Digital Sanskrit Buddhist Canon

२४ त्रपुषभल्लिकपरिवर्तश्चतुर्विंशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२४ त्रपुषभल्लिकपरिवर्तश्चतुर्विंशः।



इति हि भिक्षवोऽभिसंबुद्धस्तथागतो देवैरभिष्टूयमानः पर्यङ्कमभिन्दन्ननिमिषनयनो द्रुमराजं प्रेक्षते स्म। ध्यानप्रीत्याहारः सुखप्रतिसंवेदी सप्तरात्रं बोधिवृक्षमूलेऽभिनामयति स्म॥



अथ सप्ताहेऽतिक्रान्ते कामावचरा देवपुत्रा दशगन्धोदककुम्भसहस्राणि परिगृह्य येन तथागतस्तेनोपसंक्रामन्ति स्म। रूपावचरा अपि देवपुत्रा दशगन्धोदककुम्भसहस्राणि परिगृह्य येन तथागस्तेनोपसंक्रामन्ति स्म। उपसंक्रम्य बोधिवृक्षं तथागतं च गन्धोदकेन स्नापयन्ति स्म। गणनासमतिक्रान्ताश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगास्तेन तथागतकायपतितेन गन्धोदकेन स्वकस्वकान् कायानुपलिम्पन्ति स्म। अनुत्तरायां च सम्यक्संबोधौ चित्तान्युत्पादयामासुः। स्वभवने प्रविष्टा अपि च ते देवपुत्रादयोऽविरहिता अभूवंस्तेन गन्धोदकगन्धेन, न चास्मै गन्धाय स्पृहामुत्पादयामासुः। तेनैव च प्रीतिप्रामोद्येन तथागतगौरवमनसिकारनिर्जातेनावैवर्तिका अभूवन्ननुत्तरायाः सम्यक्संबोधेः॥



अथ खलु भिक्षवः समन्तकुसुमो नाम देवपुत्रस्तस्यामेव पर्षदि संनिपतितोऽभूत्। स तथागतस्य चरणयोर्निपत्य प्राञ्जलिस्तथागतमेतदवोचत्-को नामायं भगवन् समाधिर्येन समाधिना समन्वागतस्तथागतः सप्तरात्रं विहरत्यभिन्नपर्यङ्कः? एवमुक्तो भिक्षवस्तथागतस्तं देवपुत्रमेतदवोचत्-प्रीत्याहारव्यूहो नाम देवपुत्र अयं समाधिर्येन समाधिना समन्वागतस्तथागतः सप्तरात्रं व्याहार्षीदभिन्नपर्यङ्कः॥



अथ खलु भिक्षवः समन्तकुसुमो देवपुत्रस्तथागतं गाथाभिरभ्यस्तावीत्—



रथचरणनिचितचरणा दशशत‍अरजलजकमलदलतेजा।

सुरमुकुटघृष्टचरणा वन्दे चरणौ शिरिघनस्य॥१॥



अभिवन्द्य सुगतचरणौ प्रमुदितचित्तस्तदा स सुरपुत्रः।

इदमवचि विमतिहरणं प्रशान्तकरणं नरमरूणाम्॥२॥



शाक्यकुलनन्दिजनना अन्तकरा रागदोषमोहानाम्।

प्रम्लान‍अन्तकरणा विनेहि काङ्क्षां नरमरूणाम्॥३॥



किं कारणं दशबला बुद्ध्वा सर्वज्ञतामपरिमाणाम्।

सप्ताहं महिमण्डे जिना न भिन्दन्ति पर्यङ्कम्॥४॥



किं तु खलु पश्यमानः सप्ताहं अनिमेषेण नरसिंहा।

प्रेक्षसि विशुद्धचक्षो विकसितशतपत्रतुल्याक्षः॥५॥



किं तु भवतेष प्रणिधी उताहु सर्वेष वादिसिंहानाम्।

येन द्रुमराजमूले पर्यङ्क न भिन्दि सप्ताहम्॥६॥



साधु समशुद्धदन्ता सुगन्धगन्धामुखं दशबलस्य।

प्रवद वचनं अवितथं कुरुष्व प्रीतिं नरमरूणाम्॥७॥



तमुवाच चन्द्रवचनः शृणुष्व मे भाषतो अमरपुत्र।

अस्य प्रश्नस्याहं किंचिन्मात्रं प्रवक्ष्यामि॥८॥



राजा यद्वद्यस्मिन्नभिषिक्तो भवति ज्ञातिसंघेन।

सप्ताहु तं प्रदेशं न जहाति हि धर्मता राज्ञाम्॥९॥



एवमेव दशबला अपि अभिषिक्ता भोन्ति यद प्रणिधिपूर्णाः।

सप्ताहु धरणिमण्डे जिना न भिन्दन्ति पर्यङ्कम्॥१०॥



शूरो यथारिसंघां निरीक्षते निर्जितां निरवशेषां।

बुद्धा पि बोधिमण्डे क्लेशां निहतां निरीक्षन्ते॥११॥



इह ते कामक्रोधा मोहप्रभावा जगत्परिनिकाशाः।

साहोढा इव चौरा विनाशिता ये निरवशेषाः॥१२॥



इह मे हतान विविधा मानविधामन्युना पुरनिकेताः।

सर्वाश्रवा प्रहीना ज्ञानं चाग्रं समोत्पन्नम्॥१३॥



इह सा अकार्यकर्त्री भवतृष्णा चारिणी तथाविद्या।

सानुशयमूलजाता पटुना ज्ञानाग्निना दग्धा॥१४॥



इह सा अहं ममेति च कलिपाशु दुरानुगाढलितमूला।

नीवरणकठिनग्रन्थि छिन्ना मे ज्ञानशस्त्रेण॥१५॥



इह ते चिरं समायत उल्लापनका विनाशपर्यन्ताः।

स्कन्धाः सोपादाना ज्ञानेन मया परिज्ञाताः॥१६॥



इह ते द्वयसंमोहा मिथ्याग्राहा महानरकनिष्ठाः।

मय उद्धृता अशेषा भूयश्च न जातु ज्ञास्यन्ते॥१७॥



इह नीवरणवनारी दग्धा मे कुशलमूलतेजेन।

चतुरश्च विपर्यासा निर्दग्ध मया निरवशेषाः॥१८॥



इह सा वितर्कमाला संज्ञासूत्रेषु ग्रन्थिता निपथी॥

विनिवर्तिता अशेषा बोध्यङ्गविचित्रमालाभिः॥१९॥



दुर्गानि पञ्चषष्टि मोहानी त्रिंशतिं च मलिनानि।

चत्वारिंशदघानि छिन्ना मेऽस्मिं धरणिमण्डे॥२०॥



षोडश असंवृतानि अष्टादश धातवश्च महिमण्डे।

कृच्छ्राणि पञ्चविंशति छिन्नानि मयेहसंस्थेन॥२१॥



विंशति रजस्तराणि अष्टाविंशति जगस्य वित्रासाः।

इह मे समतिक्रान्ता वीर्यबलपराक्रमं करित्वा॥२२॥



तथ बुद्धनर्दितानी पञ्चशतास्मिं मया समनुबुद्धा।

परिपुर्णशतसहस्रं धर्मान मया समनुबुद्धम्॥२३॥



इह मेऽनुशय अशेषा अष्टानवतिः समूलपर्यन्ताः।

पर्युत्थानकिसलया निर्दग्धा ज्ञानतेजेन॥२४॥



काङ्क्षा विमतिसमुदया दृष्टीजडजन्तिता अशुभमूला।

तृष्णानदी त्रिवेगा प्रशोषिता ज्ञानसूर्येण॥२५॥



कुहनलपनप्रहाणं मायामात्सर्यदोष‍ईर्ष्याद्यम्।

इह ते क्लेशारण्यं छिन्नं विनयाग्निना दग्धम्॥२६॥



इह ते विवादमूला आकर्षणदुर्गतीषु विषमासु।

आर्यापवादवचना ज्ञानवरविरेचनैर्वान्ता॥२७॥



इह रुदितक्रन्दितानां शोचितपरिदेवितान पर्यन्तम्।

प्राप्तं मया ह्यशेषं ज्ञानगुणसमाधिमागम्य॥२८॥



ओघा अयोगग्रन्थाः शोकाः शल्या मदप्रमादाश्च।

विजिता मयेह सर्वे सत्यनयसमाधिमागम्य॥२९॥



इह मय किलेशगहना संकल्पविरूढमूल भववृक्षाः।

स्मृतिपरशुना अशेषा छिन्ना ज्ञानाग्निना दग्धा॥३०॥



इह सो मया ह्यतिबलो अस्मिं मारस्त्रिलोकवशवर्ती।

ज्ञानासिना शठात्मा हतो यथेन्द्रेण दैत्येन्द्रः॥३१॥



इह जालिनी अशेषा षड्‍विंशतिचारिणी धरणिमण्डे।

प्रज्ञासिना बलवता छित्त्वा ज्ञानाग्निना दग्धा॥३२॥



इह ते मूलक्लेशाः सानुशया दुःखशोकसंभूताः।

मय उद्घृता अशेषा प्रज्ञाबललाङ्गलमुखेन॥३३॥



इह मे प्रज्ञाचक्षुर्विशोधितं प्रकृतिशुद्धसत्त्वानाम्।

ज्ञानाञ्जनेन महता मोहपटलविस्तरं भिन्नम्॥३४॥



इह धातुभूत चतुरो मदमकरविलोडिता विपुलतृष्णाः।

स्मृतिशमथभास्करांशौ विशोषिता मे भवसमुद्राः॥३५॥



इह विषयकाष्ठनिचयो वितर्कसामो महामदनवह्निः।

निर्वापितोऽतिदीप्तो विमोक्षरसशीततोयेन॥३६॥



इह मे अनुशयपटला आस्वादतडिद्वितर्कनिर्घोषाः।

वीर्यबलपवनवेगैर्विधूय विलयं समुपनीता॥३७॥



इह मे हतो ह्यशेषश्चित्तचरिरिपुर्भवानुगतवैरी।

प्रज्ञासिना बलवता स्मृतिविमलसमाधिमागम्य॥३८॥



इह सा ध्वजाग्रधारी हस्त्यश्वरथोच्छ्रिता विकृतरूपा।

नमुचिबलवीर्यसेना मैत्रीमागम्य विध्वस्ता॥३९॥



इह पञ्चगुणसमृद्धाः षडिन्द्रियहया सदा मदोन्मत्ताः।

बद्धा मया ह्यशेषाः समाधिसशुभं समागम्य॥४०॥



इह अनुनयप्रतिघानां कलहविवादप्रहाणपर्यन्तः।

प्राप्तो मया ह्यशेषो अप्रतिहतसमाधिमागम्य॥४१॥



इह ममियिता च सर्वे आध्यात्मिकबाहिरा परिक्षीणा।

कल्पितविकल्पितानि च शून्यमिति समाधिमागम्य॥४२॥



इह लालयिता सर्वे मर्त्या दिव्या भवाग्रपर्यन्ताः।

त्यक्ता मया ह्यशेषा आगम्य समाधिमनिवर्तम्॥४३॥



सर्वभवबन्धनानि च मुक्तानि मयेह तानि सर्वाणि।

प्रज्ञाबलेन निखिला त्रिविधमिह विमोक्षमागम्य॥४४॥



इह हेतुदर्शनाद्वै जिता मया हेतुकास्त्रयः।

संज्ञा नित्यानित्ये संज्ञा सुखदुःख चात्मनि च॥४५॥



इह मे कर्मविधाना समुदयमुदिता षडायतनमूला।

छिन्ना द्रुमेन्द्रमूले सर्वानित्यप्रहारेण॥४६॥



इह मोहतमः कलुषं दुष्टीकृत दर्परोषसंकीर्णम्।

भित्त्वा क्षत्रे सुचिरान्धकारं प्रभासितं ज्ञानसूर्येण॥४७॥



इह रागमदनमकरं तृष्णोर्मिजलं कुदृष्टिसंग्राहम्।

संसारसागरमहं संतीर्णो वीर्यबलनावा॥४८॥



इह तन्मयानुबुद्धं यद्बुद्धो रागद्वेषमोहांश्च।

प्रदहति चित्तवितर्कां दवाग्निपतितानिव पतङ्गां॥४९॥



इह अहु चिरप्रयातो ह्यपरिमित कल्पकोटिनयुतानि।

संसारपथा क्लिष्टो विश्रांतो नष्टसंतापः॥५०॥



इह तन्मयानुबुद्धं सर्वपरप्रवादिभिर्यदप्राप्तम्।

अमृतं लोकहितार्थं जरामरणशोकदुःखान्तम्॥५१॥



यत्र स्कन्धैर्दुःखं आयतनैः तृष्णसंभवं दुःखम्।

भूयो न चोद्भविष्यति अभयपुरमिहाभ्युपगतोऽस्मि॥५२॥



इह ते मयानुबुद्धा रिपवो अध्यात्मिका महाकृत्स्नाः।

बद्धा च संप्रदग्धाः कृताश्च मे पुन भवनिकेताः॥५३॥



इह तन्मयानुबुद्धं यस्यार्थे कल्पकोटिनयुतानि।

त्यक्ता समांसनयना रत्नानि बहून्यमृतहेतोः॥५४॥



इह तन्मयानुबुद्धं यद्बुद्धं प्राक्तनैर्जिनैरपरिमाणैः।

यस्य मधुराभिरम्यः शब्दो लोकेषु विख्यातः॥५५॥



इह तन्मयानुबुद्धं प्रतीत्यसमुदागतं जगच्छून्यम्।

चित्तेक्षणेऽनुयातं मरीचिगन्धर्वपुरतुल्यम्॥५६॥



इह मे तत्खलु शुद्धं वरनयनं येन (लोक) धातवः सर्वां।

पश्यामि पाणिमध्ये न्यस्तानि यथा द्रुमफलानि॥५७॥



पूर्वेनिवासस्मरणं तिस्रो विद्या मयेह संप्राप्ताः।

अपरिमितकल्पनयुता स्मरामि स्वप्नादिव विबुद्धः॥५८॥



यैरादीप्त सुरनरा विपरीतविसंज्ञिनो विपर्यस्ताः।

सोऽपि च तथा अवितथा इह मय पीतो ह्यमृतमण्डः॥५९॥



यस्यार्थाय दशबला मैत्री भावेन्ति सर्वसत्त्वेषु।

मैत्रीबलेन जित्वा पीतो मेऽस्मिन्नमृतमण्डः॥६०॥



यस्यार्थाय दशबलाः करुणा भावेन्ति सर्वसत्त्वेषु।

करुणाबलेन जित्वा पीतो मेऽस्मिन्नमृतमण्डः॥६१॥



यस्यार्थाय दशबला मुदिता भावेन्ति सर्वसत्त्वेषु।

मुदिताबलेन जित्वा पीतो मेऽस्मिन्नमृतमण्डः॥६२॥



यस्यार्थाय दशबला उपेक्ष भावेन्ति कल्पनयुतानि।

तमुपेक्षबलैर्जित्वा पीतो मेऽस्मिन्नमृतमण्डः॥६३॥



यत्पीतं च दशबलैर्गङ्गानदीवालिकाबहुतरेभिः।

प्राग्जिनसिंहैः पूर्वे इह मे पीतो ह्यमृतमण्डः॥६४॥



या भाषिता च वाग्मे मारस्येहागतस्य ससैन्यस्य।

भेत्स्यामि न पर्यङ्कं अप्राप्य जरामरणपारम्॥६५॥



भिन्ना मया ह्यविद्या दीप्तेन ज्ञानकठिनवज्रेण।

प्राप्तं च दशबलत्वं तस्मात्प्रभिनद्मि पर्यङ्कम्॥६६॥



प्राप्तं मयारहत्वं क्षीणा मे आश्रवा निरवशेषाः।

भग्ना च नमुचिसेना भिनद्मि तस्माद्धि पर्यङ्कम्॥६७॥



नीवरणकपाटानि च पञ्च मयेह प्रदारिता सर्वा।

तृष्णालता विछिन्ना हन्तेह भिनद्मि पर्यङ्कम्॥६८॥



अथ सो मनुष्यचन्द्रः सविलम्बितमासनात्समुत्थाय।

भद्रासने निषीदन्महाभीषेकं प्रतीच्छंश्च॥६९॥



रत्नघटसहस्रैरपि नानागन्धोदकैश्च सुरसंघा।

स्नपयन्ति लोकबन्धुं दशबलगुणपारमिप्राप्तम्॥७०॥



वादित्रसहस्रैरपि समन्ततो देवकोटिनयुतानि।

अतुलां करोन्ति पूजां अप्सरनयुतैः सह समग्राः॥७१॥



एवं खलु देवसुताः सहेतु सप्रत्ययं च सनिदानम्।

सप्ताहु धरणिमण्डे जिना न भिन्दन्ति पर्यङ्कम्॥७२॥



इति हि भिक्षवोऽभिसंबुद्धबोधिस्तथागतः प्रथमे सप्ताहे तत्रैवासनेऽस्थात्-इह मयानुत्तरा सम्यक्संबोधिरभिसंबुद्धा, इह मयानवराग्रस्य जातिजरामरणदुःखस्यान्तः कृत इति। द्वितीये सप्ताहे तथागतो दीर्घचंक्रमं चंक्रम्यते स्म त्रिसाहस्रमहासाहस्रलोकधातुमुपगृह्य। तृतीये सप्ताहे तथागतोऽनिमिषं बोधिमण्डमीक्षते स्म-इह मयानुत्तरां सम्यक्संबोधिमभिसंबुध्यानवराग्रस्य जातिजरामरणदुःखस्यान्तः कृत इति। चतुर्थे सप्ताहे तथागतो दहरचंक्रमं चंक्रम्यते स्म पूर्वसमुद्रात्पश्चिमसमुद्रमुपगृह्य॥



अथ खलु मारः पापीयान् येन तथागतस्तेनोपसंक्रामत्। उपसंक्रम्य तथागतमेतदवोचत्-परिनिर्वातु भगवन्, परिनिर्वातु सुगत। समय इदानीं भगवतः परिनिर्वाणाय। एवमुक्ते भिक्षवस्तथागतो मारं पापीयांसमेतदवोचत्-न तावदहं पापीयन् परिनिर्वास्यामि यावन्मे न स्थविरा भिक्षवो भविष्यन्ति दान्ता व्यक्ता विनीता विशारदा बहुश्रुता धर्मानुधर्मप्रतिपन्नाः प्रतिबलाः स्वयमाचार्यकं ज्ञानं परिदीपयितुमुत्पन्नोत्पन्नानां च परप्रवादिनां सह धर्मेण निगृह्याभिप्रायं प्रसाद्य सप्रातिहार्यं धर्मं देशयितुम्। न तावदहं पापीयन् परिनिर्वास्यामि यावन्मया बुद्धधर्मसंघवंशो लोकेन प्रतिष्ठापितो भविष्यति। अपरिमिता बोधिसत्त्वा न व्याकृता भविष्यन्ति अनुत्तरायां सम्यक्संबोधौ। न तावदहं पापीयान् परिनिर्वास्यामि यावन्मे न चतस्रः पर्षदो दान्ता विनीता व्यक्ता विशारदा भविष्यन्ति यावत्सप्रातिहाय धर्मं देशयितुमिति॥



अथ खलु मारः पापीयानिदं वचनं श्रुत्वा एकान्ते प्रक्राम्य स्थितोऽभूत् दुःखी दुर्मना विप्रतिसारी अधोमुखः काष्ठेन महीं विलिखन् विषयं मेऽतिक्रान्त इति॥



अथ खलु तास्तिस्रो मारदुहितरो रतिश्चारतिश्च तृष्णा च मारं पापीयांसं गाथयाध्यभाषन्त—



दुर्मनासि कथं तात प्रोच्यतां यद्यसौ नरः।

रागपाशेन तं बुद्ध्वा कुञ्जरं वा नयामहे॥७३॥



आनयित्वा च तं शीघ्रं करिष्याम वशे तव।

* * * * *॥७४॥



मार आह—



अरहन् सुगतो लोके न रागस्य वशं व्रजेत्।

विषयं मे ह्यतिक्रान्तस्तस्माच्छोचाम्यहं भृशम्॥७५॥



ततस्ताः स्त्रीचापल्यादविदितप्रभावा अपि बोधिसत्त्वभूतस्यैव तथागतस्य पितुर्वचनमश्रुत्वैव प्रभूतयौवनमध्ययौवनधारिण्यो भूत्वा विचक्षुःकर्मणे तथागतस्यान्तिकमुपसंक्रान्ताः स्त्रीमाया अति तत्सर्वमकार्षुः। ताश्च तथागतो न मनसि करोति स्म। भूयश्च ता जराजर्जरा अध्यतिष्ठन्। ततस्ताः पितुरन्तिके गत्वैवमाहुः—



सत्यं वदसि नस्तात न रागेण स नीयते।

विषयं मे ह्यतिक्रान्तस्तस्माच्छोचाम्यहं भृशम्॥७६॥



वीक्षेत यद्यसौ रूपं यदस्माभिर्विनिर्मितम्।

गौतमस्य विनाशार्थं ततोऽस्य हृदयं स्फुटेत्॥७७॥



तत्साधु नस्तातेदं जराजर्जरशरीरमन्तर्धापय॥



मार आह—



नाहं पश्यामि तं लोके पुरुषं सचराचरे।

बुद्धस्य यो ह्यधिष्ठानं शक्नुयात्कर्तुमन्यथा॥७८॥



शीघ्रं गत्वा निवेदय अत्ययं स्वकृतं मुनेः।

सर्वं पौराणकं कायं करिष्यति यथामतम्॥७९॥



ततस्ता गत्वा तथागतं क्षमापयन्ति स्म-अत्ययं नो भगवान् प्रतिगृह्णातु। अत्ययं नो सुगतो प्रतिगृह्णातु यथा बालानां यथा मूढानां यथा व्यक्तानामकुशलानामक्षेत्रज्ञानां या वयं भगवन्तमासादयितव्यं मन्यामहे। ततस्तास्तथागतो गाथयाध्यभाषत—



गिरिं नखैर्विलिखेथ लोहं दन्तैर्विखादथ।

शिरसा विभित्सथ गिरिमगाधे गाधमेषत॥८०॥



तस्माद्युष्माकं दारिका अत्ययं प्रतिगृह्णामि। तत्कस्मात्? वृद्धिरेषा आर्ये धर्मविनये योऽत्ययमत्ययतो दृष्ट्वा प्रतिदेशयत्यायत्यां च संवरमापद्यते॥



पञ्चमे सप्ताहे भिक्षवस्तथागतो मुचिलिन्दनागराजभवने विहरति स्म सप्ताहे महादुर्दिने। अथ खलु मुचिलिन्दनागराजः स्वभवनान्निष्क्रम्य तथागतस्य काये सप्तकृद्भोगेन परिवेष्ट्य फणैश्छादयति स्म-मा भगवतः कायं शीतवाताः प्राक्षुरिति। पूर्वस्या अपि दिशोऽन्येऽपि संबहुला नागराजा आगत्य तथागतस्य कायं सप्तकृद्भोगैः परिवेष्ट्य फणैश्छादयन्ति स्म-मा भगवतः कायं शीतवाताः प्राक्षुरिति। यथा पूर्वस्यां दिशि एवं दक्षिणपश्चिमोत्तराभ्यो दिग्भ्यो नागराजा आगत्य तथागतस्य कायं सप्तकृत्वो भोगैः परिवेष्ट्य फणैश्र्छादयन्ति-स्म मा भगवतः कायं शीतवाताः प्राक्षुरिति। स च नागराजभोगराशिर्मेरुपर्वतेन्द्रवदुच्चैस्त्वेन स्थितोऽभूत्। न च तैर्नागराजैस्तादृशं कदाचित्सुखं प्राप्तं पूर्वं यादृशं तेषां तानि सप्तरात्रिंदिवसानि तथागतकायसंनिकर्षादासीत्। ततः सप्ताहस्यात्ययेन ततस्ते नागराजा व्यपगतदुर्दिनं विदित्वा तथागतस्य कायाद्भोगानपनीय तथागतस्य पादौ शिरसाभिवन्द्य त्रिप्रदक्षिणीकृत्य स्वकस्वकानि भवनान्युपजग्मुः। मुचिलिन्दोऽपि नागराजस्तथागतस्य पादौ शिरसाभिवन्द्य त्रिप्रदक्षिणीकृत्य स्वभवनं प्राविक्षत्॥



षष्ठे सप्ताहे तथागतो मुचिलिन्दभवनादजपालस्य न्यग्रोधमूलं गच्छति स्म। अन्तरे च मुचिलिन्दभवनस्यान्तराच्चाजपालस्य नद्या नैरञ्जनायास्तीरे चरकपरिव्राजकवृद्धश्रावकगौतमनिर्ग्रन्थाजीविकादयस्तथागतं दृष्ट्वाभिभाषन्ते स्म-अपि भगवता गौतमेनेदं सप्ताहमकालदुर्दिनं सम्यक्सुखेन व्यतिनामितम्?



अथ खलु भिक्षवस्तथागतस्तस्यां वेलायामिदमुदानयति स्म—



सुखो विवेकस्तुष्टस्य श्रुतधर्मस्य पश्यतः।

अव्याबध्यं सुखं लोके प्राणिभूतेषु संयतः॥८१॥



सुखा विरागता लोके पापानां समतिक्रमः।

अस्मिन् मानुष्यविषये एतद्वै परमं सुखम्॥८२॥



पश्यति स्म भिक्षवस्तथागतो लोकमादीप्तं प्रदीप्तं जात्या जरया व्याधिभिर्मरणेन शोकपरिदेवदुःखदौर्मनस्योपायासैः। तत्र तथागत इदमिहोदानमुदानयति स्म—



अयं लोकः संतापजातः शब्दस्पर्शरसरूपगन्धैः।

भयभीतो भयं भूयो मार्गते भवतृष्णया॥८३॥



सप्तमे सप्ताहे तथागतो तारायणमूले विहरति स्म। तेन खलु पुनः समयेनोत्तरापथकौ द्वौ भ्रातरौ त्रपुषभल्लिकनामकौ वणिजौ पण्डितौ निपुणौ विविधपण्यं गृहीत्वा महालब्धलाभौ दक्षिणापथादुत्तरापथं गच्छेते स्म महता सार्थेन पञ्चभिर्धुरशतैः सुपरिपूर्णैः। तयोः सुजातः कीर्तिश्च नामाजानेयौ द्वौ बलीवर्दावास्ताम्। नास्ति तयोर्लग्नभयम्। यत्रान्ये बलीवर्दा न वहन्ति स्म तत्र तौ युज्येते स्म। यत्र चाग्रतो भयं भवति स्म तत्र, तौ कीलबद्धाविव तिष्ठेते स्म। न च तौ प्रतोदेन वाह्येते स्म। उत्पलहस्तकेन वा सुमनादामकेन वा तौ वाह्येते स्म। तेषां तारायणसमीपे क्षीरिकावननिवासिनीदेवताधिष्ठानात्ते शकटाः सर्वे विष्ठिता न वहन्ति स्म। वस्त्रादीनि च सर्वशकटाङ्गानि च छिद्यन्ते स्म, भिद्यन्ते च। शकटाचक्राणि च नाभीपर्यन्तं भूमौ निमग्नानि सर्वप्रयत्नैरपि ते शकटा न वहन्ति स्म। ते विस्मिता भीताश्चाभूवन्-किं नु खल्वत्र कारणम्, कोऽयं विकारो यदिमे स्थले शकटा विष्ठिताः? तैस्तौ सुजातकीर्तिबलीवर्दौ योजितौ। तावपि न वहेते स्म सोत्पलहस्तेन च सुमनादामकेन च वाह्यमानौ। तेषामेतदभवत्-असंशयं पुरतः किंचिद्भयं येनैतावपि न वहतः। तैरश्वदूताः पुरतः प्रेषिताः। अश्वदूताः प्रत्यागताः। प्राहुर्नास्ति किंचिद्भयमिति। तयापि देवतया स्वरूपं संदर्श्य आश्वासिताः-मा भेतव्यमिति। तावपि बलीवदौ येन तथागतस्तेन शकटा प्रकर्षितौ यावत्ते पश्यन्ति स्म तथागतं वैश्वानरमिव प्रदीप्तं द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतमचिरोदितमिव दिनकरं श्रिया दैदीप्यमानम्। दृष्ट्वा च ते विस्मिता बभूवुः-किं नु खल्वयं ब्रह्मा इहानुप्राप्त उताहो शक्रो देवेन्द्र उताहो वैश्रवण उताहो सूर्यचन्द्रौ वा उताहो किंचिद्गिरिदेवतं वा नदीदेवतं वा। ततस्तथागतः काषायाणि वस्त्राणि प्रकटायति स्म। ततस्ते आहुः-प्रव्रजितः खल्वयं काषायसंवृतो नास्माद्भयमस्तीति। ते प्रसादं प्रतिलब्धा अन्योन्यमेवमाहुः-प्रव्रजितः खल्वयं कालभोजी भविष्यति। अस्ति किंचित्? आहुः-अस्ति मधुतर्पणं लिखितकाश्चेक्षवः। ते मधुतर्पणमिक्षुलिखितकांश्चादाय येन तथागतस्तेनोपसंक्रामन्। उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्दित्वा त्रिप्रदक्षिणीकृत्यैकान्ते तस्थुः। एकान्ते स्थितास्ते तथागतमेवमाहुः-प्रतिगृह्णातु भगवन्निदं पिण्डपात्रमस्माकमनुकम्पामुपादाय॥



अथ खलु भिक्षवस्तथागतस्यैतदभू‍अत्-साधु खल्विदं स्याद्यदहं हस्ताभ्यां प्रतिगृह्णीयाम्। कस्मिन् खलु पूर्वकैस्तथागतैः सम्यक्संबुद्धैः प्रतिगृहीतम्? पात्रेणेत्यज्ञासीत्॥



इति हि भिक्षवस्तथागतस्य भोजनकालसमय इति विदित्वा तत्क्षणमेव चतसृभ्यो दिग्भ्यश्चत्वारो महाराजा आगत्य चत्वारि सौवर्णानि पात्राण्यादाय तथागतस्योपनामयन्ति स्म-प्रतिगृह्णातु भगवन्निमानि सौवर्णानि(चत्वारि)पात्राण्यस्माकमनुकम्पामुपादाय। तानि न श्रमणप्रतिरूपाणि इति कृत्वा तथागतो न प्रतिगृह्णीते स्म। एवं चत्वारि रूप्यमयानि चत्वारि वैडूर्यमयानि स्फटिकमयानि मुसारगल्वमयानि अश्मगर्भमयानि। ततश्चत्वारि सर्वरत्नमयानि पात्राणि गृहीत्वा तथागतस्योपनामयन्ति स्म। न श्रमणस्य सारूप्याणि इति कृत्वा तथागतो न प्रतिगृह्णीते स्म॥



अथ खलु भिक्षवस्तथागतस्य पुनरेतदभूत्-एवं कतमद्विधैः पात्रैः पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः प्रतिगृहीतम्? शैलपात्रैरित्यज्ञासीत्। एवं च चित्तमुत्पन्नं तथागतस्य॥



अथ खलु वैश्रवणो महाराजस्तदन्यास्त्रीन् महाराजानामन्त्रयते स्म-इमानि खलु पुनर्मार्षाश्चत्वारि शैलपात्राणि नीलकायिकैर्दवपुत्रैरस्मभ्यं दत्तानि-तत्रास्माकमेतदभूत्-एषु वयं परिभोक्ष्याम इति। ततो वैरोचनो नाम नीलकायिको देवपुत्रः सोऽस्मानेवमाह—



म एषु भोक्ष्यथ भाजनेषु

धारेतिभे चेतियसंमतीते।

भविता जिनः शाक्यमुनीति नाम्ना

तस्येति पात्राण्युपनामयेथा॥८४॥



अयं स कालः समयश्च मार्षा

उपनामितुं शाक्यमुनेर्हि भाजना।

संगीतितूर्यस्वरनादितेन

दास्याम पात्राणि विधाय पूजाम्॥८५॥



स भाजनं धर्ममयं ह्यभेद्यं

इमे च शैलामय भेद्य भाजना।

प्रतिग्रहीतुं क्षमते न चान्यः

प्रतिग्रहार्थाय व्रजाम हन्त॥८६॥



अथ खलु चत्वारो महाराजाः स्वस्वजनपार्षद्याः पुष्पधूपगन्धमाल्यविलेपनतूर्यताडावचरसंगीतिसंप्रभाणितेन स्वैः स्वैः पाणिभिस्तानि पात्राणि परिगृह्य येन तथागतस्तेनोपसंक्रामन्। उपसंक्रम्य तथागतस्य पूजां कृत्वा तानि पात्राणि दिव्यकुसुमप्रतिपूर्णानि तथागतायोपनामयन्ति स्म॥



अथ खलु भिक्षवस्तथागतस्यैतदभवत्-अमी खलु पुनश्चत्वारो महाराजाः श्रद्धाः प्रसन्नाः मम चत्वारि शैलपात्राण्युपनामयन्ति। न च मे चत्वारि शैलपात्राणि कल्पन्ते। अथैकस्य प्रतिगृहीष्यामि, त्रयाणां वैमनस्यं स्यात्। यन्न्वहमिमानि चत्वारि पात्राणि प्रतिगृह्यैकं पात्रमधितिष्ठेयम्। अथ खलु भिक्षवस्तथागतो दक्षिणं पाणिं प्रसार्य वैश्रवणं महाराजं गाथयाध्यभाषत—



उपनामयस्व सुगतस्य भाजनं

त्वं भेष्यसे भाजनमग्रयाने।

अस्मद्विधेभ्यो हि प्रदाय भाजनं

स्मृतिर्मतिश्चैव न जातु हीयते॥८७॥



अथ खलु भिक्षवस्तथागतो वैश्रवणस्य महाराजस्यान्तिकात्तत्पात्रं प्रतिगृह्णीते स्म अनुकम्पामुपादाय। प्रतिगृह्य च धृतराष्ट्रं महाराजं गाथयाध्यभाषत—



यो भाजनं देति तथागतस्य

न तस्य जातु स्मृति प्रज्ञ हीयते।

अतिनाम्य कालं च सुखंसुखेन

यावत्पदं बुध्यति शीतिभावम्॥८८॥



अथ खलु भिक्षवस्तथागतो धृतराष्ट्रस्य महाराजस्यान्तिकात्तत्पात्रं प्रतिगृह्णीते स्म अनुकम्पामुपादाय। प्रतिगृह्य च विरूढकं महाराजं गाथयाध्यभाषत—



ददासि यस्त्वं परिशुद्धभाजनं

विशुद्धचित्ताय तथागताय।

भविष्यसि त्वं लघु शुद्धचित्तः

प्रशंसितो देवमनुष्यलोके॥८९॥



अथ खलु भिक्षवस्तथागतो विरूढकस्य महाराजस्यान्तिकात्तत्पात्रं प्रतिगृह्णीते स्म अनुकम्पामुपादाय। प्रतिगृह्य च विरूपाक्षं महाराजं गाथयाध्यभाषत—



अच्छिद्रशीलस्य तथागतस्य

अच्छिद्रवृत्तस्य अच्छिद्रभाजनम्।

अच्छिद्रचित्तः प्रददासि श्रद्धया

अच्छिद्र ते भेष्यति पुण्यदक्षिणा॥९०॥



प्रतिगृह्णीते स्म भिक्षवस्तथागतो विरूपाक्षस्य महाराजस्यान्तिकात्तत्पात्रं अनुकम्पामुपादाय। प्रतिगृह्य चैकं पात्रमधितिष्ठति स्म अधिमुक्तिबलेन। तस्यां च वेलायामिदमुदानमुदानयति स्म—



दत्तानि पात्राणि पुरे भवे मया

फलपूरिता प्रेमणिया च कृत्वा।

तेनेमि पात्राश्चतुरः सुसंस्थिता

ददन्ति देवाश्चतुरो महर्द्धिकाः॥९१॥



तत्रेदमुच्यते।



स सप्तरात्रं वरबोधिवृक्षं

संप्रेक्ष्य धीरः परमार्थदर्शी।

षड्भिः प्रकारैः प्रविकम्प्य चोर्वी

अभुत्थितः सिंहगतिर्नृसिंहः॥९२॥



समन्त नागेन्द्रविलम्बगामी

क्रमेण तारायणमूलमेत्य।

उपाविशन्मेरुवदप्रकम्प्यो

ध्यानं समाधिं च मुनिः प्रदध्यौ॥९३॥



तस्मिंश्च काले त्रपुषश्च भल्लिको

भ्रातृद्वयं वणिजगणेन सार्धम्।

शकटानि ते पञ्च धनेन पूर्णा

संपुष्पिते सालवने प्रविष्टाः॥९४॥



महर्षितेजेन च अक्षमात्रं

चक्राणि भूमौ विविशुः क्षणेन।

तां तादृशीं प्रेक्ष्य च ते अवस्थां

महद्भयं वणिजगणस्य जातम्॥९५॥



ते खड्गहस्ताः शरशक्तिपाणयो

वने मृगं वा मृगयन् क एषः।

वीक्षन्त ते शारदचन्द्रवक्त्रं

जिनं सहस्रांशुमिवाभ्रमुक्तम्॥९६॥



प्रहीनकोपा अपनीतदर्पाः

प्रणम्य मूर्ध्ना विमृषुः क एषः।

नभस्तलाद्देवत वाच भाषते

बुद्धो ह्ययं लोकहितार्थकारी॥९७॥



रात्रिंदिवा सप्त न चान्नपानं

अनेन भुक्तं करुणात्मकेन।

यदिच्छथा आत्मन क्लेशशान्तिं

भोजेथिमं भावितकायचित्तम्॥९८॥



शब्दं च ते तं मधुरं निशाम्य

वन्दित्व कृत्वा च जिनं प्रदक्षिणम्।

प्रीतास्ततस्ते सहितैः सहायैः

जिनस्य पिण्डाय मतिं प्रचक्रुः॥९९॥



तेन खलु भिक्षवः समयेन त्रपुषभल्लिकानां वणिजां प्रत्यन्तकर्वटे गोयूथं प्रतिवसति स्म। अथ ता गावस्तस्मिन् काले तस्मिन् समये सर्पिमण्डं प्रदुग्धा अभूवन्। अथ गोपालास्तत्सर्पिमण्डमादाय येन त्रपुषभल्लिकौ वणिजौ तेनोपसंक्रामन्। उपसंक्रम्येमां प्रकृतिमारोचयन्ति स्म-यत्खलु यूयं भट्टा जानीयात-सर्वास्ता गावः सर्पिमण्डं प्रदुग्धाः। तत्किमेतत्प्रशस्तमाहोस्विन्नेति?



तत्र लोलुपजात्या ब्राह्मणा एवमाहुः-अमङ्गल्यमेतद्बाह्मणानाम्। महायज्ञो यष्टव्य इति॥



तेन खलु पुनर्भिक्षवः समयेन त्रपुषभल्लिकानां वणिजां शिखण्डी नाम ब्राह्मणः पूर्वजातिसालोहितो ब्रह्मलोके प्रत्याजातोऽभूत्। स ब्राह्मणरूपमभिनिर्माय तान् वणिजो गाथाभिरध्यभाषत—



युष्माकं प्रणिधिः पूर्वे बोधिप्राप्तस्तथागतः।

अस्माकं भोजनं भुक्त्वा धर्मचक्रं प्रवर्तयेत्॥१००॥



स चैष प्रणिधिः पूर्णो बोधिप्राप्तस्तथागतः।

आहारमुपनाम्येत भुक्त्वा चक्रं प्रवर्तयेत्॥१०१॥



सुमङ्गलं सुनक्षत्रं गवां वः सर्पिदोहनम्।

पुण्यकर्मणस्तस्यैष अनुभावो महर्षिणः॥१०२॥



एवं संचोद्य वणिजः शिखण्डी भवनं गतः।

उदग्रमनसः सर्वे बभुवुस्त्रपुषाह्वयाः॥१०३॥



क्षीरं यदासीच्च हि गोसहस्रा

अशेषतस्तं समुदानयित्वा।

अग्रं च तस्मात्परिगृह्य ओजः

साधेंसु ते भोजन गौरवेण॥१०४॥



शतं सहस्रैकपलस्य मूल्यं

या रत्नपात्री अभु चन्द्रनामिका।

चौक्षां सुधौतां विमलां च कृत्वा

समतीर्थिकां पूरिषु भोजनेन॥१०५॥



मधुं गृहीत्वा तथ रत्नपात्रीं

तारायणीमूलमुपेत्य शास्तुः।

प्रतिगृह्ण भक्ते अनुगृह्ण चास्मान्

इदं प्रणीतं परिभुङ्क्ष्व भोज्यम्॥१०६॥



अनुकम्पनार्थाय उभौ च भ्रातृणां

पूर्वाशयं ज्ञात्व च बोधिप्रस्थितौ।

प्रतिगृहीत्वा परिभुञ्जि शास्ता

भुक्त्वा क्षिपी पात्रि नभस्तलेस्मिं॥१०७॥



सुब्रह्मनामा च हि देवराजो

जग्राह यस्तां वररत्नपात्रीम्।

अधुनाप्यसौ तां खलु ब्रह्मलोके

संपूजयत्यन्यसुरैः सहायः॥१०८॥



अथ खलु तथागतस्तस्यां वेलायां तेषां त्रपुषभल्लिकानां वणिजानामिमां संहर्षणामकार्षीत्—



दिशां स्वस्तिकरं दिव्यं मङ्गल्यं चार्थसाधकम्।

अर्था वः शासतां सर्वे भवत्वाशु प्रदक्षिणा॥१०९॥



श्रीर्वोऽस्तु दक्षिणे हस्ते श्रीर्वो वामे प्रतिष्ठिता।

श्रीर्वोऽस्तु सर्वसाङ्गेषु मालेव शिरसि स्थिता॥११०॥



धनैषिणां प्रयातानां वणिजां वै दिशो दश।

उत्पद्यन्तां महालाभास्ते च सन्तु सुखोदयाः॥१११॥



कार्येण केनचिद्येन गच्छथा पूर्विकां दिशम्।

नक्षत्राणि वः पालेन्तु ये तस्यां दिशि संस्थिता॥११२॥



कृत्तिका रोहिणी चैव मृगशिरार्द्रा पुनर्वसुः।

पुष्यश्चैव तथाश्लेषा इत्येषां पूर्विकादिशाम्॥११३॥



इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः।

अधिष्ठिता पूर्वभागे देवा रक्षन्तु सर्वतः॥११४॥



तेषां चाधिपती राजा धृतराष्ट्रेति विश्रुतः।

स सर्वगन्धर्वपतिः सूर्येण सह रक्षतु॥११५॥



पुत्रा पि तस्य बहव एकनामा विचक्षणाः।

अशीतिर्दश चैकश्च इन्द्रनामा महाबला।

तेऽपि व अधिपालेन्तु आरोग्येन शिवेन च॥११६॥



पूर्वस्मिन् वै दिशो भागे अष्टौ देवकुमारिकाः।

जयन्ती विजयन्ती च सिद्धार्था अपराजिता॥११७॥



नन्दोत्तरा नन्दिसेना नन्दिनी नन्दवर्धनी।

ता पि व अधिपालेन्तु आरोग्येन शिवेन च॥११८॥



पूर्वस्मिन् वै दिशो भागे चापालं नाम चेतियम्।

अवुस्तं जिनेभि ज्ञातमर्हन्तेभि च तायिभिः।

तेऽपि व अधिपालेन्तु आरोग्येन शिवेन च॥११९॥



क्षेमाश्च वो दिशः सन्तु मा च वः पापमागमत्।

लब्धार्थाश्च निवर्तध्वं सर्वदेवेभि रक्षिताः॥१२०॥



येन केनचित्कृत्येन गच्छेथा दक्षिणां दिशम्।

नक्षत्राणि वः पालेन्तु ये तां दिशमधिष्ठिता॥१२१॥



मघा च द्वौ च फाल्गुन्यौ हस्ता चित्रा च पञ्चमी।

स्वातिश्चैव विशाखा च एतेषां दक्षिणा दिशा॥१२२॥



इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः।

आदिष्टा दक्षिणे भागे ते वो रक्षन्तु सर्वतः॥१२३॥



तेषां चाधिपती राजा विरूढक इति स्मृतः।

सर्वकुम्भाण्डाधिपतिर्यमेन सह रक्षतु॥१२४॥



पुत्रा पि तस्य बहव एकनामा विचक्षणाः।

अशीतिर्दश चैकश्च इन्द्रनामा महाबलाः।

तेऽपि व अधिपालेन्तु आरोग्येन शिवेन च॥१२५॥



दक्षिणेऽस्मिन् दिशो भागे अष्टौ देवकुमारिकाः।

श्रियामती यशमती यशप्राप्ता यशोधरा॥१२६॥



सु‍उत्थिता सुप्रथमा सुप्रबुद्धा सुखावहा।

ता पि व अधिपालेन्तु आरोग्येन शिवेन च॥१२७॥



दक्षिणेऽस्मिन् दिशो भागे पद्मनामेन चेतिकम्।

नित्यं ज्वलिततेजेन दिव्यं सर्वप्रकाशितम्।

तेऽपि व अधिपालेन्तु आरोग्येन शिवेन च॥१२८॥



क्षेमाश्च वो दिशः सन्तु मा च वः पापमागमत्।

लब्धार्थाश्च निवर्तध्वं सर्वदेवेभि रक्षिताः॥१२९॥



येन केनचित्कृत्येन गच्छेथा पश्चिमां दिशम्।

नक्षत्राणि वः पालेन्तु ये तां दिशमधिष्ठिता॥१३०॥



अनुराधा च जेष्ठा च मूला च दृढवीर्यता।

द्वावाषाढे अभिजिच्च श्रवणो भवति सप्तमः॥१३१॥



इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः।

आदिष्टा पश्चिमे भागे ते वो रक्षन्तु सर्वदा॥१३२॥



तेषां चाधिपती राजा विरूपाक्षेति तं विदुः।

स सर्वनागाधिपतिर्वरूणेन सह रक्षतु॥१३३॥



पुत्रा पि तस्य बहवः एकनामा विचक्षणाः।

अशीतिर्दश चैकश्च इन्द्रनामा महाबलाः।

तेऽपि व अधिपालेन्तु आरोग्येन शिवेन च॥१३४॥



पश्चिमेऽस्मिन् दिशो भागे अष्टौ देवकुमारिकाः

अलम्बुशा मिश्रकेशी पुण्डरीका तथारुणा॥१३५॥



एकादशा नवमिका शीता कृष्णा च द्रौपदी।

ता पि व अधिपालेन्तु आरोग्येन शिवेन च॥१३६॥



पश्चिमेऽस्मिन् दिशो भागे अष्टङ्गो नाम पर्वतः।

प्रतिष्ठा चन्द्रसूर्याणां अष्टमर्थं ददातु वः।

सोऽपि व अधिपालेतु आरोग्येन शिवेन च॥१३७॥



क्षेमाश्च वो दिशः सन्तु मा च वः पापमागमत्।

लब्धार्थाश्च निवर्तध्वं सर्वदेवेभि रक्षिताः॥१३८॥



येन केनचित्कृत्येन गच्छेथा उत्तरां दिशम्।

नक्षत्राणि वः पालेन्तु ये तां दिशमधिष्ठिता॥१३९॥



धनिष्ठा शतभिषा चैव द्वे च पुर्वोत्तरापरे।

रवती अश्विनी चैव भरणी भवती सप्तमी॥१४०॥



इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः।

आदिष्टा उत्तरे भागे ते वो रक्षन्तु सर्वदा॥१४१॥



तेषां चाधिपती राजा कुबेरो नरवाहनः।

सर्वयक्षाणामधिपतिर्माणिभद्रेण सह रक्षतु॥१४२॥



पुत्रा पि तस्य बहव एकनामा विचक्षणाः।

अशीतिर्दश चैकश्च इन्द्रनामा महाबलाः।

ते पि व अधिपालेन्तु आरोग्येन शिवेन च॥१४३॥



उत्तरेऽस्मिन् दिशो भागे अष्टौ देवकुमारिकाः।

इलादेवी सुरादेवी पृथ्वी पद्मावती तथा॥१४४॥



उपस्थिता महाराजा आशा श्रद्धा हिरी शिरी।

ता पि व अधिपालेन्तु आरोग्येन शिवेन च॥१४५॥



उत्तरेऽस्मिन् दिशो भागे पर्वतो गन्धमादनः।

आवासो यक्षभूतानां चित्रकूटः सुदर्शनः।

तेऽपि व अधिपालेन्तु आरोग्येन शिवेन च॥१४६॥



क्षेमाश्च वो दिशः सन्तु मा च वः पापमागमत्।

लब्धार्थाश्च निवर्तध्वं सर्वदेवेभि रक्षिताः॥१४७॥



अष्टाविंशति नक्षत्रा सप्त सप्त चतुर्दिशम्।

द्वात्रिंशद्देवकन्याश्च अष्टावष्टौ चतुर्दिशम्॥१४८॥



अष्टौ श्रमणा (चाष्टौ) ब्राह्मणा(अष्टौ) जनपदेषु नैगमाः।

अष्टौ देवाः स‍इन्द्रकास्ते वो रक्षन्तु सर्वतः॥१४९॥



स्वस्ति वो गच्छतां भोतु स्वस्ति भोतु निवर्तताम्।

स्वस्ति पश्यत वै ज्ञातिं स्वस्ति पश्यन्तु ज्ञातयः॥१५०॥



सेन्द्रा यक्षा महाराजा अर्हन्तमनुकम्पिताः।

सर्वत्र स्वस्ति गच्छध्वं प्राप्स्यध्वममृतं शिवम्॥१५१॥



संरक्षिता ब्राह्मण वासवेन

विमुक्तिचित्तैश्च अनाश्रवैश्च।

नागैश्च यक्षैश्च सदानुकम्पिताः

पालेथ आयुः शरदां शतं समम्॥१५२॥



प्रदक्षिणां दक्षिणलोकनाथः

तेषां दिशैषऽप्रतिमो विनायकः।

अनेन यूयं कुशलेन कर्मणा

मधुसंभवा नाम जिना भविष्यथ॥१५३॥



प्रथमादिदं लोकविनायकस्य

असङ्गतो व्याकरणं जिनस्य।

पश्चादनन्ता बहुबोधिसत्त्वा

ये व्याकृता बोधयि नो विवर्त्याः॥१५४॥



श्रुत्वा इमं व्याकरणं जिनस्य

उदग्रचित्ता परमाय प्रीत्या।

तौ भ्रातरौ सार्धं सहायकैस्तैः

बुद्धं च धर्मं शरण प्रपन्नाः॥१५५॥ इति॥



॥इति श्रीललितविस्तरे त्रपुषभल्लिकपरिवर्तो नाम चतुर्विंशतितमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project