Digital Sanskrit Buddhist Canon

२५ अध्येषणापरिवर्तः पञ्चविंशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२५ अध्येषणापरिवर्तः पञ्चविंशः।



इति हि भिक्षवस्तथागतस्य तारायणमूले विहरतः प्रथमाभिसंबुद्धस्यैकस्य रहोगतस्य प्रतिसंलीनस्य लोकानुवर्तनां प्रत्येतदभवत्-गम्भीरो बतायं मया धर्मोऽधिगतोऽभिसंबुद्धः शान्तः प्रशान्त उपशान्तः प्रणीतो दुर्दृशो दुरनुबोधोऽतर्कोऽवितर्कावचरः। अलमार्यः पण्डितविज्ञवेदनीयो यदुत सर्वोपधिनिःसर्गोऽवेदितोऽनिवेदितः सर्ववेदितनिरोधः परमार्थोऽनालयः। शीतीभावोऽनादानोऽनुपादानोऽविज्ञप्तोऽविज्ञापनीयोऽसंस्कृतः षड्विषयसमतिक्रान्तः। अकल्पोऽविकल्पोऽनभिलाप्यः। अरुतोऽघोषोऽनुदाहारः। अनिदर्शनोऽप्रतिघः सर्वालम्बनसमतिकान्तः शमथधर्मोपच्छेदः। शून्यतानुपलम्भः। तृष्णाक्षयो विरागो निरोधो निर्वाणम्। अहं चेदिमं परेभ्यो धर्मं देशयेयम्, ते चेन्नाजानीयुः, स मे स्यात्क्लमथो मिथ्याव्यायामोऽक्षणधर्मदेशनता च। यन्न्वहमल्पोत्सुकस्तूष्णीभावेन विहरेयम्। तस्यां च वेलायामिमां गाथामभाषत—



गम्भीर शान्तो विरजः प्रभास्वरः

प्राप्तो मि धर्मो ह्यमृतोऽसंस्कृतः।

देशेय चाहं न परस्य जाने

यन्नून तूष्णी पवने वसेयम्॥१॥



अपगतगिरिवाक्पथो ह्यलिप्तो

यथ गगनं तथा स्वभावधर्मम्।

चित्तमन विचारविप्रमुक्तं

परमसुआश्चरियं परो विजाने॥२॥



न च पुनरयु शक्य अक्षरेभिः

प्रविशतु अनर्थयोगविप्रवेशः।

पुरिमजिनकृताधिकारसत्त्वाः

ते इमु श्रुणित्व हि धर्मु श्रद्दधन्ति॥३॥



न च पुनरिह कश्चिदस्ति धर्मः

सो पि न विद्यते यस्य नास्तिभावाः।

हेतुक्रियपरंपरा य जाने

तस्य न भोतिह अस्तिनास्तिभावाः॥४॥



कल्पशतसहस्र अप्रमेया

अहु चरितः पुरिमे जिनसकाशे।

न च मय प्रतिलब्ध एष क्षान्ती

यत्र न आत्म न सत्त्व नैव जीवः॥५॥



यद मय प्रतिलब्ध एष क्षान्ती

म्रियति न चेह न कश्चि जायते वा।

प्रकृति इमि निरात्म सर्वधर्माः

तद मां व्याकरि बुद्ध दीपनामा॥६॥



करुण मम अनन्त सर्वलोके

परतु न चार्थनतामहं प्रतीक्षे।

यद पुन जनता प्रसन्न ब्रह्मे

तेन अधीष्टु प्रवर्तयिष्य चक्रम्॥७॥



एव च अयु धर्म ग्राह्यु मे स्यात्

सचि मम ब्रह्म क्रमे निपत्य याचेत्।

प्रवदहि विरजा प्रणीतु धर्मं

सन्ति विजानक सत्त्व स्वाकराश्च॥८॥



इति हि भिक्षवस्तथागतस्तस्मिन् समये ऊर्णाकोशात्प्रभामुत्सृजति स्म यया प्रभया त्रिसाहस्रमहासाहस्रो लोकधातुर्महता सुवर्णवर्णावभासेन स्फुटोऽभूत्॥



अथ खलु दशत्रिसाहस्रमहासाहस्राधिपतिः शिखी महाब्रह्मा बुद्धानुभावेनैव तथागतस्य चेतसैव चेतःपरिवितर्कमाज्ञासीत्-अल्पोत्सुकतायै भगवतश्चित्तमभिनतं न धर्मदेशनायामिति। तस्यैतदभवत्-यन्न्वहमुपसंक्रम्य तथागतमध्येष्येयं धर्मचक्रप्रवर्तनतायै॥



अथ खलु शिखी महाब्रह्मा तस्यां वेलायां तदन्यान् ब्रह्मकायिकान् देवपुत्रानामन्त्रयते स्म— नश्यति बतायं मार्षा लोको विनश्यति, यत्र हि नाम तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्याल्पोत्सुकतायै चित्तमभिनामयति न धर्मदेशनायाम्। यन्नु वयमुपसंक्रम्य तथागतमर्हन्तं सम्यक्संबुद्धमध्येष्येमहि धर्मचक्रप्रवर्तनाय॥



अथ खलु भिक्षवः शिखी महाब्रह्मा अष्टषष्ट्या ब्राह्मणशतसहस्रैः परिवृतः पुरस्कृतो येन तथागतस्तेनोपसंक्रामत्। उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्य प्राञ्जलिस्तथागतमेतदवोचत् नश्यति बतायं भगवन् लोकः, प्रणश्यति बतायं भगवन् लोकः, यत्र हि नाम तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्याल्पोत्सुकतायै चित्तमभिनामयति न धर्मदेशनायाम्। तत्साधु देशयतु भगवान् धर्मम्, देशयतु सुगतो धर्मम्। सन्ति सत्त्वाः स्वाकाराः सुविज्ञापकाः शक्ता भव्याः प्रतिबलाः भगवतो भाषितस्यार्थमाज्ञातुम्। तस्यां च वेलायामिमां गाथामभाषत—



समुदानिय ज्ञानमहाग्रमण्डलं

विसृज्य रश्मीन् दशदिक्षु चैव।

तदञ्ज ज्ञानांशु नृपद्मबोधका

उपेक्षकस्तिष्ठसि वादिभास्करः॥९॥



निमन्त्रयित्वार्यधनेन सत्त्वां

आश्वासयित्वा बहुप्राणकोट्यः।

न युक्तमेतत्तव लोकबन्धो

यं तूष्णिभावेन उपेक्षसे जगत्॥१०॥



पराहनस्वोत्तमधर्मदुन्दुभिं

सद्धर्मशङ्खं च प्रपूरयाशु।

उच्छ्रेपयस्व महधर्मयूपं

प्रज्वालयस्व महधर्मदीपम्॥११॥



प्रवर्ष वै धर्मजलं प्रधानं

प्रतारयेमां भवसागरस्थां।

प्रमोचयेमां महव्याधिक्लिष्टां

क्लेशाग्नितप्ते प्रशमं कुरुष्व॥१२॥



निदर्शय त्वं खलु शान्तिमार्गं

क्षेमं शिवं निर्जरतामशोकम्।

निर्वाणमार्गागमनादनाथे

विपथस्थिते नाथ कृपां कुरुष्व॥१३॥



विमोक्षद्वाराणि अपावृणिष्व

प्रचक्ष्व तं धर्मनयं ह्यकोप्यम्।

जात्यन्धभूतस्य जनस्य नाथ

त्वमुत्तमं शोधय धर्मचक्षुः॥१४॥



न ब्रह्मलोके न च देवलोके

न यक्षगन्धर्वमनुष्यलोके।

लोकस्य यो जातिजरापनेता

नान्योऽस्ति त्वत्तो हि मनुष्यचन्द्रः॥१५॥



अध्येषकोऽहं तव धर्मराज

अध्याचराकृत्वन सर्वदेवान्।

अनेन पुण्येन अहं पि क्षिप्रं

प्रवर्तयेयं वरधर्मचक्रम्॥१६॥



अधिवासयति स्म भिक्षवस्तथागतः शिखिनो ब्रह्मणस्तूष्णीभावेन सदेवमानुषासुरस्य लोकस्यानुग्रहार्थमनुकम्पामुपादाय॥



अथ खलु शिखी महाब्रह्मा तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा दिव्यैश्चन्दनचूर्णैरगुरुचूर्णैश्च तथागतमभ्यवकीर्य प्रीतिप्रामोद्यजातस्तत्रैवान्तरधात्॥



अथ खलु भिक्षवस्तथागतस्य धर्मालोकस्यादरोत्पादनार्थं शिखिनश्च महाब्रह्मणः पुनः पुनस्तथागताध्येषणया कुशलमूलविवृद्ध्यर्थं धर्मस्य चातिगम्भीरोदारतामुपादाय पुनरप्येकस्य रहोगतस्य प्रतिसंलीनस्यायमेवंरूपं चेतोवितर्कोऽभूत्-गम्भीरः खल्वयं मया धर्मोऽभिसंबुद्धः सूक्ष्मो निपुणो दुरनुबोधः अतर्कोऽतर्कावचरः पण्डितविज्ञवेदनीयः सर्वलोकविप्रत्यनीको दुर्दृशः सर्वोपधिनिःसर्गः सर्वसंस्कारोपशमः सर्वतमोपच्छेदः शून्यतानुपलम्भस्तृष्णाक्षयो विरागो निरोधो निर्वाणम्। अहं चेदिदं धर्मं देशयेयम्, परे च मे न विभावयेयुः, सा मे परमा विहेठा भवेत्। यन्न्वहमल्पोत्सुकविहारेणैव विहरेयम्॥



अथ खलु भिक्षवः शिखी महाब्रह्मा बुद्धानुभावेन पुनरपि तथागतस्येतदमेवंरूपेण चेतः-परिवितर्कमाज्ञाय येन शक्रो देवानामिन्द्रस्तेनोपसंक्रामत्। उपसंक्रम्य शक्रं देवानामिन्द्रमेतदवोचत्-यत्खलु कौशिक जानीयास्तथागतस्यार्हतः सम्यक्संबुद्धस्याल्पोत्सुकतायै चित्तं नतं न धर्मदेशनायाम्। नक्ष्यते बतायं कौशिक लोकः, विनक्ष्यते बतायं कौशिक लोकः, महाविद्यान्धकारक्षिप्तो बतायं कौशिक लोको भविष्यति, यत्र हि नाम तथागतस्यार्हतः सम्यक्संबुद्धस्याल्पोत्सुकतायै चित्तं नतं न धर्मसंप्रकाशनायाम्। कस्माद्वयं न गच्छामस्तथागतमर्हन्तं सम्यक्संबुद्धं धर्मचक्रप्रवर्तनायाध्येषितुम्? तत्कस्मात्? न ह्यनध्येषितास्तथागता धर्मचक्रं प्रवर्तयन्ति। साधु मार्षेति शक्रो ब्रह्मा भौमाश्च देवा अन्तरीक्षाश्चातुर्महाराजकायिकास्त्रायत्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका आभास्वरा बृहत्फला शुभकृत्स्ना संबहुलानि च शुद्धावासकायिक देवपुत्रशतसहस्राण्यतिक्रान्तवर्णा अतिक्रान्तायां रात्रौ केवलं तारायणमूलं दिव्येन वर्णेन दिव्येनावभासेनावभास्य येन तथागतस्तेनोपसंक्रामन्। उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्य प्रदक्षिणीकृत्य चैकान्ते तस्थुः॥



अथ खलु शक्रो देवानामिन्द्रो येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथयाभितुष्टाव—



उत्तिष्ठ विजितसंग्राम प्रज्ञाकारा तिमिस्रा विवर लोके।

चित्तं हि ते विमुक्तं शशिरिव पूर्णो ग्रहविमुक्तः॥१७॥



एवमुक्ते तथागतस्तूष्णीमेवास्थात्॥



अथ खलु शिखी महाब्रह्मा शक्रं देवानामिन्द्रमेतदवोचत्-नैव कौशिक तथागता अर्हन्तः सम्यक्संबुद्धा अध्येष्यन्ते धर्मचक्रप्रवर्तनतायै यथा त्वमध्येषसे॥



अथ खलु शिखी महाब्रह्मा एकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथयाध्यभाषत—



उत्तिष्ठ विजितसंग्राम प्रज्ञाकारा तिमिस्रा विवर लोके।

देशय त्वं मुने धर्मं आज्ञातारो भविष्यन्ति॥१८॥



एवमुक्ते भिक्षवस्तथागतः शिखिनं महाब्रह्माणमेतदवोचत्-गम्भीरः खल्वयं महाब्रह्मन् मया धर्मोऽभिसंबुद्धः सूक्ष्मो निपुणः पेयालं यावत्सा मे स्यात्परमा विहेठा। अपि च मे ब्रह्मन्निमे गाथेऽभीक्ष्णं प्रतिभासः—



प्रतिस्रोतगामि मार्गो गम्भीरो दुर्दृशो मम।

न तं द्रक्ष्यन्ति रागान्धा अलं तस्मात्प्रकाशितुम्॥१९॥



अनुस्रोतं प्रवाह्यन्ते कामेषु पतिता प्रजाः।

कृच्छ्रेण मेऽयं संप्राप्तं अलं तस्मात्प्रकाशितुम्॥२०॥



अथ खलु भिक्षवः शिखी महाब्रह्मा शक्रश्च देवानामिन्द्रस्तथागतं तूष्णीभूतं विदित्वा सार्धं तैर्देवपुत्रैर्दुःखिता दुर्मनास्तत्रैवान्तरधायिषुः॥



त्रिरपि च तथागतस्याल्पोत्सुकतायै चित्तं नमयति स्म॥



तेन खलु पुनर्भिक्षवः समयेन मागधकानां मनुष्याणामिमान्येवंरूपाणि पापकानि अकुशलानि दृष्टिगतान्युत्पन्नान्यभूवन्। तद्यथा। केचिदेवमाहुः-वाता न वास्यन्ति। केचिदेवमाहुः-अग्निर्न ज्वलिष्यति। केचिदाहुः-देवो न वर्षिष्यति। केचिदाहुः-नद्यो न वह्यन्ति। केचिदाहुः-शस्यानि न प्रजास्यन्ति। केचिदाहु-पक्षिण आकाशे न क्रमिष्यन्ति। केचिदाहुः-गुर्विण्यो नारोग्येण प्रसविष्यन्ति॥



अथ खलु भिक्षवः शिखी महाब्रह्मा तथागतस्यैवमेवंरूपं चित्तवितर्कमाज्ञाय मागधकानां च मनुष्याणामिमानि दृष्टिगतानि विदित्वा अतिक्रान्तायां रात्रावभिसंक्रान्तेन वर्णेन सर्वावन्तं तारायणमूलं दिव्येनावभासेनावभास्य येन तथागतस्तेनोपसंक्रामत्। उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्यैकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथाभिरध्यभाषत—



वादो बभूव समलैर्विचिन्तितो

धर्मोऽविशुद्धो मगधेषु पूर्वम्।

अमृतं मुने तद्विवृणीष्व द्वारं

शृण्वन्ति धर्मं विमलेन बुद्धम्॥२१॥



कृतस्वकार्थोऽसि भुजिष्यतां गतो

दुःखाभिसंस्कारमलापकृष्टः।

न हानिवृद्धी कुशलस्य तेऽस्ति

त्वमग्रधर्मेष्विह पारमिं गतः॥२२॥



न ते मुने सदृश इहास्ति लोके

कुतोऽधिकः स्यादिह ते महर्षे।

भवानिहाग्रस्त्रिभवे विरोचते

गिरिर्यथाऽसावसुरालयस्थः॥२३॥



महाकृपां जानय दुःखिते जने

न त्वादृशा जातु भवन्त्युपेक्षकाः।

भवान् विशारद्यबलैः समन्वितः

त्वमेव शक्तो जनतां प्रतारितुम्॥२४॥



इयं सुशल्या सुचिरातुरा प्रजा

सदेवका सश्रमणा द्विजाखिला।

आरोगिनी भोतु निरातुरज्वरा

न चापरः शरणमिहास्य विद्यते॥२५॥



चिरानुबद्धास्तव देवमानुषाः

कल्याणचित्ता अमृतार्थिनश्च।

धर्मं यमेवाधिगमिष्यते जिनो

यथावदन्यूनमुदाहरिष्यति॥२६॥



तस्माद्धिया चामिसु विक्रम त्वां

विनयस्व सत्त्वां चिरनष्टमार्गां।

अविश्रुतार्था शमनाय काङ्क्षिताः

सुदुर्बला बृंहणकाङ्क्षिणो वा॥२७॥



इयं तृषार्ता जनता महामुने

उदीक्षते धर्मजलं तवान्तिके।

मेघो यथा संतृषितां वसुंधरां

कुरु तर्पणां नायक धर्मवृष्ट्या॥२८॥



चिरप्रणष्टा विचरन्ति मानवा

भवे कुदृष्टीगहने सकण्टके।

अकण्टकं मार्गमृजुं प्रचक्ष्व तं

यं भावयित्वा ह्यमृतं लभेयम्॥२९॥



अन्धाप्रपाते पतिता ह्यनायका

नोद्धर्तुमन्यैरिह शक्यमेते।

महाप्रपाते पतितां समुद्धर

छन्दं समुत्पाद्य वृषोऽसि बुद्धिमान्॥३०॥



न संगतिस्तेऽस्ति सदा मुने चिरं

कदाचिदौदुम्बरपुष्पसंनिभाः।

जिनाः पृथिव्यां प्रभवन्ति नायकाः

प्राप्ताक्षणो मोचय नाथ सत्त्वां॥३१॥



अभूच्च ते पूर्वभवेष्वियं मतिः

तीर्णः स्वयं तारयिता भवेयम्।

असंशयं पारगतोऽसि सांप्रतं

सत्यां प्रतिज्ञां कुरु सत्यविक्रमः॥३२॥



धर्मोल्कया विधम मुनेऽन्धकारा

उच्छ्रेपय त्वं हि तथागतध्वजम्।

अयं स कालः प्रतिलाभ्युदीरणे

मृगाधिपो वा नद दुन्दुभिस्वरः॥३३॥



अथ खलु भिक्षवस्तथागतः सर्वावन्तं लोकं बुद्धचक्षुषा व्यवलोकयन् सत्त्वान् पश्यति स्म हीनमध्यप्रणीतानुच्चनीचमध्यमान् स्वाकारान् सुविशोधकान् दुराकारान् दुर्विशोधकानुद्धाटितज्ञानविपञ्चिज्ञान् पदपरमांस्त्रीन् सत्त्वराशीनेकं मिथ्यत्वनियतमेकं सम्यक्त्वनियतमेकमनियतम्। तद्यथापि नाम भिक्षवः पुरुषः पुष्करिण्यास्तीरे स्थितः पश्यति जलरुहाणि कानिचिदुदकान्तर्गतानि कानिचिदुदकसमानि कानिचिदुदकाभ्युद्गतानि, एवमेव भिक्षवस्तथागतः सर्वावन्तं लोकं बुद्धचक्षुषा व्यवलोकयन् पश्यति स्म सत्त्वांस्त्रिषु राशिषु व्यवस्थितान्॥



अथ खलु भिक्षवस्तथागतस्यैतदभवत्-देशयेयं चाहं धर्मं न वा देशयेयम्। स एष मिथ्यत्वनियतो राशिर्नैवायं धर्ममाजानीयात्। देशयेयं चाहं वा धर्मं न वा देशयेयम्। योऽयं सम्यक्त्वनियतो राशिराज्ञास्यत्येवैष धर्मम्। (यत्खलु पुनरयमनियतो राशिराज्ञास्यत्येवैष धर्मम्।) यत्खलु पुनरयमनियतो राशिः, तस्मै सचेद्धर्मं देशयिष्यामि, आज्ञास्यति। उत न देशयिष्यामि, नाज्ञास्यते॥



अथ खलु भिक्षवस्तथागतोऽनियतराशिव्यवस्थितान् सत्त्वानारभ्य महाकरुणामवक्रामयति स्म॥



अथ खलु तथागत आत्मनश्चेमं सम्यग्ज्ञानमधिकृत्य शिखिनश्च महाब्रह्मणोऽध्येषणां विदित्वा शिखिनं महाब्रह्माणं गाथाभिरध्यभाषत—



अपावृतास्तेषाममृतस्य द्वारा

ब्रह्मन् ति सततं ये श्रोतवन्तः।

प्रविशन्ति श्रद्धा नविहेठसंज्ञाः

शृण्वन्ति धर्मं मगधेषु सत्त्वाः॥३४॥



अथ खलु शिखी महाब्रह्मा तथागतस्याधिवासनां विदित्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तथागतस्य पादौ शिरसा वन्दित्वा तत्रैवान्तरधात्॥



अथ खलु भिक्षवो भौमा देवास्तस्यां वेलायामन्तरीक्षेभ्यो देवेभ्यो घोषमुदीरयन्ति स्म, शब्दमनुश्रावयन्ति स्म-अद्य मार्षा तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रप्रवर्तनायै प्रतिश्रुतम्। तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च। परिहास्यन्ते बत भो मार्षा असुराः कायाः। दिव्याः कायाः परिपूरिं गभिष्यन्ति। बहवश्च सत्त्वा लोके परिनिर्वास्यन्ति। एवमेवान्तरीक्षा देवा भौमेभ्यो देवेभ्यः प्रतिश्रत्य चातुर्महाराजिकानां देवानां घोषमुदीरयन्ति स्म। चातुर्महाराजिकास्त्रायत्रिंशानाम्, त्रायत्रिंशा यामानाम्, यामा तुषितनिर्माणरतीनाम्, निर्माणरतयः परनिर्मितवशवर्तिनाम्, तेऽपि ब्रह्मकायिकानां देवानां घोषमुदीरयन्ति स्म, शब्दमनुश्रावयन्ति स्म-अद्य मार्षास्तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रप्रवर्तनायै प्रतिश्रुतम्। तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च। परिहास्यन्ते बत भो मार्षा असुराः कायाः। दिव्याः काया विवर्धिष्यन्ते। बहवश्च सत्त्वा लोके परिनिर्वास्यन्तीते॥



इति हि भिक्षवस्तत्क्षणं तन्मुहुर्तं तल्लवं यावद्बह्मकायिका देवास्तस्माद्भौमादारभ्य एकवागेकनिर्नाद एकनिर्घोषोऽभ्युद्गतोऽभूत्-अद्य मार्षास्तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रप्रवर्तनायै प्रतिश्रुतमिति॥



अथ खलु भिक्षवो धर्मरुचिश्च नामा बोधिवृक्षदेवता धर्मकायश्च धर्ममतिश्च धर्मचारी च, एते चत्वारो बोधिवृक्षदेवतास्तथागतस्य चरणयोर्निपत्यैवमाहुः-क्व भगवान् धर्मचक्रं प्रवर्तिष्यतीति? एवमुक्ते भिक्षवस्तथागतस्तान् देवतानेतदवोचत्-वाराणस्यामृषिपतने मृगदावे। ते आहुः-परीत्तजनकाया भगवन् वाराणसी महानगरी, परीत्तद्रुमछायश्च मृगदावः। सन्त्यन्यानि भगवन् महानगराणि ऋद्धानि स्फीतानि क्षेमानि सुभिक्षाणि रमणीयानि आकीर्णबहुजनमनुष्याणि उद्यानवनपर्वतप्रतिमण्डितानि। तेषां भगवानन्यतमे धर्मचक्रं प्रवर्तयतु। तथागतोऽवोचत्मैवं भद्रमुखाः॥ तत्कस्मात्?



षष्टिं यज्ञसहस्रकोटिनयुता ये तत्र यष्टा मया

षष्टिं बुद्धसहस्रकोटिनयुता ये तत्र संपूजिता।

पौराणामृषिणामिहालयु वरो वाराणसी नामवा

देवानागमभिष्टुतो महितलो धर्माभिनिम्नः सदा॥३५॥



बुद्धा कोटिसहस्र नैकनवतिः पूर्वे स्मरामी अह

ये तस्मिन्नृषिसाह्वये वनवरे वर्तीसु चक्रोत्तमम्।

शान्तं चाप्युपशान्तध्यानभिमुखं नित्यं मृगैः सेवितं

इत्यर्थे ऋषिसाह्वये वनवरे वर्तिष्यि चक्रोत्तमम्॥३६॥इति॥



॥इति श्रीललितविस्तरेऽध्येषणापरिवर्तो नाम पञ्चविंशतितमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project