Digital Sanskrit Buddhist Canon

२० बोधिमण्डव्यूहपरिवर्तो विंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 20 bodhimaṇḍavyūhaparivarto viṁśatitamaḥ
२० बोधिमण्डव्यूहपरिवर्तो विंशतितमः।



इति हि भिक्षवो बोधिसत्त्वस्य बोधिमण्डनिषण्णस्यं पूर्वस्यां दिशि षट् कामावचरा देवाः स्थिता अभूवन् - मा बोधिसत्त्वस्य कश्चिदन्तरायं कार्षीदिति। एवं दक्षिणपश्चिमोत्तरा दिशो देवैः परिगृहीता अभूवन्॥



इति हि भिक्षवो बोधिसत्त्वो बोधिमण्डनिषण्णस्तस्यां वेलायां बोधिसत्त्वसंचोदनीं नाम रश्मिं प्रामुञ्चत्, यया रश्म्या समन्ताद्दशसु दिक्ष्वप्रमेयासंख्येयानि धर्मधातुपरमाण्याकाशधातुपर्यवसानानि सर्वबुद्धक्षेत्राण्यवभासितान्यभूवन्॥



अथ खलु पूर्वस्यां दिशि विमलायां लोकधातौ विमलप्रभासस्य तथागतस्य बुद्धक्षेत्राल्ललितव्यूहो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैश्च बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य च तस्यां वेलायां बोधिसत्त्वस्य पूजाकर्मणे तथारूपमृद्ध्यभिसंस्कारमभिसमकरोद् येनद्धर्यभिसंस्कारेणाभिसंस्कृतेन दशसु दिक्ष्वाकाशधातुपर्यवसानानि सर्वबुद्धक्षेत्राण्येकं मण्डलमात्रमादर्शयति स्म शुद्धस्य नीलवैडूर्यस्य। पञ्चगत्युपपन्नानां सर्वसत्त्वानां पुरतो बोधिमण्डे निषण्णं बोधिसत्त्वमुपदर्शयति स्म। ते च सत्त्वाः परस्परमेकाङ्गुलिकाभिर्बोधिसत्त्वमुपदर्शयन्ति स्म-कोऽयमेवंरूपः सत्त्वो ललितः, कोऽयमेवंरूपः सत्त्वो विराजत इति। तेषां च सत्त्वानां पुरतो बोधिसत्त्वो बोधिसत्त्वान्निर्मिमीते स्म। तत्र ते बोधिसत्त्वविग्रहा इमा गाथा अभाषन्त—



यस्या किंचन रागदोषकलुषा सा वासना उद्धृता

यस्या कायप्रभाकृता दशदिशे सर्वे प्रभा निष्प्रभाः।

यस्या पुण्यसमाधिज्ञाननिचयः कल्पौघसंवर्धिंतः

सोऽयं शाक्यमुनिर्महामुनिवरः सर्वा दिशो भ्राजते॥१॥इति॥



अथ खलु भिक्षवो दक्षिणस्यां दिशि रत्नव्यूहाया लोकधातो रत्नार्चिषस्तथागतस्य बुद्धक्षेत्राद्रत्नच्छत्रकूटसंदर्शनो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे एकरत्नछत्रेण तं सर्वावन्तं मण्डलमात्रं संछादयति स्म। तत्र शक्रब्रह्मलोकपालाः परस्परमेतदवोचन्-कस्येदं फलम्, केनायमेवंरूपो रत्नछत्रव्यूहः संदृश्यत इति। अथ तस्माद्रत्नछत्रादियं गाथा निश्चरति स्म—



येन च्छत्रसहस्रकोटिनयुता गन्धान रत्नान च

दत्ता अप्रतिमेषु मैत्रमनसा तिष्ठन्ति के निर्वृते।

सो एषो वरलक्षणो हितकरो नारायणस्थामवान्

बोधेर्मूलमुपागतो गुणधरस्तस्यैष पूजा कृता॥२॥इति॥



अथ खलु पश्चिमाया दिशश्चम्पकवर्णाया लोकधातोः पुष्पावलिवनराजिकुसुमिताभिज्ञस्य तथागतस्य बुद्धक्षेत्रादिन्द्रजाली नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपजगाम। उपेत्य च बोधिसत्त्वस्य पूजाकर्मणे सर्वावन्तं मण्डलमात्रमेकरत्नजालेन संछादयति स्म। तत्र दशसु दिक्षु देवनागयक्षगन्धर्वाः परस्परमेवमाहुः-कस्यायमेवंरूपो प्रभाव्यूह इति। अथ तस्माद्रत्नजालादियं गाथा निश्चरति स्म—



रत्नाकरो रतनकेतु रतिस्त्रिलोके

रत्नोत्तमो रतनकीर्ति रतः सुधर्मे।

रत्नानि त्रीणि न च छेत्स्यति वीर्यप्राप्तः

सो बोधि प्राप्स्यति वरामिय तस्य पूजा॥३॥इति॥



अथ खलूत्तरस्यां दिशि सूर्यावर्ताया लोकधातोश्चन्द्रसूर्यजिह्मीकरप्रभस्य तथागतस्य बुद्धक्षेत्राद्व्यूहराजो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतः येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे यावन्तो दशसु दिक्षु सर्वलोकधातुषु बुद्धक्षेत्रगुणव्यूहास्तान् सर्वांस्तस्मिन् मण्डलमात्रे संदर्शयति स्म। तत्र केचिद्बोधिसत्त्वा एवमाहुः-कस्येम एवंरूपा व्यूहाः? अथ तेभ्यः सर्वव्यूहेभ्य इयं गाथा निश्चरति स्म—



कायो येन विशोधितः सुबहुशः पुण्येन ज्ञानेन च

येना वाच विशोधिता व्रततपैः सत्येन धर्मेण च।

चित्तं येन विशोधितं हिरिधृती कारुण्यमैत्र्या तथा

सो एषो द्रुमराजमूलुपगतः शाक्यर्षभः पूज्यते॥४॥इति॥



अथ खलु पूर्वदक्षिणस्या दिशो गुणाकराया लोकधातोर्गुणराजप्रभासस्य तथागतस्य बुद्धक्षेत्राद्रुणमतिर्नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे सर्वगुणव्यूहं कूटागारं तस्मिन् मण्डलमात्रेऽभिनिर्मिमीते स्म। तस्य ते परिवारा एवमाहुः-कस्यायमेवंरूपः कूटागारव्यूहः ? ततश्च कूटागारादियं गाथा निश्चरति स्म—



यस्य गुणैः सततं गुणगन्धिका

भोन्ति सुरासुर यक्ष महोरगाः।

सो गुणवान् गुणराजकुलोदितो

बोधिविटपे उपविष्टु गुणोदधिः॥५॥इति॥



अथ खलु दक्षिणपश्चिमाया दिशो रत्नसंभवाया लोकधातो रत्नयष्टेस्तथागतस्य बुद्धक्षेत्राद्रत्नसंभवो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे अप्रमेयासंख्येयान् रत्नव्योमकांस्तस्मिन्मण्डलमात्रेऽभिनिर्मिमीते स्म। तेभ्यश्च रत्नव्योमकेभ्य इयं गाथा निश्चचार—



त्यक्ता येन ससागरा वसुमती रत्नान्यथोऽनेकशः

प्रासादाश्च गवाक्षहर्मिकवरा युग्यानि यानानि च।

व्योमालंकृत पुष्पदाम रुचिरा उद्यान कूपा सभा

हस्ता पाद शिरोत्तमाङ्गनयनाः सो बोधिमण्डे स्थितः॥६॥इति॥



अथ खलु पश्चिमोत्तरस्या दिशो मेघवत्या लोकधातोर्मेघराजस्य तथागतस्य बुद्धक्षेत्रान्मेघकूटाभिगर्जितस्वरो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे कालानुसार्यगुरुमेघमभिनिर्मायोरगसारचन्दनचूर्णवर्षं तस्मिन् मण्डलमात्रेऽभिप्रवर्षति स्म। तस्माच्च कालानुसारिमेघमण्डलमात्रादियं गाथा निश्चरति स्म—



धर्मामेघ स्फुरित्व सर्वत्रिभवे विद्याधिमुक्तप्रभः

सद्धर्मं च विराग वर्षिं अमृतं निर्वाणसंप्रापकम्।

सर्वा रागकिलेशबन्धनलता सो वासना छेत्स्यति

ध्यानर्द्धीबल‍इन्द्रियैः कुसुमितः श्रद्धाकरं दास्यते॥७॥इति॥



अथ खलूत्तरपूर्वस्या दिशो हेमजालप्रतिछन्नाया लोकधातो रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्य बुद्धक्षेत्राद्धेमजालालंकृतो नाम बोधिसत्त्वो महासत्त्वस्तयाप्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे सर्वेषु तेषु कूटागारेषु रत्नव्योमकेषु द्वात्रिंशल्लक्षणसमलंकृतान् बोधिसत्त्वविग्रहानभिनिर्मिमीते स्म। सर्वे च ते बोधिसत्त्वविग्रहा दिव्यमानुष्यकपुष्पदामपरिगृहीता येन बोधिसत्त्वस्तेनाभिनतकायास्तानि पुष्पदामान्यभिप्रलम्बयन्ति स्म। ते इमां गाथामभाषन्त—



येन बुद्धनयुता स्तवित पूर्व

गौरवेण महता जनिय श्रद्धाम्।

ब्रह्मघोषवचनं मधुरवाणिं

बोधिमण्डोपगतं शिरसि वन्दे॥८॥इति॥



अथ खल्वधस्ताद्दिशः समन्तविलोकिताया लोकधातोः समन्तदर्शिनस्तथागतस्य बुद्धक्षेत्राद्रत्नगर्भो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे तस्मिन् वैदूर्यमयमण्डलमात्रे जाम्बूनदसुवर्णपद्मान्यभ्युद्गतान्युपदर्शयति स्म। तेषां च पद्मानां कर्णिकास्वर्धकायिका नार्यो वर्णरूपसंपन्नाः सर्वालंकारप्रतिमण्डिता उपदर्शयति स्म। वामदक्षिणे पाणिभिर्हर्षकटककेयूरसुवर्णसूत्रमुक्ताहारादिविविधाभरणपरिगृहीताः पुष्पपट्टदामानि चाभिप्रलम्बयन्त्यो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपर्यभिनतकायाः। ताश्चेमां गाथामभाषन्त—



यो ओनमिष्ट सदा गुरूणां

बुद्धश्रावकप्रत्येकजिनानाम्।

निर्माणसुशील सदोज्जु प्रष्ठो

तस्या ओनमथा गुणधरस्य॥९॥इति॥



अथ खलूपरिष्टाद्दिशो वरगगनाया लोकधातोर्गणेन्द्रस्य तथागतस्य बुद्धक्षेत्राद्गगनगञ्जो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे गगनतलस्थ एव यावन्तो दशसु दिक्षु सर्वबुद्धक्षेत्रेष्वदृष्टाश्रुतपूर्वाः सन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरवस्त्रालंकारछत्रध्वजपताकावैजयन्तिरत्नमणिकनकरजतमुक्ताहारहयगजरथपत्तिवाहन-पुष्पवृक्षपत्रपुष्पफलदारकदारिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालमानुष्यामानुष्याणां सर्वा गगनतलान्महान्तं पुष्पवर्षमभिप्रवर्षन्ति स्म सर्वसत्त्वप्रीतिसुखसंजननं च। न च कस्यचित्सत्त्वस्य भयं चोत्पीडां वा करोति स्म॥



तत्रेदमुच्यते—



पेयालमेष दिशतासु जिनौरसा ये

संपूजितुं हितकरं अनुप्राप्त बोधिम्।

तेषां वियूहक्रमविक्रमसुक्रमाणां

ओपम्यमात्र निशृणोथ जिनौरसानाम्॥१०॥



के चागता नभसि मेघ इव स्तनन्तो

हारा सहस्रनयुतानि प्रलम्बयन्तः।

के चागता मकुटरत्नविलम्बचूडाः

पौष्पं विमान गगने उपदर्शयन्तः॥११॥



के चागता धरणिसिंह इवा नदन्तः

शून्यानिमित्तप्रणिधीरवमुञ्चमानाः।

के चागता यथ वृषा अभिनन्दमानाः

न च दृष्टपूर्व रुचिराणि क्षिपन्ति पुष्पां॥१२॥



के चागता नभसि सार इवा रवन्तो

वर्णासहस्र स्वकि आत्मनि दर्शयन्तः।

के चागता शशिरिवा गगने सुपूर्णाः

सुगतात्मजस्य गुणमालमुदीरयन्तः॥१३॥



के चागता रविरिव प्रभ मुञ्चमानाः

सर्वाणि मारभवनानि करोन्ति जिह्मा।

के चागता विमलकेतु यथेन्द्रयष्ट्यः

संभारपुण्यनिचितास्तहि बोधिमण्डे॥१४॥



केचित्क्षिपन्ति गगनान्मणिरत्नजाला

चन्द्रा सुचन्द्र तथ बाल विरोचमाना।

मान्दारवा सुमनवार्षिकचम्पदामा

संबोधिसत्त्व द्रुमराजस्थिते क्षिपन्ति॥१५॥



के चागता धरणि कम्पयमान पद्भ्यां

संकम्पिता वसुध प्रीतिकरी जनस्य।

के चागता ग्रहिय मेरु करेतलेभिः

उत्सृष्टपुष्पपुट संस्थित अन्तरीक्षे॥१६॥



के चागताश्चतुरि सागर गृह्य मूर्ध्ना

उत्सृष्ट सिञ्चि वसुधां वरगन्धतोयैः।

के चागता रतनयष्टि गृहीत्व चित्रं

संबोधिसत्त्वमुपदर्शय स्थित्व दूरे॥१७॥



के चागता भविय ब्रह्म प्रशान्तरूपाः

शान्ता प्रशान्तमनसः स्थित ध्यानध्यायी।

रोमेभि तेष स्वरु निश्चरते मनोज्ञ

मैत्री‍उपेक्षकरुणामुदिताप्रमाणा॥१८॥



के चागता मरुत शक्र इवा यथैव

देवैः सहस्रनयुतैश्च पुराकृतास्ते।

उपगम्य बोधिवटु गृह्य कृताञ्जलीभिः

शक्राभिलग्न मणिरत्न क्षिपन्ति चित्रा॥१९॥



के चागताश्चतुदिशा च यथैव पाला

गन्धर्वराक्षसपरीवृत किन्नरेभिः।

विद्युत्स्फुटान्त कुसुमानि प्रवर्षमाणाः

गन्धर्वकिन्नररूतेन स्तुवन्ति वीरम्॥२०॥



के चागताः कुसुमितां प्रगृहीत्व वृक्षान्

सफलां सपुष्पवरगन्ध प्रमुञ्चमानां।

जातेषु तेषु स्थित बुद्ध शुद्धकायाः

अवलम्बमान प्रतिमण्डि क्षिपन्ति पुष्पा॥२१॥



के चागताः कुसुमिताः पुडिनी गृहीत्वा

पद्मोत्पलैः कुसुमितैस्तथ पुण्डरीकैः।

द्वात्रिंशलक्षणधराः स्थित पद्मगर्भे

स्तविष्ट अलिप्तमनसं विदु बोधिसत्त्वम्॥२२॥



के चागता विपुलकाय तथेव मेरु

स्थित्वान्तरीक्ष स्वकमात्मनमुत्सृजन्ति।

उत्सृज्यमात्र भविया नवपुष्पदामाः

संछादयन्ति त्रिसहस्रि जिनस्य क्षेत्रम्॥२३॥



के चागता उभयचक्षुषि कल्पदाहं

संदर्शयन्त विभवं तथ संभवं च।

तेषां शरीरि बहुधर्मसुखा रणन्ति

तां श्रुत्व सत्त्वनयुता प्रजहन्ति तृष्णाम्॥२४॥



के चागता रवितकिन्नरतुल्यघोषाः

बिम्बोष्ठचारुवदनाः परिपूर्णवक्त्राः।

कन्या यथैव सु‍अलंकृत चित्रहाराः

प्रेक्षन्त यां सुरगणा न लभन्ति तृप्तिम्॥२५॥



के चागता वजिरकाय इवा अभेद्याः

हेष्ठा पस्कन्धचरणैः प्रतिग्राह्यमाणाः।

के चागता रविरिवा शशिपूर्णवक्त्राः

ज्योत्स्नाकराः प्रभकरा हतक्लेशदोषाः॥२६॥



के चागता रतनमण्डित रत्नपाणी

संछादयित्व बहुक्षेत्रसहस्रकोट्यः।

वर्षन्ति रत्नवर पुष्प सुगन्धगन्धा

संतोषणार्थं बहुसत्त्वहितं सुखार्थम्॥२७॥



के चागता महति धारणि रत्नकोशाः

रोमेभि सूत्रनयुतानि प्रभाषमाणाः।

प्रतिभानवन्त मतिवन्त सुबुद्धिवन्तो

मत्तप्रमत्तजनतां प्रतिबोधयन्तः॥२८॥



के चागता ग्रहिय भेरि यथैव मेरु

आकोट्यमानु गगने सुमनोज्ञघोषाम्।

यस्या रवं दशदिशे व्रजि क्षेत्रकोट्या

अद्यावबोद्धुममतं अनुबुद्धि शास्ता॥२९॥इति॥



॥ इति श्रीललितविस्तरे बोधिमण्डव्यूहपरिवर्तो नाम विंशतितमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project