततस् ते महाश्रावका ऋद्धिप्रातिहार्यैः तानि पुष्पाण्य् उत्सृजन्ति, न च पतन्ति /

$८ अथ सा देवतायुष्मन्तं शारिपुत्रम् एवम् आह : किं भदन्तशारिपुत्र एतानि पुष्पाण्य् उत्सृजसि /
आह : अकल्पिकानि देवते एतानि पुष्पाणि / तस्माद् अहम् एतानि पुष्पाण्य् अपनयामि /
देवताह : मा भदन्तशारिपुत्र एवं वोचः / तत् कस्माद् धेतोः / एतानि हि पुष्पाणि कल्पिकानि / किं कारणम् / तथा ह्य् एतानि पुष्पाणि न कल्पयन्ति न विकल्पयन्ति / स्थविरः पुनः शारिपुत्रः कल्पयति विकल्पयति च / ये भदन्तशारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्यां कल्पयन्ति विकल्पयन्ति च, ते ऽकल्पिकाः / स्थविरस् तु कल्पयति विकल्पयति च / ये पुनर् न कल्पयन्ति न विकल्पयन्ति, ते कल्पिकाः / पश्य भदन्तशरिपुत्र एषां महासत्वानां काये पुष्पाणि न श्लिष्यन्ति / यथापि नाम सर्वकल्पविकल्पप्रहीणत्वात् / तद्यथापि नाम भीरुकजातीयस्य पुरुषस्यामनुष्या अवतारं लभन्ते / एवम् एव संसारभयभीतानां रूपशब्दगन्धरसस्प्रष्टव्यान्य् अवतारं लभन्ते / ये पुनः सर्वसंसारक्लेशभयविगताः, किं तेषां रूपशब्दगन्धरसस्प्रष्टव्यानि करिष्यन्ति / येषां वासनाप्रहीणा, तेषां काये पुष्पाणि श्लिष्यन्ति / तस्मात् सर्ववासनाप्रहीणानां काये पुष्पाणि न श्लिष्यन्ति /

$९ अथ खल्व् आयुष्माञ् शारिपुत्रस् तां देवताम् एतद् अवोचत् : कियच्चिरनिविष्टा पुनस् त्वं देवते इह गृहे /
आह : यावच्चिरनिविष्टा स्थविरस्यार्या विमुक्तिः /
आह : न चिरस्थिता त्वं देवते इह गृहे /
आह : कियच्चिरनिविष्टा पुनः स्थविरस्यार्या विमुक्तिः /
ततः स्थविरस् तूष्णीम् अभूत् /
आह : किम् इदानीं महाप्रज्ञानाम् अग्र्यः स्थाविरस् तूष्णीम् अभूत् / प्राप्तकालं प्रशनं न विसर्जयति /
आह : अप्रव्याहारा हि देवते विमुक्तिः / तन् न जाने किम् व्याहरामीति /
आह : यद् यद् एव स्थविरो ऽक्षरम् उदाहरति, सर्वाण्य् एतान्य् अक्षराणि विमुक्तिलक्षणानि / तत् कस्माद् धेतोः / या हि सा विमुक्तिः, सा नाध्यात्मं न बहिर् नोभयम् अन्तरेणोपलभ्यते / एवम् अक्षराण्य् अपि / तस्मात् तर्हि भदन्तशारिपुत्र मा अक्षरापनयेन विमुक्तिं निर्दिश / तत् कस्माद् धेतोः / सर्वधर्मसमता हि विमुक्तिः /
आह : ननु देवते रागदोषमोहविगमाद् विमुक्तिः /
देवताह : अभिमानिकानाम् एष निर्देषो रागदोषमोहविगमाद् विमुक्तिर् इति / ये निरभिमानिकाः, तेषां रागदोषमोहप्रकृतिर् एव विमुक्तिः /

$१० अथ खल्व् आयुष्माञ् शारिपुत्रस् तां देवताम् एतद् अवोचत् : साधु साधु देवते किं त्वया प्राप्तं किं वा साक्षात्कृतम्, यस्यास् त ईदृशं प्रतिभानम् /
आह : न मया भदन्तशारिपुत्र किम्चित् प्राप्तम् साक्षात्कृतं वा / तेन म ईदृशं प्रतिभानम् / येषाम् एवं भवत्य् अस्माभिः प्राप्तं वा साक्षात्कृतं चेति, ते स्वाख्याते धर्मविनय आभिमानिका इति उच्यन्ते /

$११ आह : किं त्वं देवते श्रावकयानिका प्रत्येकबुद्धयानिका महायानिका वा /
आह : श्रावकायानिकास्मि श्रावकयानसूचनतया, प्रत्येकबुद्धयानिकास्मि प्रतीत्यधर्मावतारेण, महायानिकास्मि महकरुणानुत्सृजनतया /

$१२ अपि तु खलु पुनर् भदन्तशारिपुत्र न चम्पकवनं प्रविष्टा एरण्डगन्धं जिघ्रन्ति / चम्पकवनं तु प्रविष्टाश् चम्पकगन्धम् एव जिघ्रन्ति / एवम् एव भदन्तशारिपुत्र नेह गृहे बुद्धधर्मगुणगन्धिके वसन्तः श्रावकप्रत्येकबुद्धगन्धं जिघ्रन्ति / ये ऽपि भदन्तशारिपुत्र शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा इदं गृहं प्रविशन्ति, ते ऽप्य् अस्य सत्पुरुषस्य धर्मश्रवणेन बुद्धधर्मगुणगन्धेनोत्पादितबोधिचित्ता निष्क्रामन्ति / द्वादशवर्षाण्य् उपादाय भदन्तशारिपुत्र प्रतिवसन्त्या मे न जातु श्रावकप्रत्येकबुद्धसंप्रयुक्ता कथा श्रुतपूर्वा, नान्यत्र महामैत्रीमहाकरुणाप्रतिसंयुक्तैवाचिन्त्यधर्मप्रतिसंयुक्तैव /

$१३ इह भदन्तशारिपुत्र गृहे ऽष्टाव् आश्चर्याद्भुता धर्माः सततसमितं सम्दृश्यन्ते / कतमे ऽष्टौ /
नेह रात्रिर् वा दिवसो वा प्रज्ञायते सदावभासितम् इदं गृहं सुवर्णवर्णया प्रभया / नेह सूर्याचन्द्रमसौ प्रज्ञायेते, न भ्राजेते / अयं प्रथम आश्चर्याद्भुतो धर्मः /

पुनर् अपरं भदन्तशारिपुत्र ये प्रविशन्तीदं गृहम्, तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते / अयं द्वितीय आश्चर्याद्भुतो धर्मः /

पुनर् अपरं भदन्तशारिपुत्र इदं गृहम् अविरहितं शक्रब्रह्मलोकपालैर् अन्यबुद्धक्षेत्रसम्निपतितैश् च बोधिसत्वैः / अयं तृतीय आश्चर्याद्भुतो धर्मः /

पुनर् अपरं भदन्तशारिपुत्र इदं गृहं सततसमितम् अविरहितं धर्मश्रवणेन षट्पारमिताप्रतिसंयुक्तया कथयाविवर्त्यधर्मकथया च / अयं चतुर्थ आश्चर्याद्भुतो धर्मः /

पुनर् अपरं भदन्तशारिपुत्र इह गृहे यास् तूर्यसम्गीतयो दिव्यमानुष्यकाणि वा वाद्यानि वाद्यन्ते, तेभ्यस् तूर्येभ्यो ऽप्रमाणो धर्मशब्दनिर्हारो निश्चरति सार्वकालिकः / अयं पञ्चम आश्चर्याद्भुतो धर्मः /

पुनर् अपरं भदन्तशारिपुत्र इह गृहे चत्वारि महानिधानानि सर्वरत्नपरिपूर्णान्य् अक्षयाणि यतो निष्यन्दं सर्वदरिद्रकृपणा आदाय प्रक्रामन्ति, न च क्षीयन्ते / अयं षष्ठ आश्चर्याद्भुतो धर्मः /

पुनर् अपरं भदन्तशारिपुत्र इह गृहे शाक्यमुनिस् तथागतो ऽमिताभो ऽक्षोभ्यो रत्नश्री रत्नार्ची रत्नचन्द्रो रत्नव्यूहो दुःप्रसहः सर्वार्थसिद्धः प्रभूतरत्नः सिंहनादनादी सिंहघोषस् तथागत एवं प्रमुखा दशसु दिक्ष्व् अप्रमाणास् तथागता ये ऽस्य सत्पुरुषस्य चिन्तितमात्रेणागच्छन्ति / आगत्य च तथागतगुह्यं नाम धर्ममुखप्रवेशं देशयित्वा प्रक्रामन्ति / अयं सप्तम आश्चर्याद्भुतो धर्मः /

पुनर् अपरं भदन्तशारिपुत्र इह गृहे सर्वदेवभवनव्यूहाः सर्वबुद्धक्षेत्रगुणव्यूहाश् च सम्दृश्यन्ते / अयम् अष्टम आश्चर्याद्भुतो धर्मः /

इमे भदन्तशारिपुत्र अष्टाव् आश्चर्याद्भुता धर्माः सततसमितम् इह गृहे सम्दृश्यन्ते / तत् कस्माद् धेतोः / क इमाम् अचिन्त्यधर्मतां पश्यञ् श्रावकधर्मतायै स्पृहयेत् /

$१४ आह : किं त्वं देवते स्त्रीभावं न निवर्तयसि /
आह : परिपूर्णानि मे द्वादशवर्षान्य् उपादाय स्त्रीभावं पर्येषमाणाया न चैनं लभे / अपि च भदन्तशारीपुत्र या मायाकारेण स्त्रीनिर्मिता यस् ताम् एवं वदेत् : किं त्वं स्त्रीभावं न निवर्तयसीति, स किं वदेत् /
आह : न तस्याः काचित् भूता परिनिष्पत्तिः /
आह : एवम् एव भदन्तशारिपुत्र अपरिनिष्पन्नेषु सर्वधर्मेषु मायानिर्मितस्वभावेषु कुतस् तवैवं भवति : किं त्वं स्त्रीभावं न निवर्तयसीति /

$१५ अथ सा देवता तादृशं अधिष्ठानम् अधितिष्ठति स्म / यथा स्थाविरः शारिपुत्रो यादृशी सा देवता तादृशः सम्दृश्यते, सा देवता यादृशः स्थविरस् तादृशी सम्दृश्यते / अथ सा देवता शारिपुत्ररूपा शारिपुत्रं देवतारूपधारिणम् अपृच्छत् : किं भदन्तशारिपुत्र स्त्रीभावं न निवर्तयसि /
शारिपुत्रो देवतारूप्य् आह : न जाने किं विनिवर्तयामीति / पुरुषरूपम् अन्तर्हितं स्त्रीरूपं मे निर्वृत्तम् /
आह : यदि स्थविरः शक्ष्यति स्त्रीभावं विनिवर्तयितुम् , ततः सर्वाः स्त्रियो ऽपि स्त्रीभावं विनिवर्तयिष्यन्ति / यथा स्थविरो न स्त्री स्त्रीव सम्दृश्यते, एवं सर्वस्त्रीणाम् अपि स्त्रीरूपं न च स्त्रियः स्त्रीरूपाश् च सम्दृश्यन्ते / इदं सम्धाय भगवान् आह : "सर्वधर्मा न स्त्री न पुरुष" इति /
अथ सा देवता तद् अधिष्ठानम् अवासृजत् / अथायुष्माञ् शारिपुत्रः पुनर् एव स्वरूपसमन्वागतो बभूव / अथ सा देवतायुष्मन्तं शारिपुत्रम् एवम् आह : क्व नु ते भदन्तशारिपुत्र स्त्रीरूपं कृतं गतम् /
आह : न तत् कृतं न विकृतम् /
आह : एवम् एव सर्वधर्मा न कृता न विकृताः / यत्र च न कृतिर् न विकृतिस् तद् बुद्धवचनम् /

$१६ आह : इतस् त्वं देवते च्युता कुत्रोपपत्स्यसे/
आह : यत्रैव तथागतनिर्मित उपपत्स्यते, तत्रैवाहम् उपपत्स्ये /
आह : तथागतनिर्मितस्य न च्युतिर् नोपपत्तिः /
आह : एवम् एव सर्वधर्माणां न च्युतिर् नोपपत्तिः /
आह : कियच्चिरेण पुनर् देवते बोधिम् अभिसंभोत्स्यसे /
आह : यदा स्थविरः पृथग्जनधर्मसमन्वागतो भविष्यति, तदाहं बोधिम् अभिसंभोत्स्ये /
आह : अस्थानम् एतद् देवते यद् अहं पृथग्जनधर्मसमन्वागतः स्याम् /
आह : एवम् एव भदन्तशारिपुत्र अस्थानम् एतद् यद् अहं बोधिम् अभिसंभोत्स्ये / तत् कस्माद् धेतोः / अस्थानस्थितैव हि बोधिः / तस्माद् अस्थानं न कश्चिद् अभिसंभोत्स्यते /
स्थविर आह : उक्तं देवते तथागतेन "गण्गानदीवालिकासमास् तथागता अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च" /
देवताह : अक्षरगणनासम्केताधिवचनम् एतद् भदन्तशारिपुत्र अतीतानागतप्रत्युत्पन्ना बुद्धा इति / न पुनर् बुद्धा अतीता वानागता वा वर्तमाना वा / त्र्यध्वसमतिक्रान्ता हि बोधिः / अपि च प्राप्तं स्थविरेणार्हत्त्वम् /
आह : प्राप्तम् असंप्राप्तिकारणेन /
आह : एवम् एवाभिसंबोधिर् अनभिसंबोधिकारणेन /

$१७ अथ विमलकीर्तिर् लिच्छविर् आयुष्मन्तं शारिपुत्रम् एवम् आह : द्वानवतिबुद्धकोटीपर्युपासिता भदन्तशारिपुत्र एषा देवताभिज्ञाज्ञानविक्रीडिता प्रणिधानसमुच्छ्रिता क्षान्तिप्रतिलब्धावैवर्तिकसमवसरणा प्रणिधानवशेन यथेच्छति तथा तिष्ठति सत्वपरिपाकाय //
देवतापरिवर्तः षष्थः //

Chapter ७
$१ अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविम् एवम् आह : कथं कुलपुत्र बोधिसत्वो गतिम्गतो भवति बुद्धधर्मेषु /
आह : यदा मञ्जुश्रीः बोधिसत्वो ऽगतिगमनं गच्छति, तदा बोधिसत्वो गतिम्गतो भवति बुद्धधर्मेषु /
आह : कतमच् च बोधिसत्वस्यागतिगमनम् /
आह : यदा पञ्चानन्तर्यगतिं च गच्छति, न च व्यापादविहिंसा प्रदुष्टो भवति / निरयगतिं च गच्छति, सर्वरजःक्लेशविगतश् च भवति / तिर्यग्योनिगतिं च गच्छति, विगततमोऽन्धकारश् च भवति / असुरगतिं च गच्छति, मानमददर्पविगतश् च भवति / यमलोकगतिं च गच्छति, सर्वपुण्यज्ञानसंभारोपात्तश् च भवति / अनेञ्ज्यारूपगतिं च गच्छति, न च तद्गतिसमवसरणो भवति / रागगतिं च गच्छति, विगतरागश् च भवति सर्वकामभोगेषु / दोषगतिं च गच्छति, अप्रतिहतश् च भवति सर्वसत्वेषु / मोहगतिं च गच्छति, प्रज्ञानिध्यप्तिचित्तश् च भवति सर्वधर्मेषु / मात्सर्यगतिं च गच्छति, सर्वाध्यात्मबाह्यवस्तुपरित्यागी च भवति कायजीवितानपेक्षः / दुःशिलगतिं च गच्छति, सर्वशीलशिक्षाधुतगुणसंलेखप्रतिष्ठितश् च भवत्य् अणुमात्रेष्व् अवद्येषु भयदर्शी / व्यापादखिलक्रोधगतिं च गच्छति, मैत्रीविहारी च भवत्य् अत्यन्ताव्यापन्नचित्तः / कौसीद्यगतिं च गच्छति, सर्वकुशलमूलपर्येष्ट्यभियुक्तश् च भवत्य् अप्रतिप्रस्रब्धवीर्यारम्भः / विभ्रान्तेन्द्रियगतिं च गच्छति, अरिक्तध्यानश् च भवति प्रकृतिसमापन्नः / दौःप्रज्ञगतिं च गच्छति, सर्वलोकिकलोकोत्तरशास्त्रकुशलश् च भवति प्रज्ञापारमितागतिम्गतः / कुहनलपनचर्यागतिं गच्छति, उपायकौशलचर्यानिर्यातश् च भवति सम्धाभाष्यकुशलः / मानगतिं च दर्शयति, सेतुसम्क्रामभृतश् च भवति सर्वलोकस्य / क्लेशगतिं च गच्छति, प्रकृतिपरिशुद्धश् च भवत्य् अत्यन्तासंक्लिष्टः / मारगतिं च गच्छति, अपरप्रत्ययश् च भवति सर्वबुद्धधर्मेषु / श्रावकगतिं च गच्छति, अश्रुतधर्मश्रावयिता च भवति सत्वानाम् / प्रत्येकबुद्धगतिं च गच्छति, महाकरुणानिर्यातश् च भवति सत्वपरिपाकय / दरिद्रगतिं च गच्छति, रत्नपाणितप्रतिलब्धश् च भवत्य् अक्षयभोगः / विकलेन्देरियगतिं च गच्छति, लक्षणसमलंकृतश् च भवत्य् अभिरूपः / हीनकुलोपपत्तिगतिं च गच्छति, तथागतकुलगोत्रसम्भृतश् च भवति पुण्यज्ञानोपचितसंभारः / दुर्बलदुर्वर्णावहोटिमकगतिं च गच्छति, नारायणात्मभावप्रतिलब्धश् च भवति प्रियदर्शनः सर्वसत्वानाम् / जीर्णव्याधितोग्लानचर्यां च दर्शयति, अत्यन्तव्याधिसमुद्घातितश् च भवति मरणभयसमतिक्रान्तः / भोगगतिं च दर्शयति, अनित्यसंज्ञाप्रत्यवेक्षणाबहुलश् च भवति सर्वैषणाप्रतिप्रस्रब्धः / अन्तःपुरणाटकव्यूहाश् च बोधिसत्वो दर्शयति, उत्तीर्णकामपण्कश् च भवत्य् अनिकेतचारी / धन्धायतनगतिं च गच्छति, विचित्रप्रतिभानलंकारश् च भवति धारणीप्रतिलब्धः / तीर्थिकगतिं च गच्छति, तीर्थभूतश् च भवति / सर्वलोकगतिं च गच्छति, सर्वगतिनिवृत्तश् च भवति / निर्वाणगतिं च गच्छति, संसारप्रबन्धं च न जहाति / एवं मञ्जुश्रीः बोधिसत्वो ऽगतिगमनं गच्छति, गतिंगतश् च भवति सर्वनुद्धधर्मेषु /

$२ अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् एवम् आह : कतमन् मञ्जुश्रीः तथागतानां गोत्रम् /
आह : सत्कायः कुलपुत्र तथागतानां गोत्रम्, अविद्या भवतृष्णा च गोत्रम्, रागदोषमोहा गोत्रम्, चत्वारो विपर्यासा गोत्रम्, पञ्च निवरणानि गोत्रम्, षड् आयतनं गोत्रम्, सप्त विज्ञानस्थितयो गोत्रम्, अष्टौ मिथ्यात्वानि गोत्रम्, नवाघातवस्तूनि गोत्रम्, दशाकुशलाः कर्मपथा गोत्रम् / इदं कुलपुत्र तथागतानां गोत्रम् / सम्क्षेपेण कुलपुत्र द्वाषष्टिर् दृष्टिगतानि तथागतानां गोत्रम् /

$३ आह : किं सम्धाय मञ्जुश्रीः एवं वदसि /
आह : न शक्यं कुलपुत्र असंस्कृतदर्शिना नियामावक्रान्ति स्थितेनानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितुम् / क्लेशागारसंस्कृतस्थितेनादृष्टिसत्येन शक्यम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितुम् / तद्यथा कुलपुत्र नोज्जण्गलेषु पृथिवीप्रवेशेषुत्पलपद्मकुमुदपुण्डरीकसौगन्धिकानि विरोहन्ति / कर्दमपुलिनप्रक्षिप्तान्य् उत्पलपद्मकुमुदपुण्डरीकसौगन्धिकानि विरोहन्ति / एवम् एव कुलपुत्र नासंस्कृतनियामप्राप्तेषु सत्वेषु बुद्धधर्मा विरोहन्ति / क्लेशपुलिनकर्दमप्राप्तेषु सत्वेषु बुद्धधर्मा विरोहन्ति / तद्यथापि नाम नाकाशे बीजानि विरोहन्ति / धरणितलप्रतिष्ठितानि विरोहन्ति / एवम् एव नासंस्कृतनियामप्राप्तेषु बुद्धधर्मा विरोहन्ति / सुमेरुसमां सत्कायदृष्टिम् उत्पाद्य बोधिचित्तम् उत्पद्यते / ततश् च बुद्धधर्मा विरोहन्ति / तद् अनेनापि ते कुलपुत्र पर्यायेणैवं वेदितव्यम् / यथा सर्वक्लेशास् तथा तथागतानां गोत्रम् / तद्यथापि नाम कुलपुत्र नानवतीर्य महासमुद्रं शक्यम् अनर्घं रत्नम् उत्क्षेप्तुम् / एवम् एव नानवतीर्णेन क्लेशसागरं शक्यं सर्वज्ञताचित्तरत्नम् उत्पादयितुम् /

$४ अथ स्थविरो महाकाश्यपो मञ्जुश्रिये कुमारभूताय साधुकारम् अदात् : साधु साधु मञ्जुश्रीः सुभाषिता त इयं वाग् भूतम् / एतत् क्लेशा गोत्रं तथागतानाम् / कुतो ह्य् अस्मद्विधानां शक्तिर् अस्ति बोधिचित्तम् इदानीम् उत्पादयितुम् / पञ्चानन्तर्यप्राप्तः शक्तो बोधिचित्तम् उत्पादयितुम्, शक्तो बुद्धधर्मान् अभिसंबोद्धुम्, न पुनर् अहम् /

$५ तद्यथा विकलेन्द्रियस्य पुरुषस्य पञ्चकामगुणा निर्गुणा निःसमर्थाः / एवम् एव सर्वसंयोजनप्रहीणस्य श्रावकस्य सर्वबुद्धधर्मा निर्गुणा निःसमर्थाः / न तस्य भूयः शक्तिर् अस्ति तान् अध्यालम्बितुम् / तस्मान् मञ्जुश्रीः पृथग्जनास् तथागतस्य कृतज्ञाः, न श्रावकाः / तत् कस्माद् धेतोः / पृथग्जना हि बुद्धगुणाञ् श्रुत्वा त्रिरत्नवंशानु पच्छेदायानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति / श्रावकाः पुनर् यावज्जीवम् अपि बुद्धधर्मबलवैशारद्यानि श्रुत्वानुत्तरायां सम्यक्संबोधौ न शक्ताश् चित्तम् उत्पादयितुम् /

$६ अथ सर्वरूपसम्दर्शनो नाम बोधिसत्वस् तस्याम् एव पर्षदि सम्निपतितो ऽभूत् सम्निषण्णः / स विमलकीर्तिं लिच्छविम् एवम् आह : कस्मिन् पुनस् ते गृहपते मातापितरौ दासीदासकर्मकरपौरुषेयम्, कुत्र मित्रज्ञातिसालोहिताः, कुत्र परिवारो हयगजरथपतिवाहनं वा / एवम् उक्ते विमलकीर्तिर् लिच्छविः सर्वरूपसम्दर्शनं बोधिसत्वं गाथाभिर् अध्यभाषत् :
प्रज्ञापारमिता माता बोधिसत्वान मारिष /
पिता चोपायकौशल्यं यतो जायन्ति नायकाः // (१)
भार्या धर्मरतिस् तेषां मैत्री करुणा च दुहितरौ /
सत्यधर्माव् उभौ पुत्रौ गृहं शून्यार्थचिन्तना // (२)
सर्वक्लेशास् तथा शिष्या यथेष्टवशवर्तिनः /
बोध्यण्गाश् चैव मित्राणि बोधिं बुध्यन्ति यैर् वराम् // (३)
सहायाश् चानुबद्धा हि षड् इमाः पारमिताः सदा /
स्त्र्यागारः सम्ग्रहस् तेषां धर्माः सम्गीतिवादितम् // (४)
उद्यानं धारणी तेषां बोध्यण्गकुसुमैश् चितम् /
फलं विमुक्तिज्ञानं च वृक्षा धर्मधनं महत् // (५)
विमोक्षाः पुष्किरिण्यश् च समाधिजालपूरिताः /
विशुद्धिपद्मसम्छन्ना यत्र स्नायन्ति निर्मलाः // (६)
अभिज्ञा वाहनं तेषां महायानम् अनुत्तमम् /
सारथिर् बोधिचित्तं तु सन्मार्गो ऽष्टाण्गिकः शिवः // (७)
भूषणा लक्षणान्य् एषाम् अशीतिश् चानुव्यञ्जनाः /
ह्रीरपत्राप्यवस्त्रास् ते कल्याणाध्याशयाः शुभाः // (८)
सद्धर्मधनवन्तस् ते प्रयोगो धर्मदेशना /
प्रतिपत्तिर् महालाभः परिणामश् च बोधये // (९)
शयनं चतुरो ध्यानाः शुद्धाजीवेन संस्तृताः /
प्रज्ञा विबोधनं तेषां नित्यं श्रुतसमाहिता // (१०)
अमृतं भोजनं तेषां विमुक्तिरसपानकम् /
विशुद्धाशयता स्नानं शीलं गन्धानुलेपनम् // (११)
क्लेशशस्त्रुविनिर्घताच् छूरास् ते ह्य् अपराजिताः /
धर्षेन्ति चतुरो मारान् बोधिमण्डध्वजाश्रिताः // (१२)
सम्चिन्त्यजाति दर्शेन्ति अजाताश् च असंभवाः /
दृश्यन्ते सर्वक्षेत्रेषु रश्मिराजवद् उद्गताः // (१३)
बुद्धकोट्यो हि पूजित्वा सर्वपूजाहि नायकान् /
न चैवात्मनि बुद्धे वा जातु कुर्वन्ति निश्रयम् // (१४)
बुद्धक्षेत्राणि शोधेन्ति सत्वानां चरितं यथा /
आकाशक्षेत्रानुप्राप्ता न सत्वे सत्वसम्ज्ञिनः // (१५)
सर्वसत्वान ये रूपा रुतघोषाश् च ईरिताः /
एकक्षणेन दर्शेन्ति बोधिसत्वा विशारदाः // (१६)
मारकर्म च बुध्यन्ते माराणां चानुवर्तकाः /
उपायपारमिप्राप्ताः सर्वां दर्शेन्ति ते क्रियाम् // (१७)
ते जीर्णव्याधिता भोन्ति मृतम् आत्मानु दर्शयी /
सत्वानां परिपाकाय मायाधर्मविहारिणः // (१८)
कल्पोद्दाहं च दर्शेन्ति उद्दह्य तां वसुन्धराम् /
नित्यसम्ज्ञीन सत्वानाम् अनित्यम् इति दर्शयी // (१९)
सत्वकोटीसहस्रेभिर् एकराष्ट्रे निमन्त्रिताः /
सर्वेषां गृहि भुञ्जन्ति सर्वान् नामेन्ति बोधये // (२०)
ये केचिन् मन्त्रविद्य वा शिल्पस्थाना बहूविधाः /
सर्वत्र पारमिप्राप्ताः सर्वसत्वसुखावहाः // (२१)
यावन्तो लोकि पाषण्डाः सर्वत्र प्रव्रजन्ति ते /
नानादृष्टिगतप्रप्तान् सत्वान् हि परिमोचयि // (२२)
चन्द्रा भवन्ति सूर्या वा शक्रब्रह्मप्रजेश्वराः /
भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा // (२३)
रोग अन्तरकल्पेषु भैषज्यं भोन्ति उत्तमम् /
येहि सत्वा विमुच्यन्ति सुखी भोन्ति अनामयाः // (२४)
दुर्भिक्ष्आन्तरकल्पेषु भवन्ति पानभोजनम् /
क्षुद्धापिपासाम् अपनेत्वा धर्मं देशेन्ति प्राणिनाम् // (२५)
शस्त्र अन्तरकल्पेषु मैत्र्याध्यायी भवन्ति ते /
अव्यापादे नियोजेन्ति सत्वकोटीशतान् बहून् // (२६)
महासम्ग्राममध्ये च समपक्षा भवन्ति ते /
सम्धिसामग्रि रोचेन्ति बोधिसत्वा महाबलाः // (२७)
ये चापि निरयाः केचिद् बुद्धक्षेत्रेष्व् अचिन्तियाः /
सम्चिन्त्य तत्र गच्छन्ति सत्वानां हितकारणात् // (२८)
यावन्त्यो गतयः काश्चित् तिर्यग्योनौ प्रकाशिताः /
सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः // (२९)
कामभोगां पि दर्शेन्ति ध्यानं दर्शेन्ति ध्यायिनाम् /
विहस्तं मारं कुर्वन्ति अवतारं न देन्ति ते // (३०)
अग्निमध्ये यथा पद्मम् अद्भुतम् पि विदर्शयेत् /
एवं कामांश् च ध्यानं च अद्भुतं ते विदर्शयि // (३१)
सम्चिन्त्य गणिका भोन्ति पुंसाम् आकर्षणाय ते /
रागाण्कुशेन लोभेत्वा बुद्धज्ञाने स्थपेन्ति ते // (३२)
ग्रामिकाश् च सदा भोन्ति सार्थवाहाः पुरोहिताः /
अग्रामात्यो ऽथ चामात्याः सत्वानां हितकारणात् // (३३)
दरिद्राणां च सत्वानां निधानं भोन्ति अक्षयम् /
येषां दानानि दत्वा हि बोधिचित्तं जनेन्ति ते // (३४)
मानस्तब्धेषु सत्वेषु महानग्ना भवन्ति ते /
सर्वमानसमुद्घातां बोधिं प्रार्थेन्ति उत्तमाम् // (३५)
भयार्दितानां सत्वानां संतिष्ट्ःअन्ते ऽग्रतः सदा /
अभयं तेषु दत्वा च परिपाचेन्ति बोधये // (३६)
पञ्चाभिज्ञा हि भूत्वा ते ऋषयो ब्रह्मचारिणः /
शीले सत्वान् नियोजेन्ति क्षान्तिसौरत्यसंयमे // (३७)
उपस्थानगुरून् सत्वान् संपश्येहा विनायकाः /
चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च // (३८)
येन येनैव चाण्गेन सत्वा धर्मरता भवे /
दर्शेन्ति हि क्रियाः सर्वा महोपायसुशिक्षिताः // (३९)
तेषाम् अनन्तशिक्षा हि अनन्तश् चापि गोचरः /
अनन्तज्ञानसंपन्ना अनन्तप्राणिमोचकाः // (४०)
न तेषां कल्पकोटीभिः कल्पकोटीशतैस् तथा /
भाषद्भिः सर्वबुद्धैस् तु गुणान्तः सुवचो भवेत् // (४१)
बोधिं न प्रार्थयेत् को ऽग्र्यां श्रुत्वा धर्मान् इमान् बुधः /
अन्यत्र हीनसत्वेभ्यो येषां प्रज्ञा न विद्यते // (४२)
इति //
तथागतगोत्रपरिवर्तः सप्तमः //

Chapter ८
$१ अथ विमलकीर्तिर् लिच्छविस् तान् बोधिसत्वान् आमन्त्रयते स्म : प्रतिभातु सत्पुरुषाः कतमो बोधिसत्वानाम् अद्वयधर्ममुखप्रवेशः /
तत्र धर्मविकुर्वणो नाम बोधिसत्वः सम्निपतितः / स एवम् आह : उत्पादभण्गौ कुलपुत्र द्वयम् / यन् न जातं नोत्पन्नं न तस्य कश्चिद् भण्गः / अनुत्पादधर्मक्षान्तिप्रतिलम्भो ऽद्वयप्रवेशः /

$२ श्रीगुप्तो बोधिसत्व आह : अहं ममेति द्वयम् एतत् / आत्मासमारोपान् ममेति न भवति / यश् चासमारोपो ऽयम् अद्वयप्रवेशः /

$३ श्रीकूटो बोधिसत्व आह : सम्क्लेशो व्यवदानम् इति द्वयम् एतत् / सम्क्लेशपरिज्ञानाद् व्यवदानमनना न भवति / सर्वमननासमुद्घाता सारूप्यगामिनी प्रतिपद् अयम् अद्वयप्रवेशः /

$४ सुनक्षत्रो बोधिसत्व आह : इञ्जना मननेति द्वयम् एतत् / यत् पुनर् नेञ्जते न मनसिकरोत्य् अनधिकारः, अधिकारविरहितो ऽयम् अद्वयप्रवेशः /

$५ सुबाहुर् बोधिसत्व आह : बोधिचित्तं श्रावकचित्तम् इति द्वयम् एतत् / या पुनर् मायाचित्तसमदर्शनता तत्र न बोधिचित्तं न श्रावकचित्तम् / या चित्तसमलक्षणतायम् अद्वयप्रवेशः /

$६ अनिमिषो बोधिसत्व आह : उपादानम् अनुपादानम् इति द्वयम् एतत् / यन् नोपाददाति तन् नोपलभते, तत्रोहापोहम् न करोति / अकरणम् अव्यापत्तिः सर्वधर्माणाम् अयम् अद्वयप्रवेशह् /

$७ सुनेत्रो बोधिसत्व आह : एकलक्षणम् अलक्षणम् इति द्वयम् एतत् / यत् पुनर् न लक्षयति न विकल्पयति, नैकलक्षणं करोति नालक्षणम् / यल् लक्षणविलक्षणसमलक्षणप्रवेशो ऽयम् अद्वयप्रवेशः /

$८ पुष्यो बोधिसत्व आह : कुशलम् अकुशलम् इति द्वयम् एतत् / या कुशलाकुशलयानुपस्थानता तद् अनिमित्तम् / अनिमित्तकोट्याश् चाद्वयता / यात्र निस्तीरणतायम् अद्वयप्रवेशः /

$९ सिंहो बोधिसत्व आह : अवद्यतानवद्यतेति द्वयम् एतत् / यत् पुनर् वज्रनिबद्धज्ञातया न बध्यते न मुच्यते ऽयम् अद्वयप्रवेशः /

$१० सिंहमतिर् बोधिसत्व आह : इदं सास्रवम् इदम् अनास्रवम् इति द्वयम् एतत् / यत् पुनः समताधर्मप्राप्तः सास्रवानास्रवसम्ज्ञं न करोति, न वासम्ज्ञाप्राप्तः, न चासम्ज्ञासमतायां समताप्राप्तः, न सम्ज्ञाग्रथितः / य एवं प्रवेशो ऽयम् अद्वयप्रवेशः /

$११ सुखाधिमुक्तो बोधिसत्व आह : इदं सुखम् इदम् असुखम् इति द्वयम् एतत् / यत् पुनः सर्वसौख्यापगतो गगनसमबुद्धिः सुविशुद्धज्ञानतया न सञ्जत्य् अयम् अद्वयप्रवेशः /

$१२ नारायणो बोधिसत्व आह : इदं लौकिकम् इदं लोकोत्तरम् इति द्वयम् एतत् / या लौकिकस्य प्रकृतिशून्यता, न तत्र किम्चिद् उत्तीर्यते नावतीर्यते न सार्यते न विसार्यते / यत्र नोत्तरणं नावतरणं न सरणं न विसर्वणम् अयम् अद्वयप्रवेशः /

$१३ दान्तमतिर् बोधिसत्व आह : संसारो निर्वाणम् इति द्वयम् एतत् / संसारस्वभावदर्शनान् न संसरति न परिनिर्वाति / यैवं बुध्यनायम् अद्वयप्रवेशः /

$१४ प्रत्यक्षदर्शी बोधिसत्व आह : क्षयो ऽक्षय इति द्वयम् एतत् / क्षयो ऽत्यन्तक्षीणः / यश् चात्यन्तक्षीणः स न क्षपयितव्यः / तेनोच्यते ऽक्षय इति / यश् चाक्षयः स क्षणिकः / क्षणिकस्य नास्ति क्षयः / एवं प्रविष्टो ऽद्वयधर्ममुखप्रविष्टो वक्तव्यः /

$१५ समन्तगुप्तो बोधिसत्व आह : आत्मा निरात्मेति द्वयम् एतत् / यस् ताम् आत्मतां नोपलभते, स किं निरात्मीकरिष्यति / आत्मस्वभावदर्शी द्वयं न करोत्य् अयम् अद्वयप्रवेशः /

$१६ विद्युद्देवो बोधिसत्व आह : विद्याविद्येति द्वयम् एतत् / अविद्याप्रकृतिकैव विद्या / या चाविद्या साप्रकृतिकागणना गणनापथसमतिक्रान्ता / यो ऽत्राभिसमयो ऽद्वयाभिसमयो ऽयम् अद्वयप्रवेशः /

$१७ प्रियदर्शनो बोधिसत्व आह : रूपं शून्यम् इति द्वयम् एतत् / रूपम् एव हि शून्यता / न रूपविनाशाच् छून्यता, रूपप्रकृतिर् एव शून्यता / एवं वेदना सम्ज्ञा संस्कारा विज्ञानं शून्यम् इति द्वयम् एतत् / विज्ञानम् एव हि शून्यता / न विज्ञानविनाशाच् छून्यता, विज्ञानप्रकृतिर् एव शून्यता / यो ऽत्र पञ्चसूपादानस्कन्धेष्व् एवं ज्ञानानुबोधो ऽयम् अद्वयप्रवेशः /

$१८ प्रभाकेतुर् बोधिसत्व आह : अन्ये चत्वारो धातवो ऽन्य आकाशधातुर् इति द्वयम् एतत् / आकाशस्वभावा एव चत्वारो धातवः / पूर्वान्तत आकाशस्वभावा अपरान्तत आकाशस्वभावास् तथा प्रत्युत्पन्नतो ऽप्य् आकाशस्वभावाः / यच् चैवं धातुप्रवेशज्ञानम् अयम् अद्वयप्रवेशः /

$१९ सुमतिर् बोधिसत्व आह : चक्षू रूपं च द्वयम् एतत् / यत् पुनश् चक्षुःपरिज्ञातावी रूपेषु न रज्यति न दुष्यति न मुह्यति, स उच्यते शान्त इति / श्रोत्रं शब्दाश् च घ्राणं गन्धाश् च जिह्वा रसाश् च कायः स्प्रष्टव्यानि च मनो धर्माश् च द्वयम् एतत् / यत् पुनर् मनःपरिज्ञातावी धर्मेषु न रज्यते न दुष्यति न मुह्यति, स उच्यते शान्त इति / एवं शान्तस्थितस्याद्वयप्रवेशः /

$२० अक्षयमतिर् बोधिसत्व आह : दानं सर्वज्ञतायां परिणामयतीति द्वयम् एतत् / दानस्वभावैव सर्वज्ञता, सर्वज्ञतास्वभाव एव परिणामः / एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां सर्वज्ञातायां परिणामयतीति द्वयम् एतत् / प्रज्ञास्वभावैव सर्वज्ञता, सर्वज्ञतास्वभाव एव परिणामः / यो ऽत्रैकनयप्रवेशो ऽयम् अद्वयप्रवेशः /

$२१ गम्भीरबुद्धिर् बोधिसत्व आह : अन्या शून्यतान्यद् अनिमित्तम् अन्यद् अप्रणिहितम् इति द्वयम् एतत् / यद् धि शून्यं तत्र न किम्चिन् निमित्तम् / अनिमित्ते ऽप्रणिहितम् / अप्रणिहिते न चित्तं न मनो न मनोविज्ञानं प्रचरति / यत्रैकं विमोक्षमुखं तत्र सर्वाणि विमोक्षमुखानि द्रष्टव्यान्य् अयम् अद्वयप्रवेशः /

$२२ शान्तेन्द्रियो बोधिसत्व आह : बुद्धो धर्मः सम्घ इति द्वयम् एतत् / बुद्धस्य हि धर्मः, धर्मप्रकृतिकश् च सम्घः / सर्वाण्य् एतानि रत्नान्य् असंस्कृतानि, असंस्कृतं चाकाशम्, आकाशसमश् च सर्वधर्मनयः / य एवम् अनुगमो ऽयम् अद्वयप्रवेशः /

$२३ अप्रतिहतचक्षुर् बोधिसत्व आह : सत्कायः सत्कायनिरोध इति द्वयम् एतत् / सत्काय एव हि निरोधः / तत् कस्माद् धेतोः / तथा हि स सत्काय इति दृष्टिं नोपस्थापयति, यया दृष्ट्या सत्काय इति वा सत्कायनिरोध इति वा कल्पयति / सो ऽकल्पो ऽविकल्पो ऽत्यन्ताविकल्पो निरोधस्वभावप्राप्तः, न संभवति न विभवत्य् अयम् अद्वयप्रवेशः /

$२४ सुविनीतो बोधिसत्व आह : कायवाण्मनःसम्वर इति द्वयम् एतत् / तत् कस्माद् धेतोः / अनभिसंस्कारलक्षणा ह्य् एते धर्माः / या कायस्यानभिसंस्कारता तल्लक्षणैव वागनभिसंस्कारता तल्लक्षणैव मनोऽनभिसंस्कारता / या च सर्वधर्माणाम् अनभिसंस्कारता, सा ज्ञातव्यानुगन्तव्या / यद् अत्रानभिसंस्कारज्ञानम् अयम् अद्वयप्रवेशः /

$२५ पुण्यक्षेत्रो बोधिसत्व आह : पुण्यापुण्यानिञ्ज्यान् संस्कारान् अभिसंस्करोतीति द्वयम् एतत् / यत् पुनः पुण्यापुण्यानिञ्ज्यानभिसंस्कारता साद्वया / या च पुण्यापुण्यानिञ्ज्यानां संस्काराणां स्वलक्षणशून्यता न तत्र पुण्यापुण्यानिञ्ज्याः संस्काराः स्वलक्षणशून्यता न तत्र पुण्यापुण्यानिञ्ज्याः संस्काराः / यैवम् अनुमार्जनायम् अद्वयप्रवेशः /

$२६ पद्मव्यूहो बोधिसत्व आह : आत्मसमुत्थानसमुत्थितं द्वयम् / आत्मपरिज्ञातावी द्वयं नोत्थापयति / अद्वयस्थितस्य विज्ञाप्तिर् नास्ति / अविज्ञप्तिकश् चाद्वयप्रवेशः /

$२७ श्रीगर्भो बोधिसत्व आह : उपलम्भप्रभावितं द्वयम् / यन् न लभते तन् नोपलभते, तन् नायूहति न निर्यूहति / तत्र नायूहो न निर्यूहो ऽयम् अद्वयप्रवेशः /

$२८ चन्द्रोत्तरो बोधिसत्व आह : तमः प्रकाश इति द्वयम् एतत् / अतमो ऽप्रकाश इत्य् अद्वयम् / तत् कस्माद् धेतोः / तथा हि निरोधसमापन्नस्य न तमो न प्रकाशः / एवंलक्षणाश् च सर्वधर्माः / यो ऽत्र समताप्रवेशो ऽयम् अद्वयप्रवेशः /

$२९ रत्नमुद्राहस्तो बोधिसत्व आह : निर्वाणे ऽभिरतिः संसारे ऽनभिरतिर् इति द्वयम् एतत् / यस्य न निर्वाणे ऽभिरतिर् न संसारे ऽनभिरतिर् इदम् अद्वयम् / तत् कस्माद् धेतोः / बद्धस्य हि सतो मोक्षः प्रभाव्यते / यो ऽत्यन्तम् एवाबद्धः स किं मोक्षम् पर्येषिष्यते / अबद्धो ऽमुक्तो भिक्षुर् न रतिम् उत्पादयति नारतिम् अयम् अद्वयप्रवेशः /

$३० मणिकूटराजो बोधिसत्व आह : मार्गः कुमार्ग इति द्वयम् एतत् / मार्गप्रतिपन्नस्य न कुमार्गः समुदाचरति / असमुदाचारस्थितस्य न मार्गसम्ज्ञा भवति न कुमार्गसम्ज्ञा / सम्ज्ञापरिज्ञाताविनो हि द्वये बुद्धिर् नाक्रामत्य् अयम् अस्याद्वयप्रवेशः /

$३१ सत्यनन्दी बोधिसत्व आह : सत्यं मृषेति द्वयम् एतत् / सत्यदर्शी सत्यम् एव न समनुपश्यति, कुतो मृषा द्रक्ष्यति / तत् कस्माद् धेतोः / न हि स मांसचक्षुषा पश्यति, प्रज्ञाचक्षुषा पश्यति / तथा च पश्यति, न विपश्यति / यत्र च न पश्यना न विपश्यनायम् अद्वयप्रवेशः /

$३२ इत्य् एवं ते बोधिसत्वाः स्वकस्वकान् निर्देशान् निर्दिश्य मञ्जुश्रियं कुमारभूतम् एतद् अवोचत् : कतमो मञ्जुश्रीः बोधिसत्वस्याद्वयप्रवेशः /
मञ्जुश्रीर् आह : सुभाषितं युष्माकं सत्पुरुषाः सर्वेषाम् / अपि तु यावद् युष्माभिर् निर्दिष्टं सर्वम् एतद् द्वयम् / एकनिर्देशं स्थापयित्वा यः सर्वधर्माणाम् अनुदाहारो ऽप्रव्याहारो ऽनुदीरणाकीर्तनानभिलपनम् अप्रज्ञपनम् अयम् अद्वयप्रवेशः /

$३३ अथ खलु मञ्जुश्रीः कुमारभूतो विमलकीर्तिं लिच्छविम् एतद् अवोचत् : निर्दिष्टो ऽस्माभिः कुलपुत्र स्वकस्वको निर्देशः / प्रतिभातु तवाप्य् अद्वयधर्मप्रवेशनिर्देशः /
अथ विमलकीर्तिर् लिच्छविस् तूष्णीम् अभूत् /
अथ मञ्जुश्रीः कुमारभूतो विमलकीर्तेर् लिच्छवेः साधुकारम् अदात् : साधु साधु कुलपुत्र अयं बोधिसत्वानाम् अद्वयधर्ममुखप्रवेशो यत्र नाक्षररुतरवितविज्ञप्तिप्रचारः /
इह निर्देशे निर्दिश्यमाने पञ्चानां बोधिसत्वसहस्राणाम् अद्वयधर्ममुखप्रवेशाद् अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत् //

अद्वयधर्ममुखप्रवेशपरिवर्तो ऽष्टमः //

Chapter ९
$१ अथायुष्मतः शारिपुत्रस्यैतद् अभूत् : कालः पर्यन्तीभूतः / इमे च महासत्वा नोत्तिष्ठन्ति / कुत्रैते परिभोक्ष्यन्ते /
अथ विमलकीर्तिर् लिच्छविर् आयुष्मतः शारिपुत्रस्य चेतसा चेतःपरिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् एवम् आह : ये ते भदन्तशारिपुत्र तथागतेनाष्टौ विमोक्षा आख्यातास् तैर् विमोक्षैर् विहर / त्वं मा आमिषम्रक्षितया सम्तत्या धर्मं श्रौषीः / अपि तु खलु पुनर् भदन्तशारिपुत्र मुहूर्तम् आगमयस्व, यावद् अनास्वादितपूर्वभोजनं भोक्ष्यसे /

$२ अथ विमलकीर्तिर् लिच्छविस् तस्यां वेलायां तथारूपं समाधिसमापन्नः तादृशं चर्द्ध्यभिसंस्कारम् अभिसंस्कृतवान् / यद् ऊर्ध्वे दिग्भाग इतो बुद्धक्षेत्राद् द्वाचत्वारिंशद् गण्गानदीवालिकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य सर्वगन्धसुगन्धं नाम लोकधातुं तेषां बोधिसत्वानां तेषां च महाश्रावकाणाम् उपदर्शयति / तत्र गन्धोत्तमकूटो नाम तथागत एतर्हि तिष्ठति ध्रियते यापयति / तत्र च लोकधातौ यादृशा दशसु दिक्षु सर्वबुद्धक्षेत्रेषु दिव्या मानुष्यकाश् च गन्धा वान्ति / ते तत्र लोकधातौ वृक्षेभ्यो विशिष्टतमा गन्धा वान्ति / तत्र लोकधातौ नास्ति श्रावकप्रत्येकबुद्धानां नामधेयम् अपि, शुद्धानाम् एव बोधिसत्वानां सम्निपातः / स तेभ्यो गन्धोत्तमकूटस् तथागतो धर्मं देशयति / तत्र च लोकधातौ सर्वगन्धमयाः कूटागाराः, सर्वगन्धमयाश् चण्क्रमा उद्यानविमानानि / यं च ते बोधिसत्वा आहारम् आहरन्ति तस्य भोजनस्य यो गन्धः सो ऽप्रमाणाल् लोकधातून् स्फरति /
तस्मिंश् च समये भगवान् गन्धोत्तमकूटस् तथागतो भक्ताय निषण्णो ऽभूत् सार्धं तैर् बोधिसत्वैः / तत्र गन्धव्यूहाहारा नाम देवपुत्रा महायानसंप्रस्थितास् तस्य भगवतस् तेषां बोधिसत्वानाम् उपस्थानपरिचर्याया उद्युक्ताः / तत्र सा सर्वा पर्षत् तं लोकधातुं पश्यति तं च भगवन्तं तांश् च बोधिसत्वान् भक्ताग्रनिषण्णान् /

$३ अथ विमलकीर्तिर् लिच्छविस् तान् सर्वान् बोधिसत्वान् आमन्त्रयते स्म : को युष्माकं सत्पुरुषाः उत्सहते ऽतो बुद्धक्षेत्राद् भोजनम् आनेतुम् / तत्र मञ्जुश्रियो ऽधिष्ठानेन न कश्चिद् उत्सहते /
अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् एवम् आह : न त्वं मञ्जुश्रीः पर्यपत्रपस ईदृश्या पर्षदा /
आह : ननुक्तं कुलपुत्र तथागतेनाशिक्षितो न परिभवितव्य इति /

$४ अथ विमलकीर्तिर् लिच्छविर् अनुत्तिष्ठन्न् एततः शयनात् पुरतस् तेषां बोधिसत्वानां निर्मितं बोधिसत्वं निर्मिमीते स्म / सुवर्णवर्णेन कायेन लक्षणानुव्यञ्जनसमलम्कृतेन तस्य तादृशो रूपावभासो ऽभूद् येन सा सर्वा पर्षद् ध्यामीकृता भवेत् /
अथ विमलकीर्तिर् लिच्छविस् तं निर्मितं बोधिसत्वम् एवम् आह : गच्छ कुलपुत्र ऊर्धम्दिग्भागे द्वाचत्वारिंशद् गण्गानदीवालिकासमानि बुद्धक्सेत्राण्य् अतिक्रम्य सर्वगन्धसुगन्धो नाम लोकधातुः / तत्र गन्धोत्तमकूटो नाम तथागतह्, स एतर्हि भक्ताय निषण्णः / तत्र गत्वा मद्वचनात् तस्य तथागतस्य पादौ शिरसा वन्दित्वैवं वद - विमलकीर्तिर् लिच्छविर् भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽल्पाबाधतां च परिपृच्छत्य् अल्पातण्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च / एवं च वदति - देहि मे भगवन् भुक्तावशेषं यत् सहे लोकधातौ बुद्धकृत्यं करिष्यति / एषां च हीनाधिमुक्तिकानां सत्वानाम् उदारां मतिं रोचयिष्यति / तथागतस्य नामधेयं वैस्तारिकं कृतं भविष्यति /

$५ अथ स निर्मितो बोधिसत्वो विमलकीर्तेर् लिच्छवेः साध्व् इति प्रतिश्रुत्य तेषां बोधिसत्वानां पुरत ऊर्धमुखः सम्दृश्यते / न चैनं ते बोधिसत्वाः पश्यन्ति गच्छन्तम् /
अथ स निर्मितो बोधिसत्वस् तं सर्वगन्धसुगन्धं लोकधातुम् अनुप्राप्तः / स तत्र भगवतो गन्धोत्तमकूटस्य तथागतस्य पादौ शिरसा वन्दित्वैवम् आह : विमलकीतिर् भगवन् बोधिसत्वो भगवतः पादौ शिरसा वन्दते / अल्पाबाधतां च परिपृच्छत्य् अल्पातण्कतां च लघूत्तानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च /
स च भगवतः पादौ शिरसा वन्दित्वैवम् आह : देहि मे भगवन् भुक्तावशेषं भोजनं यद् इदं सहे लोकधातौ बुद्धकृत्यं करिष्यति / तेषां हीनाधिमुक्तानां सत्वानाम् उदारेषु बुद्धधर्मेषु मतिं रोचयिष्यति / भगवतश् च नामधेयं वैस्तारिकं कृतं भविष्यति /

$६ अथ खलु ये तस्य भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रे बोधिसत्वास् ते विस्मितास् तं भगवन्तं गन्धोत्तमकूटं तथागतम् एवम् आहुः : कुतो ऽयं भगवन् ईदृशो महासत्व आगच्छति, क्व वा स सहो लोकधातुः, कैषा हीनाधिमुक्तिकता नाम / एवं ते बोधिसत्वास् तं तथागतं परिपृच्छन्ति /
अथ स भगवांस् तान् बोधिसत्वान् एवम् आह : अस्ति कुलपुत्राः अधोदिग्भाग इतो बुद्धक्षेत्राद् द्वाचत्ग्वारिंशद् गण्गानदीवालिकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य सहो लोकधातुः / तत्र शाक्यमुनिर् नाम तथागतो धर्मं देशयति हीनाधिमुक्तिकानां सत्वानां पञ्चकषाये बुद्धक्षेत्रे / तत्र विमलकीर्तिर् नाम बोधिसत्वो ऽचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वेभ्यो धर्मं देशयति / तेनैष निर्मितो बोधिसत्वो ऽनुप्रेषितो मम नामधेयपरिकीर्तनायास्य च लोकधातोर् वर्णसंप्रकाशनाय तेषां च बोधिसत्वानां कुशलमूलोत्तानतायै /

$७ अथ ते बोधिसत्वा एवम् आहुः : कियन् महात्मा स भगवन् बोधिसत्वो यस्यायं निर्मित एवम् ऋद्धिबलवैशारद्यप्राप्तः /
स भगवान् आह : तथा महात्मा स बोधिसत्वो यत् सर्वबुद्धक्षेत्रेषु निर्मितान् प्रेषयति / ते च निर्मिता बुद्धकृत्येन सत्वानां प्रत्युपस्थिता भवन्ति /

$८ अथ स भगवान् गन्धोत्तमकूटस् तथागतः सर्वगन्धसमीहिते भाजने तं सर्वगन्धपरिवासितं भोजनं तस्मै बोधिसत्वाय प्रादात् / तत्र नवतिर् बोधिसत्वसहस्राणि संप्रस्थितानि : गमिष्यामो वयं भगवन् तं सहं लोकधातुं तं भगवन्तं शाक्यमुनिं वन्दनायैतं च विमलकीर्तिं तांश् च बोधिसत्वान् दर्शनाय /
स भगवान् आह : गच्छत कुलपुत्राः यस्येदानीं कालं मन्यध्वे / अपि तु गन्धान् कुलपुत्राः प्रतिसंहृत्य तं लोकधातुं प्रविशत, मा ते सत्वा मदप्रमादम् आपत्स्यन्ते / स्वरूपं च प्रतिसंहरत, मा ते सहे लोकधातौ सत्वा मद्गुभूता भवेयुः / मा च तस्मिन् लोकधातौ हीनसम्ज्ञाम् उत्पाद्य प्रतिघसम्ज्ञाम् उत्पादयत / तत् कस्माद् धेतोः / आकाशक्षेत्राणि हि बुद्दक्षेत्राणि, सत्वपरिपाकाय तु बुद्धा भगवन्तो न सर्वं बुद्धविषयं सम्दर्शयन्ति /

$९ अथ निर्मितो बोधिसत्वस् तद् भोजनम् आदाय सार्धं तैर् नवत्या बोधिसत्वसहस्रैर् बुद्धानुभावेन विमलकीर्त्यधिष्ठानेन च तेनैव क्षणलवमुहूर्तेन सर्वगन्धसुगन्धे लोकधाताव् अन्तर्हितो विमलकीर्तेर् लिच्छवेर् गृहे प्रत्यष्ठात् /

$१० तत्र विमलकीर्तिर् नवतिसिंहासनसहस्राण्य् अधितिष्ठति यादृशान्य् एव तानि प्रथमकानि सिंहासनानि / तत्र ते बोधिसत्वा निषण्णाः / स च निर्मितस् तद् भोजनपरिपूर्णं भाजनं विमलकीर्तेर् लिच्छवेर् उपनामयति स्म / तस्य भोजनस्य गन्धेन सर्वा वैशाली महानगरी निर्धूपिताभूद् यावत् साहस्रो लोकधातुः सुगन्धगन्धीकृतो ऽभूत् / तत्र वैशालका ब्राह्मणगृहपतयः सोमच्छत्रश् च नाम लिच्छवीनाम् अधिपतिस् तं गन्धम् आघ्रायाश्चर्यप्राप्तो ऽद्भुतप्राप्तः प्रह्लादितकायचेताः सार्धं परिपूर्णैश् चतुरशीत्या लिच्छविसहस्रैः / तेनैव च भोजनगन्धेन भूमावचरा देवपुत्राः कामावचरा रूपावचराश् च देवाः सम्चोदिता विमलकीर्तेर् लिच्छवेर् गृहम् उपसम्क्रान्ता अभूवन् /

$११ अथ विमलकीर्तिर् लिच्छविः स्थविरं शारिपुत्रं तांश् च महाश्रावकान् एतद् अवोचत् : परिभुण्ग्ध्वं भदन्ताः इदं तथागतामृतभोजनं महाकरुणाभावितम् / मा च प्रदेशचर्यायां चित्तम् उपनिबन्धत, मा न शक्यत दक्षिणां शोदयितुम् /

$१२ तत्र केषाम्चिच् छ्रावकाणाम् एतद् अभवत् : इत एवं परीत्ताद् भोजनात् कथम् इयम् ईदृशी पर्षत् परिभोक्ष्यत इति /
तान् स निर्मितो बोधिसत्वः श्रावकान् एतद् अवोचत् : मा यूयम् आयुष्मन्तः स्वप्रज्ञापुण्यैस् तथागतप्रज्ञापुण्यानि समीकार्ष्ट / स्याच् चतुर्णां महासमुद्राणां क्षयः, न त्व् एवास्य भोजनस्य कश्चित् परिक्षयः / सचेत् सर्वसत्वा अपि सुमेरुमात्रैर् आलोपैः कल्पं परिभुञ्जीरन्, तथाप्य् अस्य क्षयो न स्यात् / तत् कस्माद् धेतोः / अक्षयशीलसमाधिप्रज्ञानिर्जातस्येदं तथागतस्य पात्रावशेषं भोजनं नैतच् छक्यं क्षपयितुम् /

$१३ अथ ततो भोजनात् सर्वा सा पर्षत् तृप्ता कृता / न च तावद् भोजनं क्षीयते / यैश् च बोधिसत्वैः श्रावकैः शक्रब्रह्मलोकपालैस् तदन्यैश् च सत्वैस् तद् भोजनं भुक्तम्, तेषां तादृशं सुखं काये ऽवक्रान्तं यादृशं सर्वसुखप्रतिमण्डिते लोकधातौ बोधिसत्वानां सुखम् / सर्वरोमकूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति / तद्यथापि नाम तस्मिन्न् एव सर्वगन्धसुगन्धे लोकधातौ वृक्षाणां गन्धः /

$१४ अथ विमलकीर्तिर् लिच्छविर् जानन्न् एव तान् भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्राद् आगतान् बोधिसत्वान् एतद् अवोचत् : कीदृशी कुलपुत्राः गन्धोत्तमकूटस्य तथागतस्य धर्मदेशना /
त एवम् आहुः : न स तथागतो ऽक्षरनिरुक्त्या धर्मं देशयति / तेनैव गन्धेन ते बोधिसत्वा विनयं गच्छन्ति / यत्र यत्रैव गन्धवृक्से ते बोधिसत्वा निषीदन्ति, ततस् ततस् तादृशो गन्धः प्रवाति यत् समनन्तराघ्राते गन्धे सर्वबोधिसत्वगुणाकरं नाम समाधिं प्रतिलभन्ते यस्य समाधेः समनन्तरप्रतिलम्भात् सर्वेषां बोधिसत्वगुणा जायन्ते /

$१५ अथ ते बोधिसत्वा विमलकीर्तिं लिच्छविम् एतद् अवोचन् : इह पुनर् भगवाञ् शाक्यमुनिः कीदृशिं धर्मदेशनां प्रकाशयति /
आह : दुर्दमाः सत्पुरुषाः इमे सत्वाः / तेषां दुर्दमानां सत्वानां खटुण्कदुर्दमदमथकथाम् एव प्रकाशयति / कतमः पुनः खटुण्कदुर्दमानां दमथः, कतमा च खटुण्कदुर्दमदमथकथा / तद्यथेमे निरयाः, इयं तिर्यग्योनिः, अयं यमलोकः, इमे ऽक्षणाः, इयं हीनेन्द्रियोपपत्तिः, इदं कायदुश्चरितम्, अयं कायदुश्चरितस्य विपाकः, इदं वाग्दुश्चरितम्, अयं वाग्दुश्चरितस्य विपाकः, इदं मनोदुश्चरितम्, अयं मनोदुश्चरितस्य विपाकः, अयं प्राणातिपातः, इदम् अदत्तादानम्, अयं काममिथ्याचारः, अयं मृषावादः, इयं पिशुना वाक्, इयं परुषा वाचा, अयं संभिन्नप्रलापः, इयम् अभिध्या, अयं व्यापादः, इयं मिथ्यादृष्टिः, अयम् एषाम् एष विपाकः, इदं मात्सर्यम्, इदं दौःशील्यम्, अयं क्रोधः, इदं कौशीद्यम्, अयं विक्षेपः, इदं दौःप्रज्ञ्यम्, इदं दौःप्रज्ञ्यस्य फलम्, अयं प्र्तिमोक्षशिक्षाव्यतिक्रमः, अयं प्रातिमोक्षः, इदं करणीयम्, इदम् अकरणीयम्, अयं योगः, इदं प्रधानम्, इदम् आवरणम्, इदम् अनावरणम्, इयम् आपत्तिः, इयम् अनापत्तिः, इदम् आपत्तिव्युत्थानम्, अयं मार्गः, अयं कुमार्गः, इदं कुशलम्, इदम् अकुशलम्, इदं सावद्यम्, इदम् अनवद्यम्, इदं सास्रवम्, इदम् अनास्रवम्, इदं लौकिकम्, इदं लोकोत्तरम्, इदं असंस्कृतम्, इदम् संस्कृतम्, अयं सम्क्लेशः, इदं व्यवदानम्, अयं संसारः, इदं निर्वाणम् /
इत्य् एवम् अनेकधर्मपरिभाषणतया खटुण्काश्वसदृशचित्ताः सत्वा अवस्थाप्यन्ते / तद्यथा खटुण्को हयो गजो वा यावन् मर्मवेधेन दमथं गच्छति, एवम् एवेह दुर्दमाः खटुण्काः सत्वास् ते सर्वदुःखपरिभाषणकथाभिर् दमथं गच्छन्ति /

$१६ ते बोधिसत्वा आहुः : आश्चर्यं भगवतः शाक्यमुनेर् यत्र हि नाम प्रतिसम्हृत्य बुद्धमाहात्म्यं दरिद्रलूहतय खटुण्कान् सत्वान् विनयति / ये ऽपि बोधिसत्वा इहैवं प्रतिकष्टे बुद्धक्षेत्रे प्रतिवसन्ति तेषाम् अप्य् अचिन्त्या महाकरुणा /
विमलकीर्तिर् आह : एवम् एव सत्पुरुषाः तथैतद् यथा वदथ / ये ऽपीह बोधिसत्वाः प्रत्याजाताः, दृढा तेषां महाकरुणा / ते बहुतरम् इह लोकधाताव् एकजन्मना करिष्यन्ति सत्वार्थम् / न त्व् एव तत्र सर्वगन्धसुगन्धे लोकधातौ कल्पसहस्रेण सत्वार्थः /

$१७ तत् कस्माद् धेतोः / इह हि सत्पुरुषाः सहे लोकधातौ दश कुशलोच्चया धर्माः, ये ऽन्येषु बुद्धक्षेत्रेषु न संविद्यन्ते, यांश् च ते परिगृह्णन्ति / कतमे दश / यद् इदं दानसम्ग्रहो दरिद्रेषु, शीलसम्ग्रहो दुःशीलेषु, क्षान्तिसम्ग्रहः प्रतिहतेषु, वीर्यसम्ग्रहः कुशीदेषु, ध्यानसम्ग्रहो विक्षिप्तचित्तेषु, प्रज्ञासम्ग्रहो दुःप्रज्ञेषु, अष्टाक्षणसमतिक्रमदेशनाक्षणप्राप्तेषु, महयानदेशना प्रादेशिकचर्यासु, कुशलमूलसम्ग्रहो ऽनवरोपितकुशलमूलेषु, सततसमितं सत्वपरिपाकश् चतुर्भिः सम्ग्रहवस्तुभिः / इमान् दश कुशलोच्चयान् धर्मान् प्रतिगृह्णन्ति ये तदन्येषु बुद्धक्षेत्रेषु न संविद्यन्ते /

$१८ ते बोधिसत्वा आहुः : कतमैर् धर्मैः समन्वागतो बोधिसत्वो ऽक्षतो ऽनुपहतः सहाल् लोकधातोश् च्युत्वा परिशुद्धं बुद्धक्षेत्रं गच्छति /
विमलकीर्तिर् आह : अष्टाभिः कुलपुत्राः धर्मैः समन्वागतो बोधिसत्वः सहाल् लोकधातोश् च्युत्वाक्षतो ऽनुपहतः परिशुद्धं बुद्धक्षेत्रं गच्छति / कतमैर् अष्टाभिः / यद् उत सर्वसत्वानां मया हितं कर्तव्यम्, न चैषां सकाशात् किम्चिद् धितं पर्येषितव्यम्, सर्वसत्वदुःखं चानेनोत्सोढव्यं सर्वं चानेन कुशलमूलं सर्वसत्वानाम् उत्स्रष्टव्यम्, सर्वसत्वेष्व् अप्रतिघातः, सर्वबोधिसत्वेषु शास्तृप्रेम, अश्रुतानां च धर्माणां श्रुतानां च श्रवणाद् अप्रतिक्षेपः, अनीर्षुकता परलाभेषु स्वलाभेनानभिमननाचित्तनिध्यप्तिः, आत्मस्खलितप्रत्यवेक्षा परस्यापत्त्यचोदनता अप्रमादरतस्य च सर्वगुणसमादानम् / एभिर् अष्टाभिर् धर्मैः समन्वागतो बोधिसत्वः सहाल् लोकधातोश् च्युत्वाक्षतो ऽनुपहतः परिशुद्धं बुद्धक्षेत्रं गच्छति /
अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रीश् च कुमारभूतस् तस्यां पर्षदि सम्निपतितायां तथा धर्मं देशयतो यथा परिपूर्णस्य प्राणिसहस्रस्यानुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि, दशानां च बोधिसत्वसहस्राणाम् अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत् //

निर्मितभोजनानयनपरिवर्तो नाम नवमः //

Chapter १०
$१ तेन खलु पुनः समयेन भगवत आम्रपालीवने धर्मं देशयतः स मण्डलमाडो विपुलश् च विस्तीर्णश् च संस्थितो ऽभूत् / सा च पर्षत् सुवर्णवर्णा सम्दृश्यते स्म / अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : कस्येदं भगवन् पूर्वनिमित्तं यद् इदम् आम्रपालीवनम् एवं विस्तीर्णं संस्थितं सर्वा च पर्षत् सुवर्णवर्णा सम्दृश्यते /
भगवान् आह : एष आनन्द विमलकीर्तिर् लिच्छविर् मञ्जुश्रीश् च कुमारभूतो महत्या पर्षदा परिवृतौ तथागतस्यान्तिकम् उपसम्क्रमिष्यतः /

$२ अथ विमलकीर्तिर् लिच्छविर् मञ्जुश्रियं कुमारभूतम् एतद् अवोचत् : गमिष्यामो वयं मञ्जुश्रीः भगवतो ऽन्तिकम् / इमे च महासत्वास् तथागतं द्रक्ष्यन्ति वन्दिष्यन्ते च /
आह : गच्छाम कुलपुत्र यस्येदानीं कालं मन्यसे /
अथ विमलकीर्तिर् लिच्छविस् तादृशम् ऋद्ध्यभिसंस्कारम् अभिसंस्करोति स्म / यथा तां सर्वावतीं पर्षदं सार्धं तैः सिंहासनैर् दक्षिणे पानौ प्रतिष्ठाप्य येन भगवांस् तेनोपसम्क्रामत् / उपसम्क्रम्य तां पर्षदं धरणितले प्रतिष्ठाप्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं सप्तकृत्वः प्रदक्षिणीकृत्यैकान्ते ऽस्थात् /
अथ ये ते बोधिसत्वा गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्राद् आगताः, ते चान्ये च तेभ्यः सिंहासनेभ्यो ऽवतीर्य भगवतः पादौ शिरोभिर् वन्दित्वैकान्ते प्रत्यतिष्ठन् / एवं शक्रब्रह्मलोकपाला देवपुत्राश् च भगवतः पादौ शिरोभिर् वन्दित्वैकान्ते प्रत्यतिष्ठन् /
अथ स भगवांस् तान् बोधिसत्वान् धर्मयया कथया प्रतिसंमोद्यैवम् आह : निषीदत कुलपुत्राः स्वेषु स्वेषु सिंहासनेषु /
ते भगवतानुज्ञाता न्यषीदन् /

$३ तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म : दृष्टं ते शारिपुत्र एषाम् अग्रसत्वानां बोधिसत्वानां विक्रीडितम् /
आह : दृष्टं भगवन् /
भगवान् आह : ततः का ते सम्ज्ञोत्पन्ना /
आह : अचिन्त्या सम्ज्ञा मे भगवन् तत्रोदपद्यत यथा चिन्तयितुं तुलयितुं गणयितुं न शक्नोमि तादृशीं तेषाम् अचिन्त्यां क्रियां पश्यामि /

$४ अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : अनाघ्रातपूर्वं भगवन् गन्धम् आजिघ्रामि / कस्यैष ईदृशो गन्धः /
आह : एषाम् एव आनन्द बोधिसत्वानां सर्वरोमकूपेभ्यो गन्धः कायात् प्रवाति /
शारिपुत्रो ऽप्य् आह : अस्माकम् अप्य् आयुष्मन्न् आनन्द सर्वरोमकूपेभ्य ईदृशो गन्धः प्रवाति /
आह : कुतो ऽस्य गन्धस्य प्रादुर्भावः /
आह : विमलकीर्तिना लिच्छविना गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रात् सर्वगन्धसुगन्धाल् लोकधातोर् भोजनम् आनीतम् / तद् यावद्भिर् भुक्तं सर्वेषाम् ईदृशो गन्धः कायात् प्रवाति /

$५ अथायुष्मान् आनन्दो विमलकीर्तिं बोधिसत्वम् एवम् आह : कियच्चिरं पुनर् एष कुलपुत्र गन्धो ऽनुवर्तिष्यते /
आह : यावद् एतद् भोजनं न परिणतं भविष्यति /
आनन्द आह : कियच्चिरेन पुनर् एतद् भोजनं परिणंस्यति /
आह : सप्तभिः सप्ताहैः परिणंस्यति / उपरि चास्य सप्ताहम् ओजः स्फरिष्यति / न चाजीर्णदोषो भविष्यति /

$६ यैश् च भदन्तानन्द भिक्षुभिर् अनवक्रान्तनियामैर् एतद् भोजनं भुक्तं तेषाम् अवक्रान्तनियामानां परिणंस्यति / यैः पुनर् अवक्रान्तनियामैर् भुक्तं तेषां नापरिमुक्तचित्तानां परिणंस्यति / यैर् अनुत्पादितबोधिचित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादितबोधिचित्तानां परिणंस्यति / यैर् उत्पादितबोधिचित्तैर् भुक्तं तेषां नाप्रतिलब्धक्षान्तिकानां परिणंस्यति / यैः पुनः प्रतिलब्धक्षान्तिकैर् भुक्तं तेषाम् एकजातिप्रतिबद्धानां परिणंस्यति /

$७ तद्यथापि नाम भदन्तानन्द स्वादुर् नाम भैषज्यम्, तत् तावत् कौष्ठगतं न परिणमति यावन् न सर्वगतं विषम् अपगतं भवति / ततः पश्चात् तद् भैषज्यं परिणमति / एवम् एव भदन्तानन्द तावद् एव तद् भोजनं न परिणतं भवति यावत् सर्वक्लेशविषं न निर्विषं भवति / ततः पश्चात् तद् भोजनं परिणमति /
अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : बुद्धकृत्यं भगवन् एतद् भोजनं करोति /
आह : एवम् एतद् आनन्द एवम् एतद् यथा वदसि /

$८ सन्त्य् आनन्द बुद्धक्षेत्राणि येषु बोधिसत्वा बुद्धकृत्यं कुर्वन्ति / सन्ति बुद्धक्षेत्राणि येषु बोधिवृक्षो बुद्धकृत्यं करोति / सन्ति बुद्धक्षेत्राणि येषु तथागतलक्षणरूपदर्शनं बुद्धकृत्यं करोति / एवं गगनम् अन्तरीक्षं बुद्धकृत्यं करोति / तादृशस् तेषां सत्वानां विनयो भवति /

$९ एवं स्वप्नप्रतिभासदकचन्द्रप्रतिश्रुत्कामायामरीच्युपमोपन्यासाक्षरविभक्तिनिर्देशाः सत्वानां बुद्धकृत्यं कुर्वन्ति / सन्ति बुद्धक्षेत्राणि यत्राक्षरविज्ञप्तिर् बुद्धकृत्यं करोति / सन्त्य् आनन्द बुद्धक्षेत्राणि तादृशानि परिशुद्धानि यत्रानुदाहारताप्रव्याहारतानिर्देशतानभिलाप्यता तेषां सत्वानां बुद्धकृत्यं करोति /

$१० न कश्चिद् आनन्द ईर्यापथो न कश्चिद् उपभोगो यो बुद्धानां भगवतां सत्वविनयाय बुद्धकृत्यं न करोति / ये चेम आनन्द चत्वारो माराश् चतुराशीतिश् च क्लेशमुखशतसहस्राणि यैः सत्वाः सम्क्लिश्यन्ते, सर्वैस् तैर् बुद्धा भगवन्तो बुद्धकृत्यं कुर्वन्ति /

$११ इदम् आनन्द सर्वबुद्धधर्मप्रवेशं नाम धर्ममुखं यत्र यत्र धर्ममुखे प्रविष्टो बोधिसत्वः सर्वोदारव्यूहगुणसमन्वागतेषु बुद्धक्षेत्रेषु नावलीयते नावनमति / सर्वोदारव्यूहगुणसमन्वागतेषु च बुद्धक्षेत्रेषु न कृष्यति नोन्नमति / तथागतानां च सकाशे सो ऽधिमात्रं गौरवम् उत्पादयति / आश्चर्यम् इदं बुद्धानां भगवतां सर्वधर्मसमताधिमुक्तानां सत्वपरिपाचनतया बुद्धक्षेत्रनानात्वदर्शनम् /

$१२ तद्यथा आनन्द भवति बुद्धक्षेत्राणाम् अपरापरगुणनानात्वम्, न पुनः खगपथसम्छादितस्य बुद्धक्षेत्रस्याकाशनानात्वम् / एवम् एव आनन्द भवति तथागतानां रूपकायनानात्वम्, न पुनस् तथागतानाम् असण्गज्ञाननानात्वम् /

$१३ समा ह्य् आनन्द सर्वबुद्धा रूपेण वर्णेन तेजसा वपुषा लक्षणैः कुलमाहात्म्येन शीलेन समाधिना प्रज्ञया विमुक्त्या विमुक्तिज्ञानदर्शनेन बलैर् वैशारद्यैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया हितैषितयेर्यया चर्यया प्रतिपदायुःप्रमाणेन धर्मदेशनया सत्वपरिपाकेन सत्वविमुक्त्या क्षेत्रपरिशुद्ध्या सर्वबुद्धधर्मपरिपूरया / तेनोच्यते सम्य क्संबुद्ध इति तथागत इति बुद्ध इति /
एषाम् आनन्द त्रयाणां पदानां यो ऽर्थविस्तरपदविभण्गः स त्वया कल्पस्थितिकेनापि न सुकरः पर्यवाप्तुम् / त्रिसाहस्रपर्यापन्ना अप्य् आनन्द सत्वास् त्वत्सदृशा भवेयुर् अग्रा ब हुश्रुतानां स्मृतिधारिणीप्रतिलब्धानाम्, ते ऽपि सर्वे सत्वा आनन्दसदृशा एषां त्रयाणां पदानाम् अर्थविनिश्चयं श्रुतस्मृतिधारिणीलब्धानाम् अर्थविनिश्चयनिर्देशं कल्पेनापि न शक्नुयुः पर्यवाप्तुम्, यद् इदं सम्यक्संबुद्ध इति तथागत इति बुद्ध इति / एवम् अप्रमाणा ह्य् आनन्द बुद्धबोधिः, एवम् अचिन्त्यं तथागतानां प्रज्ञाप्रतिभानम् /

$१४ अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : अद्याग्रेणाहं भगवन् न भूयो ऽग्रो ब हुश्रुतानाम् इत्य् आत्मानं प्रतिज्ञास्यामि /
भगवान् आह : मा त्वम् आनन्द अवलीनचित्तम् उत्पादय / तत् कस्माद् धेतोः / श्रावकान् सम्धाय त्वं मया आनन्द अग्रो ब हुश्रुतानां निर्दिष्टः, न बोधिसत्वान् / तिष्ठन्त्व् आनन्द बोधिसत्वाः / न ते पण्डितेनावगाहयितव्याः / शक्यो ह्य् आनन्द सर्वसागराणां गाधः प्रमातुम्, न त्व् एव शक्यो बोधिसत्वानां प्रज्ञाज्ञास्मृतिधारणीप्रतिभानस्य गाधः प्रमातुम् / उपेक्ष का यूयम् आनन्द बोधिसत्वचर्यायां भवथ / तत् कस्माद् धेतोः / य इम आनन्द विमलकीर्तिना लिच्छविनैकपूर्वभक्ते व्यूहाः सम्दर्शिताः, ते सर्वश्रावकप्रत्येकबुद्धैर् ऋद्धिप्राप्तैः सर्वर्द्धिविकुर्वितप्रातिहार्यैः कल्प कोटीशतसहसराणि न शक्याः सम्दर्शयितुम् /

$१५ अथ ये ते बोधिसत्वा भगवतो गन्धोत्तम कूटस्य तथागतस्य बुद्धक्षेत्रात् सर्वगन्धसुगन्धाल् लोकधातोर् आगताः, ते सर्वे प्राञ्जलीभूत्वा तथागतस्य नमस्यन्तः, एवं च वाचम् अभाषन्त : प्रतिनिःसृजामो वयं भगवन् तान् मनसिकारान् यैर् अस्माभिर् इह बुद्धक्षेत्रे हीनसम्ज्ञोत्पादिता / तत् कस्माद् धेतोः / अचिन्त्यो हि भगवन् बुद्धानां भगवतां बुद्धविषयः / उपायकौशल्येन सर्वपरिपाकाय यथा यथेच्छन्ति तथा तथा क्षेत्रव्यूहान् आदर्शयन्ति / देहि भगवन् अस्मभ्यं धर्मप्राभृतं यथा वयं तत्र सर्वगन्धसुगन्धे लोकधातौ गता भगवन्तम् अनुस्मरेम /

$१६ भगवान् आह : अस्ति कुलपुत्राः क्षयाक्षयो नाम बोधिसत्वानां विमोक्षः / तत्र युस्माभिः शिक्षितव्यम् / स पुनः कतमः / क्षयम् उच्यते संस्कृतम्, अक्षयम् असंस्कृतम् / तद् बोधिसत्वेन सम्स्कृतं च न क्षपयितव्यम्, असंस्कृते च न प्रतिष्ठातव्यम् /

$१७ तत्र संस्कृतस्याक्षयता, यद् इदं महामैत्र्या अच्यवनता, महाकरुणाया अनुत्सर्गः, अध्याशयसंप्रस्थितसर्वज्ञताचित्तस्यासंप्रमोषः, सत्वपरिपाकेष्व् अपरिखेदः, सम्ग्रहवस्तूनाम् अरिञ्चना, सद्धर्मपरिग्रहाय कायजीवितपरित्यागः, कुशलमूलेष्व् अतृप्तिः, परिणामनाकौशल्यप्रतिष्ठा, धर्मपर्येष्टाव् अकौशीद्यम्, धर्मदेशनास्व् अनाचार्यमुष्टिः, तथागतदर्शनपूजावस्तुन्य् औत्सुक्यम्, सम्चिन्त्योपपत्तिष्व् अनुत्त्रासः, संपत्तिविपत्तिष्व् अनुन्नामावनामता, अशिक्षितेष्व् अपरिभवः, शिक्षितेषु शास्तृप्रेमा, क्लेशाकीर्णानां योनिश उप्संहारः, विवेकरतिष्व् अतन्मयता, आत्मसौख्ये ऽनध्यवसानम्, परसौख्येन तन्मयता, ध्यानसमाधिसमापत्तिष्व् अवीचिसम्ज्ञा , संसार उद्यानविमानसम्ज्ञा, याचनकेषु कल्याणमित्रसम्ज्ञा, सर्वस्वपरित्यागे सर्वज्ञतापरिपूरिसम्ज्ञा, दुःशीलेषु परित्राणसम्ज्ञा, पारमितासु मातापितृसम्ज्ञा, बोधिपक्ष्येषु धर्मेषु स्वपरिवारसम्ज्ञा, अपर्याप्तीकृताः सर्वकुशलमूलसंभाराः, सर्वबुद्धक्षेत्रगुणानां स्वक्षेत्रनिष्पादनता, लक्षणानुव्यञ्जनपरिपूर्यै निरर्गडयज्ञयजनता, कायवाक्चित्तालम्कारता सर्वपापाकरणतया, कायवाक्परिशुद्ध्या चित्तपरिशुद्ध्या चासम्ख्येयकल्पसंसरणता, चित्तशूरतयाप्रमाणबुद्धगुणश्रवणेनासंसीदनता, क्लेशशत्रुनिग्रहाय प्रज्ञाशस्त्रग्रहणता, सर्वसत्वभारोद्वहनतायै स्कन्धधात्वायतनपरिज्ञा, उत्तप्तवीर्यता मारसैन्यधर्षणार्थम्, निर्मानता धर्मपर्येष्ट्यै, ज्ञानपर्येष्टिधर्मग्राह्यताया अल्पेच्छसम्तुष्टिता, सर्वलोकप्रियतायै सर्वलोकधर्मासंसृष्टता, लोकानुवर्तनतायै सर्वेर्यापथाविकोपनता, सर्वक्रियासम्दर्शनताया अभिज्ञोत्पादनता, सर्वश्रुतधारणतायै धारणीस्मृतिज्ञानता, सर्वसत्वसंशयच्छेदनताया इन्द्रियपरापरज्ञानता, असण्गाधिष्ठानता धर्मदेशनतायै, असण्गप्रतिभानता प्रतिभानप्राप्तप्रतिलम्भतया, देवमनुष्यसंपत्त्यनुभवता दशकुशलकर्मपरिशुद्धितया, ब्रह्मपथप्रतिष्ठानता चतुरप्रमाणोत्पादनतायै, बुद्धस्वरप्रतिलम्भता धर्मदेशनाध्येषणानुमोदनासाधुकारप्रदानेन, बुद्धेर्यापथप्रतिलम्भता कायवाण्मनःसंयमविशेषगामितया सर्वधर्मातन्मयतया, बोधिसत्वसम्घकर्षणतया महायानसमादापनता, सर्वगुणाविप्रणाशतया चाप्रमादः / एवं हि कुलपुत्राः एतद्धर्माधिमुक्तो बोधिसत्वः संस्कृतं न क्षपयति /

$१८ कथं पुनर् असंस्कृते न प्रतितिष्ठते / यदा शून्यतापरिजयं च करोति, न च शून्यतां साक्षात्करोति / आनिमित्तपरिजयं च करोति, न चानिमित्तं साक्षात्करोति / अप्रणिहितपरिजयं च करोति, न चाप्रणिहितं साक्षात्करोति / अनभिसंस्कारपरिज्यं च करोति, न चानभिसंस्कारं साक्षात्करोति / अनित्यम् इति च प्रत्यवेक्षते, न च कुशलमूलैस् तृप्यते / दुःखं इति च प्रत्यवेक्षते, सम्चिन्त्य चोपपद्यते / अनात्मेति च प्रत्यवेक्षते, न चात्मतां परित्यजति / शान्तम् इति च प्रत्यवेक्षते, न चात्यन्तशान्तिम् उत्पादयति / विविक्तम् इति च प्रत्यवेक्षते, कायचित्तेन चोद्युज्यते / अनालयम् इति च प्रत्यवेक्षते, शुक्लधर्मालयं च न विजहाति / अनुपादानम् इति च प्रत्यवेक्षते, उपात्तं च सत्वानां भारं वहति / अनास्रवम् इति च प्रत्यवेक्षते, संसारप्रवृत्तिं चोपयाति / अप्रचारम् इति च प्रत्यवेक्षते, सत्वमहाकरुणां च नोत्सृजति / अजातिं च प्रत्यवेक्षते, श्रावकनियामे च न पतति / रिक्तम् इति च तुच्छम् इति चासारकम् इति चास्वामिकम् इति चानिकेतम् इति च प्रत्यवेक्षते, अरिक्तपुण्यश् चातुच्छज्ञानश् च परिपूर्णसम्कल्पश् च स्वयंभूज्ञानाभिषिक्तश् च स्वयंभूज्ञाने चाभियुक्तो नीतार्थो बुद्धवंशे प्रतिष्ठितो भवति / एवं हि कुलपुत्राः एवं धर्माधिमुक्तो बोधिसत्वो ऽसंस्कृते न प्रतितिष्ठते संस्कृतं न क्षपयति /

$१९ पुण्यसंभाराभियुक्तत्वाद् असंस्कृते न प्रतितिष्ठति, ज्ञानसंभाराभियुक्तत्वात् संस्कृतं न क्षपयति / महामैत्रीसमन्वागतत्वाद् असंस्कृते न प्रतितिष्ठति, महाकरुणासमवागतत्वात् संस्कृतं न क्सपयति / सत्वपरिपाचनत्वाद् असंस्कृते न प्रतितिष्ठति, बुद्धधर्माभिलाषित्वात् संस्कृतं न क्षपयति / बुद्धलक्षणपरिपूरणत्वाद् असंस्कृते न प्रतिष्ठति, सर्वज्ञज्ञानपरिपूरणार्थं संस्कृतं न क्षपयति / उपायकुशलत्वाद् असंस्कृते न प्रतितिष्ठति, प्रज्ञासुनिरीक्षितत्वात् संस्कृतं न क्षपयति / बुद्धक्षेत्रपरिशुद्ध्यर्थम् असंस्कृते न प्रतिष्ठति, बुद्धाधिष्ठानत्वात् संस्कृतं न क्सपयति / सत्वार्थानुभवनाद् असंस्कृते न प्रतितिष्ठति, धर्मार्थसंदर्शनात् संस्कृतं न क्षपयति / कुशलमूलसम्भारत्वाद् असंस्कृते न प्रतितिष्ठति, कुशलमूलवासनत्वात् संस्कृतं न क्षपयति / प्रणिधानपरिपूरणार्थम् असंस्कृते न प्रतितिष्ठति, अप्रणिहितत्वात् संस्कृतं न क्षपयति / आशयपरिशुद्धत्वाद् असंस्कृते न प्रतितिष्ठति, अध्याशयपरिशुद्धत्वात् संस्कृतं न क्षपयति / पञ्चाभिज्ञाविक्रीडितत्वाद् असंस्कृते न प्रतितिष्ठति, बुद्धज्ञानषडभिज्ञत्वात् संस्कृतं न क्षपयति / पारमितासंभारपरिपूरणार्थम् असंस्कृते न प्रतितिष्ठति, अपरिपूर्णकालत्वात् संस्कृतं न क्षपयति / धर्मधनसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, प्रादेशिकधर्मानर्थिकत्वात् संस्कृतं न क्षपयति / सर्वभैषज्यसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, यथार्हभैषज्यप्रयोजनात् संस्कृतं न क्षपयति / दृढप्रतिज्ञाया असंस्कृते न प्रतितिष्ठति, प्रतिज्ञोत्तारणत्वात् संस्कृतं न क्षपयति / धर्मभैषज्यसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, यथापीत्वरधर्मभैसज्यप्रयोजनात् संस्कृतं न क्षपयति / सर्वसत्वक्लेशव्याधिपरिज्ञानाद् असंस्कृते न प्रतितिष्ठति, सर्वव्याधिशमनात् संस्कृतं न क्षपयति / एवं हि कुलपुत्राः बोधिसत्वः संस्कृतं न क्षपयति , असंस्कृते न प्रतितिष्ठति / अयम् उच्यते क्षयाक्षयो नाम बोधिसत्वानां विमोक्षः / तत्र युष्माभिः सत्पुरुषाः योगः करणीयः /

$२० अथ खलु ते बोधिसत्वा इमं निर्देशं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाता भगवतः पूजाकर्मणे तेषां च बोधिसत्वानाम् अस्य धर्मपर्यायस्य पूजाकर्मणे सर्वम् इमं त्रिसाहस्रमहासाहस्रं लोकधातुं सर्वचूर्णगन्धधूपव्यूहैः पुष्पैश् च जानुमत्रं सम्छाद्य भगवतश् च पर्षन्मण्डलम् अभिकीर्तिं कृत्वा भगवतः पादौ शिरोभिर् वन्दित्वा भगवन्तं त्रिष्प्रदक्षिणीकृत्योदानम् उदानयन्त इह बुद्धक्षेत्रे ऽन्तर्हितास् तेन क्षणलवमुहूर्तेन तत्र सर्वगन्धसुगन्धे लोकधातौ प्रत्युपस्थिताः //

क्षयाक्षयो नाम धर्मप्राभृतपरिवर्तो दशमः //

Chapter ११
$१ अथ खलु भगवान् विमलकीर्तिं लिच्छविम् एतद् अवोचत् : यदा त्वं कुलपुत्र तथागतस्य दर्शनकामो भवसि, तदा कथं त्वं तथागतं पश्यसि /

एवम् उक्ते विमलकीर्तिर् लिच्छविर् भगवन्तम् एतद् अवोचत् : यदाहं भगवन् तथागतस्य दर्शनकामो भवामि, तदा तथागतम् अपश्यनया पश्यामि / पूर्वान्ततो ऽजातम् अपरान्ततो ऽसम्क्रान्तं प्रत्युत्पन्ने ऽध्वन्य् असंस्थितं पश्यामि / तत् कस्य हेतोः / रूपतथतास्वभावम् अरूपम्, वेदनातथतास्वभावम् अवेदनाम्, सम्ज्ञातथतास्वभावम् असम्ज्ञम्, संस्कारतथतास्वभावम् असंस्कारम्, विज्ञानतथतास्वभावम् अविज्ञानम्, चतुर्धात्वसंप्राप्तम् आकाशधातुसमम्, षडायतनानुत्पन्नं चक्षुःपथसमतिक्रान्तं श्रोत्रपथसमतिक्रान्तं घ्राणपथसमतिक्रान्तं जिह्वापथसमतिक्रान्तं कायपथसमतिक्रान्तं मनःपथसमतिक्रान्तम्, त्रैधातुकासंसृष्टम्, त्रिमलापगतम्, त्रिविमोक्षानुगतम्, त्रिविद्यानुप्राप्तम्, अप्राप्तम् संप्राप्तम्, सर्वधर्मेष्व् असण्गकोटीगतं भूतकोट्यकोटिकम्, तथताप्रतिष्ठितं तदन्योन्यविसंयुक्तम्, न हेतुजनितं न प्रत्ययाधीनम्, न विलक्षणं न सलक्षणम्, नैकलक्सणं न नानालक्षणम् /
न लक्ष्यते न संलक्ष्यते न विलक्ष्यते, नार्वाण् न पारे न मध्ये, नेह न तत्र, नेतो नान्यतः, न ज्ञानविज्ञेयो न विज्ञानप्रतिष्ठितः, अतमो ऽप्रकाशः, अनामानिमित्तम्, न दुर्लभो न बलवान्, न देशस्थो न प्रदेशस्थः, न शुभो नाशुभः, न संस्कृतो नासंस्कृतः /
नापि केनचिद् अर्थेन वचनीयः, न दानतो न मात्सर्यतः, न शीलतो न दौःशील्यतः, न क्षान्तितो न व्यापादतः, न वीर्यतो न कौशीद्यतः, न ध्यानतो न विक्षेपतः, न प्रज्ञातो न दौःप्रज्ञ्यतः, न वचनीयो नावचनीयः, न सत्यतो न मृषातः, न नैर्याणिकतो नानैर्याणिकतः /
न गमनीयो नागमनीयः, सर्वरुतव्याहारसमुच्छिन्नः, न क्षेत्रभूतो नाक्षेत्रभूतः, न दक्षिणार्हो न दक्षिणाशोध्यिता, अग्राह्यः, अपरामृष्टः, अनिकेतः, असंस्कृतः, सम्ख्यापगतः, समतया समः, धर्मतया तुल्यः, अतुल्यवीर्यः, तुलनासमतिक्रान्तः, न क्रान्तो न चाक्रान्तः, न समतिक्रान्तः, न दृष्टश्रुतपरिज्ञातः, सर्वग्रन्थिविगतः, सर्वविज्ञज्ञानसमताप्राप्तः, सर्वसत्वसमः, सर्वधर्मनिर्विशेषप्राप्तः, सर्वतो ऽनवद्यः, निष्किम्चनः, निष्कषायः, निष्कलः, निर्विकल्पः, अकृतः, अजातः, अनुत्पन्नः, अभूतः, असंभूतः, न भविष्यति, निर्भयः, निष्क्लेशः, निःशोकः, निष्प्रीतिकः, नीरूर्मिकः, सर्वव्यवहारनिर्देशैर् अवचनीयः /
ईदृशो भगवन् तथागतस्य कायः, स तथैव द्रष्टव्यः / य एवं पश्यन्ति, ते सम्यक् पश्यन्ति / ये त्व् अन्यथा पश्यन्ति, ते मिथ्या पश्यन्ति /

$२ अथायुष्माञ् शारिपुत्रो भगवन्तम् एतद् अवोचत् : कतमस्माद् भगवन् बुद्धक्षेत्राच् च्युतौ विमलकीर्तिः कुलपुत्र इदं बुद्धक्षेत्रम् आगतः /
भगवान् आह : एतम् एव त्वं शारिपुत्र सत्पुरुषं परिपृच्छ - कुतस् त्वं च्युत्वेहोपपन्न इति /
अथायुष्माञ् शारिपुत्रो विमलकीर्तिं लिच्छविम् एतद् अवोचत् : कुतस् त्वं कुलपुत्र च्युत्वेहोपपन्नः /
विमलकीर्तिर् आह : यः स्थविरेन धर्मः साक्षात्कृतः, कच्चित् तस्य धर्मस्य च्युतिर् उपपत्तिर् वा /
आह : न तस्य धर्मस्य काचिच् च्युतिर् उपपत्तिर् वा /
आह : एवम् अच्युतिकानाम् अनुत्पत्तिकानां भदन्तशारिपुत्र सर्वधर्माणां कुतस् तवैवं भवति - कुतस् त्वं व्युत्वेहोपपन्न इति / यं भदन्तशारिपुत्र निर्मितां स्त्रियं पुरुषं वा पृच्छेः - कुतस् त्वं च्युत्वेहोपपन्न इति, स किं व्याकुर्यात् /
आह : न कुलपुत्र निर्मितस्य च्युतिर् नोपपत्तिः, स किं व्याकरिष्यति /
आह : ननु भदन्तशारिपुत्र निर्मितस्वभावाः सर्वधर्मास् तथागतेन निर्दिष्टाः /
आह : एवम् एतत् कुलपुत्र /
आह : निर्मितस्वभावेषु भदन्तशारिपुत्र सर्वधर्मेषु - कुतस् त्वं च्युत्वेहोपपन्न इति / च्युतिर् इति भदन्तशारिपुत्र अभिसंस्कारक्षणलक्षणपदम् एतत् / उपपत्तिर् इत्य् अभिसंस्कारप्रबन्ध एषः / तत्र बोधिसत्वश् च्यवते, न कुशलमूलाभिसंस्कारं क्षपयति / उपपद्यते च, न चाकुशलं प्रबध्नाति /

$३ तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म : अक्षोभ्यस्य शारिपुत्र तथागतस्य सकाशाद् आगत एष कुलपुत्रो ऽभिरत्या लोकधातोः /
आह : आश्चर्यं भगवन् यद् एष सत्पुरुषस् तावत्परिशुद्धाद् बुद्धक्षेत्राद् आगत्येहैवं बहुदोषदुष्टे बुद्धक्षेत्रे ऽभिरमते /
विमलकीर्तिर् आह : तत् किं मन्यसे भदन्तशारिपुत्र अपि नु सूर्यरश्मयो ऽन्धकारेण सार्धं रमन्ते /
आह : नो हीदं कुलपुत्र, न तयोर् योगो ऽस्ति / सहोद्गते हि सूर्यमण्डले सर्वं तमो ऽपयान्ति /
आह : किं कारणं पुनः सूर्यो जम्बूद्वीप उदयते /
आह : यावद् एवावभासकरणाय तमोऽपघाताय च /
आह : एवम् एव शारिपुत्र सम्चिन्त्य बोधिसत्वा अपरिशुद्धेषु बुद्धक्षेत्रेषूपपद्यन्ते सत्वानां परिशोधनाय / न च क्लेशैः सार्धं संवसन्ति, क्लेशान्धकारं च विधमन्ति सर्वसत्वानाम् /

$४ अथ सा सर्वा पर्षत् परितृषिताभूत् : पश्येम वयं ताम् अभिरतिं लोकधातुं तम् चाक्षोभ्यं तथागतं तांश् च बोधिसत्वांश् तांश् च महाश्रावकान् /
अथ भगवांस् तस्याः सवस्याः पर्षदश् चेतसा चेतःपरिवितर्कम् आज्ञाय विमलकीर्तिं लिच्छविम् एतद् अवोचत् : दर्शय कुलपुत्र अस्याः पर्षदस् ताम् अभिरतिं लोकधातुं तं चाक्षोभ्यं तथागतम् / द्रष्टुकामेयं पर्षत् /
अथ विमलकीर्तेर् लिच्छवेर् एतद् अभवत् : यन् न्व् अहम् इतश् चासनान् नोत्तिष्ठेयम् / तां चाभिरतिं लोकधातुम् अनेकबोधिसत्वशतसहस्रां देवनागयक्षगन्धर्वासुराध्युषितां सचक्रवाडपरिखां सनदीतडागोत्ससरःसमुद्रपरिखां ससुमेरुगिरिकूटपर्वतां सचन्द्रसूर्यज्योतिषां सदेवनागयक्षगन्धर्वभवनां सब्रह्मभवनपरिषद्यां सग्रामनगरनिगमजनपदराष्ट्रमनुष्यां सस्त्र्यागारां सबोधिसत्वसश्रावकपर्षदम्, अक्षोभ्यस्य तथागतस्य बोधिवृक्षम्, अक्षोभ्यं च तथागतं सागरोपमायां महापर्षदि निषण्णं धर्मं देशयमानम्, अपि तानि पद्मानि यानि दशसु दिक्षु बुद्धकृत्यं कुर्वन्ति सत्वानाम्, अपि तानि त्रीणि रत्नमयानि सोपानानि यानि जम्बूद्वीपम् उपादाय त्रयस्त्रिंशद्भवनम् अभ्युद्गतानि यैः सोपानैर् देवास् त्रयस्त्रिंशतो जम्बूद्वीपम् अवतरन्त्य् अक्षोभ्यम् तथागतं दर्शनाय वन्दनायै पर्युपासनाय धर्मश्रवणाय जाम्बूद्वीपकाश् च मनुष्यास् त्रयस्त्रिंशद्भवनम् अभिरोहन्ति देवांस् त्रयस्त्रिंशतो दर्शनाय / एवम् अप्रमाणगुणसमुदितां ताम् अभिरतिं लोकधातुम् अप्स्कन्धम् उपादाय यावद् अकनिष्ठभवनं भार्गवचक्रम् इव परिच्छिद्य दक्षिणेन पाणिना पुष्पदामम् इवादायेमां लोकधातुं प्रवेशयेयम् / प्रवेश्य चास्याः सर्वस्याः पर्षदो दर्शयेयम् /

$५ अथ विमलकीर्तिर् लिच्छविस् तस्यां वेलायां तथारूपं समाधिं समापन्नः, तादृशं चार्द्ध्यभिसंस्कारम् अभिसंस्कृतवान् यस् तम् अभिरतिं लोकधातुं परिच्छिद्य दक्षिणेन पाणिना गृहीत्वेमं सहं लोकधातुं प्रवेशयति स्म /

$६ तत्र ये दिव्यचक्षुषो ऽभिज्ञाप्रतिलब्धाः श्रावका बोधिसत्वा देवमनुष्याश् च, ते महान्तम् उत्क्रोशम् उत्क्रोशन्ति स्म : क्रियामहे भगवन् क्रियामहे सुगत, त्राय च तथागत इति /
तान् भगवान् विनयनार्थम् एवम् आह : न ममात्र वृषभिता विमलकीर्तिना बोधिसत्वेन क्रियमाणानाम् /
तत्र ये पुनर् अन्ये देवमनुष्याः, ते न जानन्ति न पश्यन्ति - कुतो वयं क्रियामह इति / न ह्य् अभिरत्या लोकधातोर् इमं सहं लोकधातुं प्रवेशिताया ऊनत्वं न पूर्णत्वम् अभूत् / न चास्य लोकधातोर् उत्पीडो न संबाधह् / नाप्य् अभिरत्या लोकधातोर् ऊनभावः / यथा पूर्वं तथा पश्चात् सम्दृश्यते /

$७ अथ भगवाञ् शाक्यमुनिस् तां सर्वां पर्षदम् आमन्त्रयते स्म : पश्यत मार्षाः अभिरतिं लोकधातुम् अक्षोभ्यं च तथागतम् एतांश् च क्षेत्रव्यूहाञ् श्रावकव्यूहान् बोधिसत्वव्यूहांश् च /
त आहुः : पश्यामो भगवन् इति /
आह : ईदृशं मार्षाः बुद्धक्षेत्रं परिग्रहीतुकामेन बोधिसत्वेनाक्षोभ्यस्य तथागतस्य बोधिसत्वचर्यायाम् अनुशिक्षितव्यम् /
अस्मिन् पुनर् अभिरतिलोकधातुसम्दर्शनर्द्धिप्रातिहार्ये ऽक्षोभ्यस्य च तथागतस्य सम्दर्शने ऽस्मिन् सहे लोकधातौ चतुर्दशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि / सर्वैश् चाभिरत्यां लोकधातौ प्रणिधानम् उत्पादितम् उपपत्तये / ते सर्वे भगवता व्याकृता अभिरत्यां लोकधाताव् उपपत्तये / इति हि विमलकीर्तिर् लिच्छविर् यावान् इह सहे लोकधातौ सत्वपरिपाकः कर्तव्यस् तं सर्वं कृत्वा पुनर् एव ताम् अभिरतिं लोकधातुं यथास्थाने स्थापयामास /

$८ तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म : दृष्टा ते शारिपुत्र अभिरतिर् लोकधातुः स चाक्षोभ्यस् तथागतः /
आह : दृष्टा मे भगवन् / सर्वसत्वानां तादृशा बुद्धक्षेत्रगुनव्यूहा भवन्तु / सर्वसत्वाश् चेदृश्यर्द्ध्या समन्वागता भवन्तां यादृश्या विमलकीर्तिर् लिच्छविः कुलपुत्रः / एभिर् अपि च सुलब्धा लाभाः, ये वयम् ईदृशान् सत्पुरुषान् लभामहे दर्शनाय / तेषाम् अपि सत्वानां सुलब्धा लाभा भविष्यन्ति, ये एतर्हि तथागतस्य तिष्ठतो वा परिनिर्वृतस्य वेमं धर्मपर्यायम् अन्तशः श्रोष्यन्ति / कः पुनर् वादः, ये श्रुत्वाधिमोक्ष्यन्ते प्रत्येष्यन्त्य् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्त्य् अधिमोक्ष्यन्ति प्रवर्तयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति भावनायोगम् अनुयुक्ताश् च भविष्यन्ति /

$९ ते धर्मरत्ननिधानप्राप्ता भविष्यन्ति, येषाम् अयं धर्मपर्यायो हस्तगतो भविष्यति / तथागतसहायास् ते भविष्यन्ति, य इमं धर्मपर्यायं स्वाध्यास्यन्ते / धर्मसंरक्षकास् ते भविष्यन्ति, य एतद् धर्माधिमुक्तानाम् उपस्थानपरिचर्यां करिष्यन्ति / गृहगतस् तेषां तथागतो भविष्यति, य इमं धर्मपर्यायं सुलिखितं कृत्वा धारयिष्यन्ति सत्करिष्यन्ति / सर्वपुण्यपरिगृहीतास् ते भविष्यन्ति, य इमं धर्मपर्यायम् अनुमोदिष्यन्ते / महाधर्मयज्ञं ते यजिष्यन्ति, य इतो धर्मपर्यायद् अन्तशश् चतुष्पदिकाम् अपि गाथां संवरम् अपि परेभ्यो विस्तरेण देशयिष्यन्ति / तद् एव तेषां भगवन् व्याकरणं येषाम् इह धर्मपर्याये क्षान्ती रुचिर् मतिः प्रेक्षा दृष्टिर् अधिमुक्तिर् मुक्तिश् च भविष्यति //

अभिरतिलोकधात्वानयनाक्षोभ्यतथागतदर्शनपरिवर्त एकादशः //

Chapter १२
$१ अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत् : बहूनि मे भगवन् तथागतस्यान्तिकान् मञ्जुश्रियश् च कुमारभूतस्यान्तिकाद् धर्मपर्यायशतसहस्राणि श्रुतानि / न च मे जात्व् एवम् अचिन्त्यविमोक्षविकुर्वितधर्मनयप्रवेशश्रुतपूर्वो यादृश इह धर्मपर्याये निर्दिष्टः /

$२ निःसंशयं ते सत्वा एवं धर्मभाजना भविष्यन्ति, य इमं धर्मपर्यायम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति / कः पुनर् वादः, ये भावनायोगम् अनुयुक्ता भविष्यन्ति, पिथितास् तेषां सर्वापायाः, अनावृतास् तेषां सर्वे सुगतिपथाः, दृष्टास् ते सर्वबुद्धैः, निहतास् तैः सर्वपरप्रवादिनः, पराजितास् तैः सर्वमाराः, विशोधितास् तैर् बोधिमार्गाः, प्रतिष्ठितास् ते बोधिमण्डे, तथागतगतिसमवसरणास् ते भविष्यन्ति /

$३ य इमं धर्मपर्यायं धारयिष्यन्ति, अहम् अपि भगवन् तेषां कुलपुत्राणाम् उपस्थानपरिचर्यां करिष्यामि सार्धं सर्वपरिवारेण / यत्र च ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्व् अयं धर्मपर्यायः प्रचरिष्यति देशयिष्यति संप्रकाशयिष्यति, तत्राहं सपरिवारो धर्मश्रवणायोपसम्क्रामिष्यामि / अप्रसन्नानां च कुलपुत्राणां प्रसादम् उत्पादयिष्यामि, प्रसन्नानां च धार्मिकीं रक्षावरणगुप्तिं करिष्यामि /

$४ एवम् उक्ते भगवाञ् शक्रं देवानाम् इन्द्रम् एतद् अवोचत् : साधु साधु देवानाम् इन्द्र, सुभाषितं ते ऽनुमोदते तथागतः / या देवानाम् इन्द्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर् इह धर्मपर्याय उद्दिष्टा / तस्माद् इह देवेन्द्र अतीतानागतप्रत्युत्पन्नास् तेन कुलपुत्रेण वा कुलदुहित्रा वा बुद्धा भगवन्तः पूजिता भविष्यन्ति, य इमं धर्मपर्यायम् उद्ग्रहीष्यत्य् अन्तशः पुस्तकलिखितम् अपि करिष्यति वाचयिष्यति लिखिष्यति पर्यवाप्स्यति /

$५ यश् च पुनर् देवेन्द्र कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रं लोकधातुं तथागतपूर्णं तद्यथापि नामेक्षुवनं वा नडवनं वा वेणुवनं वा तिलवनं वैवं शालिवनं वा प्रतिपूर्णं कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् तांस् तथागतान् सर्वपूजाभिः सर्वसुखोपधानैः, परिनिर्वृतानां च तेषां तथागतानाम् एकैकस्य तथागतस्य पूजाकर्मण एकघनस्याविकोपितस्य शरीरस्य सर्वरत्नमयं स्तूपं प्रतिष्ठापयेच् चतुर्महाद्वीपिकलोकधातुप्रमाणं यावद् ब्रह्मलोकम् उच्चैस्त्वेन यष्टिच्छत्रपताकाभिर् उद्विद्धोपशोभितम् एवं सर्वतथागतानां प्रत्येकं स्तूपं कारयेत्, स च तत्र कल्पं वा कल्पावशेषम् वा पूजां कुर्यात् सर्वपुष्पैः सर्वगन्धैः सर्वध्वजपताकाभिः सर्वतूर्यताडावचरसंप्रवादितेन पूजां कुर्यात्, किं मन्यसे देवानाम् इन्द्र अपि नु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु पुण्यं प्रसुनुयात् /
आह : बहु भगवन् बहु सुगत, नास्य पुण्यस्कन्धस्य शक्यः पर्यन्तो ऽधिगन्तुं कल्पकोटीशतसहस्रैर् अपि /

$६ भगवान् आह : आरोचयामि ते देवानाम् ईन्द्र, प्रतिवेदय / अतः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसुनुयात्, य इमम् अचिन्त्यविमोक्षनिर्देशं धर्मपर्यायम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् / तत् कस्माद् धेतोः / धर्मनिर्जाता हि देवेन्द्र बुद्धानां भगवतां बोधिः, सा धर्मेणैव शक्या पूजयितुम्, नामिषेण / तद् अनेनापि ते देवेन्द्र पर्यायेणैवं वेदितव्यम् /

$७ भूतपूर्वं देवानाम् इन्द्र अतीते ऽध्वन्य् असम्ख्येये कल्पे ऽसम्ख्येयतरे विपुले ऽप्रमाणे ऽचिन्त्ये यद् आसीत् तेन कालेन तेन समयेन भैषज्यराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् महाव्यूहे लोकधातौ विशोधने कल्पे / तस्य खलु पुनर् देवानाम् इन्द्र भैषज्यराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य विंशतिर् अन्तरकल्प आयुःप्रमाणम् अभूत् / षट्त्रिंशच् चास्य कोटीनियुतानि श्रावकाणां सम्घो ऽभूत् / द्वादशकोट्यो बोधिसत्वानां सम्घो ऽभूत् / तेन च देवानाम् इन्द्र कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच् चक्रवर्ती सप्तरत्नसमन्वागतश् चतुर्द्वीपेश्वरः / परिपूर्णं चास्य पुत्रसहस्रम् अभूच् छूराणां वराण्गरूपिणां परसैन्यप्रमर्दकानाम् /

$८ तेन खलु पुनः समयेन राज्ञा रत्नच्छत्रेण स भगवान् भैषज्यराजस् तथागतः पञ्चान्तरकल्पान् सत्कृतः सपरिवारः सर्वसुखोपधानेन / इति हि देवानाम् इन्द्र तेषां पञ्चानाम् अन्तरकल्पानाम् अत्ययेन स राजा रत्नच्छत्रस् तत् पुत्रसहस्रम् आमन्त्रयते स्म : यत् खलु मार्षाः जानीत, कृता मया तथागतस्य पूजा, यूयम् इदानीं तथागतस्य पूजां कुरुत / इति हि देवानाम् इन्द्र ते राजकुमाराः पितू राज्ञो रत्नच्छत्रस्य - साध्व् इति प्रतिश्रुत्य सर्वे सहिताः समर्गा अपरान् पञ्चान्तरकल्पांस् तं भगवन्तं भैषज्यराजं तथागतं सत्कुर्वन्ति सर्वसुखोपधानैः /

$९ ततश् चैको राजकुमारः सोमच्छत्रो नाम / तस्यैकाकिनो रहोगतस्यैतद् अभूत् : अस्ति त्व् अस्याः पूजाया अन्योदारता विशिष्टतरा पूजेति /
तस्यान्तरीक्षाद् देवता बुद्धाधिष्ठानेनैवम् आह : धर्मपूजा सत्पुरुष सर्वपूजाभ्यो विशिष्यते /
स एवम् आह : कतमा पुनः सा धर्मपूजेति /
देवताह : एतम् एव त्वं सत्पुरुष तथागतं भैषज्यराजम् उपसम्क्रम्य परिपृच्छ - कतमा सा धर्मपूजेति / स ते भगवान् व्याकरिष्यति /
अथ देवानाम् इन्द्र स सोमच्छत्रो राजकुमारो येन भगवान् भैषज्यराजस् तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तेनोपसम्क्रामत् / उपसम्क्रम्य तस्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् / एकान्तस्थितश् च सोमच्छत्रो राजकुमारस् तं भगवन्तं भैषज्यराजं तथागतम् एतद् अवोचत् : धर्मपूजा धर्मपूजेति भगवन् उच्यते / कतमा सा धर्मपूजेति /

$१० स भगवान् आह : धर्मपूजा कुलपुत्र या तथागतभाषितानां सूत्रान्तानां गम्भीराणां गम्भीरावभासानां सर्वलोकप्रत्यनीकानां दुरवगाहानां दुर्दृशानां दुरनुबोधानां सुक्ष्माणां निपुणानां निरुपलम्भानां बोधिसत्वपिटकान्तर्गतानां धारणीसूत्रान्तराजमुद्रामुद्रितानाम् अविवर्तचक्रसूचकानां षट्पारमितानिर्जातानां सम्गृहीतग्रहाणां बोधिपक्ष्यधर्मानुगतानां बोध्यण्गाहाराणां सत्वमहाकरुणावताराणां महामैत्रीनिर्देशानां मारदृष्टिगतविगतानां प्रतीत्यसमुत्पादनिर्दिष्टानां

$११ निरात्मनिःसत्वनिर्जीवनिष्पुद्गलानाम् शून्यतानिमित्ताप्रणिहितानभिसंस्काराणां बोधिमण्डाहारकाणां धर्मचक्रप्रवर्तकानां देवनागयक्षगन्धर्वसंस्तुतप्रशस्तानां सद्धर्मवंशानुपच्छेत्तृणां धर्मगञ्जसम्धारकाणां धर्माग्रपूजावतीर्णानां सर्वार्यजनपरिगृहीतानां सर्वबोधिसत्वचर्याप्रशासकानां भूतार्थधर्मप्रतिसम्चितावताराणां धर्मोद्दानानित्यदुःखानात्मशान्तनिर्जातानां दुःशीलौजोघट्टकानां सर्वपरप्रवादिकुदृष्ट्युपलम्भाभिनिविष्टत्रासकराणां सर्वबुद्धप्रशस्तानां संसारविपक्षाणां निर्वाणसुखसम्दर्शकानाम् / एवंरूपाणां सूत्रान्तानां या देशना संप्रकाशना धारणा प्रत्यवेक्षणा सद्धर्मसम्ग्रहः, इयम् उच्यते धर्मपूजेति /

$१२ पुनर् अपरं कुलपुत्र धर्मपूजा या धार्मेषु धर्मनिध्यप्तिः, धर्मप्रतिपत्तिः, प्रतीत्यसमुत्पादानुलोमता, सर्वान्तदृष्टिविगमः, अजातानुत्पादक्षान्तिः, नैरात्म्यनिःसत्वतावतारः, हेतुप्रत्ययाविरोधः, अविग्रहः, अविवादः, अममत्वम्, ममकारविगमः, अर्थप्रतिशरणता न व्यञ्जनप्रतिशरणता, ज्ञानप्रतिशरणता न विज्ञानप्रतिशरणता, नीतार्थसूत्रान्तप्रतिशरणता न नेयार्थसंवृत्यभिनिवेशः, धर्मताप्रतिशरणता न पुद्गलदृष्ट्युपलम्भो न ग्राह्याभिनिविष्टता, यथावद्धर्मानुगमः, अनालयप्रवेशः, आलयसमुद्घातः, अविद्याव्युपशमो यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासव्युपशमः / एवं च द्वादशाण्गं प्रतीत्यसमुत्पादम् अवेक्ष्यते, अक्षयाभिनिर्हारेण चाभिनिर्हरति, सत्वावेक्षया च दृष्टिनिरपेक्षः / इयम् अपि कुलपुत्र उच्यते ऽनुत्तरा धर्मपूजेति /

$१३ इति हि देवानाम् इन्द्र स सोमच्छत्रो राजकुमारस् तस्य भगवतो भैषज्यराजस्य तथागतयान्तिकाद् इमां धर्मपूजां श्रुत्वानुलोमिकीं धर्मक्षान्तिं प्रतिलभते स्म / यथाप्रावृतैश् च वस्त्राभरणैस् तं भगवन्तं छादयति, एवं वाचम् अभाषत् : अहं भगवन् उत्सहे तथागतस्य सद्धर्मपरिग्रहाय सद्धर्मपूजाकरणतायै सद्धर्मं परिरक्षितुम् / तस्य मे भगवांस् तथाधिष्ठानं करोतु, यथाहं निहतमारप्रत्यर्थिको भगवतः सद्धर्मं परिगृह्णीयाम् /
तस्य स तथागतो ऽध्याशयं विदित्वा व्याकृतवान् पश्चिमे काले सद्धर्मनगरपालरक्षायै/

$१४ स खलु पुनर् देवानाम् इन्द्र सोमच्छत्रो राजकुमारस् तस्य तथागतस्य तिष्ठत एव श्रद्धयागाराद् अनगारिकां प्रव्रजितः सन्न् आरब्धवीर्यो विहरति स्म कुशलेषु धर्मेषु / तेनारब्धवीर्येण कुशलधर्मप्रतिष्ठितेन न चिरात् पञ्चाभिज्ञा उत्पादिताः / गतिम्गतश् च धारणीनाम् अभूद् अनाच्छेद्यप्रतिभानः / स तस्य भगवतः परिनिर्वृतस्याभिज्ञाधारणीबलेन परिपूर्णान् दशान्तरकल्पांस् तस्य भगवतो भैषज्यराजस्य तथागतस्य प्रवृत्तं धर्मचक्रम् अनुवर्तयति स्म / तेन खलु पुनर् देवानाम् इन्द्र सोमच्छत्रेण भिक्षुणा सद्धर्मपरिग्रहाभियुक्तेन दशकोटीशतानि सत्वानाम् अवैवर्तिकानि कृतान्य् अभूवन्न् अनुत्तरायां सम्यक्संबोधौ, चतुर्दश च प्राणिनियुतानि श्रावकप्रत्येकबुद्धयानिकानि, अप्रमाणाश् च सत्वाः स्वर्गोपगाः कृताः /

$१५ स्यात् खलु पुनस् ते देवानाम् इन्द्र अन्यः स तेन कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच् चक्रवर्ती, न खलु पुनस् ते देवानाम् इन्द्र एवं द्रष्टव्यम् / तत् कस्माद् धेतोः / रत्नार्चिः स तथागतस् तेन कालेन तेन समयेन रत्नच्छत्रो नाम राजाभूच् चक्रवर्ती / यत् पुनस् तद् राज्ञो रत्नच्छत्रस्य पुत्रसहस्रम् अभूत् / इमे ते भाद्रकल्पिका बोधिसत्वा अभूवन् / यद् इह भद्रकल्पे परिपूर्णं बुद्धसहस्रम् उत्पत्स्यते यतश् चत्वार उत्पन्नाः शेषा उत्पत्स्यन्ते, क्रकुच्छन्दप्रमुखा यावद् रोचपर्यवसानाः, रोचो नाम तथागतः पश्चिमको भविष्यति /
स्यात् खलु पुनस् ते देवानाम् इन्द्र एवम् अन्यः स तेन कालेन तेन समयेन सोमच्छत्रो नाम राजकुमारो ऽभूद् येन तस्य भगवतो भैषज्यराजस्य तथागतस्य सद्धर्मः परिगृहीत इति / न खलु पुनस् त एवं द्रष्टव्यम् / तत् कस्माद् धेतोः / अहं स तेन कालेन तेन समयेन सोमच्छत्रो नाम राजकुमारो ऽभूवम् / तद् अनेनापि ते देवेन्द्र पर्यायेनैवं वेदितव्यम् / यावत्यस् तथागतानां पूजाः, धर्मपूजा तासाम् अर्ग्याख्यायते, ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीतोत्तरा निरुत्तराख्यायत इति / तस्माद् इह देवानाम् इन्द्र धर्मपूजया मां पूजयत, मा आमिषपूजया / धर्मसत्कारेण मां सत्कुरुत, मा आमिषसत्कारेण /

$१६ तत्र भगवान् मैत्रेयं बोधिसत्वम् आमन्त्रयते स्म : इमां ते ऽहं मैत्रेय असम्ख्येयकल्पकोटीसमुदानीताम् अनुत्तरां सम्यक्संबोधिम् अनुपरीन्दामि, यथेम एवंरूपा धर्मपर्याया युष्मदधिष्ठानेन परिग्रहेण तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये जम्बूद्वीपे वैस्तारिका भवेयुः, नान्तर्धीयेरन् / तत् कस्माद् धेतोः / भविष्यन्ति मैत्रेय अनागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च देवनागयक्षगन्धर्वाश् चावरोपितकुशला अनुत्तरां सम्यक्संबोधिं संप्रस्थिताः / ते ऽश्रवणाद् अस्य धर्मपर्यायस्य मा परिहास्यन्त इति / इमान् एवंरूपान् सूत्रान्ताञ् श्रुत्वातीव प्रेम च प्रसादं च प्रतिलप्स्यन्ते, मूर्ध्ना च प्रतिग्रहीष्यन्ति / तेषां त्वं मैत्रेय तथारूपाणां कुलपुत्राणां कुलदुहितृणां चानुरक्षाया इमान् एवंरूपान् सूत्रान्तांस् तस्मिन् काले वैस्तारिकान् कुर्याः /

$१७ द्वे इमे मैत्रेय बोधिसत्वानां मुद्रे / कतमे द्वे / विचित्रपदव्यञ्जनप्रसादमुद्रा च गम्भीरधर्मनयानुत्त्रासयथाभूतावतारप्रवेशमुद्रा च / इमे मैत्रेय बोधिसत्वानां द्वे मुद्रे / तत्र मैत्रेय ये बोधिसत्वा विचित्रपदव्यञ्जनप्रसादगुरुकाः, त आदिकर्मिका बोधिसत्वा येदितव्याः / ये पुनर् इमं मैत्रेय गम्भीरं सुत्रान्तम् अरूपलेपं यमकव्यत्यस्तनिहारपदपुटप्रभेदं प्रवर्तयिष्यन्ति श्रोष्यन्त्य् अधिमोक्ष्यन्ते वेदयिष्यन्ति, इमे बोधिसत्वाश् चिरचरितब्रह्मचर्या वेदितव्याः /

$१८ तत्र मैत्रेय द्वाभ्यां कारणाभ्याम् आदिकर्मिका बोधिसत्वा आत्मानं क्षिण्वन्ति / न च गम्भीरेषु धर्मेषु निध्यप्तिं गच्छन्ति / कतमाभ्यां द्वाभ्याम् / अश्रुतपूर्वांश् च गम्भीरान् सूत्रान्ताञ् श्रुत्वोत्त्रस्यन्ति / संशयप्राप्ताश् च भवन्ति, नानुमोदन्ते / उत्तरि च प्रतिक्षिपन्ते : य एते ऽस्माभिः पूर्वं न श्रुतपूर्वाः कुत इमे ऽधुनागताः / ये च ते कुलपुत्रा गम्भीरधर्मसूत्रान्तधारका गम्भीरधर्मभाजना गम्भीरधर्मदेशयितारः, तान् न सेवन्ते न भजन्ते न पर्युपासन्ते, अगौरवाश् च तेषु भवन्ति, अन्तरान्तरा च तेषाम् अवर्णम् अपि निश्चारयन्ति / आभ्यां मैत्रेय द्वाभ्यां कारणाभ्याम् आदिकर्मिका बोधिसत्वा आत्मानं क्षिण्वन्ति / न च गम्भीरेषु धर्मेषु निध्यप्तिं गच्छन्ति /

$१९ द्वाभ्यां मैत्रेय कारणाभ्यां गम्भीराधिमुक्तिको बोधिसत्व आत्मानं क्षिणोति / न चानुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते / कतमाभ्यां द्वाभ्याम् / तांश् चादिकर्मिकान् अचिरचरितान् बोधिसत्वान् अवमन्यते परिभवति न ग्राहयति न विवेचयति नानुशास्ति / तयैव च गम्भीराधिमुक्त्या शिक्षायाम् अगौरवो भवति / लोकामिषदानेन च सत्वान् अनुगृह्णाति, न धर्मदानेन / आभ्यां मैत्रेय द्वाभ्यां कारणाभ्यां गम्भीराधिमुक्तिको बोधिसत्व आत्मानं क्षिणोति / न च क्षिप्रम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते /

$२० एवम् उक्ते मैत्रेयो बोधिसत्वो भगवन्तम् एतद् अवोचत् : आश्चर्यं भगवन् यावत् सुभाषितं भगवतः / वयं भगवन् एतांश् च दोषान् विवर्जयिष्यामः / इमां च तथागतस्यासम्खेयकल्पकोटीनियुतशतसहस्रसमुदानीताम् अनुत्तरां सम्यक्संबोधिं परिरक्षिष्यामो धारयिष्यामः / तेषां चानागतानां कुलपुत्राणां कुलदुहितृणां भाजनीभूतानाम् इमान् एवंरूपान् सूत्रान्तान् हस्तगतान् करिष्यामः / स्मृतिं चैषाम् उपसंहरिष्यामो यया स्मृत्येमान् एवंरूपान् सूत्रान्तान् रोचयिष्यन्त्य् उद्ग्रहीष्यन्ति पर्यवाप्स्यन्ति धारयिष्यन्ति प्रवर्तयिष्यन्ति लिखिष्यन्ति परेषां च विस्तरेण देशयिष्यन्ति / तेषां च वयं भगवन् उपस्तम्भं करिष्यामः / ये च खलु पुनर् भगवन् तस्मिन् काल इमान् एवंरूपान् सूत्रान्तान् रोचयिष्यन्ति प्रवर्तयिष्यन्ति / वेदितव्यम् एतद् भगवन् मैत्रेयस्य बोधिसत्वस्याधिष्ठानम् इति /
अथ भगवान् मैत्रेयस्य बोधिसत्वस्य साधुकारम् अदात् : साधु साधु मैत्रेय, सुभाषिता त इयं वाक् / अनुमोदते तथागतो ऽनुजानाति च सुभाषितम् /

$२१ अथ ते बोधिसत्वा एकस्वरेण वाचम् अभाषन्त : वयम् अपि भगवन् तथागतस्य परिनिर्वृतस्यान्योन्येभ्यो बुद्धक्षेत्रेभ्य आगत्येमां तथागतबुद्धबोधिं वैस्तारिकीं करिष्यामः / तेषां च कुलपुत्राणाम् आरोचयिष्यामः /

$२२ अथ चत्वारो महाराजानो भगवन्तम् एतद् अवोचन् : यत्र यत्र भगवन् ग्रामनगरनिगमराष्ट्रराजधानीष्व् इम एवंरूपा धर्मपर्यायाः प्रचरिष्यन्ति देशयिष्यन्ति प्रकाशयिष्यन्ति, तत्र तत्र वयं भगवन् चत्वारो महाराजाः सबलाः सवाहनाः सपरिवारा धर्मश्रवणायोपसम्क्रमिष्यामः / तस्य च धर्मभाणकस्य समन्ततो योजनशतं रक्षां संविधाष्यामः, यथा तस्य धर्मभाणकस्य न कश्चिद् अवतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते /

$२३ तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म : उद्गृहाण त्वम् आनन्द इमं धर्मपर्यायं धारय वाचय परेषां च विस्तरेण संप्रकाशय /
आह : उद्गृहीतो मे भगवन् अयं धर्मपर्यायः / किं भगवन् अस्य धर्मपर्यायस्य नामधेयम् / कथं चैनं धारयामि /
भगवान् आह : तस्मात् तर्हि त्वम् आनद इमं धर्मपर्यायं विमलकीर्तिनिर्देशं यमकपुटव्यत्यस्तनिहारम् अचिन्त्यधर्मविमोक्षपरिवर्तम् इत्य् अपि धारयेमं धर्मपर्यायम् //
इदम् अवोचद् भगवान् / आत्तमना विमलकीर्तिर् लिच्छविर् मञ्जुश्रीश् च कुमारभूत आयुष्मांश् चानन्दस् ते च महाश्रावकाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति //

निगमनपरीन्दनापरिवर्तो नाम द्वादशः //




uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project