Digital Sanskrit Buddhist Canon

२२ अभिसंबोधनपरिवर्तो द्वाविंशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२२ अभिसंबोधनपरिवर्तो द्वाविंशः।



इति हि भिक्षवो बोधिसत्त्वो निहतमारप्रत्यर्थिको मर्दितकण्टको रणशिरसि विजितविजयः उछ्रितछत्रध्वजपताको विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धमैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति स्म। सवितर्कसविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति स्म। स प्रीतेर्विरागादुपेक्षको विहरति स्म स्मृतिमान् संप्रजानन् सुखं कायेन प्रतिसंवेदयते स्म यत्तदार्या आचक्षते स्म-उपेक्षकः स्मृतिमान् सुखविहारी, निष्प्रीतिकं तृतीयं ध्यानमुपसंपद्य विहरति स्म। स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति स्म॥



अथ बोधिसत्त्वस्यथा समाहिते चित्ते परिशुद्धे पर्यवदाते प्रभास्वरेऽनङ्गने विगतोपक्लेशे मृदुनि कर्मण्युपस्थिते आनिज्ज्यप्राप्ते रात्र्यां प्रथमे यामे दिव्यस्य चक्षुषो ज्ञानदर्शनविद्यासाक्षात्क्रियायै चित्तमभिनिर्हरति स्म, अभिनिर्नामयति स्म॥



अथ बोधिसत्त्वो दिव्येन चक्षुषा परिशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति स्म च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् हीनान् प्रणीतान्। यथाकर्मोपगान् सत्त्वान् प्रजानाति स्म-इमे बत भोः सत्त्वाः कायदुश्चरितेन समन्वागताः, वाङ्भनोदुश्चरितेन समान्वागताः, आर्याणामपवादकाः मिथ्यादृष्टयः। ते मिथ्यादृष्टिकर्मधर्मसमादानहेतोः कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते। इमे पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागताः, वाङ्भनःसुचरितेन समन्वागताः, आर्याणामनपवादकाः सम्यग्दृष्टयः, ते सम्यग्दृष्टिकर्मधर्मसमादानहेतोः कायस्य भेदात्सुगतौ स्वर्गलोकेषूपपद्यन्ते॥



इति हि दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वानापश्यति स्म च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् हीनान् प्रणीतान् यथाकर्मोपगान्। एवं खलु भिक्षवो बोधिसत्त्वो रात्र्यां प्रथमे यामे विद्यां साक्षात्करोति स्म, तमो निहन्ति स्म, आलोकमुत्पादयति स्म॥



अथ बोधिसत्त्वस्तथा समाहिते चित्ते परिशुद्धे पर्यवदाते प्रभास्वरे निरङ्गने विगतोपक्लेशे मृदुनि कर्मण्युपस्थिते आनिञ्ज्यप्राप्ते रात्र्यां मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानदर्शनविद्यासाक्षात्क्रियायै चित्तमभिनिर्हरति स्म, अभिनिर्नामयति स्म, आत्मनः परसत्त्वानां चानेकविधं पूर्वनिवासाननुस्मरति स्म। तद्यथा-एकामपि जातिं द्वे तिस्रश्चतस्रः पञ्च दश विंशति त्रिंशच्चत्वारिंशत्पञ्चाशज्जातिशतं जातिसहस्रं जातिशतसहस्रम् अनेकान्यपि जातिशतसहस्राण्यपि जातिकोटीमपि जातिकोटीशतमपि जातिकोटीसहस्रमपि जातिकोटीनयुतमपि। अनेकान्यपि जातिकोटीसहस्राण्यपि अनेकान्यपि जातिकोटीशतसहस्राण्यपि अनेकान्यपि जातिकोटीनयुतशतसहस्राणि यावत्संवर्तकल्पमपि विवर्तकल्पमपि संवर्तविवर्तकल्पमपि अनेकान्यपि संवर्तविवर्तकल्पान्यनुस्मरति स्म-अमुत्राहमासन्नेवंनामा एवंगोत्र एवंजात्य एवंवर्ण एवमाहार एवमायुष्प्रमाणमेवं चिरस्थितिकः, एवं सुखदुःखप्रतिवेदी। सोऽहं ततश्च्युतः सन्नमुत्रोपपन्नः, ततश्च्युत्वेहोपपन्न इति साकारं सोद्देशमनेकविधमात्मनः सर्वसत्त्वानां च पूर्वनिवासमनुस्मरति स्म॥



अथ बोधिसत्त्वस्तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन प्रभास्वरेण अनङ्गनेन विगतोपक्लेशेन मृदुना कर्मण्ये स्थितेनानिञ्च्यप्राप्तेन रात्र्यां पश्चिमे यामे अरुणोद्धाटनकालसमये नन्दीमुख्यां रात्रौ दुःखसमुदयास्तंगताया आश्रवक्षयज्ञानदर्शनविद्यासाक्षात्क्रियायै चित्तमभिनिर्हरति स्म, अभिनिर्नामयति स्म। तस्यैतदभवत्-कृच्छ्रं बतायं लोक आपन्नो यदुत जायते जीर्यते म्रियते च्यवते उपपद्यते। अथ च पुनरस्य केवलस्य महतो दुःखस्कन्धस्य निःसरणं न संप्रजानाति जराव्याधिमरणादिकस्य। अहो बतास्य केवलस्य महतो दुःखस्कन्धस्यान्तःक्रिया न प्रज्ञायते सर्वस्य जराव्याधिमरणादिकस्य॥



ततो बोधिसत्त्वस्यैतदभूत्-कस्मिन् सति जरामरणं भवति, किंप्रत्ययं च पुनर्जरामरणम्? तस्यैतदभूत्-जात्यां सत्यां जरामरणं भवति, जातिप्रत्ययं जरामरणम्॥



अथ बोधिसत्त्वस्य पुनरेतदभवत्-कस्मिन् सति जातिर्भवति, किंप्रत्यया च पुनर्जातिः? तस्यैतदभवत्-भवे सति जातिर्भवति भवप्रत्यया च पुनर्जातिः॥



अथ बोधिसत्त्वस्यैतभवत्-कस्मिन् सति भवो भवति, किंप्रत्ययश्च पुनर्भवः? तस्यैतदभवत्-उपादाने सति भवो भवति, उपादानप्रत्ययो हि भवः॥



अथ बोधिसत्त्वस्यैतदभवत्-कस्मिन् सत्युपादानं भवति, किंप्रत्ययं च पुनरुपादानम्? तस्यैतदभवत्-तृष्णायां सत्यामुपादानं भवति, तृष्णाप्रत्ययं ह्युपादानम्॥



अथ बोधिसत्त्वस्य पुनरेतदभवत्-कस्मिन् सति तृष्णा भवति, किंप्रत्यया च तृष्णा? तस्यैतदभवत्-वेदनायां सत्यां तृष्णा भवति, वेदनाप्रत्यया च तृष्णा॥



अथ बोधिसत्त्वस्य पुनरेतदभूत्-कस्मिन् सति वेदना भवति, किंप्रत्यया पुनर्वेदना? तस्यैतदभूत्-स्पर्शे सति वेदना भवति, स्पर्शप्रत्यया हि वेदना॥



अथ बोधिसत्त्वस्य पुनरेतदभवत्-कस्मिन् सति स्पर्शो भवति, किंप्रत्ययश्च पुनः स्पर्शः? तस्यैतदभवत्-षडायतने सति स्पर्शो भवति, षडायतनप्रत्ययो हि स्पर्शः॥



अथ बोधिसत्त्वस्य पुनरेतदभवत्-कस्मिन् सति षडायतनं भवति, किंप्रत्ययं च पुनः षडायतनम्? तस्यैतदभवत्-नामरूपे सति षडायतनं भवति, नानारूपप्रत्ययं हि षडायतनम्॥



अथ बोधिसत्त्वस्य पुनरेतदभवत्-कस्मिन् सति नामरूपं भवति, किंप्रत्ययं च पुनर्नामरूपम्? तस्यैतदभवत्-विज्ञाने सति नामरूपं भवति, विज्ञानप्रत्ययं हि नामरूपम्॥



अथ बोधिसत्त्वस्य पुनरेतदभवत्-कस्मिन् सति विज्ञानं भवन्ति, किंप्रत्ययं पुनर्विज्ञानम् ? तस्यैतदभवत् - संस्कारेषु सत्सु विज्ञानं भवति, संस्कारप्रत्ययं च विज्ञानम् ?



अथ बोधिसत्त्वस्य पुनरेतदभवत्-कस्मिन् सति संस्कारा भवन्ति, किंप्रत्ययाश्च पुनः संस्काराः? तस्यैतदभवत्-अविद्यायां सत्यां संस्कारा भवन्ति, अविद्याप्रत्यया हि संस्काराः॥



इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत्-अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययं स्पर्शः, स्पर्शप्रत्ययं वेदना, वेदनाप्रत्ययं तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययं भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। समुदयः समुदय इति॥



इति हि भिक्षवो बोधिसत्त्वस्य पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुदपादि, चक्षुरुदपादि, विद्योदपादि, भूरिरुदपादि, मेधोदपादि, प्रज्ञोदपादि, आलोकः प्रादुर्बभूव। कस्मिन्नसति जरामरणं न भवति, कस्य वा निरोधाज्जरामरणनिरोध इति। तस्यैतदभूत्-जात्यामसत्यां जरामरणं न भवति, जातिनिरोधाज्जरामरणनिरोधः॥



अथ बोधिसत्त्वस्य पुनरेतदभवत्-कस्मिन्नसति जातिर्न भवति, कस्य वा निरोधाज्जातिनिरोधः? तस्यैतदभवत्-भवेऽसति जातिर्न भवति, भवनिरोधाज्जातिनिरोधः॥



अथ बोधिसत्त्वस्य पुनरप्येतदभवत्-कस्मिन्नसति विस्तरेण यावत्संस्कारा न भवन्ति, कस्य वा निरोधात्संस्कारनिरोधः? तस्यैतदभवत्-अविद्यायां सत्यां संस्कारा न भवन्ति, अविद्यानिरोधात्संस्कारनिरोधः। संस्कारनिरोधाद्विज्ञाननिरोधो यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवतीति॥



इति हि भिक्षवो बोधिसत्त्वस्य पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुदपादि, चक्षुरुदपादि विद्योदपदि, भूरिरुदपादि, मेधोदपादि, प्रज्ञोदपादि, आलोकः प्रादुर्बभूव। सोऽहं भिक्षवस्तस्मिन् समये इदं दुःखमिति यथाभूतमज्ञासिषम्। अयमाश्रवसमुदयोऽयमाश्रवनिरोधः इयमाश्रवनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। अय कामाश्रवोऽयं भवाश्रवोऽयमविद्याश्रवोऽयं दृष्ट्याश्रवः। इहाश्रवा निरवशेषतो निरुध्यन्ते। इहाश्रवो निरवशेषमनाभासमस्तं गच्छतीति। इयमविद्या अयमविद्यासमुदयोऽयमविद्यानिरोध इयमविद्यानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इहाविद्या अपरिशेषमनाभासमस्तं गच्छतीति पेयालम्। अमी संस्कारा अयं संस्कारसमुदयोऽयं संस्कारनिरोध इयं संस्कारनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इदं विज्ञानमयं विज्ञानसमुदयोऽयं विज्ञाननिरोध इयं विज्ञाननिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इदं नामरूपमयं नामरूपसमुदयोऽयं नामरूपनिरोधः इयं नामरूपनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इदं षडायतनमयं षडायतनसमुदयोऽयं षडायतननिरोधः इयं षडायतननिरोधगामिनीं प्रतिपदिति यथाभूतमज्ञासिषम्। अयं स्पर्शोऽयं स्पशसमुदयोऽयं स्पर्शनिरोधः इयं स्पर्शनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इयं वेदना अयं वेदनासमुदयोऽयं वेदनानिरोध इयं वेदनानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इयं तृष्णा अयं तृष्णासमुदयोऽयं तृष्णानिरोधः इयं तृष्णानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इदमुपादानमयमुपादानसमुदयोऽयमुपादाननिरोधः इयमुपादाननिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। अयं भवोऽयं भवसमुदयोऽयं भवनिरोधः इयं भवनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इयं जातिरयं जातिसमुदयोऽयं जातिनिरोधः इयं जातिनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इयं जरा अयं जरासमुदयोऽयं जरानिरोधः इयं जरानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इदं मरणमयं मरणसमुदयोऽयं मरणनिरोधः इयं मरणनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्। इमे शोकपरिदेवदुःखदौर्मनस्योपायासाः। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति यावन्निरोधो भवतीति यथाभूतमज्ञासिषम्। इदं दुःखमयं दुःखसमुदयोऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम्॥



एवं खलु भिक्षवो बोधिसत्त्वेन रात्र्यां पश्चिमे यामेऽरुणोद्धाटनकालसमये नन्दीमुख्यां रात्र्यौ यत्किंचित्पुरुषेण सत्पुरुषेणातिपुरुषेण महापुरुषेण पुरुषर्षभेण पुरुषनागेन पुरुषसिंहेन पुरुषपुंगवेन पुरुषशूरेण पुरुषधीरेण पुरुषजानेन पुरुषपद्मेन पुरुषपुण्डरीकेण पुरुषधौरेयेणानुत्तरेण पुरुषदम्यसारथिना एवंभूतेनार्येण ज्ञानेन ज्ञातव्यं बोद्धव्यं प्राप्तव्यं द्रष्टव्यं साक्षात्कर्तव्यम्, सर्वं तदेकचित्तेक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुध्य त्रैविद्याधिगता॥



ततो भिक्षवो देवा आहुः-अवकिरत मार्षाः पुष्पाणि। अभिसंबुद्धो भगवान्। ये तत्र देवपुत्राः पूर्वबुद्धदर्शिनस्तस्मिन् संनिपतिता आसंस्तेऽवोचन्-मा स्म तावन्मार्षाः पुष्पाण्यवकिरत यावत्तावद्भगवान्निमित्तं प्रादुःकरोति। पूर्वका अपि सम्यक्संबुद्धा निमित्तमकार्षुः, निर्मितामभिनिर्मिण्वन्ति स्म॥



अथ खलु भिक्षवस्तथागतस्तान् देवपुत्रान् विमतिप्राप्ताञ्ज्ञात्वा सप्ततालमात्रं विहायसमभ्युद्गम्य तत्रस्थ इदमुदानमुदानयति स्म—



छिन्नवर्त्मोपशान्तरजाः शुष्का आस्रवा न पुनः स्रवन्ति।

छिन्ने वर्त्मनि वर्तत दुःखस्यैषोऽन्त उच्यते॥१॥ इति॥



ततस्ते देवपुत्रा दिव्यैः कुसुमैस्तथागतमभ्यवकिरन्ति स्म। ततो जानुमात्रं दिव्यानां पुष्पाणां संस्तरोऽभूत्॥



इति हि भिक्षवस्तथागतेऽभिसंबुद्धे विगतं तमोऽन्धकारम्, विशोधिता तृष्णा, विवर्तिता दृष्टिः, विक्षोभिताः क्लेशाः, विशारिताः शल्याः, मुक्तो ग्रन्थिः, प्रपातितो मानध्वजः, उच्छ्रेपितो धर्मध्वजः, उद्धाटिता अनुशयाः, ज्ञाता धर्मतथता, अवबुद्धा भूतकोटिः, परिज्ञातो धर्मधातुः, व्यवस्थापितः सत्त्वधातुः, संवर्णितः सम्यक्त्वनियतो राशिः, विवर्णितो मिथ्यात्वनियतो राशिः, परिगृहीतोऽनियतराशिः, व्यवस्थापितानि सत्त्वेन्द्रियाणि, परिज्ञाताः सत्त्वचरिताः, अवबुद्धा सत्त्वव्याधिः, सत्त्वसमुत्थानसिद्धोऽमृतभैषजप्रयोगः, उत्पन्नो वैद्यराजः प्रमोचकः सर्वदुःखेभ्यः प्रतिष्ठापको निर्वाणसुखे, निषण्णस्तथागतगर्भे तथागतमहाधर्मराजासने, सर्व आबद्धो विमुक्तिपक्षः, प्रविष्टः सर्वज्ञतानगरं समवसृतं सर्वबुद्धैः, असंभिन्नो धर्मधातुप्रसरानुबोधेः। प्रथमे सप्ताहे भिक्षवस्तथागतस्तस्मिन्नेव बोधिमण्डे निषण्णोऽस्थात्-इह मयाऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। मया अनवराग्रस्य जातिजरामरणदुःखस्यान्तः कृत इति॥



समनन्तरप्राप्ते खलु पुनर्भिक्षवो बोधिसत्त्वेन सर्वज्ञत्वे अथ तत्क्षणमेव दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वास्तत्क्षणं तल्लवं तन्मुहूर्तं परसुखसमर्पिता अभुवन्। सर्वलोकधातवश्च महतावभासेनावभास्यन्तः। याऽपि ता लोकान्तरिका अघा अघस्फुटा अन्धकारा इति पूर्ववत्। षड्विकारं च दशसु दिक्षु सर्वलोकधातवोऽकम्पत् प्राकम्पत् संप्राकम्पत्। अवेधत् प्रावेधत् संप्रावेधत्। अचलत् प्राचलत् संप्राचलत्। अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्। अरणत् प्रारणत् संप्रारणत्। अगर्जत् प्रागर्जत् संप्रागर्जत्। सर्वबुद्धाश्च तथागतायाभिसंबुद्धाय साधुकारं ददन्ति स्म। धर्माच्छादांश्च संप्रेषयन्ति स्म। यैर्धर्माच्छादैरयं त्रिसाहस्रमहासाहस्रलोकधातुरनेकरत्नसंछन्नोऽभूत्। तेभ्यश्च रत्नछत्रेभ्यः एवंरूपा रश्मिजाला निश्चरन्ति स्म, यैर्दशसु दिक्षु अप्रमेयासंख्येया लोकधातवोऽवभास्यन्ते। दशसु दिक्षु बोधिसत्त्वाश्च देवापुत्राश्चनन्दशब्दं निश्चारयामासुः-उत्पन्नः सत्त्वपण्डितः। पद्मो ज्ञानसरसि संभूतोऽनुपलिप्तो लोकधर्मैः। समन्ततो महाकरुणामेघं स्फुरित्वा धर्मधातुभवनं वर्षयिष्यति। धर्मवर्षविनये जनभैषजाङ्कुरप्ररोहणं सर्वकुशलमूलबीजानां विवर्धनं श्रद्धाङ्कुराणां दाता विमुक्तिफलानाम्॥



तत्रेदमुच्यते—



मारं विजित्य सबलं स हि पुरुषसिंहो

ध्यानामुखं अभिमुखं अभितोऽपि शास्ता।

त्रैविद्यता दशबलेन यदा हि प्राप्ता

संकम्पिता दश दिशो बहुक्षत्रकोट्यः॥२॥



ये बोधिसत्त्व पुरि आगत धर्मकामा

चरणौ निपत्य इति भाषिषु मासि क्लान्तो।

प्रत्यक्ष अस्मि चमु यादृशिका सुभीमा

सा प्रज्ञपुण्यबलवीर्यबलेन भग्ना॥३॥



बुद्धैश्च क्षेत्रनयुतैः प्रहितानि छत्रा

साधो महापुरुष धर्षित मारसेनाम्।

प्राप्तं त्वया पदवरं अमृतं विशोकं

सद्धर्मवृष्टि त्रिभवे अभिवर्ष शीघ्रम्॥४॥



बाहुं प्रसार्य दशदिक्षु च सत्त्वसारा

आभाषयिंसु कलविङ्करुताय वाचा।

बोधिर्यथामनुगता भवता विशुद्धा

तुल्यः समोऽसि यथ सर्पिणि सर्पिमण्डैः॥५॥



अथ खलु भिक्षवः कामावचरा अप्सरसो बोधिमण्डनिषण्णं तथागतं प्राप्ताभिज्ञं परिपूर्णसंकल्पं विजितसंग्रामं निर्जितमारप्रत्यर्थिकमुच्छ्रितछत्रध्वजपताकं शूरं जयोद्गतं पुरुषं महापुरुषं वैद्योत्तमं महाशल्यहर्तारं सिंहं विगतभयलोमहर्षं नागं सुदान्तचित्तनिर्मलं त्रिमलविप्रहीनं वैद्यकं त्रैविद्यतामनुप्राप्तं पारगं चतुरोघोत्तीर्णं क्षत्रियमेकरत्नछत्रधारिणं त्रैलोक्यब्राह्मणं बाहितपापकर्माणं भिक्षुं भिन्नविद्याण्डकोषं श्रमणं सर्वसङ्गसमतिक्रान्तं श्रोत्रियं निःसृतक्लेशं शूरमप्रपातितध्वजं बलीयांसं दशबलधारिणं रत्नाकरमिव सर्वधर्मरत्नसंपूर्णं विदित्वा बोधिमण्डाभिमुखास्तथागतमाभिर्गाथाभिरभ्यस्ताविषुः—



एष द्रुमराजमूले अभिजित्य मारसैन्यं

स्थितु मेरुवदप्रकम्प्यो निर्भीरप्रलापी।

अनेकबहुकल्पकोट्यो दानदमसंयमेन

समुदानयं प्रबोधि तेनेष शोभतेऽद्य॥६॥



अनेन बहुकल्पकोट्यः शीलव्रतातपोभि

जिह्मिकृत शक्र ब्रह्मा बोधिवर एषता हि।

अनेन बहुकल्पकोट्यः क्षान्तिबलवर्मितेन

अधिवासिता दुखानि तेन प्रभ स्वर्णवर्णा॥७॥



अनेन बहुकल्पकोट्यो वीर्यबलविक्रमेण

पराङ्मुखां कृतास्या तेन मार जित सेना।

अनेन बहुकल्पकोट्यो ध्याना अभिज्ञज्ञानैः

संपूजिता मुनीन्द्रस्तेनैव पूजितोऽद्य॥८॥



अनेन बहुकल्पकोट्यः प्रज्ञाश्रतसंचयेन

प्रगृहीत सत्त्वकोट्यस्तेन लघु बोधि प्राप्ता।

अनेन जितु स्कन्धमारस्तथ मृत्यु क्लेशमारः

अनेन जितु देवपुत्रमारस्तेनास्य नास्ति शोकः॥९॥



एषो हि देवदेवो (देवैरपि पूजनीयः) पूजारहस्त्रिलोके

पुण्यार्थिकान क्षेत्रं अमृताफलस्य दाता।

एष वरदक्षिणीयो उत्पातु दक्षिणाहि

नास्त्युत्तरस्य नाशो या च वरबोधि लब्धा॥१०॥



ऊर्णा विराजतेऽस्य स्फरति बहुक्षेत्रकोट्यो

जिह्मिकृत चन्द्रसूर्या अन्धकारालोकप्राप्ता।

एव हि सुरूपरूपो वररूप साधुरूपो

वरलक्षणो हितैषी त्रैलोक्यपूजनीयः॥११॥



एष सुविशुद्धनेत्रो बहु प्रेक्षते स्वयंभूः

क्षत्रा च सत्त्वकाया चित्तानि चेतना च।

एष सुविशुद्धश्रोत्रः शृणुते अनन्तशब्दां

दिव्यांश्च मानुषांश्च जिनशब्दधर्मशब्दां॥१२॥



एष प्रभूतजिह्वः कलविङ्कमञ्जुघोषः

श्रोष्याम अस्य धर्मं अमृतं प्रशान्तगामिम्।

दृष्ट्वा च मारसैन्यं न क्षुभ्यते मनोऽस्य

पुन दृष्ट्घ देवसंघां न च हर्षते सुमेधा॥१३॥



शस्त्रैर्न चापि बाणैर्जित एन मारसेना

सत्यव्रतातपोभि जितु एन दुष्टमल्लः।

चलितो न चासना न च कायु वेधिनोऽस्य

न च स्नेहु नापि दोषस्तदनन्तरे अभूवन्॥१४॥



लाभा सुलब्ध तेषां मरुणां नराण चैव

ये तुभ्य धर्म श्रुत्वा प्रतिपत्तिमेष्यती हि।

यत्पुण्य त्वां स्तवित्वा जिन पुण्यतेजराशे

सर्वे भवेम क्षिप्रं यथ त्वं मनुष्यचन्द्रः॥१५॥



बुद्धित्व बोधि पुरुषर्षभनायकेन

संकम्प्य क्षत्रनयुतानि विजित्य मारम्।

ब्रह्मस्वरेण कलविङ्करुतस्वरेण

प्रथमेन गाथा इमि भाषित नायकेन॥१६॥



पुण्यविपाकु सुख सर्वदुःखापनेती

अभिप्रायु सिध्यति च पुण्यवतो नरस्य।

क्षिप्रं च बोधि स्पृशते विनिहत्य मारं

शान्तापथो गच्छति च निर्वृतिशीतिभावम्॥१७॥



तस्मात्क पुण्यकरणे न भवेत तृप्तः

शृण्वंश्च धर्मममृतं भवि को वितृप्तः।

विजने वने च विहरं भवि को वितृप्तः

कः सत्त्व अर्थकरणे न भवेद्धि तृप्तः॥१८॥



पाणिं प्रसार्य समुवाच च बोधिसत्त्वां

पूजां कृता ब्रजत क्षेत्र स्वकस्वकानि।

सर्वेऽभिवन्द्य चरणौ च तथागतस्य

नानावियूह गत क्षेत्र स्वकस्वकानि॥१९॥



दृष्ट्वा च तां नमुचिनां महतीमवस्थां

विक्रीडितां च सुगतस्य तथा सलीलम्।

बोधाय चित्तमतुलं प्रणिधाय सत्त्वां

मारं विजित्य सबलं अमृतं स्पृशेम॥२०॥



अभिसंबुद्धस्य भिक्षवस्तथागतस्य बोधिवृक्षमूले सिंहासनोपविष्टस्य तस्मिन् क्षणेऽप्रमेयानि बुद्धविक्रीडितान्यभूवन्, यानि न सुकरं कल्पेनापि निर्देष्टुम्॥



तत्रेदमुच्यते—



करतलसदृशाभूत्सुस्थिता मेदिनीयं

विकसितशतपत्राश्चोद्गता रश्मिजालैः।

अमरशतसहस्रा ओनमी बोधिमण्डं

इमु प्रथम निमित्तं सिंहनादेन दृष्टम्॥२१॥



द्रुमशतत्रिसहस्रो बोधिमण्डे नमन्ते

गिरिवर तथ नेके शैलराजश्च मेरुः।

दशबलमधिगम्य ब्रह्मशक्रा नमन्ते

इदमपि नरसिंहे क्रीडितं बोधिमण्डे॥२२॥



रश्मिशतसहस्रा स्वोशरीरात्मभावा

स्फुरि जिनवर क्षत्रा त्रीणि शान्ता अपायाः।

तत क्षणसुमुहूर्ते शोधिता चाक्षणानि

न च खिलमददोषा बाधिषू कंचि सत्त्वम्॥२३॥



इयमपि नरसिंहस्यासनस्थस्य क्रीडा

शशिरविमणिवह्निविद्युताभा च दिव्या।

न तपति अभिभूता भानुवत्योर्णपाशा

न च जगदिह कश्चित्प्रेक्षते शास्तु मूर्धम्॥२४॥



इयमपि नरसिंहस्यासनस्थस्य क्रीडा

करतलस्पृशनेना कम्पिता चोर्वि सर्वा।

येन नमुचिसेना क्षोभिता तूलभूता

नमुचि इषु गृहीत्वा मेदिनी व्यालिखेद्य

इदमपि नरसिंहस्यासने क्रीडितं भूत्॥२५॥इति॥



॥ इति श्रीललितविस्तरेऽभिसंबोधनपरिवर्तो नाम द्वाविंशतितमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project