Digital Sanskrit Buddhist Canon

१९ बोधिमण्डगमनपरिवर्त एकोनविंशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१९ बोधिमण्डगमनपरिवर्त एकोनविंशः।



इति हि भिक्षवो बोधिसत्त्वो नद्यां नैरञ्जनायां स्नात्वा च भुक्त्वा कायबलस्थाम संजनय्य येन षोडशाकारसंपन्नपृथिविप्रदेशे महाबोधिद्रुमराजमूलं तेन प्रतस्थे विजयया तया च गत्या, यासौ महापुरुषाणां गतिरनुच्चलितगतिरिन्द्रियेष्टिगतिः सुसंस्थितगतिः मेरुराजगतिरजिह्मगतिरकुटिलगतिरनुपद्रुतगतिरविलम्बितगतिरलुडितगतिरस्खलितगतिरसंघटितगतिरलीनगतिरचपलगतिः सलीलगतिः विमलगतिः शुभगतिरदोषगतिरमोहगतिररक्तगतिः सिंहगतिः हंसराजगतिर्नागराजगतिर्नारायणगतिः धरणितलासंसृष्टगतिः सहस्रारचक्रधरणीतलचित्रगतिः जालाङ्गुलिताम्रनखगतिः धरणीतलनिर्नादगतिः शैलराजसंघटनगतिः उत्कूलनिकूलसमकरचरणगतिः जालान्तराभारश्म्युत्सर्जनसत्त्वसंस्पृशनसुगतिगमनगतिः विमलपद्मक्रमनिक्षिपणगतिः पूर्वशुभसुचरितगमनगतिः पूर्वबुद्धसिंहाभिगमनगतिः वज्रदृढाभेद्याशयगतिः (सर्वोपायगतिः) सर्वापायदुर्गतिपिथितगतिः सर्वसत्त्वसुखसंजननगतिः मोक्षपथसंदर्शनगतिः मारबलाबलकरणगतिः कुगणिगणपरप्रवादिसहधर्मनिग्रहणगतिः। तमःपटलक्लेशविधमनगतिः संसारपक्षापक्षकरणगतिः शक्रब्रह्ममहेश्वरलोकपालाभिभवगतिः। त्रिसाहस्रमहासाहस्रैकशूरगतिः स्वयंभ्वनभिभूतगतिः सर्वज्ञज्ञानाभिगमनगतिः स्मृतिमतिगतिः सुगतिगमनगतिः जरामरणप्रशमनगतिः शिवविरजामलाभयनिर्वाणपुरगमनगतिः। ईदृश्या गत्या बोधिसत्त्वो बोधिमण्डं संप्रस्थितोऽभूत्॥



इति हि भिक्षवो यावच्च नद्या नैरञ्जनाया यावच्च बोधिमण्डादेस्तस्मिन्नन्तरे वातबलाहकैर्देवपुत्रैः संमृष्टमभूत्। वर्षबलाहकैर्देवपुत्रैर्गन्धोदकेन सिक्तमभूत् पुष्पैश्चावकीर्णमभूत्। यावदेव त्रिसाहस्रमहासाहस्रलोकधातौ वृक्षास्ते सर्वे येन बोधिमण्डस्तेनाभिनताग्रा अभूवन्। येऽपि च तदहोजाता बालदारिकास्तेऽपि बोधिमण्डशीर्षकाः स्वपन्ति स्म। येऽपि चेह त्रिसाहस्रमहासाहस्रलोकधातौ सुमेरुप्रमुखाः पर्वतास्तेऽपि सर्वे येन बोधिमण्डस्तेन प्रणता अभूवन्। नदीं च नैरञ्जनामुपादाय यावद्बोधिमण्डोऽस्मिन्नन्तरे कामावचरैर्देवपुत्रैः क्रोशविस्तारैकप्रमाणो मार्गोऽभिव्यूहितोऽभूत्। तस्य च मार्गस्य वामदक्षिणयोः पार्श्वयोः सप्तरत्नमयी वेदिका अभिनिर्मिताऽभूत्। सप्ततालानुच्चैस्त्वेन उपरिष्टाद्रत्नजालसंछन्ना दिव्यछत्रध्वजपताकासमलंकृता इषुक्षेपे सप्तरत्नमयास्ताला अभिनिर्मिता अभूवन् तस्या वेदिकाया अभ्युद्गताः। सर्वस्माच्च तालाद्रत्नसूत्रा द्वितीये तालमवसक्तमभूत्। द्वयोश्च तालयोर्मध्ये पुष्करिणी मापिताभूत् गन्धोदकपरिपूर्णा सुवर्णवालिक्रासंस्तृता उत्पलपद्मकुमुदपुण्डरीकसंछन्ना रत्नवेदिकापरिवृता वैदूर्यमणिरत्नसोपानप्रत्युप्ता आडिबलाकाहंसचक्रवाकमयूरोपकूजिता। तं च मार्गमशीत्यप्सरःसहस्राणि गन्धोदकेन सिञ्चन्ति स्म। अशीत्यप्सरःसहस्राणि मुक्तकुसुमैरभ्यवकिरन्ति स्म दिव्यैर्गन्धवद्भिः। सर्वस्य च तालवृक्षस्य पुरतो रत्नव्योमकः संस्थितोऽभूत्। सर्वस्मिंश्च रत्नव्योमके अशीत्यप्सरः सहस्राणि चन्दनागुरुचूर्णकपुटापरिगृहीतानि कारानुसारिधूपघटिकापरिगृहीतानि स्थितान्यभूवन्। सर्वस्मिंश्च रत्नव्योमके पञ्चपञ्चाप्सरःसहस्राणि दिव्यसंगीतिसंप्रवादितेन स्थितान्यभूवन्॥



इति हि भिक्षवो बोधिसत्त्वः प्रकम्प्यमानैः क्षेत्रै रश्मिकोटीनियुतशतसहस्राणि निश्चारयंस्तूर्यशतसहस्रैः प्रवाद्यमानैः, महता पुष्पाढ्येन प्रवर्षता, अम्बरशतसहस्रैर्भ्राम्यमानैः, दुन्दुभिशतसहस्रैः पराहन्यमानैः, गर्जद्भिः प्रगर्जद्भिः हयगजवृषभैः, प्रदक्षिणीकुर्वद्भिः शुकसारिकाकोकिलकलविङ्कजीवंजीवकहंसक्रोञ्चमयुरचक्रवाकशतसहस्रैः, उपनाम्यमानैः मङ्गल्यशतसहस्रैः। अनेनैवंरूपेण मार्गव्यूहेन बोधिसत्त्वो बोधिमण्डं गच्छति स्म। यां च रात्रिं बोधिसत्त्वो बोधिमभिसंबोद्धुकामोऽभूत्, तामेव रात्रिं वशवर्ती नाम त्रिसाहस्रमहासाहस्राधिपतिर्ब्रह्मा सहापतिर्ब्रह्मपर्षदमामन्त्र्यैवमाह-यत्खलु मार्षा जानीयाः। एष स बोधिसत्त्वो महासत्त्वो महासंनाहसंनद्धो महाप्रतिज्ञानुत्सृष्टो दृढसंनाहसंनद्धोऽपरिखिन्नमानसः सर्वबोधिसत्त्वचर्यासु निर्जातः सर्वपारमितासु पारंगतः सर्वबोधिसत्त्वभूमिषु वशिताप्राप्तः सर्वबोधिसत्त्वाशयसुविशुद्धः सर्वसत्त्वेन्द्रियेष्वनुगतः सर्वतथागतगुह्यस्थानेषु सुप्रविष्टः सर्वमारकर्मपथसमतिक्रान्तः सर्वकुशलमूलेष्वपरप्रत्ययः सर्वतथागतैरधिष्ठितः सर्वसत्त्वेषु प्रमोक्षमार्गदेशयिता महासार्थवाहः। सर्वमारमण्डलविध्वंसनकरः त्रिसाहस्रमहासाहस्रैकशूरः। सर्वधर्मभैषज्यसमुदानीतः महावैद्यराजः। विमुक्तिपट्टाबद्धो महाधर्मराजः। महाप्रज्ञाप्रभोत्सर्जनकरः महाकेतुराजः अष्टलोकधर्मानुपलिप्तः महापद्मभूतः सर्वधर्मधारण्यसंप्रमुषितः महासागरभूतः अनुनयप्रतिघापगतः अचलोऽप्रकम्पी महासुमेरूभूतः। सुनिर्मलः सुपरिशुद्धः स्ववदर्पितविमलबुद्धिर्महामणिरत्नभूतः सर्वधर्मवशवर्ती सर्वकर्मण्यचित्तो महाब्रह्मभूतो बोधिसत्त्वो बोधिमण्डमुपसंक्रमति मारसैन्यप्रधर्षणार्थमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः। दशबलवैशारद्याष्टादशावेणिकबुद्धधर्मपरिपुरणार्थं महाधर्मचक्रप्रवर्तनार्थं महासिंहनादनादनार्थं सर्वसत्त्वान् धर्मदानेन संतर्पणार्थं सर्वसत्त्वानां धर्मचक्षुर्विशोधनार्थं सर्वपरप्रवादीनां सहधर्मेण निग्रहार्थं पूर्वप्रतिज्ञापारिपूरिसंदर्शनार्थं सर्वधर्मैश्वर्यवशिताप्राप्त्यर्थम्। तत्र युष्माभिर्मार्षा सर्वैरेव बोधिसत्त्वस्य पूजोपस्थानकर्मण्युत्सुकैर्भवितव्यम्।



अथ खलु वशवर्ती महाब्रह्मा तस्यां वेलायामिमां गाथामभाषत—



यस्या तेजतु पुण्यतश्च शिरिये ब्राह्मः पथो ज्ञायते

मैत्री वा करुणा उपेक्ष मुदिता ध्यानान्यभिज्ञास्तथा॥

सोऽयं कल्पसहस्रचीर्णचरितो बोधिद्रुमं प्रस्थितः

पूजां साधु करोथ तस्य मुनिनो आशिव्रते साधनाम्॥१॥



यं गत्वा शरणं न दुर्गतिभयं प्राप्नोति नैवाक्षणं

देवेष्विष्टसुखं च प्राप्य विपुलं ब्रह्मालयं गच्छति।

षड्वषाणि चरित्व दुष्करचरिं यात्येष बोधिद्रुमं

साधू सर्वि उदग्रहृष्टमनसः पूजास्य कुर्वामहे॥२॥



राजासौ त्रिसहस्रि ईश्वरवरो धर्मेश्वरः पार्थिवः

शक्राब्रह्मपुरे च चन्द्रसुरिये नास्त्यस्य कश्चित् समः।

यस्या जायत क्षेत्रकोटिनयुता संकम्पिता षड्विधा

सैषोऽद्य व्रजते महाद्रुमवरं मारस्य जेतुं चमून्॥३॥



मूर्ध्नं यस्य न शक्यमीक्षितुमिह ब्रह्मालयेऽपि स्थितैः

कायो यस्य वराग्रलक्षणधरो द्वात्रिंशतालंकृतः।

वाग्यस्येह मनोज्ञवल्गुमधुरा ब्रह्मस्वरा सुस्वरा

चित्तं यस्य प्रशान्त दोषरहितं गच्छाम तत्पूजने॥४॥



येषां वा मति ब्रह्मशक्रभवने नित्यं सुख क्षेपितुं

अथवा सर्वकिलेशबन्धनलतां छेत्तुं हि तां जालिनीम्।

अश्रुत्वा परतः स्पृशेयममृतं प्रत्येकबोधिं शिवां

बुद्धत्वं यदि वेप्सितं त्रिभुवने पूजेत्वसौ नायकम्॥५॥



त्यक्ता येन ससागरा वसुमती रत्नान्यनन्तान्यथो

प्रासादाश्च गवाक्षहर्म्यकलिका युग्यानि यानानि च।

भूम्यालंकृत पुष्पदाम रुचिरा उद्यानकूपासराः

हस्ता पादशिरोत्तमाङ्गनयना सो बोधिमण्डोन्मुखः॥६॥



इति हि भिक्षवस्त्रिसाहस्रमहासाहस्रिको महाब्रह्मा इमं त्रिसाहस्रमहासाहस्रं लोकधातुं तत्क्षणं सममध्यतिष्ठत्। पाणितलजातमपगतशर्करकठल्लमुत्सदमणिमुक्तिवैदूर्यशङ्खशिलाप्रवालरजतजातरूप्यं नीलमृदुकुण्डलजातप्रदक्षिणनन्द्यावर्तकाचिलिन्दिकसुखसंस्पर्शैश्च तृणैरिमं त्रिसाहस्रमहासाहस्रं लोकधातुं संछादितमध्यतिष्ठत्। सर्वे च तदा महासमुद्रा धरणीतलसंस्थिता अभूवन्। न च जलचराणां सत्त्वानां काचिद्विहेठाभूत्। इमं चैव लोकधातुमलंकृतं दृष्ट्वा च दशसु दिक्षु शक्रब्रह्मलोकपालैर्बोधिसत्त्वस्य पूजाकर्मणे बुद्धक्षेत्रशतसहस्राणि समलंकृतान्यभूवन्। बोधिसत्त्वैश्च दिव्यमानुष्यकातिक्रान्तैः पूजाव्यूहैर्दशसु दिक्ष्वप्रमेयाणि बुद्धक्षेत्राणि प्रतिमण्डितान्यभूवन् बोधिसत्त्वस्य पूजाकर्मणे। सर्वाणि च तानि बुद्धक्षेत्राण्येकमिव बुद्धक्षेत्रं संदृश्यन्ते स्म, नानाव्यूहालंकारालंकृतानि च। न च भूयो लोकान्तरिका न च कालपर्वता न च चक्रवालमहाचक्रवालाः प्रज्ञायन्ते स्म। सर्वाणि च तानि बुद्धक्षेत्राणि बोधिसत्त्वस्याभया स्फुटानि संदृश्यन्ते स्म। षोडश च बोधिमण्डपरिपालिका देवपुत्राः। तद्यथा-उत्खली च नाम देवपुत्रः सूत्खली च नाम प्रजापतिश्च शूरबलश्च केयूरबलश्च सुप्रतिस्थितश्च महिंधरश्च अवभासकरश्च विमलश्च धर्मेश्वरश्च धर्मकेतुश्च सिद्धपात्रश्च अप्रतिहतनेत्रश्च महाव्यूहश्च शीलविशुद्धनेत्रश्च पद्मप्रभश्च। इतीमे षोडश बोधिमण्डप्रतिपालका देवपुत्राः सर्वेऽवैवर्त्यक्षान्तिप्रतिलब्धास्ते बोधिसत्त्वस्य पूजार्थं बोधिमण्डं मण्डयन्ति स्म। समन्तादशीतियोजनानि सप्तभी रत्नवेदिकाभिः परिवृतं सप्तभिस्तालपङ्क्तिभिः सप्तभी रत्नकिङ्किणीजालैः सप्तभी रत्नसूत्रैः परिवृतम्, सप्तरत्नप्रत्युप्तैश्च जाम्बूनदसुवर्णपटैः सुवर्णसूत्रैर्जाम्बूनदसुवर्णपद्मैश्चावकीर्णं सारवरगन्धनिर्धूपितं रत्नजालसंछन्नम्। ये च दशसु दिक्षु नानालोकधातुषु विविधा वृक्षाः सन्त्यभिजाता अभिपूजिता दिव्यमानुष्यकास्तेऽपि सर्वे तत्र बोधिमण्डे संदृश्यन्ते स्म। याश्च दशसु दिक्षु नानाप्रकारा जलस्थलजाः पुष्पजातयस्ता अपि सर्वास्तत्र बोधिमण्डे संदृश्यन्ते स्म। येऽपि च दशसु दिक्षु नानालोकधातुषु बोधिसत्त्वा बोधिमण्डालंकुर्वन्त्यप्रमाणपुण्यज्ञानसंभारव्यूहैस्तेऽपि तत्र बोधिमण्डे संदृश्यन्ते स्म॥



इति हि भिक्षवो बोधिमण्डपरिपालकैर्देवपुत्रैस्तादृशा व्यूहा बोधिमण्डे अभिनिर्मिता अभूवन्, यान् दृष्ट्वा देवनागयक्षगन्धर्वासुराः स्वभवनानि श्मशानसंज्ञामुत्पादयामासुः। तांश्च व्यूहान् दृष्ट्वात्यर्थं चित्रीकारमुत्पादयामासुः। एवमुदानं चोदानयामासुः-साध्वहोऽचिन्त्यः पुण्यविपाकनिष्यन्द इति। चत्वारश्च बोधिवृक्षदेवताः। तद्यथा-वेणुश्च वल्गुश्च सुमनश्च ओजापतिश्च। एते चत्वारो बोधिवृक्षदेवता बोधिसत्त्वस्य पूजार्थं बोधिवृक्षं मापयन्ति स्म मूलसंपन्नं स्कन्धसंपन्नं शाखापत्रपुष्पफलसंपन्नं आरोहपरिणाहसंपन्नं प्रासादिकं दर्शनीयं विस्तीर्णमशीतिस्तालानुच्चैस्त्वेन तदनुरूपेण परिणाहेन चित्रं दर्शनीयं मनोरमं सप्तभी रत्नवेदिकाभिः परिवृतं सप्तभी रत्नतालपङ्क्तिभिः सप्तभी रत्नकिङ्किणीजालैः सप्तभी रत्नसूत्रैः समन्तादनुपरिवृतैरनुपरिक्षिप्तं पारिजातककोविदारप्रकाशमतृप्तचक्षुर्दर्शनम्। स च पृथिवीप्रदेशस्त्रिसाहस्रमहासाहस्रलोकधातुवज्रेणाभिदृढः सारोऽभेद्यवज्रमयः संस्थितोऽभूत् यत्र बोधिसत्त्वो निषण्णोऽभूद्बोधिमभिसंबोद्धुकामः॥



इति हि भिक्षवो बोधिसत्त्वेन बोधिमण्डमुपसंक्रमता तथारूपा कायात्प्रभा मुक्ताभूत्, यया प्रभया सर्वेऽपायाः शान्ता अभूवन्। सर्वाण्यक्षणानि पिथितान्यभूवन्। सर्वदुर्गतिवेदनाश्चोपशोषिता अनुभवन्। ये च सत्त्वा विकलेन्द्रिया अभूवन्, ते सर्वे परिपूर्णेन्द्रियतामनुप्राप्नुवन्। व्याधिताश्च व्याधिभ्यो व्यमुच्यन्त। भयार्दिताश्चाश्वासप्राप्ता अभूवन्। बन्धनबद्धाश्च बन्धनेभ्यो व्यमुच्यन्त। दरिद्राश्च सत्त्वा भोगवन्तोऽभूवन्। क्लेशसंतप्ताश्च निष्परिदाहा अभूवन्। बुभुक्षिताश्च सत्त्वाः पूर्णोदरा अभूवन्। पिपासिताश्च तृषापगता अभूवन्। गुर्विण्यश्च सुखेन प्रसूयन्ते स्म। जीर्णदुर्बलाश्च बलसंपन्ना अभूवन्। न च कस्यचित्सत्त्वस्य तस्मिन् समये रागो बाधते द्वेषो व मोहो वा क्रोधो वा लोभो वा खिलो वा व्यापादो वा ईर्ष्या वा मात्सर्यो वा। न कश्चित्सत्त्वस्तस्मिन् समये म्रियते स्म, न च्यवते स्म, नोपपद्यते स्म। सर्वसत्त्वाश्च तस्मिन् समये मैत्रचित्ता हितचित्ताः परस्परं मातापितृसंज्ञिनोऽभूवन्॥



तत्रेदमुच्यते—



यावच्चावीचिपर्यन्तं नरका घोरदर्शनाः।

दुःखं प्रशान्तं सत्त्वानां सुखं विन्दन्ति वेदनाम्॥७॥



तिर्यग्योनिषु यावन्तः सत्त्वा अन्योन्यघातकाः।

मैत्रचित्ता हिते जाताः स्पृष्टा भाभिर्महामुने॥८॥



प्रेतलोकेषु यावन्तः प्रेताः क्षुत्तर्षपीडिताः।

प्राप्नुवन्त्यन्नपानानि बोधिसत्त्वस्य तेजसा॥९॥



अक्षणाः पिथिताः सर्वे दुर्गतिश्चोपशोषिता।

सुखिताः सर्वसत्त्वाश्च दिव्यसौख्यसमर्पिताः॥१०॥



चक्षुश्रोत्रविहीनाश्च ये चान्ये विकलेन्द्रियाः।

सर्वेन्द्रियैः सुसंपूर्णा जाताः सर्वाङ्गशोभनाः॥११॥



रागद्वेषादिभिः क्लेशैः सत्त्वा बाध्यन्त ये सदा।

शान्तक्लेशास्तदा सर्वे जाताः सुखसमर्पिताः॥१२॥



उन्मत्ताः स्मृतिमन्तश्च दरिद्रा धनिनस्तथा।

व्याधिता रोगनिर्मुक्ता मुक्ता बन्धनबद्धकाः॥१३॥



न खिलं न च मात्सर्यं व्यापादो न च विग्रहः।

अन्योन्यं संप्रकुर्वन्ति मैत्रचित्ताः स्थितास्तदा॥१४॥



मातुः पितुश्चैकपुत्रे यथा प्रेम प्रवर्तते।

तथान्योन्येन सत्त्वानां पुत्रप्रेम तदाभवत्॥१५॥



बोधिसत्त्वप्रभाजालैः स्फुटाः क्षेत्रा ह्यचिन्तियाः।

गङ्गावालिकसंख्याताः समन्ताद्वै दिशो दशः॥१६॥



न भूयश्चक्रवालाश्च दृश्यन्ते कालपर्वताः।

सर्वे ते विपुलाः क्षेत्राः दृश्यन्त्येकं यथा तथा॥१७॥



पाणितलप्रकाशाश्च दृश्यन्ते सर्वरत्निकाः।

बोधिसत्त्वस्य पूजार्थं सर्वक्षेत्रा अलंकृताः॥१८॥



देवाश्च षोडश तथा बोधिमण्डोपचारकाः।

अलंचक्रुर्बोधिमण्डं अशीतिर्योजनावृतम्॥१९॥



ये च केचिन्महाव्यूहाः क्षेत्रकोटीष्वनन्तकाः।

ते सर्वे तत्र दृश्यन्ते बोधिसत्त्वस्य तेजसा॥२०॥



देवा नागास्तथा यक्षाः किन्नराश्च महोरगाः।

स्वानि स्वानि विमानानि श्मशानानीव मेनिरे॥२१॥



तान् व्यूहान् संनिरीक्ष्येह विस्मिताः सुरमानुषाः।

साधुः पुण्यस्य निस्यन्दः संपद्यस्येयमीदृशी॥२२॥



करोति नैव चोद्योगं कायवाङ्भनसा तथा।

सर्वार्थाश्चास्य सिध्यन्ति येऽभिप्रेता मनोरथाः॥२३॥



अभिप्राया यथान्येषां पूरिताश्चरता पुरा।

विपाकाः कर्मणस्तस्य संपद्यातेयमीदृशी॥२४॥



अलंकृतो बोधिमण्डश्चतुर्भिर्बोधिदेवतैः।

पारिजातो दिवि यथा तस्मादपि विशिष्यते॥२५॥



गुणाः शक्या न ते वाचा सर्वे संपरिकीर्तितुम्।

ये व्यूहा बोधिमण्डस्य देवतैरभिसंस्कृताः॥२६॥



इति हि भिक्षवस्तया बोधिसत्त्वस्य कायप्रमुक्तया प्रभया कालिकस्य नागराजस्य भवनमवभासितमभूत् विशुद्धया विमलया कायचित्तप्रह्लादौद्विल्यजनन्या सर्वक्लेशापकर्षिण्या सर्वसत्त्वसुखप्रीतिप्रसादप्रामोद्यजनन्या। दृष्ट्वा च पुनः कालिको नागराजस्तस्यां वेलायां स्वस्य परिवारस्य पुरतः स्थित्वेमा गाथा अभाषत्—



क्रकुछन्दे यथ आभ दृष्ट रुचिरा दृष्टा च कनकाह्वये

यद्वत्काश्यपि धर्मराजमनघे दृष्टा प्रभा निर्मला।

निःसंशयं वरलक्षणो हितकरो उत्पन्न ज्ञानप्रभो

येनेदं भवनं विरोचति हि मे स्वर्णप्रभालंकृतम्॥२७॥



नास्मिं चन्द्ररविप्रभा सुविपुला संदृश्यते वेश्मनि

नो चाग्नेर्न मणेर्न विद्युदमला नो च प्रभा ज्योतिषाम्।

नो वा शक्रप्रभा न ब्रह्मण प्रभा नो च प्रभा आसुरी

एकान्तं तमसाकुलं मम गृहं प्राग्दुष्कृतैः कर्मभिः॥२८॥



अद्येदं भवनं विराजति शुभं मध्ये रविंदीप्तिवत्

चित्तं प्रीति जनेति कायु सुखितो गात्राद्भुता शीतला।

तप्ता वालिक या शरीरि निपती जाता स मे शीतला

सुव्यक्तं बहुकल्पकोटिचरितो बोधिद्रमं गच्छति॥२९॥



शीघ्रं गृह्णत नागपुष्प रुचिरा वस्त्रां सुगन्धां शुभां

मुक्ताहारपिनद्धतांश्च वलयांश्चूर्णानि धूपोत्तमा।

संगीतिं प्रकृरुध्व वाद्य विविधा भेरीमृदङ्गैः शुभैः

हन्ता गच्छथ पूजना हितकरं पूजार्ह सर्वे जगे॥३०॥



सोऽभ्युत्थाय च नागकन्यसहितश्चतुरो दिशः प्रेक्षते

अद्राक्षीदथ मेरुपर्वतनिभं स्वालंकृतं तेजसा।

देवैर्दानवकोटिभिः परिवृतं ब्रह्मेन्द्रयक्षैस्तथा

पूजां तस्य करोन्ति हृष्टमनसो दर्शेन्ति मार्गो ह्ययम्॥३१॥



संहृष्टः स हि नागराट् सुमुदितश्चाभ्यर्च्य लोकोत्तमं

वन्दित्वा चरणौ च गौरवकृतस्तस्थौ मुनेरग्रतः।

नागाकन्य उदग्र हृष्टमनसः कुर्वन्ति पूजां मुनेः

पुष्पं गन्धविलेपना च क्षिपिषुस्तूर्याणि निर्नादयन्॥३२॥



कृत्वा चाञ्जलि नागराट् सुमुदितस्तुष्टाव तथ्यैर्गुणैः

साधुर्दर्शितु पूर्णचन्द्रवदने लोकोत्तमे नायके।

यथ मे दृष्ट निमित्त पूर्वऋषिणां पश्यामि तानेव ते

अद्य त्वं विनिहत्य मारबलवानिष्टं पदं लप्स्यसे॥३३॥



यस्यार्थे दमदानसंयम पुरे सर्वा ति त्यागी अभूत्

यस्यार्थे दमशीलमैत्रकरुणाक्षान्तिबलं भावितम्।

यस्यार्थे दमवीर्यध्याननिरतः प्रज्ञाप्रदीपः कृतः

सैषा ते परिपूर्ण सर्व प्रणिधी अद्या जिनो भेष्यसे॥३४॥



यद्वद्वृक्ष सपत्रपुष्प सफला बोधिद्रुमं संनताः

यद्वत्कुम्भसहस्र पूर्णसलिला कुर्वन्ति प्रादक्षिणम्।

यद्वच्चाप्सरगणाश्च संप्रमुदिता स्निग्धं रुतं कुर्वते

हंसा क्रोञ्चगणा यथा च गगने गच्छन्ति लीलान्वितं

कुर्वन्ते सुमनाः प्रदक्षिणमृषिं भावि त्वमद्यार्हवान्॥३५॥



यथ वा काञ्चनवर्ण आभ रुचिरा क्षत्राशता गच्छते

शान्ताश्चापि यथा अपाय निखिला दुःखैर्विमुक्ता प्रजाः।

यद्वद्वृष्टित चन्द्रसूर्यभवना वायुर्मृदुर्वायते

अद्या भेष्यसि सार्थवाहु त्रिभवे जातीजरामोचको॥३६॥



यद्वत्कामरती विहाय च सुरास्त्वत्पूजनेऽभ्यागताः

ब्रह्मा ब्रह्मपुरोहिताश्च अमरा उत्सृज्य ध्यानं सुखम्।

ये केचित्त्रिभवे तथैव च पुरे सर्वे इहाभ्यागताः

अद्या भेष्यसि वैद्यराजु त्रिभवे जाटीजरमोचको॥३७॥



मार्गश्चापि यथा विशोधितु सुरैर्येनाद्य त्वं गच्छसे

एतेनागतु क्रकुच्छन्दु भगवान् कनकाह्वयः काश्यपः।

यथ वा पद्म विशुद्ध निर्मल शुभा भित्त्वा महीमुद्गताः

यस्मिं निक्षिपसे क्रमानतिबलां भावि त्वमद्यार्हवान्॥३८॥



माराः कोटिसहस्र नेकनयुता गङ्गा यथा वालिकाः

ते तुभ्यं न समर्थ बोधिविटपाच्चालेतु कम्पेतु वा।

यज्ञा नैकविधाः सहस्रनयुता गङ्गा यथा वालिकाः

यष्टास्ते चरता हिताय जगतस्तेनेह विभ्राजसे॥३९॥



नक्षत्रा सशशी सतारकरवी भूमौ पतेदम्बरात्

स्वस्थानाच्च चलेन्महागिरिवरः शुष्येदथो सागरः।

चतुरो धातव कश्चि विज्ञपुरुषो दर्शेय एकैकशः

नैव त्वं द्रुमराजमूलुपगतो अप्राप्य बोध्युत्थिहेत्॥४०॥



लाभा मह्य सुलब्ध वृद्धि विपुला दृष्टोऽसि यत्सारथे

पूजा चैव कृता गुणाश्च कथिता बोधाय चोत्साहितः।

सर्वा नागवधू अहं च ससुता मुच्येमितो योनितः

त्वं यासी यथ मत्तवारणगते गच्छेम एवं वयम्॥४१॥इति॥



इति हि भिक्षवः कालिकस्य नागराजस्याग्रमहिषी सुवर्णप्रभासा नाम, सा संबहुलाभिर्नागकन्याभिः परिवृता पुरस्कृता नानारत्नछत्रपरिगृहीताभिः नानादूष्यपरिगृहीताभिर्नानामुक्ताहारपरिगृहीताभिः नानामणिरत्नपरिगृहीताभिः दिव्यमानुष्यकमाल्यविलेपनगुण्ठपरिगृहीताभिः नानागन्धघटिकापरिगृहीताभिः नानातूर्यसंगीतिसंप्रवादितैर्नानारत्नपुष्पवर्षैर्बोधिसत्त्वं गच्छन्तमभ्यवकिरन्ति स्म॥



आभिश्च गाथाभिस्तुष्टुवुः—



अभ्रान्ता अत्रस्ता अभीरू अछम्भी

अलीना अदीना प्रहृष्टा दुधर्षा।

अरक्ता अदुष्टा अमूढा अलुब्धा

विरक्ता विमुक्ता नमस्ते महर्षे॥४२॥



भिषङ्का विशल्या विनेया विनेषी

सुवैद्या जगस्या दुखेभ्यः प्रमोची।

अलेना अत्राणा अहीना विदित्वा

भवा लेनु त्राणो त्रिलोकेस्मि जातः॥४३॥



प्रसन्ना प्रहृष्टा यथा देवसंघाः

प्रवर्षी नभस्था महत्पुष्पवर्षम्।

महाचैलक्षेपं करोन्ती यथेमे

जिनो भेष्यसेऽद्या कुरुष्व प्रहर्षम्॥४४॥



उपेहि द्रुमेन्द्रं निषीदा अछम्भी

जिना मारसेनां धुन क्लेशजालम्।

विबुद्ध्य प्रशान्तां वरामग्रबोधिं

यथा पौर्वकैस्तैर्विबुद्धा जिनेन्द्रैः॥४५॥



त्वया यस्य अर्थे बहूकल्पकोट्यः

कृता दुष्कराणी जगन्मोचनार्थम्।

प्रपूर्णा ति आशा अयं प्राप्तु कालो

उपेहि द्रुमेन्द्रं स्पृशस्वाग्रबोधिम्॥४६॥ इति॥



अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभवत्-कुत्र निषण्णैस्तैः पूर्वकैस्तथागतैरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा इति। ततोऽस्यैतदभूत्-तृणसंस्तरे निषण्णैरिति॥



अथ खल्वन्तरीक्षगतानि शुद्धावासकायिकदेवशतसहस्राणि बोधिसत्त्वस्य चेतोभिरेव चेतःपरिवितर्कमाज्ञायैवं वाचो भाषन्ते स्म-एवमेतत् सत्पुरुष, एवमेतत्। तृणसंस्तरे सत्पुरुष निषद्य तैः पूर्वकैस्तथागतैरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा इति॥



अद्राक्षीत्खल्वपि भिक्षवो बोधिसत्त्वो मार्गस्य दक्षिणे पार्श्वे स्वस्तिकं यावसिकम् तृणानि लूनाति स्म नीलानि मृदुकानि सुकुमाराणि रमणीयानि कुण्डलजातानि प्रदक्षिणावर्तानि। मयूरग्रीवसंनिभानि काचिलिन्दिकसुखसंस्पर्शानि सुगन्धीनि वर्णवन्ति मनोरमाणि। दृष्ट्वा च पुनर्बोधिसत्त्वो मार्गादपक्रम्य येन स्वस्तिको यावसिकस्तेनोपसंक्रामत्। उपसंक्रम्य स्वस्तिकं यावसिकं मधुरया वाचा समालपति स्म। यासौ वागाज्ञापनी विज्ञापनी विस्पष्टा अनेकलोकैकवर्णसुखा वल्गुः श्रवणीया स्निग्धा स्मरणीया चोदनी तोषणी प्रेमणी अकर्कशा अगद्गदा अपरुषा अचपला श्लक्ष्णा मधुरा कर्णसुखा कायचित्तोद्बिल्यकरणी रागदोषमोहकलिकलुषविनोदनी कलविङ्करुतस्वरा कुणालजीवंजीवकाभिनदितघोषा दुन्दुभिसंगीतिरुतरवितनिर्घोषवती अनपहता सत्या अच्छा भूता ब्रह्मस्वरुतरवितनिर्घोषा समुद्रस्वरवेगनिभा शैलसंघट्टनवती देवेन्द्रासुरेन्द्राभिष्टुता गम्भीरा दुरवगाहा नमुचिबलाबलकरणी परप्रवादमथनी सिंहस्वरवेगा हयगजगर्जितघोषा नागनिर्नादनी मेघस्तनिताभिगर्जितस्वरा दशदिक्सर्वबुद्धक्षेत्रस्फरणी विनेयसत्त्वसंचोदनी अद्रुता अनुपहता अविलम्बिता सहिता युक्ता कालवादिनी समयानतिक्रमणी धर्मशतसहस्रसुग्रथिता सौम्या असक्ता अधिष्ठितप्रतिभाना एकरुता सर्वरुतरचनी सर्वाभिप्रायज्ञापनी सर्वसुखसंजननी मोक्षपथसंदर्शिका मार्गसंभारवादिनी पर्षदनतिक्रमणी सर्वपर्षत्संतोषणी सर्वबुद्धभाषितानुकूला। ईदृश्या वाचा बोधिसत्त्वः स्वस्तिकं यावसिकं गाथाभिरभ्यभाषत—



तृणु देहि मि स्वस्तिक शीघ्रं

अद्य ममार्थु तृणैः सुमहान्तः।

सबलं नमुचिं निहनित्वा

बोधिमनुत्तरशान्ति स्पृशिष्ये॥४७॥



यस्य कृते मयि कल्पसहस्रा

दानु दमोऽपि च संयम त्यागो।

शीलव्रतं च तपश्च सुचीर्णा

तस्य मि निष्पदि भेष्यति अद्य॥४८॥



क्षान्तिबलं तथ वीर्यबलं च

ध्यानबलं तथ ज्ञानबलं च।

पुण्य‍अभिज्ञविमोक्षबलं च

तस्य मि निष्पदि भेष्यति अद्य॥ ४९॥



प्रज्ञबलं च उपायबलं च

ऋद्धिम संगतमैत्रबलं च।

प्रतिसंविदपरिसत्यबलं च

तेष मि निष्पदि भेष्यति अद्य॥५०॥



पुण्यबलं च तवापि अनन्तं

यन्मम दास्यसि अद्य तृणानि।

न ह्यपरं तव एतु निमित्तं

त्वं पि अनुत्तरु भेष्यसि शास्ता॥५१॥



श्रुत्वा स्वस्तिकु वाच नायके सुरुचिरमधुरां

तुष्टो आत्तमनाश्च हर्षितः प्रमुदितमनसः।

गृह्णीत्वा तृणमुष्टि स्पर्शनवती मृदुतरुणशुभां

पुरतः स्थित्वन वाच भाषते प्रमुदितहृदयः॥५२॥



यदि ताव णृकेभि लभ्यते पदवरममृतं

बोधी उत्तम शान्त दुर्दृशा पुरिमजिनपथः।

तिष्ठतु ताव महागुणोदधे अपरिमितयशा

अहमेव प्रथमे नु बुध्यमि पदवरमृतम्॥५३॥



नैषा स्वस्तिक बोधि लभ्यते तृणवरशयनैः

अचरित्वा बहुकल्प दुष्करी व्रततप विविधा।

प्रज्ञापुण्य‍उपाय‍उद्गतो यद भवि मतिमां

तद पश्चाज्जिन व्याकरोन्ति मुनयो भविष्यसि विरजः॥५४॥



यदि बोधि इय शक्यु स्वस्तिका परजनि ददितुं

पिण्डीकृत्य ददेय प्राणिनां म भवतु विमतिः।

यद बोधी मय प्राप्त जानसी विभजमि अमृतं

आगत्वा शृणु धर्मयुक्त त्वं भविष्यसि विरजः॥५५॥



गृह्णीत्वा तृणमुष्टि नायकः परमसुमृदुकां

सिंहाहंसगतिश्च प्रस्थितः प्रचलित धरणी।

देवा नागगणाः कृताञ्जली प्रमुदितमनसः

अद्या मारबलं निहत्ययं स्पृशिष्यति अमृतम्॥५६॥



इति हि भिक्षवो बोधिसत्त्वस्य बोधिवृक्षमुपसंक्रामतोऽशीतिबोधिवृक्षसहस्राणि देवपुत्रैश्च बोधिसत्त्वैश्च मण्डितान्यभूवन्-इह निषद्य बोधिसत्त्वो बोधिं प्राप्स्यत्यभिसंभोत्स्यत इति। सन्ति तत्र केचिद्बोधिवृक्षाः पुष्पमया योजनशतसहस्रोद्विद्धाः। केचिद् बोधिवृक्षा गन्धमया द्वियोजनशतसहस्रोद्विद्धाः। केचिद्बोधिवृक्षाश्चन्दनमयास्त्रियोजनशतसहस्रोद्विद्धाः। केचिद्बोधिवृक्षा वस्त्रमयाः पञ्चयोजनशतसहस्राण्युच्चैस्त्वेन। केचिद्बोधिवृक्षा रत्नमया दशयोजनशतसहस्राण्युच्चैस्त्वेन। केचिद्बोधिवृक्षाः सर्वरत्नमया दशयोजनकोटिनयुतशतसहस्राण्युच्चैस्त्वेन। केचिद्बोधिवृक्षा रत्नमयाः कोटिनयुतशतसहस्रमुद्विद्धाः। सर्वेषु तेषु बोधिवृक्षमूलेषु यथानुरूपाणि सिंहासनानि प्रज्ञप्तान्यभूवन् नानादिव्यदूष्यसंस्तृतानि। क्वचिद्बोधिवृक्षे पद्मासनं प्रज्ञप्तमभूत्, क्वचिद्गन्धासनम्, क्वचिन्नानाविधरत्नासनम्। बोधिसत्त्वश्च ललितव्यूहं नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य च बोधिसत्त्वस्येमं ललितव्यूहं नाम बोधिसत्त्वसमाधिम्, अथ तत्क्षणमेव बोधिसत्त्वः सर्वेषु च तेषु बोधिवृक्षमूलेषु सिंहासने संनिषण्णः संदृश्यते स्म लक्षणानुव्यञ्जनसमलंकृतेन कायेन। एकैकश्च बोधिसत्त्वो देवपुत्रैश्चैवं संजानीते स्म-ममैव सिंहासने बोधिसत्त्वो निषण्णो नान्येषामिति। यथा च ते संजानते स्म-तथास्यैव ललितव्यूहस्य बोधिसत्त्वसमाधेरनुभावेन सर्वनिरयतिर्यग्योनियमलोकिकाः सर्वे देवमनुष्याश्च सर्वे गत्युपपन्नाः सर्वसत्त्वा बोधिसत्त्वं पश्यन्ति स्म बोधिवृक्षमूले सिंहासने निषण्णम्॥



अथ च पुनर्हीनाधिमुक्तिकानां सत्त्वानां मतिपरितोषणार्थं बोधिसत्त्वस्तृणमुष्टिमादाय येन बोधिवृक्षस्तेनोपसंक्रामत्। उपसंक्रम्य बोधिवृक्षं सप्तकृत्वः प्रदक्षिणीकृत्य स्वयमेवाभ्यन्तराग्रं बहिर्मूलं समन्तभद्रं तृणसंस्तरणं संस्तीर्य सिंहवच्छूरवद्बलवद्दृढवीर्यवत्स्थामवन्नागवदैश्वर्यवत्स्वयंभूवज्ज्ञानिवदनुत्तरवद्विशेषवदभ्युद्रतवद्यशोवत्कीर्तिवद्दान-वच्छीलवत्क्षान्तिवद्वीर्यवद्ध्यानवत्प्रज्ञावज्ज्ञानवत्पुण्यवन्निहतमारप्रत्यर्थिकवत्संभारवत्पर्यङ्कमाभुज्य तस्मिंस्तृणसंस्तरे न्यषीदत् प्राङ्मुख ऋजुकायं प्रणिधाय अभिमुखां स्मृतिमुपस्थाप्य। ईदृशं च दृढं समादानमकरोत्—



इहासने शुष्यतु मे शरीरं

त्वगस्थिमांसं प्रलयं च यातु।

अप्राप्य बोधिं बहुकल्पदुर्लभां

नैवासनात्कायमतश्चलिष्यते॥५७॥इति॥



॥ इति श्रीललितविस्तरे बोधिमण्डगमनपरिवर्तो नाम एकोनविंशतितमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project