Digital Sanskrit Buddhist Canon

२१ मारघर्षणपरिवर्त एकविंशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 21 māragharṣaṇaparivarta ekaviṁśaḥ
२१ मारघर्षणपरिवर्त एकविंशः।



इति हि भिक्षवो बोधिसत्त्वैश्चेम एवंरूपा व्यूहा बोधिसत्त्वस्य पूजाकर्मणे बोधिमण्डेऽभिसंकृता अभूवन्। स्वयं च बोधिसत्त्वो यावन्तो दशसु दिक्ष्वतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वबुद्धक्षेत्रेषु बोधिमण्डालंकारव्यूहास्तान् सर्वांस्तस्मिन् बोधिमण्डे संदर्शयति स्म॥



अथ खलु भिक्षवो बोधिमण्डनिषण्णस्य बोधिसत्त्वस्यैतदभवत्-इह खलु कामधातौ मारः पापीयानधिपतिरीश्वरो वशवर्ती। नैतन्मम प्रतिरूपं भवेद्यदहं तेनाविदितोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्। यन्न्वहं मारस्य पापीयसः संचोदनं कुर्याम्। तस्मिन् विजिते सर्वे कामावचरा देवादयो निगृहीता भविष्यन्ति। ततश्च मारपर्षदः पूर्वावरोपितकुशलमूला मारकायिका देवपुत्रास्ते मम सिंहविक्रीडितं दृष्ट्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति॥



अथ खलु भिक्षवो बोधिसत्त्व एवमनुविचिन्त्य तस्यां वेलायां भ्रूविवरान्तरादूर्णाकोशात् सर्वमारमण्डलविध्वंसनकरीं नामैकां रश्मिमुदसृजत्। यया रश्म्या सर्वस्मिंस्त्रिसाहस्रमहासाहस्रलोकधातौ सर्वमारभवनान्यवभास्य जिह्मीकृतानि संप्रकम्पितानि चाभूवन्। सर्वश्चायं त्रिसाहस्रमहासाहस्रलोकधातुर्महतावभासेन स्फुटोऽभूत्। तस्याश्च प्रभाया मारः पापीयानिदमेवं रूपं शब्दमश्रौषीत्—



कल्पौघचीर्णचरितो ह्यभिशुद्धसत्त्वः

शुद्धोदनस्य तनयः प्रविजह्य राज्यम्।

सो निर्गतो हितकरो ह्यमृताभिलाषी

बोधिद्रुमं ह्युपगतोऽद्य कुरु प्रयत्नम्॥१॥



सो तीर्ण आत्मन परानपि तारयेया

मोचेष्यते स च परां स्वयमेव मुक्तः।

आश्वासप्राप्त स परानपि चाश्वसेया

निर्वापयिष्यति परां परिनिर्वृतश्च॥२॥



शून्यां करिष्यति आपायत्रयोऽप्यशेषां

पूर्णां करिष्यति पुरां सुरमानुषाणाम्।

ध्यानानभिज्ञ परमं अमृतं सुखं च

दास्यत्यसौ हितकरो अमृतं स्पृशित्वा॥३॥



शून्यं करिष्यति पुरं तव कृष्णबन्धो

अबलो बलो बलविहीनु अपक्ष्यपक्ष्यो।

न ज्ञास्यसे क्व नु व्रजामि करोमि किं वा

यद धर्मवर्षमभिवर्षि स्वयं स्वयंभूः॥४॥इति॥



इति हि भिक्षवो मारः पापीयानाभिः संचोदनाभिर्गाथाभिः संचोदितः सन् द्वात्रिंशदाकारं स्वप्नमपश्यत्। कतमद् द्वात्रिंशदाकारम्? तद्यथा-तमसाकुलं च स्वभवनमपश्यत्। रजसाकुलं चाकीर्णशर्करकठल्यं च स्वभवनमपश्यत्। भीतत्रस्तोद्विग्नं दिशो दश प्रपलायमानं चात्मानमपश्यत्। विभ्रष्टमकुटमपविद्धकुण्डलं चात्मानमपश्यत्। शुष्कोष्ठगलतालुकं चात्मानमपश्यत्। संतप्तहृदयं चात्मानमपश्यत्। शीर्णपत्रपुष्पफलानि चोद्यानान्यपश्यत्। अपगतजलाः परिशुष्काश्च पुष्करिणीरपश्यत्। हंसक्रोञ्चमयूरकलविङ्ककुणालजीवंजीवकादींश्च पक्षिगणात्र्छीर्णपक्षानपश्यत्। भेरीशङ्खमृदङ्गपटहतुणववीणावल्लकीताडसम्पादींश्च वाद्यभाण्डांश्छिन्नविछिन्नान् भूमौ निपतितानपश्यत्। प्रियजनपरिवाराश्च मारमुत्सृज्य दीनमुखा एकान्ते गत्वा प्रध्यायन्तमपश्यत्। अग्रमहिषीं च मारिणीं शयनभ्रष्टां धरण्यामुभाभ्यां पाणिभ्यां शीर्षमभिपीडयन्तीमपश्यत्। ये च ते मारपुत्रा वीर्यवत्तमाश्च बलवत्तमाश्च तेजवत्तमाश्च प्रज्ञावत्तमाश्च तं बोधिसत्त्वं बोधिमण्डवराग्रगतं नमस्यन्त एवमपश्यत्। आत्मनीयाश्च दुहित्रीर्हा तात हा तातेति क्रन्दन्त्योऽपश्यत्। मलिनचैलगात्रं चात्मानमपश्यत्। अवकीर्णपांशुशिरस्कं च पाण्डुदुर्वर्णमोजोपहृतं चात्मानमपश्यत्। हर्म्यकूटागारगवाक्षतोरणांश्च रजसावकीर्णान् पततोऽपश्यत्। ये चास्य ते सेनापतयो यक्षराक्षसकुम्भाण्डगन्धर्वाधिपतयः, तान् सर्वान् हस्ताञ्शिरसि कृत्वा रोदन्तः क्रन्दन्तः पलायमानांश्चापश्यत्। ये च ते कामावचरेषु देवेषु देवाधिपतयः, तद्यथा-धृतराष्ट्रविरूढकविरूपाक्षवैश्रवणशक्रसुयामसंतुषितसुनिर्मितवशवर्तिप्रभृतयः, तान् सर्वाञ्शुश्रुषमाणान् मारः पापीयान् सबोधिसत्त्वाभिमुखानपश्यत्। रणमध्ये चास्यासिर्विकोशो न भवति स्म। विक्रोशन्तमशिवं चात्मानमपश्यत्। स्वेन च परिवारेणात्मानं परित्यक्तमपश्यत्। मङ्गलपूर्णकुम्भांश्च पतितान् द्वारेऽपश्यत्। नारदं च ब्राह्मणममङ्गल्यशब्दं श्रावयन्तमपश्यत्। आनन्दितं च दौवारिकमनानन्दशब्दं श्रावयन्तमपश्यत्। तमसाकुलं च गगनतलमपश्यत्। कामभवननिवासिनीं च श्रियं रुदन्तीमपश्यत्। स्वमैश्वर्यं चानैश्वर्यमपश्यत्। स्वपक्षं चापक्षमपश्यत्। मणिमुक्ताजालानि च तूष्णीभूतानि छिन्नभिन्नपतितान्यपश्यत्। सर्वं च मारभवनं प्रचलितमपश्यत्। वृक्षाञ्छिद्यमानान्निर्यूहांश्च पततोऽद्राक्षीत्। सर्वं च मारसेनाव्यूहमभिमुखं पात्यमानमपश्यत्॥



इति हि भिक्षव एवं द्वात्रिंशदाकारं मारः पापीयान् स्वप्नमपश्यत्। स प्रतिबुद्धः सन् भीतस्त्रस्तः संविग्नः सर्वमन्तर्जनं संनिपात्य सबलपार्षद्यसेनापतिदौवारिकसंनिपतितांश्च तान् विदित्वा आभिर्गाथाभिरध्यभाषत्—



दृष्ट्वान तां स सुपिनां नमुची दुखार्तो

आमन्त्रयाति सुत येऽपि च पारिषद्या।

सेनापतिं नमुचि सिंहहनुश्च नाम्ना

सर्वेष तेष परिपृच्छति कृष्णबन्धुः॥५॥



गाथाभि गीतरचितोऽद्य श्रुतोऽन्तरीक्षा-

च्छाक्येषु जातु वरलक्षणचित्रिताङ्गः।

षड्वर्ष दुष्करव्रतानि चरित्व घोरा

बोधिद्रुमं ह्युपगतः प्रकुरुष्व यत्नम्॥६॥



सो चेद्विबुद्ध स्वयमेव हि बोधिसत्त्वो

बहुसत्त्वकोटिनयुतानि विबोधयेत।

शून्यं करिष्यति स मे भवनं ह्यशेषं

यद लप्स्यते ह्यमृतु स्पर्शनशीतिभावम्॥७॥



हन्त व्रजाम सहिता महता बलेन

घातेम तं श्रमणु एकु द्रुमेन्द्रमूले।

उद्योजयध्व चतुरङ्गिणि शीघ्र सेनां

यदि इच्छथा मम प्रियं म चिरं करोथ॥८॥



प्रत्येकबुद्धभि च अर्हभिः पूर्ण लोको

निर्वायमाणु न बलं मम दुर्बलं स्यात्।

सो भूयु एकु जिनु भेष्यति धर्मराजो

गणनातिवृत्तु जिनवंशु न जातु छिद्येत्॥९॥



अथ खलु भिक्षवः सार्थवाहो नाम मारपुत्रः, स मारं पापीयांसं गाथाभिरध्यभाषत्—



किं तात् भिन्नवदनोऽसि विवर्णवक्त्रो

हृदयं समुत्प्लवति वेधति तेऽङ्गमङ्गम्।

किं ते श्रुतं अथव दृष्टु भणाहि शीघ्रं

ज्ञास्याम तत्त्वतु विचिन्त्य तथा प्रयोगम्॥१०॥



निर्माणु मारु अवची शृणु मह्य वत्स

पापं मि दृष्टु सुपिनं परमं सुघोरम्।

भाषेय सर्वमिह पर्षदि अद्य शेषं

संमूर्छिता क्षितितले प्रपतेयु यूयम्॥११॥



सार्थवाह आह—



रणकालि प्राप्ति यदि नाम जयो न दोषः

तत्रैव यस्तु निहतो भवते स दोषः।

स्वप्नान्तरे तु यदि ईदृश ते निमित्ता

श्रेयो उपेक्ष म रणे परिभावु गच्छेत्॥१२॥



मारोऽब्रवीत्—



व्यवसायबुद्धि पुरुषस्य रणे प्रसिद्धि

अवलम्ब्य धैर्य सुकृतं यदि नो जयं स्यात्।

का तस्य शक्ति मम दृष्टि सपारिषद्यं

नोत्थातु मह्य चरणे शिरसा प्रपत्तुम्॥१३॥



सार्थवाह आह—



विस्तीर्णमस्ति हि बलं च सुदुर्बलं च

अस्त्येक शूरु बलवांश्च रणंजहश्च।

खद्योतकैर्यदि भवेत्त्रिसहस्र पूर्णा

एको रविर्ग्रसति निष्प्रभतां करोति॥१४॥



अपि च।

यस्य मानश्च मोहश्च मीमांसा च न विद्यते।

विलोम यदि विद्वांसो नासौ शक्यश्चिकित्सितुम्॥१५॥



इति हि भिक्षवो मारः पापीयान् सार्थवाहस्य वचनमकृत्वा महतीं चतुरङ्गिनीं सेनामुद्योजयति स्म महाबलरणशौण्डां भीषणां रोमहर्षणीमदृष्टाश्रुतपूर्वां देवमनुष्यैर्बहुविधमुखविकारकोटिनयुतशतसहस्रविकारप्रकारां भुजगशतसहस्रकरचरणकुटिलपरिवेष्टितशरीरां असिधनुशरशक्तितोमरकुठारपट्टिसभुशुण्डिमुसलदण्डपाशगदाचक्रवज्रकणयधरां वरवर्मकवचवर्मितशरीरां विपरीतशिरःकरचरणनयनां ज्वलितशिरोनयनवदनां दुःसंस्थितोदरपाणिपादमुग्रतेजोवदनां परमविकृतवदनदर्शनां विकरालविकृतदंष्ट्रां घनबहुविपुलप्रलम्बजिह्वां सुण्डिककिलिञ्जसदृशजिह्वां ज्वलनसदृशकृष्णसर्पविषपूर्णरक्तनेत्राम्। केचिद्धि तत्राशीविषान् वमन्ति स्म। केचित्करतलैराशीविषान् परिगृह्य भक्षयन्ति स्म। गरुडा इव सागरादभ्युत्क्षिप्य केचिन्नरमांसरुधिरकरचरणशिरोयकृदन्त्रपुरीषादींश्च भक्षयन्ति स्म। केचिज्ज्वलितपिङ्गलकृष्णनीलरक्तकद्रुकरालविचित्ररूपाः। केचिद्विकृतकूपप्रज्वलितोत्पाटितविकृतकटाक्षाः। केचित्परिवृत्तज्वलितविकृतनयनाः। केचिज्ज्वलितान् पर्वतान् परिगृह्य सलीलमपरेषु पर्वतेषु अभिरूढा आगच्छन्ति स्म। केचित्समूलान् वृक्षानुत्पाट्य बोधिसत्त्वाभिमुखा अभिधावन्ति स्म। केचिदजकणशूर्पकर्णहस्तिकर्णलम्बकर्णवराहकर्णाः। केचिद् वृककर्णाः। केचिद्दकोदरिणो दुर्बलकाया अस्थिकङ्कालसंघाटमभिनिर्माय भग्ननासाः कुम्भोदराः करोटपादा उच्छुष्कत्वग्मांसरुधिराः छिन्नकर्णनासाकरचरणनयनोत्तमाङ्गाः। केचिद्रुधिरपिपासया शिरांसि परस्परं निकृन्तन्ति स्म। केचिद्ध्रिन्नविकृतभैरवरूक्षस्वराः फुत्फुत्कारपिचुत्कारफुलुफुलुप्रक्ष्वेडितानि कुर्वन्ति स्म। केचिदाहुः-आहरत हरताभिहनत हनत बन्धत गृह्णत छिन्दत भिन्दत मथयतोत्क्षिपत नाशयतेमं श्रमणं गौतमं सार्धं द्रमेणेति ब्रुवन्ति स्म। केचिद्भेरुण्डकशृगालसूकरगर्दभगोहस्त्यश्वोष्ट्रखरमहिषशशचमरखड्गशरभनानाप्रतिभयरौद्रविकृतवक्त्राः। केचित्सिंहव्याघ्रऋक्षवराहवानरद्वीपिबिडालछागलोरभ्रसर्पनकुलमत्स्यमकरशिशुमारकूर्मकाकगृघ्रोलूकगरुडादिसदृशात्मभावाः। केचिद्विरूपरूपाः। केचिदेकशीर्षा द्विशीर्षा यावच्छतसहस्रशीर्षाः। केचिदशीर्षाः। केचिदेकभुजा यावच्छतसहस्रभुजाः। केचिदभुजाः। केचिदेकपादकाः। केचिद्यावच्छतसहस्रपादाः। केचिदपादकाः। केचित्कर्णमुखनासिकाक्षिनाभिस्रोतोभिराशीविषान्निश्चारयन्ति स्म। केचिदसिधनुशरशक्तिपट्टिशपरशुचक्रतोमरकणयवज्रभुशुण्डिभिन्दिपालादीनि नानाप्रहरणानि भ्रामयन्तो नृत्यन्तो बोधिसत्त्वं संतर्जयन्ति स्म। केचिन्नराङ्गुलीश्छित्वा मालागुणान् कृत्वा धारयन्ति स्म। केचिच्छिरोभिरस्थिकरकाञ्छीर्षकटाहकांश्च मालागुणमिव कृत्वा धारयन्ति स्म। केचिदाशिविषपरिवेष्टितशरीराः। केचिच्छीर्षकटाहकान् परिगृह्य हस्त्यश्वोष्ट्रगोगर्दभमहिषारूढाः। केचिदधःशिरस ऊर्ध्वपादाः। केचित्सूचीरोमाणः। केचिद्गोगर्दभवराहनकुलछागलोरभ्रबिडालकपिवृकशृगालरोमाणः आशीविषान् वमन्तोऽयोगुडानि निर्गरन्तो धूमकेतूनुत्सृजन्तो ज्वलितताम्रलोहवर्षं प्रवर्षन्तो विद्युद्वर्षान् क्षिपन्तो वज्राशनिं प्रमुञ्चन्तस्तप्तामयोवालिकां प्रवर्षन्तः कालमेघान् संजनयन्तो वातवृष्टिमुत्पादयन्तः शरमेघवर्षानुत्सृजन्तः कालरात्रिं दर्शयन्तो रावं संजनयन्तो बोधिसत्त्वमभिधावन्ति स्म। केचित्पाशान् भ्रामयन्तो महापर्वतान् प्रपातयन्तो महासागरान् क्षोभयन्तो लङ्घयन्तो महापर्वतांश्चालयन्तो मेरुं पर्वतराजं विधावन्तः पलायमाना विक्षिपन्तोऽङ्गप्रत्यङ्गानि भ्रामयन्तः शरीराणि हसन्तो महाहास्यानि उरांसि प्रस्फोटयन्तः उरांसि ताडयन्तः केशांसि धुन्वन्तः पीतमुखानि च नीलशरीरा ज्वलितशिरस ऊर्ध्वकेशा इतस्ततो वेगेन परिधावन्तो भेरूण्डाक्षाश्च बोधिसत्त्वं विभीषयन्ति स्म। जीर्णाः स्त्रियश्च रुदन्त्यो बोधिसत्त्वमुपसंक्रम्यैवं वदन्ति स्म-अहो पुत्र, हा मम पुत्र, उत्तिष्ठोत्तिष्ठ, शीघ्रं प्रपलायस्व। राक्षसरूपाः पिशाचरूपाः काणखञ्जदुर्बलाश्च प्रेताः क्षुत्क्षामाक्षा उर्ध्वबाहवो विकृतास्याः क्रन्दन्तो भयमुपदर्शयन्तस्त्रासं संजनयन्तो बोधिसत्त्वस्य पुरतोऽभिधावन्ति स्म। तया चैवरूपया मारसेनया समुदितया समन्तादशीतिर्योजनान्यायामेन विस्तारेण स्फुटमभूत्। यथा चैकस्य मारस्यैवं कोटीशतानां त्रिसाहस्रपर्यापन्नानां माराणां पापीयसां सेनाभिस्तिर्यगूर्ध्वं च परिस्फुटमभूत्॥



तत्रेदमुच्यते—



यक्षकुम्भाण्डमहोरगरूपाः

राक्षसप्रेतपिशाचकरूपाः।

यत्तक लोकि विरूप सुरौद्राः

सर्वि त निर्मित तत्र शठेभिः॥१६॥



एकशिरा द्विशिरा त्रिशिराश्च

यावत्सहस्रशिरा बहुवक्त्राः।

एकभुजा द्विभुजा त्रिभुजाश्च

यावत्सहस्रभुजा बहुभुजाः।

एकपदा द्विपदा त्रिपदाश्च

यावत्सहस्रपदा बहु अन्ये॥१७॥



नीलमुखानि च पीतशरीरा

पीतमुखानि च नीलशरीरा।

अन्यमुखानि च अन्यशरीराः

एकमुपागतु किंकरसैन्यम्॥१८॥



वातु प्रवायति वर्षति वर्षं

विद्युसहस्रशतानि पतन्ति।

देव गुडायति वृक्ष लुडन्ति

बोधिवटस्य न ईर्यति पत्रम्॥१९॥



वर्षति देव प्रवर्षति वर्षं

ओघ वहन्ति जलाकुलभूमिम्।

ईदृश भीषणिका बहुराशी

यत्र अचेतन वृक्ष पतन्ति॥२०॥



दृष्ट्व च तानतिभीषणरूपां

सर्वि विसंस्थित रूपविरूपां।

श्रीगुणलक्षणतेजधरस्या

चित्तु न कम्पति मेरु यथैव॥२१॥



मायसमांस्तथ स्वप्नसमांश्च

अभ्रनिभां समुदीक्षति धर्मां।

ईदृश धर्मनयं विमृषन्तो

सुस्थितु ध्यायति संस्थितु धर्मे॥२२॥



यस्य भवेत अहं ति ममेति

भाव समुच्छ्रयि तत्त्वनिविष्टाः।

सो बिभियादबुद्धेः स्थितु ग्राहे

आत्मनि संभ्रमि गच्छ निरीक्ष्य॥२३॥



शाक्यसुतस्तु स्वभावमभावं

धर्म प्रतीत्य समुत्थित बुद्धा।

गगनोपमचित्तु सुयुक्तो

न भ्रमते सबलं शढ दृष्ट्वा॥२४॥



इति हि भिक्षवो मारस्य पापीयसः पुत्रसहस्रम्। तत्र ये मारपुत्रा बोधिसत्त्वेऽभिप्रसन्नाः सार्थवाहपूर्वंगमाः, ते मारस्य दक्षिणे पार्श्वे स्थिता अभूवन्। ये मारपाक्षिकाः, ते वामे पार्श्वे स्थिता अभुवन् मारस्य पापीयसः। तत्र मारः पापीयांस्तान् स्वान् पुत्रानामन्त्रयते स्म-कीदृशेन बलेन वयं बोधिसत्त्वं धर्षयिष्यामः? तत्र दक्षिणे पार्श्वे सार्थवाहो नाम मारपुत्रः। स पितरं गाथया प्रत्यभाषत्—



सुप्तं प्रबोधयितुमिच्छति पन्नगेन्द्रं

सुप्तं प्रबोधयितुमिच्छति यो गजेन्द्रम्।

सुप्तं प्रबोधयितुमिच्छति यो मृगेन्द्रं

सुप्तं प्रबोधयितुमिच्छति सो नरेन्द्रम्॥२५॥



वामे पार्श्वे दुर्मतिर्नाम मारपुत्रः स एवमाह—



संप्रेक्षणेन हृदयान्यभिसंस्फुटन्ति

लोकेषु सार महतामपि पादपानाम्।

का शक्तिरस्ति मम दृष्टिहतस्य तस्य

संजीवितुं जगति मृत्युहतस्य वास्तु॥२६॥



दक्षिणे मधुरनिर्घोषो नामाह—



वृक्षेषु सार क इहास्ति ततो ब्रवीषि

दृष्ट्वा भिनन्मि मनुजेष्वथ का अवस्था।

मेरुं गिरिं यदि भिनत्सि निरीक्षणेन

नैवास्य तुभ्य नयनेभि हतोन्मिषेरन्॥२७॥



अपि च।

यः सागरं तरितुमिच्छति वै भुजाभ्यां

तोयं च तस्य पिबितुं मनुजेष्वसन्तु।

शक्यं भवेदिदमतस्तु वदामि दुःखं

यस्तस्य वक्त्रमभितोऽप्यमलं निरीक्षेत्॥२८॥



वामे शतबाहुर्नामाह—



ममेह देहेस्मि शतं भुजानां

क्षिपामि चैकेन शतं शराणाम्।

भिनन्मि कायं श्रमणस्य तात

सुखी भव त्वं व्रज मा विलम्ब॥२९॥



दक्षिणे सुबुद्धिराह—



शतं भुजानां यदि को विशेषो

भुजा किमर्थं न भवन्ति रोमाः।

भुजैकमेकेन तथैव शूलाः

तैश्चापि कुर्यान्न हि तस्य किंचित्॥३०॥



किं कारणम्?



मैत्रावतस्तस्य मुनेः शरीरे

विषं न शस्त्रं क्रमते न चाग्निः।

क्षिप्तानि शस्त्राणि व्रजन्ति पुष्पतां

मैत्री हि लोकोत्तरभावि तस्य॥३१॥



अपि च।



दिवि भुवि च जले च ये बलाढ्याः

असिपरशुघराश्च गुह्यका नरा वा।

क्षमबलमिमु प्राप्य ते नरेन्द्रं

प्रबलबलाल्पबला भवन्ति सर्वे॥३२॥



वामे उग्रतेजा आह—



अन्तर्गतोऽहं धक्ष्यामि प्रविश्यास्य तनुं शुभाम्।

वृक्षं सकोटरं शुष्कं दावाग्निरिव सूक्ष्मतः॥३३॥



दक्षिणे सुनेत्र आह—



मेरुं दहेस्त्वं यदि वापि कृत्स्नं

प्रविश्य चान्तर्गतु मेदिनीं वा।

दग्धुं न शक्यः स हि वज्रबुद्धिः

त्वत्संनिभैर्वालिकगङ्गतुल्यैः॥३४॥



अपि च।



चलेयुर्गिरयः सर्वे क्षयं गच्छेन्महोदधिः।

चन्द्रसूर्यौ पतेद्भूमौ मही च विलयं व्रजेत्॥३५॥



लोकस्यार्थे कृतारम्भः प्रतिज्ञाकृतनिश्चयः।

अप्राप्यैष वरां बोधिं नोत्थास्यति महाद्रुमात्॥३६॥



वामे दीर्घबाहुर्गर्वित आह—



आलयं चन्द्रसूर्याणां नक्षत्राणां च सर्वशः।

पाणिनाहं प्रमर्दामि तवेह भवने स्थितः॥३७॥



चतुर्भ्यः सागरेभ्यश्च जलं गृह्णामि लीलया।

तं गृह्य श्रमणं तात सागरस्य परं क्षिपे॥३८॥



तिष्ठतां तात सेनेयं मा त्वं शोकार्दितो भव।

सबोधिवृक्षमुत्पाट्य क्षेप्स्ये पाण्या दिशो दश॥३९॥



दक्षिणे प्रसादप्रतिलब्ध आह—



सदेवासुरगन्धर्वां ससागरनगां महीम्।

त्वं मर्दितां प्रकुर्याश्च पाणिभ्यां मदगर्वितः॥४०॥



त्वद्विधानां सहस्राणि गङ्गावालिकया समाः।

रोमं तस्य न चालेयुर्बोधिसत्त्वस्य धीमतः॥४१॥



वामे भयंकर आह—



भयं हि ते तात भृशं किमर्थं

सेनाय मध्ये किमवस्थितस्य।

सेना न तस्यास्ति कुतः सहायाः

कस्माद्भयं ते भवतीह तस्मात्॥४२॥



दक्षिण एकाग्रमतिराह—



यूथं न लोकेऽस्ति शशीरवीनां

न चक्रवर्ती न च केसरीणाम्।

न बोधिसत्त्वानिह तात यूथं

एकः समर्थो नमुचिं निहन्तुम्॥४३॥



वामेऽवतारप्रेक्ष्याह—



न शक्तिशूला न गदा न खङ्गाः

न हस्तिनोऽश्वा न रथा न पत्तिः।

तं शौण्डमेकं श्रमणं निषण्णं

हन्स्येऽद्य मा संभ्रम तात किंचि॥४४॥



दक्षिणे पुण्यालंकार आह—



नारायणस्य यथ काय अछेद्यभेद्यो

क्षान्तिबलैः कवचितो दृढवीर्यखङ्गः।

त्रिविमोक्षवाहनसि प्रज्ञधनुः स तात

पुण्याबलेन स हि जेष्यति मारसेनाम्॥४५॥



वामेऽनिवर्त्याह—



न निवर्तते तृणगतः प्रदहन् दवाग्निः

क्षिप्तं शरो न च निवर्तति शिक्षितेन।

वज्रं नभे निपतितं न निवर्तते च

न स्थानमस्ति मम शाक्यसुतं ह्यजित्वा॥४६॥



दक्षिणे धर्मकाम आह—



आर्द्रं तृणं प्राप्य निवर्ततेऽग्निः

गिरिकूटमासाद्य निवर्तते शरः।

वज्रं महीं प्राप्य अधः प्रयाति

अप्राप्य शान्तममृतं न निवर्तते अयम्॥४७॥



किं कारणम्?



शक्य तात् अन्तरीक्षे लेख्यचित्र चित्रितुं

यावन्ति केचि सर्व सत्त्व एकचित्त स्थापितुम्।

चन्द्रासूर्य मारुतं च शक्य पाश बन्धितुं

न बोधिसत्त्व शक्य तात बोधिमण्डि चालितुम्॥४८॥



वामेऽनुपशान्त आह—



दृष्टीविषेण महता प्रदहामि मेरुं

भस्मीकरोमि सलिलं च महोदधीनाम्।

बोधिं च पश्य श्रमणं च अहं हि तात

दृष्ट्या यथाद्य उभयं हि करोमि भस्मम्॥४९॥



दक्षिणे सिद्धार्थ आह—



विषेण पूर्णो यदि वैष सर्वो

भवेत्त्रिसाहस्रवरः प्रदीप्तः।

निरीक्षणादेव गुणाकरस्य

सुनिर्विषत्वं विषमभ्युपेयात्॥५०॥



विषाणमुग्रं त्रिभवेह यच्च

रागश्च दोषश्च तथैव मोहः।

ते तस्य काये च तथैव चित्ते

नभे यथा पङ्करजो न सन्ति॥५१॥



* * * *

तस्मान्निवर्तामह तात सर्वे॥५२॥



वामे रतिलोलो नामाह—



अहु तूर्यसहस्र प्रवादितैः

अप्सरकोटिसहस्र अलंकृतैः।

लोभयित्वन नेष्यि पुरोत्तमं

कामरतिं हि करोमि वशे तव॥५३॥



दक्षिणे धर्मरतिराह—



धर्मरती सद तस्य रतीहा

ध्यानरती अमृतार्थरतिश्च।

सत्त्वप्रमोक्षण मैत्ररतिश्च

रागरतिं स रतिं न करोति॥५४॥



वामे वातजवो नामाह—



जवेनहं चन्द्ररवी ग्रसेयं

प्रवायमानं गगने च वायुम्।

अद्यैव तात श्रमणं गृहीत्वा

प्रासस्य मुष्टिं विकिरामि वायुम्॥५५॥



दक्षिणेऽचलमतिर्नाम मारपुत्रः, स एवमाह—



यथा तवैषो जववेग उग्रः

तद्वद्यदि स्यात्सुरमानुषाणाम्।

सर्वे समग्रापि न ते समर्थाः

कर्तुं रुजामप्रतिपुद्गलस्य॥५६॥



वामे ब्रह्ममतिराह—



स्यात्तादृशानामपि वृन्दमुग्रं

कुर्यान्न किंचित्तव मानघातम्।

प्रागेव सैकः प्रकरोति किं ते

वृन्देन साध्यन्ति हि सर्वकार्या॥५७॥



दक्षिणे सिंहमतिराह—



न सिंहवृन्दं भुवि दृष्टपूर्वं

दृष्टीविषाणां अपि नास्ति वृन्दम्।

तेजस्विनां सत्यपराक्रमाणां

पुरुषर्षभाणां अपि नास्ति वृन्दम्॥५८॥



वामे सर्वचण्डालो नामाह—



न ते श्रुता तात गिरोऽभिदीप्ता

यथा नदन्ते तनयास्तवेमे।

वीर्येण वेगेन बलेन युक्ता

व्रजाम शीघ्रं श्रमणं निहन्तुम्॥५९॥



दक्षिणे सिंहनादी नामाह—



बहवः शृगाला हि वनान्तरेषु

नदन्ति नादान्न सतीह सिंहे।

ते सिंहनादं तु निशाम्य भीमं

त्रस्ता पलायन्ति दिशो दशासु॥६०॥



मारौरसास्तद्वदमी अपण्डिताः

अश्रुत्व नादं पुरुषोत्तमस्य।

नदन्ति तावत्स्वमताऽतिघृष्टा

मनुष्यसिंहे नदिते न सन्ति॥६१॥



वामात्पार्श्वाद्दुश्चिन्तितचिन्त्याह—



यच्चिन्तयामि तदिहाशु भोति

कथं न एषो इम वीक्षते च।

मूढो न एषो अनभिज्ञ किं वा

यदुत्थिहित्वा न पलायते लघुम्॥६२॥



दक्षिणात्पार्श्वात्सुचिन्तितार्थो नामाह—



मूढो न वायं अपराक्रमो वा

युष्मैव मूढाश्च असंयताश्च।

न युष्मि जानाथ इमस्य वीर्यं

प्रज्ञाबलेनास्य जिताः स्थ सर्वे॥६३॥



मारात्मजानां यथ गङ्गवालिका

एतेन वीर्येण यथैव यूयम्।

रोमस्य एकं न समर्थ चालितुं

प्रागेव यश्चिन्तयि घातयिष्ये॥६४॥



मा यूयमत्र क्षिणुयात मानसं

प्रसन्नचिता भवथा सगौरवाः।

निवर्तया मा प्रकरोथ विग्रहं

भविष्यतेऽसौ त्रिभवेस्मि राजा॥६५॥



पेयालम्। एवं ते सर्वे मारपुत्राः परिपुर्णं पुत्रसहस्रं शुक्लपाक्षिकाश्च कृष्णपाक्षिकाश्च मारं पापीयांसं पृथक्पृथग्गाथाभिरध्यभाषन्त॥



अथ खलु भद्रसेनो नाम मारस्य पापीयसः सेनापतिः, स मारं पापीयसं गाथाभिरध्यभाषत—



ये ते तवानुयात्राः शक्रो लोकपालाश्च किन्नरगणाश्च।

असुरेन्द्रा गरुडेन्द्राः कृताञ्जलिपुटाः प्रणत तस्मै॥६६॥



किं पुनरनानुयात्रा ब्रह्मा आभास्वराश्च सुरपुत्राः।

देवाश्च शुद्धावासकास्तेऽपि च सर्वे प्रणत तस्मै॥६७॥



ये च तवेमे पुत्राः प्रज्ञामेघाविनश्च बलिनश्च।

ते बोधिसत्त्वहृदयं अनुप्रविष्टा नमस्यन्ति॥६८॥



याप्येष मारसेना अशीति स्फुट योजनानि यक्षाद्यैः।

भूयिष्ठ सर्वप्रेक्षी प्रसन्नमनसो हि निर्दोषम्॥६९॥



दृष्ट्वा यथा सुभीमां रौद्रां विकृतां चमूमिमां घोराम्।

न च विस्मितो न चलितो ध्रुवमस्य जयो भवत्यद्य॥७०॥



स्थित यत्र च सेनेयं तत्र उलूकाः शिवाश्च विरुवन्ति।

वायसगर्दभरुदितं निवर्तितव्यं क्षमं शीघ्रम्॥७१॥



वीक्षस्व बोधिमण्डे पटुक्रोञ्चा हंस कोकील मयूराः।

अभिदक्षिणं करोन्ति ध्रुवमस्य जयो भवत्यद्य॥७२॥



यत्र स्थित सेनेयं तत्र मसिः पांशवश्च वर्षन्ति।

महिमण्डि कुसुमवृष्टिः कुरुष्व वचनं निवर्तस्व॥७३॥



यत्र स्थित सेनेयं उत्कूलनिकूल शल्यकण्टकाकीर्णम्।

महिमण्ड कनकनिर्मलु निवर्तितव्यं क्षमं प्राज्ञैः॥७४॥



दृष्टा ति सुपिनि पूर्वे भेष्यसि प्रत्यक्षु यदि न गच्छासि।

भस्मं चमूं च करिष्यति ऋषिभिर्देशा कृता यथा भस्मम्॥७५॥
राजा यतो ऋषिवरो रोषितु आसीत् स ब्रह्मदत्तेन।

उद्दग्धदण्डकवनं वर्षैर्बहुभिस्तृण न जाता॥७६॥



ये केचि सर्वलोके ऋषयो व्रतचारिणस्तपोयुक्ताः।

तेषामयं प्रधानो ह्यहिंसकः सर्वभूतानाम्॥७७॥



किं ते न श्रुतपूर्वं काये दीप्ता सुलक्षणा यस्य।

निष्क्रामति चागारात्स भवति बुद्धो जितक्लेशः॥७८॥



इम ईदृशी विभूतिं पूजार्थं निर्मिता जिनसुतेभिः।

तं नूनमग्रसत्त्वो ह्यग्राहुतिसंप्रतिग्राही॥७९॥



ऊर्णा यथा सुविमला विराजते क्षेत्रकोटिनयुतेषु।

जिह्मीकृताः स्म च तया निसंशयं एष मारबलहन्ता॥८०॥



मूर्ध्नं यथास्य देवैर्द्रष्टु न शक्यं न वै भवाग्रस्थैः।

नूनं सर्वज्ञत्वं प्राप्स्यत्यन्यैरनुपदिष्टम्॥८१॥



यथ मेरुचक्रवालाश्चन्द्रासूर्यश्च शक्रब्रह्माणः।

वृक्षाश्च पर्वतवराः प्रणते सर्वे महीमण्डम्॥८२॥



निःसंशयु पुण्यबली प्रज्ञाबलवांश्च ज्ञानबलवांश्च।

क्षान्तिबलवांश्च वीर्यबलवानबलंकर्ता नमुचिपक्षां॥८३॥



हस्ती यथामभाण्डं प्रमर्दते क्रोष्टुकान् यथा सिंहः।

खद्योतं वादित्यो भेत्स्यति सुगतस्तथा सेनाम्॥८४॥



एतच्छुत्वा परो मारपुत्रोऽतीव रोषात्संरक्तनयनोऽब्रवीत्—



एकस्य वर्णानति‍अप्रेमयां

प्रभाषसे तस्य त्वमेककस्य।

एको हि कर्तुं खलु किं समर्थो

महाबला पश्यसि किं न भीमा॥८५॥



अथ दक्षिणात्पार्श्वान्मारप्रमर्दको नाम मारपुत्र आह—



सूर्यस्य लोके न सहायकृत्यं

चन्द्रस्य सिंहस्य न चक्रवर्तिनः।

बोधौ निषण्णस्य च निश्चितस्य

न बोधिसत्त्वस्य सहायकृत्यम्॥८६॥



अथ बोधिसत्त्वो मारस्य दुर्बलीकरणहेतोर्विकसितशतपत्रनिभं वदनं संचारयति स्म। यं दृष्ट्वा मारः पापीयान् प्रपलायानोऽभूत्। मम चमू बोधिसत्त्वस्य वदनं प्रतिष्ठेति मन्यमानः प्रपलानः पुनरेव प्रतिनिवृत्य सपरिवारो विविधानि प्रहरणानि बोधिसत्त्वस्योपर्युत्सृजति स्म सुमेरुमात्रांश्च पर्वतान्। ते च बोधिसत्त्वस्योपरि प्रक्षिप्ताः पुष्पविताने विमानानि संतिष्ठन्ते स्म। ये च दृष्टिविषा आशीविषाः श्वासविषाश्चाग्निज्वालानुत्सृजन्ति स्म, तच्चाग्निमण्डलं बोधिसत्त्वस्य प्रभामण्डलमिव संतिष्ठते स्म॥



अथ पुनरेव बोधिसत्त्वो दक्षिणेन पाणिना शीर्षं प्रमार्ष्टि स्म। मारश्च पश्यति स्म। बोधिसत्त्वस्य हस्ते खङ्ग इति दक्षिणामुखः प्रपलायते स्म। न किंचिदिति पुनरेव प्रतिनिवर्तते स्म। निवृत्य च बोधिसत्त्वस्योपरि नानाविधानि प्रहरणान्युत्सृजति स्म असिधनुशरशक्तितोमरपरश्वधभुशुण्डिमुसलकणयगदाचक्रवज्रमुद्गरपादपशिलापाशायोगुडानतिभयानकान्। ते चोत्क्षिप्तमात्रा नानाविधानि पुष्पदामानि पुष्पवितानानि इव संतिष्ठन्ते स्म। मुक्तसुकुसुमानि च महीमवकिरन्तो माल्यदामानि चावलम्बमानानि बोधिवृक्षं विभूषयन्ति स्म। तांश्च व्यूहान् विभूतिं दृष्ट्वा बोधिसत्त्वस्य मारः पापीयानीर्ष्यामात्सर्योपहतचेता बोधिसत्त्वमब्रवीत्-उत्तिष्ठोत्तिष्ठ हे राजकुमार, राज्यं भुङ्क्ष्व, तावत्तव पुण्यम्, कुतस्ते मोक्षप्राप्तिः?



अथ बोधिसत्त्वो धीरगम्भीरोदारश्लक्ष्णमधुरया वाचा मारं पापीयसमेतदवोचत्-त्वया तावत्पापीयन्नेकेन निर्गडेन यज्ञेन कामेश्वरत्वं प्राप्तम्। मया त्वनेकानि यज्ञकोटीनियुतशतसहस्राणि निर्गडानि यष्टानि। करचरणनयनोत्तमाङ्गानि च निकृत्य निकृत्यार्थिभ्यो दत्तानि। गृहधनधान्यशयनवसनं चंक्रमोद्यानानि चानेकशो याचनकेभ्यो निसृष्टानि सत्त्वानां मोक्षार्थिना।



अथ खलु मारः पापीयान् बोधिसत्त्वं गाथया प्रत्यभाषत्—



यज्ञो मयेष्टस्त्वमिहात्र साक्षी

निरर्गडः पूर्वभवेऽनवद्यः।

तवेह साक्षी न तु कश्चिदस्ति

किंचित्प्रलापेन पराजितस्त्वम्॥८७॥



बोधिसत्त्व आह-इयं पापीयन् मम भूतधात्री प्रमाणमिति॥



अथ बोधिसत्त्वो मारं मारपर्षदं च मैत्रीकरुणापूर्वंगमेन चित्तेन स्फुरित्वा सिंहवदभीतोऽनुत्त्रस्तोऽस्तम्भी अदीनोऽलीनः असंक्षुभितोऽलुलितो विगतभयलोमहर्षः शङ्खध्वजमीनकलशस्वस्तिकाङ्कुशचक्राङ्कमध्येन जालावितानावनद्धेन सुरुचिरताम्रनखालंकृतेन मृदुतरुणसुकुमारेणानन्तकल्पापरिमितकुशलमूलसंभारोपचितेन दक्षिणेन पाणिना सर्वकायं परिमार्ज्य सलीलं महीं पराहनति स्म। तस्यां च वेलायामिमां गाथामभाषत्—



इयं मही सर्व जगत्प्रतिष्ठा

अपक्षपाता सचराचरे समा।

इयं प्रमाणा मम नास्ति मे मृषा

साक्षित्वमस्मिं मम संप्रयच्छतु॥८८॥



संस्पृष्टमात्रा चेयं महापृथिवी बोधिसत्त्वेन षड्‍विकारमकम्पत् प्राकम्पत् संप्राकम्पत्। अरणत् प्रारणत् संप्रारणत्। तद्यथापि नाम मागधिकानां कांसपात्री काष्ठेनाभ्याहता रणत्यनुरणति, एवमेवेयं महापृथिवी बोधिसत्त्वेन पाणिताडिता रणत्यनुरणति स्म॥



अथ खलु यस्यां त्रिसाहस्रमहासाहस्रलोकधातौ स्थावरा नाम महापृथिवीदेवता सा कोटिशतपृथिवीदेवतापरिवारा सर्वां महापृथिवीं संप्रकम्प्य नातिदूरे बोधिसत्त्वस्य पृथिवीतलं भित्त्वार्धकायाभ्युन्नाम्य सर्वालंकारप्रतिमण्डिता येन बोधिसत्त्वस्तेनावनतकाया प्राञ्जलीकृता बोधिसत्त्वमेतदवोचत्-एवमेतन्महापुरुष एवमेतत् यथा त्वयाभिहितम्। वयमत्र प्रत्यक्षाः। अपि तु भगवंस्त्वमेव सदेवकस्य लोकस्य परमसाक्षीभूतः प्रमाणभूतश्चेति। एवमुक्त्वा स्थावरा महापृथिवीदेवता मारं पापीयांसमनेकप्रकारं निर्भर्त्स्य बोधिसत्त्वं चाभ्यभिस्तुत्य विविधं च स्वकं प्रभावं संदर्श्य सपरिवारा तत्रैवान्तरधात्॥



तं श्रुत्व मेदिनिरवं स शठः ससैन्यः

उत्त्रस्त भिन्नहृदयो प्रपलान सर्वे।

श्रुत्वेव सिंहनदितं हि वने शृगालाः

काका व लोष्टुपतने सहसा प्रणष्टाः॥८९॥



अथ खलु मारः पापीयान् दुःखितो दुर्मना अनात्तमना अपत्रपमाणरूपो मानाभिभवान्न गच्छति स्म। न निवर्तते स्म। न पलायते स्म। पश्चान्मुखं स्थित्वा उत्तरि सेनामामन्त्रयते स्म-सहिताः समग्रास्तावद्भवन्तस्तिष्ठन्तु मुहुर्तं यावद्वयं ज्ञास्यामो यदि तावच्छक्येतायमनुनयेनोत्थापयितुम्। मा खल्वेवंरूपस्य सत्त्वरत्नस्य सहसा विनाशो भूदिति॥



अथ खलु मारः पापीयान् स्वा दुहितॄरामन्त्रयते स्म-गच्छध्वं यूयं कन्यकाः, बोधिमण्डमुपसंक्रम्य बोधिसत्त्वस्य जिज्ञासनां कुरुत-किं सरागोऽथ वीतरागः। किं मूकोऽथ प्रज्ञः। किमन्धोऽथ देशज्ञोऽर्थपरायणः। दीनो वा धीरो वेति। इदं खलु वचनं श्रुत्वा ता अप्सरसो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामन्। उपसंक्रम्य बोधिसत्त्वस्य पुरतः स्थित्वा द्वात्रिंशदाकारां स्त्रीमायामुपदर्शयन्ति स्म। तद्यथा। कतमा द्वात्रिंशदाकारा ? काश्चित्तत्रार्धवदनं छादयन्ति स्म। काश्चिदुन्नतान् कठिनान् पयोधरान् दर्शयन्ति स्म। काश्चिदर्धविहसितैर्दन्तावलिं दर्शयन्ति स्म। काश्चिद्बाहूनुत्क्षिप्य विजृम्भमाणान् काक्षान् दर्शयन्ति स्म। काश्चिद्बिम्बफलोपमानोष्ठान् दर्शयन्ति स्म। काश्चिदर्धनिमीलितैर्नयनैर्बोधिसत्त्वं निरीक्षन्ते स्म, दृष्ट्वा च शीघ्रं निमीलयन्ति स्म। काश्चिदर्धप्रावृतान् पयोधरान् दर्शयन्ति स्म। काश्चिच्छिथिलाम्बरां समेखलां श्रोणीं दर्शयन्ति स्म। काश्चित्समेखलां तनुदुकूलनिवासितां श्रोणीं दर्शयन्ति स्म। काश्चिज्झणझणाशद्बान्नूपुरैः कुर्वन्ति स्म। काश्चिदेकावलीं स्तनान्तरेषूपदर्शयन्ति स्म। काश्चिद्विनग्नानर्घोरूनुपदर्शयन्ति स्म। काश्चिच्छिरःस्वंसेषु च पत्रगुप्ताञ्शुकशारिकांश्चोपविष्टानुपदर्शयन्ति स्म। काश्चिदर्धकटाक्षैर्बोधिसत्त्वं निरीक्षन्ते स्म। काश्चित्सुनिवस्ता अपि दुर्निवस्ताः कुर्वन्ति स्म। काश्चिज्जघनरसनाः कम्पयन्ति स्म। काश्चित्संभ्रान्ता इव सविलासमितस्ततश्चंक्रम्यन्ते स्म। काश्चिन्नृत्यन्ति स्म। काश्चिद्रायन्ति स्म। काश्चिद्विलसन्ति स्म, लज्जन्ते च। काश्चित्कदल्य इव वायुविधूता उरू कम्पयन्ति स्म। काश्चिद्गम्भीराः स्तनन्ति स्म। काश्चिदंशुकप्रावृताः सघण्टारसना विहस्यन्त्यश्चंक्रम्यन्ते स्म। काश्चिद्वस्त्राण्याभरणानि च पृथिव्यां छोरयन्ति स्म। काश्चिद्गुह्यप्रकाशानि सर्वाभरणान्युपदर्शयन्ति स्म। काश्चिद्गन्धानुलिप्तान् बाहूनुपदर्शयन्ति स्म। काश्चिद्गन्धानुलेपनकुण्डलान्युपदर्शयन्ति स्म। काश्चिदवगुण्ठिकया वदनानि छादयन्ति स्म, क्षणेक्षणा चोपदर्शयन्ति स्म। काश्चित्पूर्वहसितरमितक्रीडिता अन्योन्यं स्मारयन्ति स्म। पुनरपि लज्जिता इव तिष्ठन्ति स्म। काश्चित्कुमारीरूपाण्यप्रसूतिरूपाणि मध्यस्त्रीरूपाणि चोपदर्शयन्ति स्म। काश्चित्कामोपहितेन बोधिसत्त्वं निमन्त्रयन्ते स्म। काश्चिन्मुक्तकुसुमैर्बोधिसत्त्वमवकिरन्ति स्म। पुरतश्च स्थित्वा बोधिसत्त्वस्याशयं मीमांसन्ते स्म। वदनं च निरीक्षन्ते स्म-किमयं रक्तेन्द्रियैः पश्यत्याहोस्विद्दूरीकरोति, नयने ईर्यते वा न वेति। ताः पश्यन्ति बोधिसत्त्वस्य वदनं शुद्धं विमलं चन्द्रमण्डलमिव राहुविनिर्मुक्तं सूर्यमिव प्रोदयमानं यूपमिव कनकमयं विकसितमिव सहस्रपत्रं हव्यावसिक्तमिवानलं मेरुमिवाचलं चक्रवालमिवाभ्युद्रतं गुप्तेन्द्रियं नागमिव सुदान्तचित्तम्॥



अथ ता मारदुहितरो भूयस्या मात्रया बोधिसत्त्वस्य संलोभनार्थमिमा गाथा अभाषन्त—



सुवसन्तके ऋतुवर आगतके

रमिमो प्रिय फुल्लितपादपके।

तव रूप सुरूप सुशोभनके

वशवर्तिसुलक्षणचित्रितके॥९०॥



वय जात सुजात सुसंस्थितिकाः

सुखकारण देवनराण सुसंतुतिकाः।

उत्थि लघुं परिभुञ्ज सुयौवनिकं

दुर्लभ बोधि निवर्तय मानसकम्॥९१॥



प्रेक्षसि ताव इमा मरुकन्य सुलंकृतिका

तव कारण सज्जित भूषित आगतिका।

को रूपमिमं समवेक्ष्य न रज्यति रागरतो

अपि जर्जर काष्ठ व शोषितजीवितको॥९२॥



केष मृदू सुरभी वरगन्धिनिका

मकुटाकुण्डलपत्रविबोधितआननिका।

सुललाट सुलेपनआननिका

पद्मविशुद्धविशालसुलोचनिका॥९३॥



परिपूरितचन्द्रनिभाननिका

बिम्बसुपक्वनिभाधरिका।

शङ्खकुन्दहिमशुक्लसुदन्तिनिका

प्रेक्ष कान्त रतिलालसिकाम्॥९४॥



कठिनपीनपयोधर उद्गतिकां

त्रिवलीकृतमध्यसुसुन्दरिकाम्।

जघनाङ्गणचारुसुवित्थरिकां

प्रेक्षसु नाथ सुकामिनिकाम्॥९५॥



गजभुजसंनिभ‍ऊरुणिकां

वलयनिरन्तरबाहनिकाम्।

काञ्चीवरश्रोणिसमण्डितिकां

प्रेक्षहि नाथ इमा तव दासिनिकाम्॥९६॥



हंसगतीसुविलम्बितगामिनिकां

मञ्ञुमनोज्ञसुमन्मथभाषिणिकाम्।

ईदृशरूपसुभूषिणिकां

दिव्यरतीषु सुपण्डितिकाम्॥९७॥



गीतकवादितनृत्यसुशिक्षितिकां

रतिकारणजातिसुरूपिणिकाम्।

यदि नेच्छसि कामसुलालसिकां

सुष्टु सुवञ्चितकोऽसि भृशं खलु लोके॥९८॥



निधि दृष्ट यथा हि पलायति को चि नरो

धनसौख्यमजानकु मूढमनो।

त्वमपि तथैव हि रागमजाननको

यः स्वयमागतिकां न हि भुञ्जसि कामिनिकाम्॥९९॥इति॥



अथ खलु भिक्षवो बोधिसत्त्वोऽनिमिषनयनः प्रहसितवदनः स्मितमुखोऽविकोपितैरिन्द्रियैरनभिसंस्कृतैर्गात्रैरजिह्मोऽरक्तोऽदुष्टोऽमूढः शैलेन्द्रवदप्रकम्प्योऽनवलीनोऽनवदीर्णोऽसंपीडितः सुसंस्थितया बुद्ध्या स्वाधीनेन ज्ञानमुखेनात्यन्तसुप्रहीणत्वात्क्लेशानां श्लक्ष्णया मधुरया वाचा ब्रह्मातिरेकेण घोपेण करविङ्करुतेन स्वरेण वल्गुना मनोज्ञेन तां मारदुहितॄन् गाथाभिः प्रत्यभाषत्—



कामा भो बहुदुःखसंचया दुःखमूला

ध्यानर्द्धीतपसं च भ्रंसनी अबुधानाम्।

न स्त्रीकामगुणेभि तृप्तितां विदुमाहुः

प्रज्ञातृप्तिकरो भविष्यहं अबुधानाम्॥१००॥



कामां सेवयतो विवर्धते पुन तृष्णा

पीत्वा वै लवणोदकं यथा नरु कश्चि।

नात्मार्थे च परार्थि भोतिहा प्रतिपन्नो

आत्मार्थे च परार्थ उत्सुको भविताहम्॥१०१॥



फेनाबुद्बुदतुल्यसंनिभं तव रूपं

मायारङ्गमिवा विथापितं स्वमतेन।

क्रीडा वै सुपिनेव अध्रुवा अपिनित्या

बालानां सद चित्तमोहना अबुधानाम्॥१०२॥



नेत्रा बुद्बुदतुल्यसादृशा त्वचनद्धाः

कठिनं शोणितपिण्डमुद्रतं यथ गण्डम्।

उदरो मूत्रपुरीषसंचयो असुचोक्षः

कर्मक्लेशसमुत्थितो दुखयन्त्रः॥१०३॥



संमूढा यहि बालबुद्धयो न तु विज्ञाः

शुभतो कल्पयमान आश्रयं वितथेन।

संसारे बहुकाल संसरी दुःखमूले

अनुभोक्ता निरयेषु वेदना बहुदुःखा॥१०४॥



श्रोणि प्रस्रवते विगन्धिका प्रतिकूला

उरूजङ्घक्रमाश्च संस्थिता यथ यन्त्रम्।

भूतं युष्मि अहं निरीक्षमी यथ माया

हेतुप्रत्ययतः प्रवर्तथा वितथेन॥१०५॥



दृष्ट्वा कामगुणांश्च निर्गुणां गुणहीनां

आर्यज्ञानपथस्य उत्पथां विपथांश्च।

विषपत्राग्निसमां महोरगां यथ क्रुद्धां

बाला अत्र हि मूर्छिता सुखसंज्ञाः॥१०६॥



कामादासु भवीति यो नर प्रमदानां

शीले उत्पथि ध्यायि उत्पथि मतिहीनो।

ज्ञाने सो हि सुदूरि तिष्ठते रतिलोलो

योऽसौ धर्मरतिं जहित्वना रमि कामैः॥१०७॥



नो रागेण सही वसाम्यहं न च दोषैः

नो नैर्नित्य‍अशुभ‍अनात्मभिर्वसि सार्धम्।

आरातीयरतीयसंवशेन च सार्धं

निर्मुक्तं मम चित्तु मारुतो गगने वा॥१०८॥



पूर्णं सर्वजगत्त्वमीदृशैर्यदिह स्यात्

कल्पं ताभि सहा समोसृतो विहरेयम्।

नो वा मह्य खिलं न रज्यना न च मोहो

आकाशःसमतुल्यमानसा जिन भोन्ति॥१०९॥



यद्यपीह रुधिरास्थिवर्जिताः

देव‍अप्सर सुनिर्मलाः शुभाः।

तेऽपि सर्वि सुमहद्भये स्थिताः

नित्यभावरहिता अशाश्वताः॥११०॥



अथ खलु ता मारदुहितरः सुशिक्षिताः स्त्रीमायासु भूयस्या मात्रया रागमददर्पं संजनय्य चेष्टामुपदर्श्य गात्राणि विभूषयित्वा स्त्रीमायामुपदर्श्य बोधिसत्त्वं प्रलोभयन्ति स्म॥



तत्रेदमुच्यते—



तृष्णरती रतिश्च सहिता प्रमदवर मधुरा

मारसमीरिताः सुललिता त्वरितमुपगताः।

वायुसमीहिता किसलयास्तरुणतरुलता

नृत्तत लोभयं नृपसुतं द्रुमविटपगतम्॥१११॥



एष वसन्तकालसमयः प्रवर ऋतुवरो

नारिनराण हर्षणकरो निहततमरजः।

कोकिलहंसमोररविशा द्विजगणकलिलः

काल उपस्थितोऽनुभवितुं मदनगुणरतिम्॥११२॥



कल्पसहस्रशीलनिरतो व्रततपचरितो

निश्चल शैलराजसदृशस्तरुणरविवपुः।

मेघनिनादवल्गुवचनो मृगपतिनिनदो

वचनमुवाच सोऽर्थसहितं जगति हितकरः॥११३॥



कामविवाद वैर कलहा मरणभयकरा

बालजनोपसेवित सदा बुधजनरहिता।

प्राप्तयु कालु यत्र सुगतैरमृतमधिगतं

अद्य भविष्य मारु जिनिया दशबलु अरहान्॥११४॥



माय निदर्शयन्तिय वदं शृणु कमलमुखा

राजु भविष्यसेश्वरवरः क्षितिपति बलवान्।

तूर्यसहस्रसंप्रभणिते प्रमदवरगणे

किं मुनिवेषकेन भवतो विरम रति भजा॥११५॥



बोधिसत्त्व आह—



भेष्यि अहं हि राजु त्रिभवे दिवि भुवि महितो

ईश्वरु धर्मचक्रचरणो दशबलु बलवान्।

शैक्ष्य‍अशैक्ष्यपुत्रनयुतैः सततसमितमभिनतो

धर्मरती रमिष्यि विषयैर्न रमि रमति मनः॥११६॥



ता आहुः—



याव च यौवनं न गलितं प्रथमवयधरो

याव च व्याधि नाक्रमति ते न च जर असिता।

याव च रूपयौवनधरो वयमपि च सुखी

ताव नु भुङ्क्ष्व कामरतयः प्रहसितवदनः॥११७॥



बोधिसत्त्व आह—



याव च दुर्लभोऽद्य लभितः क्षणवर अमृतो

याव च वर्जिता क्षणदुखा असुरसुरपुरे।

याव जरा च व्याधिमरणं न कुपितरूपवं

तावहु भावयिष्यि सुपथं अभयपुरगमम्॥११८॥



ता आहुः—



देवपुरालयेऽप्सरवृतस्त्रिदशपतिरिवा

यामसुयामसंतुषितके अमरवरस्तुतो।

मारपुरे च कामरतयः प्रमदवशगतः

क्रीड्यनुभुङ्क्ष्व अस्मभि सहा विपुलरतिकरः॥११९॥



बोधिसत्त्व आह—



काम तृणोसबिन्दुचपला शरदघनसमा

पन्नगकन्यरोषसदृशा भृशभयकरणा।

शक्रसुयामदेवतुषिता नमुचिवशगताः

कोऽत्र रमेत नर्यभिलषिते व्यसनपरिगते॥१२०॥



ता आहुः—



पुष्पित पश्यिमां तरुवरां तरुणकिसलयां

कोकिलजीवजीवकरुता मधुकरविरुता।

स्निग्धसुनीलकुञ्चितमृदुं धरणितलरुहे

किं नरसिंह सेवित वने रमसु युवतिभिः॥१२१॥



बोधिसत्त्व आह—



कालवशात्पुष्पित इमे किसलय तरवो

भुक्षपिपासिता मधुकराः कुसुममभिगताः।

भास्करु शोषयिष्यति यदा धरणितलरुहां

पूर्वजिनोपभुक्तममृतं व्यवसितमिह मे॥१२२॥



मारदुहितर आहुः—



प्रेक्षहि ताव चन्द्रवदना नवनलिनिनिभा

वाच मनोज्ञ श्लक्ष्ण दशना हिमरजतनिभा।

ईदृश दुर्लभा सुरपुरे कुत मनुजपुरे

ते त्वय लब्ध ये सुरवरैरभिलषित सदा॥१२३॥



बोधिसत्त्व आह—



पश्यमि कायमेध्यमशुचिं कृमिकुलभरितं

जर्जरमित्वरं च भिदुरं असुखपरिगतम्।

यत्सचराचरस्य जगतः परमसुखकरं

तत्पदमच्युतं प्रतिलभे बुधजनमहितम्॥१२४॥



ता चतुषष्टिकामललितानि चमनुभविया

नूपुरमेखला अभिहनी विगलितवसना।

कामशराहताः समदनाः प्रहसितवदनाः

किं तव आर्यपुत्र विकृतं यदि न भजसे॥१२५॥



सर्वभवेषु दोष विदितोऽवचि विधुतरजा

कामसिशक्तिशूलसदृशाः समधुक्षुरसमाः।

सर्पशिरोग्निकर्षुसदृशाः सुविदित इह मे

तेनहु नारिसंघ त्यजमी गुणहर प्रमदाः॥१२६॥



ता बहुभिः प्रकारनयुतैः प्रमदगुणकरैः

लोभयितुं न शेकु सुगतं गजकरभगतिम्।

लज्जिहिरोत्रपात्तु मुनिन प्रपतिषु चरणे

गौरवु तुष्ट प्रेम जनिया स्तविषु हितकरम्॥१२७॥



निर्मलपद्मगर्भसदृशा शरदिशशिमुखा

सर्पिहुतार्चितेजसदृशा कनकगिरिनिभा।

सिध्यतु चिन्तिता ति प्रणिधि भवशतचरिता

स्वामुपतीर्य तारय जगद्व्यसनपरिगतम्॥१२८॥



ता कर्णिकारचम्पकनिभं स्तविय बहुविधं

कृत्व प्रदक्षिणं अतिशयं गिरिरिव अचलम्।

गत्व पितुर्निपत्य शिरसा इदमवचि गिरं

साध्वस नं हि तात प्रतिघं अमरनरगुरोः॥१२९॥



पश्यति पद्मपत्रनयनः प्रहसितवदनो

नापि सरक्तु प्रेक्षति जनं न पि च सभृकुटिः।

मेरु चलेय शुष्य उदधिः शशिरवि प्रपते

नैव स दोषदर्शि त्रिभवे प्रमदवश गमिया॥१३०॥



अथ खलु मारः पापीयानिदं वचनं श्रुत्वा भूयस्या मात्रया दुःखितो दुर्मना अनात्तमनाः प्रदुष्टमनास्तां स्वदुहितॄनामन्त्रयते स्म— कथं भो न शक्यते स बोधिमण्डादुत्थापयितुम्? मा खलु मूढः अज्ञोऽथ युष्माकं रूपाकृतिं न पश्यति?



अथ खलु ता मारदुहितरः स्वपितरं गाथाभिः प्रत्यभाषन्त—



श्लक्ष्णा मधुरं च भाषते न च रक्तो

गुरु गुह्यं च निरीक्षते न च दुष्टः।

ईर्यां चर्यां च प्रेक्षते न च मूढः

काया सर्व पनेति आशयो सुगभीरः॥१३१॥



निःसंशयेन विदिताः पृथु इस्त्रिदोषाः

कामैर्विरक्तमनसो न च रागरक्तः।

नैवास्त्यसौ दिवि भुवीह नरः सुरो वा

यस्तस्य चित्तचरितं परिजानयेया॥१३२॥



या इस्त्रिमाय उपदर्शित तत्र तात

प्रविलीयु तस्य हृदयं भवियः सरागः।

तं दृष्ट एकमपि कम्पितु नास्य चित्तं

शैलेन्द्रराज इव तिष्ठति सोऽप्रकम्प्यः॥१३३॥



शतपुण्यतेजभरितो गुणतेजपूर्णः

शीले तपस्मि चरितो बहुकल्पकोट्यः।

ब्रह्मा च देव शुभतेज विशुद्धसत्त्वा

मूर्ध्ना निपत्य चरणेषु नमन्ति तस्मै॥१३४॥



निःसंशयेन विनिहत्य स मारसेनां

पूर्वे जिनानुमत प्राप्स्यति अग्रबोधिम्।

ताता न रोचति हि नो व रणे विवादे

बलवत्सु विग्रहु सुकृच्छ्र अयं प्रयोगः॥१३५॥



प्रेक्षस्व तात गगने मणिरत्नचूडा

संबोधिसत्त्वनयुताः स्थित गौरवेण।

रत्नाकरा कुसुमदामविचित्रिताङ्गा

संप्रेक्षिता दशबलैरिह पुजनार्थम्॥१३६॥



ये चेतना अपि च ये च अचेतना च

वृक्षाश्च शैल गरूडेन्द्रसुरेन्द्रयक्षाः।

अभ्योनता अभिमुखा गुणपर्वतस्य

श्रेयो भवे प्रतिनिवर्तितुमद्य तात॥१३७॥



अपि च।



न तं तरेद्यस्य न पारमुत्तरे

न तं खनेद्यस्य न मूलमुद्धरेत्।

न कोपयेत्तं क्षमयेत्पुनोपि तं

कुर्यान्न तं येन भवेच्च दुर्मनाः॥१३८॥



अथ खलु भिक्षवस्तस्मिन् समयेऽष्टौ बोधिवृक्षदेवताः। तद्यथा-श्रीः वृद्धिः तपा श्रेयसी विदुः ओजोबला सत्यवादिनी समङ्गिनी च। ता एता बोधिसत्त्वं संपूज्य षोडशभिराकारैर्बोधिसत्त्वं श्रिया वर्धयन्ति स्म, अभिष्टुवन्ति स्म—



उपशोभसे त्वं विशुद्धसत्त्व चन्द्र इव शुक्लपक्षे।

अभिविरोचसे त्वं विशुद्धबुद्ध सूर्य इव प्रोदयमानः॥१३९॥



प्रफुल्लितस्त्वं विशुद्धसत्त्व पद्ममिव वारिमध्ये।

नदसि त्त्वं विशुद्धसत्त्व केसरीव वनराजावनुचारी॥१४०॥



विभ्राजसे त्वं अग्रसत्त्व पर्वतराज इव सागरमध्ये।

अभ्युद्गतस्त्वं विशुद्धसत्त्व चक्रवाल इव पर्वतः॥१४१॥



दुरवगाहस्त्वं अग्रसत्त्व जलधर इव्र रत्नसंपूर्णः।

विस्तीर्णबुद्धिरसि लोकनाथ गगनमिवापर्यन्तम्॥१४२॥



सुस्थितबुद्धिरसि विशुद्धसत्त्व धरणितलवत्सर्वसत्त्वोपजीव्यः।

अकलुषबुद्धिरसि अग्रसत्त्व अनवतप्त इव सरः सदा प्रसन्नः॥१४३॥



अनिकेतबुद्धिस्त्वं अग्रसत्त्व मारुत इव सर्वलोके सदाप्रसक्तः।

दुरासदस्त्त्वं अग्रसत्त्व तेजोराज इव सर्वमन्युना प्रहीनः॥१४४॥



बलवानसि त्वं अग्रसत्त्व नारायण इव दुर्धर्षः।

दृढसमादानस्त्वं लोकनाथ अनुत्थाता बोधिमण्डा॥१४५॥



अनिवर्त्यस्त्वं अग्रसत्त्व इन्द्रकरोत्सृष्ट इव वज्रः।

सुलब्धलाभस्त्वं अग्रसत्त्व दशबलसमग्ऱ्योऽचिराद्भविष्यसि॥१४६॥इति॥



एवं खलु भिक्षवो बोधिवृक्षदेवताः षोडशाकारं बोधिसत्त्वं श्रिया वर्धयन्ति स्म॥

तत्र भिक्षवः शुद्धावासकायिका देवपुत्राः षोडशभिराकारैर्मारं पापीयांसं दुर्बलं कुर्वन्ति स्म। कतमैः षोडशभिः? तद्यथा—



ध्वस्तस्त्वं पापीयं जीर्णक्रोञ्च इव ध्यायसे।

दुर्बलस्त्वं पापीयं जीर्णगज इव पङ्कमग्रः॥१४७॥



एकाक्यसि त्वं पापीयं निर्जित इव शूरप्रतिज्ञः।

अद्वितीयस्त्वं पापीयं अटव्यां त्यक्त इव रोगार्तः॥१४८॥



अबलस्त्वं पापीयं भारक्लिष्ट इव बलीवर्दः।

अपविद्धस्त्वं पापीयं वातक्षिप्त इव तरुः॥१४९॥



कुपथस्थितस्वं पापीयं मार्गभ्रष्ट इव सार्थिकः।

दीनहीनस्त्वं पापीयं मत्सरिण इव दरिद्रपुरुषः॥१५०॥



मुखरस्त्वं पापीयं वायस इव प्रगल्भः।

मानाभिभूतस्त्वं पापीयं अकृतज्ञ इव ढुर्विनीतः॥१५१॥



पलायिष्यसे त्वमद्य पापीयं कोष्टुक इव सिंहनादेन।

विधुनेष्यसे त्वमद्य पापीयं वैरम्भवायुविक्षिप्त इव पक्षी॥१५२॥



अकालज्ञस्त्वं पापीयं पुण्यपरिक्षीण इव भैक्षुकः।

विवर्जिष्यसे त्वमद्य पापीयं भिन्नभाजनभिव पांशुप्रतिपूर्णम्॥१५३॥



निगृहीष्यसे त्वमद्य पापीयं बोधिसत्त्वेन मन्त्रेणेवोरगाः।

सर्वबलप्रहीणोऽसि पापीयं छिन्नकरचरण इवोरुण्डः॥१५४॥



एवं खलु भिक्षवः शुद्धावासकायिका देवपुत्राः षोडशभिराकारैर्मारं पापीयांसं दुर्बलमकार्षुः॥



तत्र भिक्षवो बोधिपरिचारिका देवपुत्राः षोडशभिराकारैर्मारं पापीयांसं विछच्दयन्ति स्म। कतमैः षोडशभिः? तद्यथा—



अद्य त्वं पापीयं निर्जेष्यसे बोधिसत्त्वेन परसैन्य इव शूरेण।

निगृहीष्यसे त्वमद्य पापीयं बोधिसत्त्वेन दुर्बलमल्ल इव महामल्लेन॥१५५॥



अभिभविष्यसे त्वमद्य पापीयं बोधिसत्त्वेन खद्योतकमिव सूर्यमण्डलेन।

विध्वंसयिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन मुञ्जमुष्टिमिव महामारुतेन॥१५६॥



वित्रासिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन केसरिणेव शृगालः।

प्रपातिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन महासाल इव मूलछिन्नम्॥१५७॥



विलोप्स्यसे त्वमद्य पापीयं बोधिसत्त्वेनामित्रनगरमिव महाराजेन।

विशोषिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन गोष्पदवारीव महातपेन॥१५८॥



पलायिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन वध्यविमुक्त इव धूर्तपुरुषः।

उद्भ्रामिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन अग्निदाहेनेव मधुकरवृन्दम्॥१५९॥



रोषिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन राष्ट्रभ्रष्ट इव धर्मराजः।

ध्यायिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन जीर्णक्रोञ्च इव लूनपक्षः॥१६०॥



विभर्त्स्यसे त्वमद्य पापीयं बोधिसत्त्वेन क्षीणपथ्यादन इवाटवीकान्तारे।

विलपिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन भिन्नयानपात्र इव महार्णवे॥१६१॥



आम्लायिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन कल्पदाह इव तृणवनस्पतयः।

विकिरिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन महावज्रेणेव गिरिकूटम्॥१६२॥



एवं खलु भिक्षवो बोधिपरिचारिका देवपुत्राः षोडशाकारैर्मारं विच्छन्दयन्ति स्म। न च मारः पापीयान् विनिवर्तते स्म॥



तत्रेदमुच्यते—



भूतां चोदन श्रुत्व देवतगणा न निवर्तते सोऽन्तको

उच्छेथा हनथा विलुम्पथ इमां मा दास्यथा जीवितम्।

एषोत्तीर्ण स्वयं ममापि विषयां तारिष्यते चापरां

नान्यं मोक्ष वदेमि किंचि श्रमणे उत्थापयेत्प्रक्रमेत्॥१६३॥



बोधिसत्त्व आह—



मेरुः पर्वतराज स्थानतु चले सर्वं जगन्नो भवेत्

सर्वे तारकसंघ भूमि प्रपते सज्योतिषेन्दुर्नभात्।

सर्वा सत्त्व करेय एकमतयः शुष्येन्महासागरो

न त्वेव द्रुमराजमूलुपगतश्चाल्येत् अस्मद्विधः॥१६४॥



मार आह—



कामेश्वरोऽस्मि वसिता इह सर्वलोके

देवा सदानवगणा मनुजाश्च तिर्या।

व्याप्ता मया मम वशेन च यान्ति सर्वे

उत्तिष्ठ मह्य विषयस्थ वचं कुरुष्व॥१६५॥



बोधिसत्त्वः आह—



कामेश्वरोऽसि यदि व्यक्तमनीश्वरोऽसि

धर्मेश्वरोऽहमपि पश्यसि तत्त्वतो माम्।

कामेश्वरोऽसि यदि दुर्गति न प्रयासि

प्राप्स्यामि बोधिमवशस्य तु पश्यतस्ते॥१६६॥



मार आह—



एकात्मकः श्रमण किं प्रकरोषि रण्ये

यं प्रार्थयस्यसुलभः खलु संप्रयोगः।

भृग्वङ्गिरप्रभृतिभिस्तपसो प्रयत्ना

प्राप्तं न तत्पदवरं मनुजः कुतस्त्वम्॥१६७॥



बोधिसत्त्व आह—



अज्ञानपूर्वकु तपो ऋषिभिः प्रतप्तो

क्रोधाभिभूतमतिभिर्दिवलोककामैः।

नित्यं न नित्यमिति चात्मनि संश्रयद्भिः

मोक्षं च देशगमनस्थितमाश्रयद्भिः॥१६८॥



ते तत्वतोऽर्थरहिताः पुरुषं वदन्ति

व्यापिं प्रदेशगत शाश्वतमाहुरेके।

मूर्तं न मूर्तमगुणं गुणिनां तथैव

कर्ता न कर्त इति चाप्यपरे ब्रुवन्ति॥१६९॥



प्राप्याद्य बोधि विरजामिह चासनस्थः

त्वां जित्व मार विहतं सबलं ससैन्यम्।

वर्तेष्यि अस्य जगतः प्रभवोद्भवं च

निर्वाण दुःखशमनं तथ शीतिभावम्॥१७०॥



मारः क्रुद्धो दुष्टो रुष्टः परुषगिर पुन तु भणते गृहाण सुगौतमं

एषो ह्येकोऽरण्ये न्यस्तो ग्रहिय मम पुरतु व्रजथा लघुं वशु कुर्वथा।

शीघ्रं गत्वा मह्यं गेहे हडिनिगडयुगलविकृतं करोथ दुवारिकं

स्वा मं द्रक्ष्ये दुःखेनार्तं बहुविविधजवितरवितं मरूण व चेटकम्॥१७१॥



बोधिसत्त्व आह—



शक्याकाशे लेख्यं चित्रं बहुविविधविकृत पदशः प्रकर्तु पृथक्पृथक्

शक्यो वायुः पाशैर्बद्धुं दिशविदिशगमनजवितो नरेण सुयत्नतः।

शक्या कर्तुं चन्द्रादित्यौ तमतिमिरवितिमिरकरौ नभोऽद्य महीतलं

शक्यो नाहं त्वत्सादृश्यैर्बहुभिरपि गणनविरुतैर्द्रुमात्प्रतिचालितुम्॥१७२॥



अभ्युत्थिता बलवती नमुचेश्चमू सा

हाकारशङ्खरवभेरिमृदङ्गशब्दैः।

ह पुत्र वत्स दयिता किमसि प्रनष्टो

दृष्ट्वा इमां नमुचिसेनमतीव भीमाम्॥१७३॥



जाम्बूनदाकनकचम्पकगर्भगौरा

सुकुमार देवनरसंस्तुत पूजनीय।

अद्य प्रयास्यसि विनाशु महारणेस्मिं

मारस्य एष्यसि वशं असुरस्य वेन्दुः॥१७४॥



ब्रह्मस्वरेण करविङ्करुतस्वरेणा

तान् यक्षराक्षसगणां सुगतो बभाषे।

आकाशु त्रासयितुमिच्छति यो ह्यविद्वान्

सोऽस्मद्विधं द्रुमवराद् ग्रहणाय इच्छेत्॥१७४॥



भित्त्वा च यो रजु गणेय महासहस्र

लोम्ना च सागरजलं च समुद्धरेद्यः।

वज्रामयां गिरिवरां विकिरेत्क्षणाच्च

सो चापि मां तरुगतं न विहेठयेत॥१७५॥



युगमन्तरस्मि स्थित मारु प्रदुष्टचित्तो

निष्कोष पाणिनमसिं प्रगृहीत्व तीक्ष्णम्।

उत्तिष्ठ शीघ्र श्रमणास्ममतेन गच्छ

मा वेणुयष्टि हरितां व छिनद्मि तेऽद्य॥१७६॥



बोधिसत्त्व आह—



सर्वेयं त्रिसहस्र मेदिनि यदि मारैः प्रपूर्णा भवेत्

सर्वेषां यथ मेरु पर्वतवरः पाणीषु खङ्गो भवेत्।

ते मह्यं न समर्थ लोम चलितुं प्रागेव मां घातितुं

मा दूषी नतिवेल संप्रनदहे स्मारेमि तेऽनदृढम्॥१७७॥



विध्यन्ति शैलशिखरां ज्वलिताग्निवर्णां

वृक्षां समूलक क्षिपी तथ ताम्रलोहम्।

उष्ट्राश्च गोगजमुखास्तथ भैरवाक्षा

आशीविषा भुजग दृष्टिविषाश्च घोराः॥१७८॥



मेघेव उत्थित चतुर्दिश गर्जमाना

वज्राशनी तथ अयोगुड वर्षमाणाः।

असिशक्तितीष्णपरशुं सविषांश्च बाणां

भिन्दन्ति मेदिनितलं प्रमथन्ति वृक्षां॥१७९॥



बाहूशतैः शरशतानि क्षिपन्ति केचि

आशीविषां हुतवहांश्च मुखा सृजन्ति।

मकरादिकांश्च जलजानुदधेर्गृहीत्वा

विध्यन्ति केचि भुजगां गरुडाश्च भूत्वा॥१८०॥



केचित्सुमेरुसदृशानयसा गुडानि

तप्ताग्निवर्णशिखरा निक्षिपन्ति रुष्टाः।

आसाद्य मेदिनितलं क्षुभयन्ति चोर्वीं

हेष्ठा पस्कन्ध सलिलस्य विलोडयन्ति॥१८१॥



केचित्पतन्ति पुरतस्तथ पृष्ठतोऽस्य

वामे च दक्षिण पतन्ति अहो ति वत्स।

विपरीतहस्तचरणा ज्वलितोत्तमाङ्गा

नेत्रेभि निश्चरति विद्युदिव प्रदीप्ता॥१८२॥



दृष्ट्वा विकारविकृता नमुचेस्तु सेना

मायाकृतं च यथ प्रेक्षति शुद्धसत्त्वः।

नैवात्र मारु न बलं न जगन्न चात्मा

उदचन्द्ररूपसदृशो भ्रमति त्रिलोकः॥१८३॥



चक्षुर्न इस्त्रि पुरुषो नपि चात्मनीयं

स्रोतं च घ्राण तथा जिह्व तथैव कायः।

अध्यात्मशून्य बहिशून्य प्रतीत्य जाता

धर्मा इमे करकवेदकवीतिवृत्ताः॥१८४॥



सो सत्यवाक्यमकरोत्सद सत्यवादी

येनेह सत्यवचनेनिम शून्य धर्माः।

ये केचि सौम्य विनये अनुकूलपक्षाः

ते शस्त्र पाणिषु निरीक्षिषु पुष्पदामां॥१८५॥



सो दक्षिणे करतले रचिताग्रजाले

ताम्रैर्नखैः सुरुचिरैः सहस्रारचक्रे।

जाम्बूनदार्चिसदृशैः शुभपुण्यजुष्टे

मूर्ध्नातु याव स्पृशते चरणां सलीलम्॥१८६॥



बाहुं प्रसार्य यथ विद्युदिवा नभस्था

आभाषते वसुमतीनिय मह्य साक्षी।

चित्रा मि यज्ञ नयुतानपि यष्ट पूर्वे

न मि जातु याचनक बन्धकृता नु दास्ये॥१८७॥



आपो मि साक्षि तथ तेज तथैव वायु

ब्रह्मा प्रजापति सजोतिष चन्द्रसूर्याः।

बुद्धा मि साक्षि दशसु स्थित ये दिशासु

यथ मह्य शीलव्रत‍उद्गत बोधि‍अङ्गाः॥१८८॥



दानं मि साक्षि तथ शीलु तथैव क्षान्तिः

वीर्यापि साक्षि तथ ध्यान तथैव प्रज्ञा।

चतुर प्रमाण मम साक्षि तथा अभिज्ञा

अनुपूर्वबोधिचरि सर्व ममेह साक्षी॥१८९॥



यावन्ति सत्त्व निखिला दशसु दिशासु

यत्तेषु पुण्य बल शीलु तथैव ज्ञानम्।

यज्ञा निरर्गड य यष्ट शठः कलीभिः

ते मह्य रोम शतिमां कल नोपयन्ति॥१९०॥



सो पाणिना धरणि आहनते सलीलं

रणते इयं वसुमती यथ कंसपात्री।

मारो निशम्य रवु मेदिनिये निरस्तः

शृणुते वचं हनत गृह्णतु कृष्णबन्धुम्॥१९१॥



प्रस्विन्नगात्रु हततेजु विवर्णवक्त्रो

मारो जराभिहतु आत्मनु संप्रपश्यी।

उरताड क्रन्दतु भयार्तु अनाथभूतो

भ्रान्तं मनो नमुचितो गतु चित्त मोहम्॥१९२॥



हस्त्यश्वयानरथ भूमितले निरस्ताः

धावन्ति राक्षस कुभाण्ड पिशाच भीताः।

संमूढ मार्ग न लभन्ति अलेनत्राणाः

पक्षी दवाग्निपतनेव निरीक्ष्य क्रान्ताः॥१९३॥



माता स्वसा पितर पुत्र तथैव भ्राता

पृच्छन्ति तत्र कहि दृष्ट कहिं गता वा।

अन्योन्य विग्रह करोन्ति तथैव हेठाः

प्राप्ता वयं व्यसन जीवित नावकाशः॥१९४॥



सा मारसेन विपुला महती अक्षोभ्या

विभ्रष्ट सर्व विरलीकृत नैव संधिः।

दिवसानि सप्त अभिजानि परस्परेण

आभासि दृष्ट यदि जीवसि तं खु प्रीताः॥१९५॥



सा वृक्षदेवत तदा करुणां हि कृत्वा

वारीघाटं ग्रहिय सिञ्चति कृष्णबन्धुम्।

उत्तिष्ठ शीघ्र व्रज हे म पुनो विलम्ब

एवं हि तेष भवते गुरु‍उद्धराणाम्॥१९६॥



मार आह—



दुःखं भयं व्यसन शोक विनाशनं च

धिक्कारशब्दमवमानगतं च दैन्यम्।

प्राप्तोऽस्मि अद्य अपराध्य सुशुद्धसत्वे

अश्रुत्व वाक्य मधुरं हितमात्मजानाम्॥१९७॥



देवता आह—



भयं च दुःखं व्यसनं च दैन्यं

धिक्कारशब्दं वधबन्धनं च।

दोषाननेकां लभते ह्यविद्वान्

निरापराधेष्वपि राध्यते यः॥१९८॥



देवासुरा गरुड राक्षस किन्नरेन्द्रा

ब्रह्माथ शक्र परनिर्मित साकनिष्ठाः।

भाषन्ति तस्य विजयं जय लोकवीर

यत्रेदृशी नमुचिसेन त्वया निरस्ता॥१९९॥



हारार्धचन्द्र ध्वज छत्रपताक देन्ती

पुष्पागरू तगरचन्दनचूर्णवर्षां।

तूर्या पराहनिय वाक्यमुदीरयन्ते

अच्छा द्रुमे तुव च शूर जितारिसिंहा॥२००॥



अत्रैव चासनवरे लभसेऽद्य बोधिं

आवेणिकां दशबलां प्रतिसंविदं च।

सर्वं च बुद्धविषयं लभसेऽद्य शूर

मैत्रा विजित्य विपुलां शठमारपक्षां॥२०१॥



इह मारधर्षणकृते च रणे प्रवृत्ते

संबोधिसत्त्वबलविक्रम येभि दृष्टम्।

षट्‍त्रिंशकोटिनयुता चतुरे च विंशा

येभिर्मनः प्रणिहितं वरबुद्धबोधौ॥२०२॥इति॥



॥ इति श्रीललितविस्तरे मारधर्षणपरिवर्तो नामैकविंशतितमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project