Digital Sanskrit Buddhist Canon

१५ अभिनिष्क्रमणपरिवर्तः पञ्चदशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१५ अभिनिष्क्रमणपरिवर्तः पञ्चदशः।



अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत्-अयुक्तमेतन्मम स्यादकृतज्ञता च यदहमप्रतिवेद्य महाराज्ञः शुद्धोदनस्य अननुज्ञातश्च पित्रा निष्क्रमेयम्। स रात्रौ प्रशान्तायां स्वकादुपस्थानप्रासादादवतीर्य राज्ञः शुद्धोदनस्य प्रासादतले प्रतिष्ठितोऽभूत्। प्रतिष्ठितमात्रस्य च पुनर्बोधिसत्त्वस्य सर्वोऽसौ प्रासाद आभया स्फुटोऽभूत्। तत्र राजा प्रतिविबुद्धस्तां प्रभामद्राक्षीत्। दृष्ट्वा च पुनस्त्वरितं त्वरितं काञ्चुकियमामन्त्रयामास-किं भोः काञ्चुकीय सूर्योऽभ्युद्गतो येनेयं प्रभा विराजते ? काञ्चुकीय आह-अद्यापि तावदेव रजन्या उपार्धं नातिक्रान्तम्। अपि च देव—



सूर्यप्रभाय भवते द्रुमकुड्यछाया

संतापयाति च तनुं प्रकरोति धर्मम्।

हंसा मयूरशुककोकिलचक्रवाकाः

प्रत्यूषकालसमये स्वरुतां रवन्ति॥१॥



आभा इयं तु नरदेव सुखा मनोज्ञा

प्रह्लादनी शुभकरी न करोति दाहम्।

कुड्या च वृक्ष अभिभूय न चास्ति छाया

निःसंशयं गुणधरो इह अद्य प्राप्तः॥२॥



सो प्रेक्षते दशदिशो नृपती विषण्णो

दृष्टश्च सो कमललोचन शुद्धसत्त्वः।

सोऽभ्युत्थितुं शयनि इच्छति न प्रभोति

पितृगौरवं जनयते वरशुद्धबुद्धिः॥३॥



सो च स्थिहित्व पुरतो नृपतिं अवोचत्

मा भूयु विघ्न प्रकरोहि म चैव खेदम्।

नैष्क्रम्यकालसमयो मम देव युक्तो

हन्त क्षमस्व नृपते सजनः सराष्ट्रः॥४॥



तं अश्रुपूर्णनयनो नृपती बभाषे

किंचित्प्रयोजनु भवेद्विनिवर्तने ते।

किं याचसे मम वरं वद सर्व दास्ये

अनुगृह्ण राजकुलु मां च इदं च राष्ट्रम्॥५॥



तद बोधिसत्त्व अवची मधुरप्रलापी

इच्छामि देव चतुरो वर तान् मि देहि।

यदि शक्यसे ददितु मह्य वसे ति तत्र

तद् द्रक्ष्यसे सद गृहे न च निष्क्रमिष्ये॥६॥



इच्छामि देव जर मह्य न आक्रमेय्या

शुभवर्ण यौवनस्थितो भवि नित्यकालम्।

आरोग्यप्राप्तु भवि नो च भवेत व्याधिः

अमितायुषश्च भवि नो च भवेत मृत्युः

(संपत्तितश्च विपुला नु भवेद्विपत्तिः)॥७॥



राजा श्रुणित्व वचनं परमं दुखार्तो

अस्थानु याचसि कुमार न मेऽत्र शक्तिः।

जरव्याधिमृत्युभयतश्च विपत्तितश्च

कल्पस्थितीय ऋषयोऽपि न जातु मुक्ताः॥८॥



यदिदानि देव चतुरो वर नो ददासि

जरव्याधिमृत्युभयतश्च विपत्तितश्च।

हन्त शृणुष्व नृपते अपरं वरैकं

अस्माच्च्युतस्य प्रतिसंधि न मे भवेया॥९॥



श्रुत्वैव चेम वचनं नरपुंगवस्य

तृष्णा तनुं च करि छिन्दति पुत्रस्नेहम्।

अनुमोदमी हितकरा जगति प्रमोक्षं

अभिप्रायु तुभ्य परिपूर्यतु यन्मतं ते॥१०॥



अथ खलु भिक्षवो बोधिसत्त्वः प्रतिक्रम्य स्वके प्रासादेऽभिरुह्य शयने निषसाद। न चास्य कश्चिद्गमनं वा आगमनं वा संजानीते स्म॥



इति हि भिक्षवो राजा शुद्धोदनस्तस्या रात्र्या अत्ययेन सर्वं शाक्यगणं संनिपात्यैनां प्रकृतिमारोचयति स्म-अभिनिष्क्रमिष्यति कुमारः। तत्किं करिष्यामः? शाक्या आहुः-रक्षां देव करिष्यामः। तत्कस्मात् ? अयं च महाञ्शाक्यगणः, स चैकाकी। तत्का तस्य शक्तिरस्ति बलादभिनिष्क्रमितुम्?



तत्र तैः शाक्यै राज्ञा शुद्धोदनेन च पञ्च शाक्यकुमारशतानि कृतास्त्राणि कृतयोग्यानि इष्वस्त्रशिक्षितानि महानग्नबलोपेतानि पूर्वे नगरद्वारे स्थापितान्यभूवन् बोधिसत्त्वस्य रक्षणार्थम्। एकैकश्च शाक्यकुमारः पञ्चरथशतपरिवारः, एकैकं च रथं पञ्चपत्तिशतपरिवारं स्थापितमभूत् बोधिसत्त्वस्य रक्षणार्थम्। एवं दक्षिणे पश्चिमे उत्तरे नगरद्वारे पञ्च पञ्च शाक्यकुमारशतानि कृतास्त्राणि कृतयोग्यानि इष्वस्त्रशिक्षितानि महानग्नबलोपेतानि। एकैकश्च शाक्यकुमारः पञ्चरथशतपरिवारः, एकैकं च रथं पञ्चपत्तिशतपरिवारं स्थापितमभूत बोधिसत्त्वस्य रक्षार्थम्। महल्लकमहल्लिकाश्च शाक्याः सर्वचत्वरशृङ्गाटकपूगरथ्यास्वारक्षार्थं स्थिता अभवन्। राजा च शुद्धोदनः पञ्चभिः शाक्यकुमारशतैः सार्धं परिवृतः पुरस्कृतः स्वके गृहद्वारे हयेषु च गजेषु च समभिरुह्य जागर्ति स्म। महाप्रजापती च गोतमी चेटीवर्गमामन्त्रयते स्म–



ज्वालेथ दीप विमलां ध्वजाग्रि मणिरत्न सर्वि स्थापेथा।

ओलम्बयाथ हारां प्रभां कुरुत सर्वि गेहेस्मिन्॥११॥



संगीति योजयेथा जागरथ अतन्द्रिता इमां रजनीम्।

प्रतिरक्षथा कुमारं यथा अविदितो न गच्छेया॥१२॥



वर्मितकलापहस्ता असिधनुशरशक्तितोमरगृहीताः।

प्रियतनयरक्षणार्थं करोथ सर्वे महायत्नम्॥१३॥



द्वारां पिथेथ सर्वां सुयन्त्रितां निर्गडां दृढकपाटां।

मुञ्चथ मा च अकाले मा अग्रसत्त्व इतु न व्रजेया॥१४॥



मणिहारमुक्तहारां मुखपुष्पके अर्धचन्द्र सशृङ्खलाः।

मेखलकर्णिकमुद्रिक सुनिबद्धां नूपुरां कुरुत॥१५॥



यदि सहस निष्क्रमेया नरमरुहित मत्तवारणविचारी।

तथ तथ पराक्रमथा यथा विघातं न विन्देया॥१६॥



या नारि शक्तिधारी शयनं परिवारयन्तु विमलस्य।

म च भवथ मिद्धविहताः पतंग इव रक्षथा नेत्रैः॥१७॥



छादेथ रतनजालै इदं गृहं पार्थिवस्य रक्षार्थम्।

वेणूरवांश्च रवथा इमां रजनि रक्षथा विरजाम्॥१८॥



अन्योन्य बोधयेथा म वसयथा रक्षथा इमां रजनीम्।

मा हु अभिनिष्क्रमेथा विजह्य राष्ट्रं च राज्यं च॥१९॥



एतस्य निर्गतस्या राजकुलं सर्विमं निरभिरम्यम्।

उच्छिन्नश्च भवेया पार्थिववंशश्चिरनुबद्धः॥२०॥इति



अथ खलु भिक्षवोऽष्टाविंशतिमहायक्षसेनापतयः पाञ्चिकयज्ञसेनापतिपूर्वंगमानि च पञ्चहारितीपुत्रशतान्येकस्मिन् संनिपात्यैवं मतं विचारयन्ति स्म-अद्य मार्षा बोधिसत्त्वोऽभिनिष्क्रमिष्यति। तस्य युष्माभिः पूजाकर्मणे औत्सुक्यमापत्तव्यम्॥



चत्वारश्च महाराजानो अलकवतीं राजधानीं प्रविश्य तां महतीं यक्षपर्षदमामन्त्रयते स्म-अद्य मार्षा बोधिसत्त्वोऽभिनिष्क्रमिष्यति। स युष्माभिर्ह यवरचरणपरिगृहीतो निष्क्रामयितव्यः। सा च यक्षपर्षदाह—



वज्रदृढ अभेद्य नारायणो आत्मभावो गुरु

वीर्यबल‍उपेतु सोऽकम्पितो सर्वसत्त्वोत्तमः।

गिरिवर महमेरु उत्पाट्य शक्यं नभे धारितुं केनचित्

न तु जिनगुणमेरु शैलैर्गुरुः पुण्यज्ञानाश्रितः शक्य नेतुं क्वचित्॥२१॥



वैश्रवण आह—



ये मानगर्वित नरा गुरु तेषु शास्ता

ये प्रेमगौरवस्थिता लघु ते विजानि।

अध्याशयेन अभियुज्यथ गौरवेण

लघु तं हि वेत्स्यथ खगा इव तूलपेशिम्॥२२॥



अहं च पुरतो यास्ये यूयं च वहथा हयम्।

नैष्क्रम्ये बोधिसत्त्वस्य पुण्यमार्जयामो बहुम्॥२३॥



अथ खलु भिक्षवः शक्रो देवानामिन्द्रो देवांस्त्रायत्रिंशानामन्त्रयते स्म-अद्य मार्षा बोधिसत्त्वोऽभिनिष्क्रमिष्यति। तत्र युष्माभिः सर्वैः पूजाकर्मणे औत्सुक्येन भवितव्यम्॥



तत्र शान्तमतिर्नाम देवपुत्रः स एवमाह-अहं तावत्कपिलवस्तुनि महानगरे सर्वस्त्रीपुरुषदारकदारिकाणां प्रस्वापनं करिष्यामि।



ललितव्यूहो नाम देवपुत्रः स एवमाह-अहमपि सर्वहयगजखरोष्ट्रगोमहिषस्त्रीपुरुषदारकदारिकाणां शब्दमन्तर्धापयिष्यामि।



व्यूहमतिर्नाम देवपुत्रः स एवमाह-अहं गगनतले सप्तरथविस्तारप्रमाणं रत्नवेदिकापरिवृतं सूर्यकान्तमणिरत्नप्रभोज्ज्वलितमुछ्रितछत्रध्वजपताकं नानापुष्पाभिकीर्णं नानागन्धघटिकानिधूपितं मार्गव्यूहं करिष्यामि, येन मार्गेण बोधिसत्त्वोऽभिनिष्क्रमिष्यति।



ऐरावणो नाम नागराजा स एवमाह-अहमपि च स्वस्यां शुण्डायां द्वात्रिंशद्योजनप्रमाणं कूटागारं मापयिष्यामि। यत्राप्सरसोऽभिरुह्य तूर्यसंगीतिसंप्रभणितेन महता गीतवादितेन बोधिसत्त्वस्योपस्थानपरिचर्यां कुर्वन्त्यो गमिष्यन्ति।



स्वयं च शक्रो देवानामिन्द्र एवमाह-अहं द्वाराणि विवरिष्यामि। मार्गं च संदर्शयामि।

धर्मचारी देवपुत्र आह-अहं विकृतमन्तःपुरमुपदर्शयिष्यामि।

संचोदको देवपुत्र आह-अहं बोधिसत्त्वं शयनादुत्थापयिष्यामि।



तत्र वरुणश्च नाम नागराजो मनस्वी च नागराजः सागरश्च नागराजोऽनवतप्तश्च नागराजो नन्दोपनन्दौ नागराजावेवमाहुः-वयमपि बोधिसत्त्वस्य पूजाकर्मणे कालानुसारिमेघमभिनिर्माय उरगसारचन्दनचूर्णवर्षमभिवर्षयिष्यामः॥



इति हि भिक्षवो देवनागयक्षगन्धर्वैश्चायमेवंरूपो निश्चयाभिप्रायश्चिन्तितोऽभूद् व्यवसितश्च। बोधिसत्त्वस्यैवं धर्मचिन्तानुप्रविष्टस्य संगीतिप्रासादेषु सुखशयनगतस्य अन्तःपुरमध्यगतस्य पूर्वबुद्धचरित विचिन्तयतः सर्वसत्त्वहितमनुचिन्तयतश्चत्वारि पूर्वप्रणिधानपदान्यामुखीभवन्ति स्म। कतमानि चत्वारि? पूर्वं मया स्वयंभुवामाधिपतेयतामभिलषता सर्वज्ञतां प्रार्थयमानेनैवं संनाहः संनद्धोऽभूत्-सत्त्वान् दुःखितान् दृष्टा अहो बताहं संसारमहाचारकबन्धनप्रक्षिप्तस्य लोकसंनिवेशस्य संसारचारकं भित्त्वा बन्धनप्रमोक्षशब्दं चोदीरयेयं तृष्णया सनिगडगाढबन्धनबद्धांश्च सत्त्वान् प्रमोचयेयम्। इदं प्रथमं पूर्वप्रणिधानपदमामुखीभवति स्म॥



अहो बताहं संसारमहाविद्यान्धकारगहनप्रक्षिप्तस्य लोकस्याज्ञानपटलतिमिरावृतनयनस्य प्रज्ञाचक्षुर्विरहितस्याविद्यामोहान्धकारस्य महान्तं धर्मालोकं कुर्याम्। ज्ञानप्रदीपं चोपसंहरेयम्। त्रिविमोक्षसुखज्ञानवतौषधिसंप्रयोगेण चोपायप्रज्ञाज्ञानसंप्रयुक्तेन सर्वाविद्यान्धकारतमोहतं महत्तिमिरपटलकालुष्यमपनीय प्रज्ञाचक्षुर्विशोधयेयम्। इदं द्वितीयं पूर्वप्रणिधानपदमामुखीभवति स्म॥



अहो बताहं मानध्वजोच्छ्रितस्य लोकस्याहंकारममकाराभिनिविष्टस्यात्मनीयग्राहानुगमानसस्य संज्ञाचित्तदृष्टिविपर्यासविपर्यस्तस्यासंग्रहगृहीतस्यार्यमार्गोपदेशेनास्मिमानध्वजप्रपातनं कुर्याम्। इतीदं तृतीयं पूर्वप्रणिधानपदमामुखीभवति स्म।



अहो बताहं व्युपशान्तस्य लोकस्य तन्द्राकुलजातस्य गुणावगुण्ठितभूतस्याजवंजवसमापन्नस्यास्माल्लोकात् परं लोकं परलोकादिमं लोकं संघावतः संसरतः संसारादभिनिवृत्तस्यालातचक्रसमारूढस्योपशमिकं प्रज्ञातृप्तिकरं धर्मं संप्रकाशयेयम्। इतीदं चतुर्थं पूर्वप्रणिधानपदमामुखीभवति स्म। इमानि चत्वारि पूर्वप्रणिधानपदान्यामुखीभवन्ति स्म॥



तस्मिंश्च क्षणे धर्मचारिणा देवपुत्रेण शुद्धावासकायिकैश्च देवपुत्रैर्विकृतविगलितमन्तः-पुरमुपदर्शितमभूत्। विसंस्थितं बीभत्सरूपमुपदर्श्य च गगनतलस्थास्ते बोधिसत्त्वं गाथाभिरध्यभाषन्त—



अथाब्रुवन् देवसुता महर्द्धयो

विबुद्धपद्मायतलोचनं तम्।

कथं तवास्मिन्नुपजायते रतिः

श्मशानमध्ये समवस्थितस्य॥२४॥



संचोदितः सोऽथ सुरेश्वरेभिः

निरीक्षतेऽन्तःपुर तं मुहूर्तम्।

संप्रेषते पश्यति तां बिभत्सां

श्मशानमध्ये वसितोऽस्मि भूतम्॥२५॥



अद्राक्षीत् खल्वपि बोधिसत्त्वः सर्वावन्तं नारीगणम्। व्यवलोकयन् पश्यति। तत्र काश्चिद्वयपकृष्टवस्त्राः काश्चिद्विधूतकेश्यः काश्चिद्विकीर्णाभरणाः काश्चिद्विभ्रष्टमुकुटाः काश्चिद्विहतैरंसैः काश्चिद्विगोपितगात्र्यः काश्चिद्विसंस्थितमुखाः काश्चिद्विपरिवर्तितनयनाः काश्चित्प्रस्रवन्ती लालाभिः काश्चिच्छ्वसन्त्यः काश्चित्प्रहसन्त्यः काश्चित्काशन्त्यः काश्चित्प्रलपन्त्यः काश्चिद्दन्तान् कटकटायन्त्यः काश्चिद्विवर्णवदनाः काश्चिद्विसंस्थितरूपाः काश्चित्प्रलम्बितबाहवः काश्चिद्विक्षिप्तचरणाः काश्चिदुद्धाटितशीर्षाः काश्चिदवगुण्ठितशीर्षाः काश्चिद्विपरिवर्तितमुखमण्डलाः काश्चित्प्रध्वस्तशरीराः काश्चिद्विभुग्नगात्र्यः काश्चिन्निकुब्जाः खुरखुरायमाणाः काश्चिन्मृदङ्गमुपगुह्य परिवर्तितशीर्षशरीराः काश्चिद्वीणावल्लक्याद्यपरिबद्धपाणयः काश्चिद्वेणुं दन्तैः कटकटायन्त्यः काश्चित्किम्पलनकुलसंपताडापकर्षितवाद्यभाण्डाः काश्चिन्निमेषोन्मेषपरिवृत्तनयनाः काश्चिद्विवृतास्याः। एवं तद्विकृतं धरणीतलगतमन्तःपुरं निरीक्षमाणो बोधिसत्त्वः श्मशानसंज्ञामुत्पादयति स्म॥



तत्रेदमुच्यते—



तां दृष्ट्व उद्विग्न स लोकनाथः

करुणं विनिश्वस्य इदं जगाद।

अहो बता कृच्छ्रगता व्रजेयं

कथं रतिं विन्दति राक्षसीगणे॥२६॥



अतिमोहतमावृत दुर्मति कामगुणैर्निगुणैर्गुणसंज्ञिनः।

विहग पञ्जरमध्यगता यथा न हि लभन्ति कदाचि विनिःसृतिम्॥२७॥



अथ बोधसत्त्वोऽनेन पुनरपि धर्मालोकमुखेनान्तःपुरं प्रत्यवेक्षमाणो महाकरुणापरिदेवितेन सत्त्वान् परिदेवते स्म-इह ते बाला हन्यन्ते आघातन इव वध्याः। इह ते बाला रज्यन्ते चित्रघटेष्विवामेध्यपरिपूर्णेष्वविद्वांसः। इह ते बाला मज्जन्ति गजा इव वारिमध्ये। इह ते बाला रुध्यन्ते चौरा इव चारकमध्ये। इह ते बाला अभिरता वराहा इवाशुचिमध्ये। इह ते बाला अध्यवसिताः कुक्कुरा इवास्थिकरङ्कमध्ये। इह ते बालाः प्रपतिता दीपशिखास्विव पतंगाः। इह ते बाला बध्यन्ते कपय इव लेपेन। इह ते बालाः परिदह्यन्ते जालोत्क्षिप्ता इव जलजाः। इह ते बालाः परिक्रूड्यन्ते सूनाकाष्ठेष्विवोरभ्राः। इह ते बाला अवसज्जन्ते किल्बिषकारिण इव शूलाग्रे। इह ते बालाः संसीदन्ति जीर्णगजा इव पङ्के। इह ते बाला विपद्यन्ते भिन्नयानपात्र इव महासमुद्रे। इह ते बालाः प्रपतन्ते महाप्रपात इव जात्यन्धाः। इह ते बालाः पर्यादानं गच्छन्ति पातालसंधिगतमिव वारि। इह ते बाला धूमायन्ते कल्पसंक्षय इव महापृथिवी। आभिर्बाला भ्राम्यन्ते कुम्भकारकचक्रमिवाविद्धम्। इह ते बालाः परिभ्रमन्ति शैलान्तर्गता इव जात्यन्धाः। इह ते बाला विपरिवर्तन्ते कुर्कुरा इव शर्दूलबद्धाः। इह ते बाला म्लायन्ते ग्रीष्मकाल इव तृणवनस्पतयः। इह ते बालाः परिहीयन्ते शशीव कृष्णपक्षे। आभिर्बाला भक्ष्यन्ते गरुडेनेव पन्नगाः। आभिर्बाला ग्रस्यन्ते महामकरेणेव पोतः। आभिर्बाला लुप्यन्ते चोरसंघेनेव सार्थः। आभिर्बाला भिद्यन्ते मारुतेनेव शालाः। आभिर्बाला हन्यन्ते दृष्टीविषैरिव जन्तवः। आस्वादसंज्ञिनो बालाः क्षण्यन्ते मधुदिग्धाभिरिव क्षुरधाराभिर्बालजातीयाः। आभिर्बाला उह्यन्ते दारुस्कन्धा इव जलौघैः। आभिर्बालाः क्रीडन्ति दारका इव स्वमूत्रपुरीषैः। आभिर्बाला आवर्त्यन्तेऽङ्कुशेनेव गजाः। आभिर्बाला बध्यन्ते धूर्तकैरिव बालजातीयाः। इह ते बालाः कुशलमूलानि क्षपयन्ति द्यताभिरता इव धनम्। आभिर्बाला भक्ष्यन्ते राक्षसीभिरिव वणिजाः। इत्येभिर्द्वात्रिंशताकारैर्बोधिसत्त्वोऽन्तःपुरं परितुलयित्वा कायेऽशुभसंज्ञां विचारयन् प्रतिकूलसंज्ञामुपसंहरन् जुगुप्ससंज्ञामुत्पादयन् स्वकायं प्रतिविभावयन् कायस्यादीनवं संपश्यन् कायात्कायाभिनिवेशमुच्चारयन् शुभसंज्ञां विभावयन् अशुभसंज्ञामवक्रामयन् अधः पादतलाभ्यां यावदूर्ध्वं मस्तकपर्यन्तं पश्यति स्म अशुचिसमुत्थितमशुचिसंभवमशुचिस्रवं नित्यम्। तस्यां च वेलायामिमां गाथामभाषत—



कर्मक्षेत्ररुहं तृषासलिलजं सत्कायसंज्ञीकृतं

अश्रुस्वेदकफार्द्रमूत्रविकृतं शोणीतबिन्द्वाकुलम्।

बस्तीपूयवसासमस्तकरसैः पूर्णं तथा किल्बिषैः

नित्यप्रस्रवितं ह्यमेध्य सकलं दुर्गन्ध नानाविधम्॥२८॥



अस्थीदन्तसकेशरोमविकृतं चर्मावृतं लोमशं

अन्तःप्लीहयकृद्वपोष्णरसनैरेभिश्चितं दुर्बलैः।

मज्जास्नायुनिबद्धयन्त्रसदृशं मांसेन शोभीकृतं

नानाव्याधिप्रकीर्णशोककलिलं क्षुत्तर्षसंपीडितम्।

जन्तूनां निलयं अनेकसुषिरं मृत्युं जरां चाश्रितं

दृष्ट्वा को हि विचक्षणो रिपुनिभं मन्ये शरीरं स्वकम्॥२९॥



एवं च बोधिसत्त्वः काये कायानुगतया स्मृत्या विहरति स्म॥



गगनतलगताश्च देवपुत्रा धर्मचारिणं देवपुत्रमेवमाहुः-किमिदं मार्षाः? सिद्धार्थो विलम्बतेऽन्तःपुरं चावलोकयति स्म। तं चोदपर्शयति चित्तं चोद्वेजयति। भूयश्चक्षुर्निवेशयति। अथवा जवजलनिधिगम्भीरोऽयम्, न शक्यमस्य प्रमाणं ग्रहीतुम्। अथवा असङ्गस्य मा खलु विषये सज्जते मनः। मा खल्वमरैरसंचोदितो विस्मरति पूर्वप्रतिज्ञामिति॥



धर्मचार्याह-किमेवं कथयत? ननु यूयमस्य प्रत्यक्षपूवेमव बोधाय चरतस्तथाविधा निःसङ्गताभूत्। नैष्क्रम्यत्यागे च किमङ्ग पुनरेतर्हि चरमभवावस्थितस्य सङ्गो भविष्यति?



अथ खलु भिक्षवो बोधिसत्त्वः कृतनिश्चयः संवेजितमानसो व्यवसितबुद्धिः सलीलमविलम्बितं पर्यङ्कादवतीर्य सङ्गीतिप्रासादे पूर्वाभिमुखः स्थित्वा दक्षिणेन पाणिना रत्नजालिकामवनाम्य प्रासादकोटीगतो दशनखकृतकरपुटो भूत्वा सर्वबुद्धान् समन्वाहृत्य सर्वबुद्धेभ्यश्च नमस्कारं कृत्वा गगनतलमवलोकयति स्म। सोऽद्राक्षीद् गगनतलगतममराधिपतिं दशशतनयनं देवशतसहस्रपरिवृतं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकावतंसकरत्नहारदामपरिगृहीतमवनतकायं बोधिसत्त्वं नमस्यमानं स्थितम्। चतुरश्च लोकपालान् यक्षराक्षसगन्धर्वभुजगगणसंपरिवृतान् संनद्धदृढवर्मितकवचितान् असिधनुशरशक्तितोमरत्रिशूलहस्तान् सलीलं मणिमुकुटविलम्बितचूडान् बोधिसत्त्वं नमस्यमानान् स्थितान् पश्यति स्म। चन्द्रसूर्यावति देवपुत्रौ वामदक्षिणयोः पार्श्वयोः स्थितावपश्यत्। पुष्यश्च नक्षत्राधिपतिरुपस्थितोऽभूत्। अर्धरात्रिं च समयं संप्राप्तम्। दृष्ट्वा च बोधिसत्त्वश्छन्दकमामन्त्रयते स्म—



छन्दका चपलु मा विलम्बहे

अश्वराज दद मे अलंकृतम्।

सर्वसिद्धि मम एति मङ्गला

अर्थसिद्धि ध्रुवमद्य भेष्यते॥३०॥



अथ छन्दक इदं वचनं श्रुत्वा उद्विग्नमना एवमाह—



क्व गमिष्यसे विकसितभ्रू

कमलदल शुभलोचन

नृपसिंह शरदिन्दुपूर्ण

कुमुदशशाङ्कमुदिता॥३१॥



नवनलिनकोमलविबुद्धपद्मवदना

हाटकसुधान्तरवितरुणविमलशशितेज।

धृतहुतार्चिरग्निमणिविद्युतत्प्रभोज्ज्वलिततेजो।

वारणमत्तलीलगजगामि।

गोवृषमृगेन्द्रहंसक्रम सुक्रमा सुचरणा॥३२॥



बोधिसत्त्व आह—



छन्दक यस्य अर्थिं मयि पूर्व त्यक्त करचरणनयन।

तथ उत्तमाङ्ग तनय भार्य प्रियाश्च राज्यधनकनकवसन।

रत्नपूर्ण गज तुरगानिलजववेग विक्रमबलाः॥३४॥



शीलु मि रक्षि क्षान्ति परिभावि

वीर्यबलध्यानप्रज्ञानिरतश्चास्मि बहुकल्पकोटिनयुता।

किं तु स्पृशित्व बोधिशिवशान्तिम्

जरामरणपञ्जरनिरष्टसत्त्वपरिमोचनस्य समयोऽद्युपस्थितु मम॥३५॥



छन्दक आह-श्रुतं मया आर्यपुत्र यथा त्वं जातमात्र एव नैमित्तिकानां ब्राह्मणानामुपनामितो दर्शनाय। तैश्चासि राज्ञः शुद्धोदनस्याग्रतो व्याकृतः-देव वृद्धिस्ते राजकुलस्य। आह-किमिति ? ते आहुः-



अयं कुमारः शतपुण्यलक्षणो

जातस्तवा आत्मज पुण्यतेजितः।

च चक्रवर्ती चतुद्वीप‍ईश्वरो

भविष्यति सप्तधनैरुपेतः॥३६॥



स चेत्पुनर्लोकमवेक्ष्य दुःखितं

विजह्यमान्तःपुरि निष्क्रमिष्यति।

अवाप्य बोधिं अजरामरं पदं

तर्पेष्यते धर्मजलैरिमां प्रजाम्॥३७॥



हन्त आर्यपुत्र अस्ति तावदेव तद्व्याकरणं नेदं नास्ति। किं तु शृणु तावन्ममार्थकामस्य वचनम्। आह-किमिति। अह-देव यस्यार्थे इह केचिदनेकविधानि व्रततपांस्यारभन्तेऽजिनजटामकुटचीवरवल्कलधरा दीर्घनखकेशस्मश्रु च, अनेकविधानि कायस्यातापनपरितापनानि समुत्सहन्ते। तीव्रं च व्रततपमारभन्ते। किमिति? वयं देवमनुष्यसंपत्तिं प्रतिलभेमहीति। सा च संपत्त्वयार्यपुत्र प्रतिलब्धा। इदं च राज्यमृद्धं च स्फीतं च क्षेमं सुभिक्षं रमणीयमाकीर्णबहुजनमनुष्यम्। इमानि चोद्यानानि वरप्रवराणि नानाविधपुष्पफलमण्डितानि नानाशकुनिगणनिकूजितानि। पुष्करिण्यश्चोत्पलपद्मकुमुदपुण्डरीकोपशोभिता हंसमयूरकोकिलचक्रवाकक्रोञ्चसारसनिकूजिताः पुष्पितसहकाराशोकचम्पककुरबकतिलककेशरादिनानाद्रुमतीरोपरिबद्धा नानारत्नवृक्षवाटिकासमलंकृता अष्टापदविनिबद्धा रत्नवेदिकापरिवृता रत्नजालसंछन्ना यथर्तुकालपरिभोगा ग्रीष्मवर्षाशरद्धेमन्तसुखसंवासाः। इमे च शरदभ्रनिभाः कैलासपर्वतसदृशा महाप्रासादा वैजयन्तसमा धर्मसुधर्मक्षेमसमा शोकविगतप्रभृतयो वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता रत्नकिङ्किणीजालसमीरिताः। इदं चार्यपुत्र अन्तःपुरं तुणवपणववीणावेणुसंपताडावचराकिम्पलनकुलसुघोषकमृदङ्गपटहनृत्यगीतवादित्रसंगीतिसंप्रयोगसुशिक्षितं हास्यलास्यक्रीडितरमितसुखिलमधुरोपचारम्। त्वं च देव युवा अनभिक्रान्तयौवनो नवो दहरस्तरुणः कोमलशरीरः शिशुः कृष्णकेशः। अविक्रीडितः कामैः। अभिरमस्व तावदमराधिपतिरिव दशशतनयनस्त्रिदशाधिपतिः। ततः पश्चाद् वृद्धीभूता अभिनिष्क्रमिष्यामः। तस्यां च वेलायामिमां गाथामभाषत—



रमतां च रतिविधिज्ञां अमराधिपतिर्यथा त्रिदशलोके।

पश्चाद्वृद्धीभूता व्रततपसं आरभिष्यामः॥३९॥



बोधिसत्त्व आह-अलं छन्दक। अनित्याः खल्वेते कामा अध्रुवा अशाश्वता विपरिणामधर्माणः प्रद्रुताश्चपला गिरिनदीवेगतुल्याः। अवश्यायबिन्दुवदचिरस्थायिन उल्लापना रिक्तमुष्टिवदसाराः कदलीस्कन्धवद्दुर्बला आमभाजनवद्भेदनात्मकाः शरदभ्रनिभाः क्षणाद्भूत्वा न भवन्ति। अचिरस्थायिनो विद्युत इव नभसि सविषभोजनमिव परिणामदुःखा मालुतालतेवासुखदा अभिलिखिता बालबुद्धिभिरुदकबुद्बुदोपमाः क्षिप्रं विपरिणामधर्माणः। मायामरीचिसदृशाः संज्ञाविपर्याससमुत्थिताः। मायासदृशाश्चित्तविपर्यासविधापिताः। स्वप्नसदृशा दृष्टिविपर्यासपरिग्रहयोगेनातृप्तिकराः। सागर इव दुष्पूरा लवणोदक इव तृषाकराः। सर्पशिरोवद्दुःस्पर्शनीया महाप्रपातवत्परिवर्जिताः पण्डितैः। सभयाः सरणाः सादीनवः सदोषाः इति ज्ञात्वा विवर्जिताः प्राज्ञैर्विगर्हिता विद्वद्भिर्जुगुप्सिता आर्यैर्विवर्जिताः बुधैः परिगृहीता अबुधैर्निषेविता बालैः। तस्यां च वेलायामिमां गाथामभाषत—



विवर्जिता सर्पशिरो यथा बुधैः

विगर्हिता मीढघटो यथाशुचिः।

विनाशका सर्वशुभस्य छन्दका

ज्ञात्वा हि कामान्न मि जायते रति॥४०॥



तदा छन्दकः शल्यविद्धो यथा क्रन्दमानस्ततोऽश्रुनेत्रो दुःखी एवं वाक्यमव्रवीत्—



देवा यस्यार्थि केचिदिहा तीव्र नेकविधा आरभन्ते व्रतान्

अजिनजटाधर सुदीर्घकेशानखा श्मश्रुचीरास्तथा।

वल्कलाधार शुष्काङ्ग नेके व्रतानाश्रिता

शाकस्यामाकगर्दूलभक्षाश्च ओमूर्धकाश्चापरे गोव्रतां संश्रिताः॥४१॥



किं तु वय भवेम श्रेष्ठा विशिष्टा जगे

चक्रवर्तिवरा लोकपालास्तथा।

शक्र वज्रंधरा याम देवाधिपा निर्मिता।

ब्रह्मलोके च ध्यानासुखाकाङ्क्षिणः॥४२॥



तदिद नरवरिष्ठ राज्यं तव स्फीतमृद्धं सुभिक्षं तथा

आरामोद्यानप्रासाद‍उच्छ्रेपितं वैजयन्तासमम्।

इस्त्रिगारस्वयं वेणुवीणारवै गीतवाद्यै रती नृत्यसंगीति संयोगि संशिक्षितं

भुञ्ज कामानिमान् मा व्रजा सूरता॥४३॥



बोधिसत्त्व आह—



छन्दक शृणु यानि दुःखाशतामर्पिता पूर्वि जन्मान्तरे

बन्धना रुन्धना ताडना तर्जना कामहेतोर्मया।

नो च निर्विण्णभूत् संस्कृते मानसम्॥४४॥



प्रमदवशगतं च मोहाकुलं दृष्टिजालावृतं अन्धभूतं पुरा।

आत्मसंज्ञाग्रहाकारका वेदनावीतिवृत्ता इमे धर्म अज्ञानतः॥४५॥



संभूता चपलचलऽनित्य मेघैः समा विद्युभिः सदृशाः।

ओसबिन्दूपमा रिक्ततुच्छा असारा अनात्मा च शून्यस्वभावा इमे सर्वशः॥४६॥



न च मम विषयेषु संरज्यते मानसं

देहि मे छन्दका कण्ठकालंकृतं अश्वराजोत्तमम्।

पूर्ण मे मङ्गला ये पुरा चिन्तिता

भेष्यि सर्वाभिभू सर्वधर्मेश्वरो धर्मराजो मुनिः॥४६॥



छन्दक आह—



इमां विबुद्धाम्बुजपत्रलोचनां

विचित्रहारां मणिरत्नभूषिताम्।

घनप्रमुक्तामिव विद्युतां नभे

नोपेक्षसे शयनगतां विरोचतीम्॥४८॥



इमांश्च वेणून् पणवां सुघोषकां

मृदङ्गवंशांश्च संगीतवादिताम्।

चकोरसोरां कलविङ्कनादितां

यथालयं किन्नरिणां विहास्यसे॥४९॥



सुमनोत्पलां वार्षिकचम्पकांस्तथा

सुगन्धमालां गुणपुष्पसंचयाम्।

कालागुरूनुत्तमगन्धधूपनां

नोपेक्षसे ताननुलेपनान् वरान्॥५०॥



सुगन्धगन्धांश्च रसां प्रणीतां

सुसाधितां व्यञ्जनभोजनांस्तथा।

सशर्करां पानरसां सुसंस्कृतां

नोपेक्षसे देव कहिं गमिष्यसि॥५१॥



शीते च उष्णाननुलेपनाम्बरां

उष्णे च तानुरगसारचन्दनां।

तां काशिकावस्त्रवराम्बरां शुभां

नोपेक्षसे देव कहिं गमिष्यसि॥५२॥



इमे च ते (देव) कामगुणा हि पञ्च

समृद्ध देवेष्विव देवतानाम्।

रमस्व तावद्रतिसौख्य‍अन्वितः

ततो वनं यास्यति शाक्यपुङ्गवः॥५३॥



बोधिसत्त्व आह—



अपरिमितानन्त कल्पा मया छन्दका भुक्त कामानि रूपाश्च शब्दाश्च गन्धा रसा स्पर्श नानाविधा।

दिव्य ये मानुषा नो च तृप्तीरभूत्।

नृपतिवरसुतेन ऐश्वर्य कारापितं चातुद्वीपे यदा राज भूच्चक्रवर्ती समन्वागतः सप्तभी रत्नभिः

इस्त्रिगारस्य मध्ये गतः।

त्रिदशपतिसुयामदेवाधिपत्यं च कारापितं येभ्यश्चाहं च्यवित्वा इहाभ्यागतो निर्मितो निर्मितेषु

मानो आत्मिका च श्रिया उत्तमा। भुक्त पूर्वे मया।

सुरपुरि वशवर्ति मारेश्वत्वं च कारापितं

भुक्त कामाः समृद्धा वरा नो च तृप्तीभूत्।

किं पुनो अद्य मां हीनसंसेवतस्तृप्ति गच्छेदहं स्थानमेतन्न संविद्यते॥५४॥



अपि च—



इमु जंग अपेक्षाम्यहं छन्दका दुःखितं शोककान्तारसंसारमध्ये स्थितम्।

क्लेशव्यालाकुले उह्यमानं सदा।

अशरणमपरायणं मोहविद्यान्धकारे जराव्याधिमृत्यूभयैः पीडितम्।

जन्मदुःखैः समभ्याहतं व्याहतं शत्रुभिः।

अहमिह समुदानिया धर्मनावं महात्यागशीलव्रतक्षान्तिवीर्याबलां दारुसंभारसंघातितां सारमध्याशयैर्वज्रकैः संगृहीतां दृढाम्।

स्वयमहमभिरुह्य नावामिमात्मानोऽवतीर्य संसार‍ओघे अहं तारयिष्ये अनन्तं जगत्।

शोकसंसारकान्ताररोषोर्मिरागग्रहावर्तवैराकुले दुस्तरे। एव चित्तं मम॥५५॥



तदात्मनोत्तीर्य इदं भवार्णवं

सवैरदृष्टिग्रहक्लेशराक्षसम्।

स्वयं तरित्वा च अनन्तकं जगत्

स्थले स्थपेष्ये अजरामरे शिवे॥५६॥



तदा छन्दको भूयस्या मात्रया प्ररुदन्नेवमाह-देव एष व्यवसायस्य निश्चयः?



बोधिसत्त्व आह—



शृणु छन्दक मह्य निश्चयं

मोक्षसत्त्वार्थ हितार्थमुद्यतम्।

अचलाचलमव्ययं दृढं

मेरुराजेव यथा सुदुश्चलम्॥५७॥



छन्दक आह-कीदृश आर्यपुत्रस्य निश्चयः?



बोधिसत्त्व आह—



वज्राशनिः परशुशक्तिशराश्च वर्षे

विद्युत्प्रतानज्वलितः क्वथितं च लोहम्।

आदीप्तशैलशिखरा प्रपतेयु मूर्ध्नि

नैवा अहं पुन जनेय गृहाभिलाषम्॥५८॥



तदा अमर नभगताः किलकिला मुञ्चिषु कुसुमवृष्टिः।

जय हे परममतिधरा जगति अभयदायका नाथ॥५९॥



न रज्यते पुरुषवरस्य मानसं

नभो यथा तमरजधूमकेतुभिः।

न लिप्यते विषयसुखेषु निर्मलो

जले यथा नवनलिनं समुद्भवम्॥५९॥



अथ खलु भिक्षवो बोधिसत्त्वस्य निश्चयं विदित्वा शान्तमतिश्च देवपुत्रो ललितव्यूहश्च देवपुत्रः कपिलवस्तुनि महानगरे सर्वस्त्रीपुरुषदारकदारिकानामपस्वापनमकुरुताम्, सर्वशब्दांश्चान्तर्धापयामासतुः॥



अथ खलु भिक्षवो बोधिसत्त्वः सर्वं नगरजनं प्रसुप्तं विदित्वा अर्धरात्रिसमयं चोपस्थितं ज्ञात्वा पुष्यं च नक्षत्राधिपतिं युक्तं ज्ञात्वा सांप्रतं निष्क्रमणकाल इति ज्ञात्वा छन्दकमामन्त्रयते स्म— छन्दक मां मेदानीं खेदय। प्रयच्छ मे कण्ठकं समलंकृत्य, मा च विलम्बिष्ठाः॥



समनन्तरोदाहृता च बोधिसत्त्वेनेयं वाक्। अथ तत्क्षणमेव चत्वारो लोकपाला बोधिसत्त्वस्य वचनमुपश्रुत्य स्वकस्वकानि च भवनानि गत्वा बोधिसत्त्वस्य पूजाकर्मणे स्वैः स्वैर्व्यूहैस्त्वरितं त्वरितं पुनरपि कपिलवस्तुमहानगरमागच्छन्ति स्म॥



तत्र धृतराष्ट्रो महाराजो गन्धर्वाधिपतिः पूर्वस्या दिश आगतोऽभूत् सार्धमनेकैर्गन्धर्वकोटिनियुतशतसहस्रैर्नानातूर्यसंगीतिसंप्रवादितेन। आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागतः पूर्वां दिशमुपनिश्रित्यास्थात् बोधिसत्त्वं नमस्यमानः॥



दक्षिणस्या दिशो विरूढको महाराजोऽभ्यागतोऽभूत् सार्धमनेकैः कुम्भाण्डकोटिनियुतशतसहस्रैर्नानामुक्ताहारपाणिप्रलम्बितैर्नानामणिरत्नपरिगृहीतैर्विविधगन्धोदकपूर्णघटपरिगृहीतैः। आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव दक्षिणां दिशमुपनिश्रित्यास्थात् बोधिसत्त्वं नमस्यमानः॥



पश्चिमाया दिशो विरूपाक्षो महाराज आगतोऽभूत् सार्धमनेकैर्नागकोटिनियुतशतसहस्रैर्नानामुक्ताहारपाणिप्रलम्बितैर्नानामणिरत्नपरिगृहीतैर्गन्धचूर्णपुष्पवर्षमेघसमुत्थितैश्च मृदुभिः सुगन्धिभिर्नानावातैः प्रवायद्भिः। आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव पश्चिमां दिशमुपनिश्रित्यास्थात् बोधिसत्त्वं नमस्यमानः॥



उत्तरस्या दिशः कुबेरो महाराज आगतोऽभूत् सार्धमनेकैर्यक्षकोटिनियुतशतसहस्रैर्ज्योतीरसमणिरत्नपरिगृहीतैर्दीपिकापाणिपरिगृहीतैश्च ज्वलितोल्कापाणिपरिगृहीतैर्धनुरसिशरशक्तितोमरत्रिशूलचक्रकणयभिन्दिपालादिनानाप्रहरणपरिगृहीतैर्दृढसंनद्धवर्भितकवचितैः। आगत्य कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एवोत्तरां दिशमुपनिश्रित्यास्थात् बोधिसत्त्वं नमस्यमानः॥



शक्रश्च देवानामिन्द्रः सार्धं त्रायत्रिंशदेवैरागतोऽभूत् दिव्यपुष्पगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकावतंसकाभरणपरिगृहीतैः। आगत्य कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव सपरिवार उपर्यन्तरिक्षेऽस्थात् बोधिसत्त्वं नमस्कुर्वन्॥



इति हि भिक्षवश्छन्दको बोधिसत्त्वस्य वचनमुपश्रुत्याश्रुपूर्णनयनो बोधिसत्त्वमेवमाह-आर्यपुत्र त्वं च कालज्ञो वेलज्ञश्च समयज्ञः। अयं च अकालोऽसमयो गन्तुम्। तत्किमाज्ञापयसि इति॥



बोधिसत्त्व आह-छन्दक, अयं स कालः।

छन्दक आह-कस्यार्यपुत्र कालः?



बोधिसत्त्व आह—



यत्तन्मया प्रार्थितु दीर्घरात्रं

सत्त्वानमर्थं परिमार्गता हि।

अवाप्य बोधिं अजरामरं पदं

मोचे जगत्तस्य क्षणो उपस्थितः॥६०॥



इयमत्र धर्मता॥



तत्रेदमुच्यते—



भौमान्तरीक्षाश्च तथैव पालाः

शक्रश्च देवाधिपतिः सयक्षः।

यामाश्च देवास्तुषिताश्च निर्मिताः

परनिर्मितोद्युक्त तथैव देवाः॥६१॥



वरुणो मनस्वी अपि नागराजा

अनावतप्तश्च तथैव मागरः

अभियुक्त ते चाप्यभिपूजनार्थं

नैष्क्रम्यकाले नरपुंगवस्य॥६२॥



ये चापि रूपावचरेषु देवाः

प्रशान्तचारी सह ध्यानगोचराः।

अभियुक्त ते चाप्यभिपूजनार्थं

त्रैलोक्यपूज्यस्य नरोत्तमस्य॥६३॥



दशादिशोऽभ्यागत शुद्धसत्त्वाः

सहायकाः पूर्वचरिं चरन्तः।

द्रक्ष्यामहे निष्क्रमणं जिनस्य

पूजां करिष्यामि तथानुरूपाम्॥६४॥



स चापि गुह्याधिपतिर्महात्मा

प्रदीप्तवज्रो नभसि प्रतिस्थितः।

संनद्धगात्रो बलवीर्यविक्रमः

करेण गुह्य ज्वलमानु वज्रम्॥६५॥



चन्द्रश्च सूर्यो उभि देवपुत्रौ

प्रदक्षिणं वामकु सुप्रतिस्थितौ।

दशाङ्गुली अञ्जलिभिर्गृहीत्वा

नैष्क्रम्यशब्दोऽनुविचारयन्ति॥६६॥



पुष्यश्च नक्षत्र सपारिषद्यो

औदारिकं निर्मिणि आत्मभावम्।

स्थित्वाग्रतस्तस्य नरोत्तमस्य

मनोज्ञघोषाभिरुतं प्रमुञ्चत्॥६७॥



सर्वेऽद्य सिद्धाः शुभ तुभ्य मङ्गलाः

पुष्यश्च युक्तः समयश्च गन्तुम्।

अहं पि यास्यामि त्वयैव सार्धं।

अनुत्तरायो भव रागसूदनः॥६८॥



संचोदकश्चोदयि देवपुत्र

उत्तिष्ठ शीघ्रं बलवीर्य‍उद्गतः।

दुःखैर्हतांस्तारय सर्वसत्त्वान्

नैष्क्रम्यकालः समुपस्थितस्ते॥६९॥



समागता देवसहस्रकोट्यः

प्रवर्षमाणा कुसुमान् मनोज्ञान्।

स चापि पर्यङ्कवरे निषण्णो

देवैर्वृतो भ्राजति दीप्ततेजः॥७०॥



नगरे इस्त्रिक दारकाश्च पुरुषा याश्चाभवन् दारिकाः

सर्वे ते शयिता किलान्तमनसो ईर्यापथेभ्यश्च्युताः।

हस्ति अश्वगवाश्च सारिकशुकाः क्रोञ्चा मयूरास्तथा

सर्वे ते शयिता किलान्तमनसः पश्यन्ति रूपं न ते॥७१॥



ये चा ते दृढवज्रतोमरधरा शाक्यैः सुताः स्थापिताः

हस्ति‍अश्वरथेषु तोरणवरे ते चाप्यवस्वापिताः।

राजा राजकुमार पार्थिवजनः सर्वे प्रसुप्ता भवन्

अपि चा नारिगणा विनग्नवसना सुप्ता न ते बुद्धिषू॥७२॥



सो च ब्रह्मरुतो मनोज्ञवसनः कलविङ्कघोषस्वरो

रात्रौ निर्गत अर्धरात्रसमये तं छन्दकं अब्रवीत्।

साधू छन्दक देहि कण्ठकु मम स्वालंकृतं शोभनं

मा विघ्नं कुरु मे ददाहि चपलं यदि मे प्रियं मन्यसे॥७३॥



क्व त्वं यास्यसि सत्त्वसारथिवरा किं अश्वकार्यं च ते

कालज्ञः समयज्ञ धर्मचरणो कालो न गन्तु क्वचित्।

द्वारास्ते पिथिता दृढार्गलकृता को दास्यते तां तव।

शक्रेणा मनसाथ चेतनवशात्ते द्वार मुक्ता कृताः

दृष्ट्वा छन्दक हर्षितो पुन दुखी अश्रूणि सोऽवर्तयी।

हा धिक्को मि सहायु किं तु कुरुमी धावामि कां वा दिशं

उग्रंतेजधरेण वाक्यु भणितं शक्यं न संधारितुम्॥७४॥



सा सेना चतुरङ्गिनी बलवती किं भू करोतीह हा

राजा राजकुमार पार्थिव जनो नेमं हि बुध्यन्ति ते।

स्त्रीसंघः शयितस्तथा यशवती ओस्वापिता देवतैः

हा धिग्गच्छति सिध्यतेऽस्य प्रणिधिर्यश्चिन्तितः पूर्वशः॥७५॥

देवाः कोटिसहस्र हृष्टमनसस्तं छन्दकं अब्रुवन्

साधु छन्दक देहि कण्ठकवरं मा खेदयी नायकम्।

भेरीशङ्खमृदङ्गतूर्यनयुता देवासुरैर्वादिता

नैवेदं प्रतिबुध्यते पुरवरं ओस्वापितं देवतैः॥७६॥



पश्य छन्दक अन्तरीक्ष विमलं दिव्या प्रभा शोभते

पश्य त्वं बहुबोधिसत्त्वनयुतां ये पूजनायागताः।

शक्रं पश्य शचीपतिं बलवृतं द्वारस्थितं भ्राजते

देवांश्चाप्यसुरांश्च किन्नरगणां ये पूजनार्थागताः॥७७॥



श्रुत्वा छन्दक देवतान वचनं तं कण्ठकं आलपी

एष्वागच्छति सत्त्वसारथिवरः त्वं ताव हेषिष्यसे।

सो तं वर्षिकुवर्ण काञ्चनखुरं स्वालंकृतं कृत्वना

उपनेती गुणसागरस्य वहनं रोदन्तको दुर्मना॥७८॥



एषा ते वरलक्षणा हितकरा अश्वः सुजातः शुभो

गच्छ सिध्यतु तुभ्य एव प्रणिधिर्यश्चिन्तितः पूर्वशः।

ये ते विघ्नकरा व्रजन्तु प्रशमं आसां व्रतं सिध्यतां

भवही सर्वजगस्य सौख्यददनः स्वर्गस्य शान्त्यास्तथा॥७९॥



सर्वा कम्पित षड्विकार धरणी शयनाद्यदा सोत्थितः

आरूढः शशिपूर्णमण्डलनिभं तं अश्वराजोत्तमम्।

पाला पाणिविशुद्धपद्मविमला न्यसयिंसु अश्वोत्तमे

शक्रो ब्रह्म उभौ च तस्य पुरतो दर्श्यन्ति मार्गो ह्ययम्॥८०॥



आभा तेन प्रमुक्त अच्छविमला ओभासिता मेदिनी

सर्वे शान्त अपाय सत्त्व सुखिता क्लेशैर्न बाध्यी तदा।

पुष्पा वर्षिषु तूर्यकोटि रणिषू देवासुरास्तुष्टुवुः

सर्वे कृत्व प्रदक्षिणं पुरवरं गच्छन्ति हर्षान्विताः॥८१॥



पुरवरोत्तमि देवत दीनमना

उपगम्य गच्छति महापुरुषे।

पुरतः स्थिता करुणदीनमना

गिरया समालपति पद्ममुखम्॥८२॥



तमसाकुलं भुविमु सर्वपुरं

नगरं न शोभति त्वय रहितम्।

न ममात्र काचि रति प्रीतिकरी

त्यक्तं त्वया च यदिदं भवनम्॥८३॥



न पुनः श्रुणिष्यि रुतु पक्षिगणे

अन्तःपुरे मधुरवेणुरवम्।

मङ्गल्यशब्द तथ गीतरवं

प्रतिबोधनं तव अनन्तयशः॥८४॥



दर्शे न भूयु सुरसिद्धगणां

कुर्वन्तु पूज तव रात्रिदिवम्।

घ्रायिष्यि गन्ध न च दिव्य पुनः

त्वयि निर्गते निहतक्लेशगणे॥८५॥



निर्भुक्तमाल्यमिव पर्युषितं

त्यक्तं त्वयाद्य भवनं हि तथा।

नटरङ्गकल्प प्रतिभायति मे

त्वयि निर्गते न भुयु तेजशिरि॥८६॥



ओजो बलं हरसि सर्वपुरे

न च शोभते अटवितुल्यमिदम्।

वितथं ऋषीण वचनाद्य भुतं

येही वियाकृतु भुवि चक्रबलो॥८७॥



अबलं बलं भुविमु शाक्यबलं

उच्छिन्न वंश इह राजकुले।

आशा प्रनष्ट इह शाक्यगणे

त्वयि निर्गते महति पुण्यद्रुमे॥८८॥



अहमेव तुभ्य गति गच्छयमी

यथ त्वं प्रयासि अमला विमला।

अपि चा कृपा करुण संजनिय

व्यवलोकयस्व भवनं त्वमिदम्॥८९॥



व्यवलोक्य चैव भवनं मतिमान्

मधुरस्वरो गिरमुदीरितवान्।

नाहं प्रवेक्षि कपिलस्य पुरं

अप्राप्य जातिमरणान्तकरम्॥९०॥



स्थानासनं शयनचंक्रमणं

न करिष्यहं कपिलवस्तुमुखम्।

यावन्न लब्ध वरबोधि मया

अजरामरं पदवरं ह्यमृतम्॥९१॥



यदसौ जगत्प्रधानो निष्क्रान्तु बोधिसत्त्वो

तस्या नभे व्रजन्तो स्तवयिंसु अप्सराणाम्।

एष मह दक्षिणीयो एष मह पुण्यक्षेत्रं

पुण्यर्थिकान क्षेत्रं अमृताफलस्य दाता॥९२॥



एन बहुकल्पकोटी दानदमसंयमेना

समुदानितास्य बोधिः सत्त्वकरुणायमाना।

एष परिशुद्धशीलो सुव्रत अखण्डचारी

न च काम नैव भोगां प्रार्थेन्तु शीलरक्षी॥९३॥



एष सद क्षान्तिवादी छिद्यन्ति अङ्गमङ्गे

न च क्रोधु नैव रोषः सत्त्वपरित्रायणार्थम्।

एष सद वीर्यवन्तो अविखिन्न कल्पकोट्यः

समुदानितास्य बोधिर्यष्टा च यक्षकोटीः॥९४॥



एष सद ध्यानध्यायी शान्तप्रशान्तचित्तो

ध्यायित्व सर्वक्लेशां मोचेष्यि सत्त्वकोटीः।

एषो असङ्ग प्राज्ञः कल्पैर्विकल्पमुक्तो

कल्पैर्विमुक्तचित्तो जिनु भेष्यते स्वयंभूः॥९५॥



एष सद मैत्रचित्तो करुणाय पारप्राप्तो

मुदितो उपेक्षध्यायी ब्राह्मे पथि विधिज्ञः।

एषोऽतिदेवदेवो देवेभि पूजनीयो

शुभविमलशुद्धचित्तो गुणनियुतपारप्राप्तः॥९६॥



शरणं भयार्दितानां दीपो अचक्षुषाणां

लयनो उपद्रुतानां वैद्यश्चिरातुराणाम्।

राजेव धर्मराजो इन्द्रः सहस्रनेत्रो

ब्रह्मस्वयंभुभूतः कायप्रशब्धचित्तो॥९७॥



धीरः प्रभूतप्रज्ञो वीरो विविक्तचित्तः

शूरः किलेशघाती अजितंजयो जितारिः।

सिंहो भयप्रहीणो नागः सुदान्तचित्तो

ऋषभो गणप्रधानः क्षान्तः प्रहीणकोपः॥९८॥



चन्द्रः प्रभासयन्तः सूर्योऽवभासकारी

उल्का प्रद्योतकारी सर्वतमोविमुक्तः।

पद्मं अनोपलिप्तं पुष्पं सुशीलपत्रं

मेरूरकम्पि शास्ता पृथिवी यथोपजीव्यो

रतनाकरो अक्षोभ्यः॥९९॥



एन जितु क्लेशमारो एन जितु स्कन्धमारो

एन जितु मृत्युमारो निहतोऽस्य देव(पुत्र)मारो।

एष मह सार्थवाहो कुपथप्रतिस्थितानां

अष्टाङ्गमार्गश्रेष्ठं देशेष्यते नचिरेणा॥१००॥



जरमरणक्लेशघाती तमतिमिरविप्रमुक्तो

भुवि दिवि च संप्रघुष्टो जिनु भेष्यते स्वयंभूः।

स्तुत स्तवितु अप्रमेयो वरपुरुषरूपधारी

यत्पुण्य त्वां स्तवित्वा भोम यथ वादिसिंहः॥१०१॥



इति हि भिक्षवोऽभिनिष्क्रान्तो बोधिसत्त्वोऽतिक्रम्य शाक्यानतिक्रम्य क्रोड्यानतिक्रम्य मल्लान् मैनेयानामनुवैनेये निग मे षट्सु योजनेषु। तत्र बोधिसत्त्वस्य रात्रिप्रभातोऽभूत्। ततो बोधिसत्त्वो कण्ठकादवतीर्य धरणीतले स्थित्वा तं महान्तं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगसंघं विसर्जयति स्म। विसर्ज्य चास्यैतदभूत्—इमान्याभरणानि कण्ठकं च छन्दकस्य हस्ते विसर्जयामीति॥



अथ बोधिसत्त्वश्छन्दकमामन्त्र्यैतदवोचत्-गच्छ त्वं छन्दक, इमान्याभरणानि कण्ठकं च गृहीत्वा निवर्तयस्व। यत्र च प्रदेशे छन्दको निवृत्तस्तत्र चैत्यं स्थापितमभूत्। अद्यापि तच्चैत्यं छन्दकनिवर्तनमिति ज्ञायते॥



पुनश्च बोधिसत्त्वस्यैतदभवत्-कथं च नाम चूडा च प्रव्रज्या चेति। स खड्गेन चूडां छित्त्वा अन्तरिक्षे क्षिपति स्म। सा च त्रायत्रिंशता देवैः परिगृहीताभूत् पूजार्थम्। अद्यापि च त्रायत्रिंशत्सु देवेषु चूडामहो वर्तते। तत्रापि चैत्यं स्थापितमभूत्। अद्यापि च तच्चूडाप्रतिग्रहणमिति ज्ञायते॥



पुनरपि बोधिसत्त्वस्यैतदभूत्-कथं हि नाम प्रव्रज्या च काशिकानि वस्त्राणि। सचेद्वनवासानुरूपाणि काषायाणि वस्त्राणि लभेयम्, शोभनं स्यात्। अथ शुद्धवासकायिकानां देवानामेतदभूत्-काषायैर्बोधिसत्त्वस्य कार्यमिति। तत्रैको देवपुत्रो दिव्यं रूपमन्तर्धाप्य लुब्धकरूपेण काषायवस्त्रप्रावृतो बोधिसत्त्वस्य पुरतोऽस्थात्। अथ बोधिसत्त्वस्तमेतदवोचत्-सचेन्मे त्वं मार्षा काषायाणि वस्त्राणि दद्याः, इमानि तेऽहं काशिकानि वस्त्राणि दद्याम्। सोऽवोचत्-एतानि वस्त्राणि तव शोभन्ते। इमानि मम। बोधिसत्त्व आह-अहं त्वां याचामि। ततस्तेन लुब्धकरूपिणा देवपुत्रेण बोधिसत्त्वाय काषायाणि वस्त्राणि दत्तान्यभूवन्। काशिकानि गृह्णीते स्म। अथ स देवपुत्रो गौरवजातस्तानि वस्त्राणि उभाभ्यां पाणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत् तेषां पूजार्थम्। तच्छन्दकेन दृष्टमभूत्। तत्रापि चैत्यं स्थापितम्। अद्यापि तच्चैत्यं काषायग्रहणमित्येवं ज्ञायते॥



यदा च बोधिसत्त्वेन चूडां छित्त्वा काषायाणि वस्त्राणि प्रावृतानि, तस्मिन् समये देवपुत्रशतसहस्रा हृष्टास्तुष्टा उदग्रा आत्तमनसः परमप्रमुदिताः प्रीतिसौमनस्यजाता हीहीकारकिलिकिलाप्रक्ष्वेडितानिर्नादनिर्घोषशब्दमकार्षुः। सिद्धार्थो भो मार्षाः कुमारः प्रव्रजितः। सोऽयमनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यति। असंख्येयाञ्जातिधर्माणः सत्त्वान् जात्या परिमोचयिष्यति। यावज्जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोच्य संसारसागरात् पारमुत्तार्यानुत्तरे क्षेमेऽभयेऽशोके निरूपद्रवे शिवे विरजसेऽमृते धर्मधातौ प्रतिष्ठापयिष्यतीति। स च शब्दः शब्दपरंपरया यावदकनिष्ठभवनमभ्युद्गतोऽभूत्॥



ततोऽन्तःपुरिकाभिः कुमारमपश्यन्तीभिः ग्रीष्मिकवार्षिकहैमन्तिकेषु प्रासादेष्वासनेषु च गृहेषु परिमागमाणा यदा न पश्यन्ति स्म, तदा एकीभूताभिः कुररीभिरिवोत्क्रृष्टमभूत्। तत्र काश्चित्स्त्रियः परमशोकार्ता हा तातेहि क्रन्दन्ति स्म। काश्चिद्भ्रातः काश्चिद्भर्त इति क्रन्दन्ति स्म। काश्चिद्धा नाथेति क्रन्दन्ति स्म। काश्चिद्धा स्वामिन्निति। काश्चिन्नानाप्रियवचनप्रलापैः, काश्चिन्नानाकायपरिसर्पिकया रुदन्ति स्म। काश्चिच्छीर्षोपकर्षिकया, काश्चिदन्योन्यमुखावलोकितया रुदन्ति स्म। काश्चिच्चक्षुःपरिवर्तिकया, काश्चित्स्ववदनानि वस्त्रैरुच्छाद्य रुदन्ति स्म। काश्चिदूरू पाणिभिः प्रस्फोटयन्त्यः, काश्चिद्धृदयः, पाणिभिस्ताडयन्त्यः, काश्चिद्बाहून् पाणिभिः प्रस्फोटयन्त्यः, काश्चिच्छिरांसि, काश्चिच्छिरः पांशुभिरवकिरन्त्यो रुदन्ति स्म। काश्चिद्विक्षिप्तकेश्यः, काश्चित्केशं विलुञ्चन्त्यः, काश्चिदूर्ध्वबाहवः उच्चैरुत्क्रोशन्ति स्म। काश्चिन्मृग्य इव दिग्धविद्धाः सहसा प्रधावन्त्यो रुदन्ति स्म। काश्चिन्मारुतकम्पिता इव कदल्यः प्रविकम्प्यमाना रुदन्ति स्म। काश्चिद्धरणीतले विनिपतिताः किंचित्प्राणाः, काश्चिज्जालोत्क्षिप्तमत्स्या इव पृथिव्यां परिवर्त्यमाना रुदन्ति स्म। काश्चिन्मूलछिन्ना इव वृक्षाः सहसा धरणीतले निपत्य रुदन्ति स्म॥



तं च शब्दं राजा श्रुत्वा शाक्यानामन्त्रयते स्म-किमेतदुच्चैरन्तःपुरे शब्दः श्रूयते? शाक्या विज्ञाय कथयन्ति स्म-कुमारः किल महाराज अन्तःपुरे न दृश्यते। राजा आह-क्षिप्रं नगरद्वाराणि पिथयत। कुमारमभ्यन्तरे मृगयामः। ते सान्तर्बहिर्मृगयन्ते स्म। सान्तर्बहिर्मृगयमाना न पश्यन्ति स्म॥



महाप्रजापत्यपि गौतमी परिदेवमाना महीतले परिवर्तते स्म। राजानं शुद्धोदनमेवमाह क्षिप्रं मां महाराज पुत्रेण समङ्गिनीं कुरुष्वेति॥



ततो राजा चतुर्दिशमश्वदूतान् प्रेषयति स्म। गच्छत, यावत्कुमारं न पश्यथ, तावन्मा निवर्तयथ॥



नैमित्तिकैर्वैपञ्चिकैश्च व्याकृतमभूत्-मङ्गलद्वारेण बोधिसत्त्वोऽभिनिष्क्रमिष्यतीति। ते मङ्गलद्वारेण गच्छन्तः पश्यन्ति स्म अन्तरापथि पुष्पवर्षं प्रपतितम्। तेषामेतदभूत्-अनेन पथा कुमारोऽभिनिर्गत इति॥



ते स्वल्पमन्तरं गत्वा तं देवपुत्रं पश्यन्ति स्म बोधिसत्त्वस्य काशिकवस्त्राणि शिरसि कृत्वा आगच्छन्तम्। तेषामेतदभूत्-इमानि खलु कुमारस्य काशिकवस्त्राणि। मा खल्वनेनैषां वस्त्राणामर्थे कुमारो जीविताद्व्यपरोपितः स्यात्। गृह्णीतैनमिति। भूयः पश्यन्ति स्म। तस्य पृष्ठतश्च्छन्दकं कण्ठकमाभरणानि चादायागच्छन्तम्। ततस्ते परस्परमूचुः-मा तावद्भोः साहसं मा कार्ष्ट। एष छन्दकोऽभ्यागच्छति कण्ठकमादाय, यावदेनं प्रक्ष्यामः॥



ते छन्दकं परिपृच्छन्ति स्म-हे छन्दक, मा खल्वनेनैव पुरुषेण काशिकानां वस्त्राणामर्थाय कुमारो जीविताद्व्यपरोपितः स्यात्। छन्दक आह-न ह्येतत्। अपि तु अनेन कुमाराय काषायाणि वस्त्राणि दत्तानि। कुमारेण चास्यैतानि काशिकानि वस्त्राणि दत्तानि। अथ स देवपुत्रस्तानि वस्त्राण्युभाभ्यां पाणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत् तेषां पूजार्थम्॥



एवं च ते भूयश्छन्दकं परिपृच्छन्ति स्म-तत्किं मन्यसे छन्दक गच्छामो वयम्? शक्यः कुमारः प्रतिनिवर्तयितुम्? स आह-मा खलु। अनिवर्त्यः कुमारो दृढवीर्यपराक्रमः। एवं च तेनोक्तम्-न तावदहं पुनरपि कपिलवस्तुमहानगरं प्रवेक्ष्यामि, यावन्मे नानुत्तरां सम्यक्संबोधिमभिसंबुध्येति। यथा च कुमारेणोक्तं तथैव तद्भविष्यति। तत्कस्मात्? अनिवर्त्यः कुमारो दृढवीर्यपराक्रमः॥



ततश्छन्दकः कण्ठकमाभरणानि चादायान्तःपुरं प्राविक्षत्। ततस्तान्याभरणानि चिरेण कालेन भद्रिकस्य शाक्यकुमारस्य महानाम्नोऽनिरुद्धस्य चाबध्यन्त स्म। तानि महानारायणसंघटनकायार्थमन्ये नारायणसंहनना न शक्नुवन्ति स्म धारयितुम्। यदा न कश्चित्तानि धारयितुं शक्नोति स्म, तदा महाप्रजापत्या गौतम्या चिन्तितमभूत्-यावदहमिमान्याभरणानि पश्यामि, तावन्मम हृदये शोको भविष्यति। यन्न्वहमिमान्याभरणानि पुष्करिण्यां प्रक्षिपेयमिति। ततो महाप्रजापती गौतमी तान्याभरणानि पुष्करिण्यां प्रक्षिपति स्म। अद्यापि सा आभरणपुष्करिणीत्येवं संज्ञायते॥



तत्रेदमुच्यते—



निष्क्रान्तु शूरो यद विदु बोधिसत्त्वो

नगरं विबुद्धं कपिलपुरं समग्रम्।

मन्यन्ति सर्वे शयनगतो कुमारो

अन्योन्य हृष्टाः प्रमुदित आलभन्ते॥१०२॥



गोपा विबुद्धा तथ अपि इस्त्रिगारा

शयनं निरीक्षी न च दृशि बोधिसत्त्वम्।

उत्क्रोशु मुक्तो नरपतिनो अगारे

हा वञ्चिताः स्मः कहि गतु बोधिसत्त्वो॥१०३॥



राजा श्रुणित्वा धरणितले निरस्तो

उत्क्रोशु कृत्वा अहो मम एकपुत्रो।

सो स्तेमितो हि जलघटसंप्रसिक्तो

आश्वासयन्ती बहुशत शाकियानाम्॥१०४॥



गोपा शयातो धरणितले निपत्य

केशां लुनाती अवशिरि भूषणानि।

अहो सुभाष्टं मम पुरि नायकेना

सर्वप्रियेभिर्नचिरतु विप्रयोगः॥१०५॥



रूपा सुरूपा विमलविचित्रिताङ्गा

अच्छा विशुद्धा जगति प्रिया मनापा।

धन्या प्रशस्ता दिवि भुवि पूजनीया

क्व त्वं गतोऽसि मम शयि छोरयित्वा॥१०६॥



न पास्यि पानं न च मधु न प्रमादं

भूमौ शयिष्ये जटमकुटं धरिष्ये।

स्नानं जहित्वा व्रततप आचरिष्ये

यावन्न द्रक्ष्ये गुणधरु बोधिसत्त्वम्॥१०७॥



उद्यान सर्वे अफल अपत्रपुष्पा

हारा विशुद्धा तमरजपांशुतुल्याः।

वेश्मं न शोभी अटवि पुरं प्रकाशं

यत्तेन त्यक्तं नरवरपुंगवेन॥१०८॥



हा गीतवाद्याः सुमधुर मञ्जुघोषाः

हा इस्त्रिगारा विगलित भूषणाभिः।

हा हेमजालैः परिस्फुटमन्तरिक्षं

न भूयु द्रक्ष्ये गुणधरविप्रहीणा॥१०९॥



मातृस्वसा चा परमसुकृच्छ्रप्राप्ता

आश्वासयाति म रुदहि शाक्यकन्ये।

पूर्वे च उक्तं नरवरपुंगवेन

कर्तास्मि लोके जरमरणात्प्रमोक्षम्॥११०॥



सो चा महर्षी कुशलसहस्र चीर्णः

षड् योजनानि प्रतिगतु रात्रिशेषे।

छन्दस्य देती हयवरु भूषणानि

छन्दा गृहीत्वा कपिलपुरं प्रयाहि॥१११॥



मातापितणां मम वचनेन पृच्छे

गतः कुमारो न च पुन शोचयेथा।

बुद्धित्व बोधिं पुनरिहमागमिष्ये

धर्मं श्रुणित्वा भविष्यथ शान्तचित्ताः॥११२॥



छन्दो रुदन्तो प्रतिभणि नायकस्य

न मेऽस्ति शक्तिर्बलत पराक्रमो वा।

हनेयु मह्यं नरवरज्ञातिसंघाः

छन्दा क्व नीतो गुणधरु बोधिसत्त्वो॥११३॥



मा ताहि छन्दा प्रतिभणि बोधिसत्त्वो

तुष्टा भवित्वा अपि मम ज्ञातिसंघाः।

शास्तारसंज्ञा त्वयि सद भाविष्यन्ति

प्रेमेण मह्यं त्वयमपि वर्तिष्यन्ते॥११४॥



छन्दो गृहीत्वा हयवरु भूषणानि

उद्यानप्राप्तो नरवरपुंगवस्य।

उद्यानपालः प्रमुदितु वेगजातो

आनन्दशब्दं प्रतिभणि शाकियानाम्॥११५॥



अयं कुमारो हयवरु छन्दकश्च

उद्यानप्राप्तो न च पुन शोचितव्यो।

राजा श्रणित्वा परिवृतु शाकियेभिः

उद्यानप्राप्तो प्रमुदितु वेगजातो॥११६॥



गोपा विदित्वा दृढमति बोधिसत्त्वं

नो चापि हर्षी न च गिर श्रद्दधाति।

अस्थानमेतद्विनिगतु यत्कुमारो

अप्राप्य बोधिं पुनरिह आगमेया॥११७॥



दृष्ट्वा तु राजा हयवरु छन्दकं च

उत्क्रोशु कृत्वा धरणितले निरस्तो।

हा मह्य पुत्रा सुकुशलगीतवाद्या

क्व त्वं गतोऽसि विजहिय सर्वराज्यम्॥११८॥



साधू भणाहि वचन ममेह छन्दा

किं वा प्रयोगः क्व च गतु बोधिसत्त्वः।

केनाथ नीतो विवरित केन द्वारा

पूजा च तस्या कथ कृत देवसंघैः॥११९॥



छन्दो भणाती शृणु मम पार्थिवेन्द्रा

रात्रौ प्रसुप्ते नगरि सबालवृद्धे।

सो मञ्जुघोषो मम भणि बोधिसत्त्वो

छन्दा ददाहि मम लघु अश्वराजम्॥१२०॥



सो बोधयामि नरगणि नारिसंघं

सुप्ता प्रसुप्ता न च गिर ते श्रुणन्ति।

सो रोदमानो ददि अहु अश्वराजं

हन्त व्रजाही हितकर येन कामम्॥१२१॥



शक्रेण द्वारा विवरित यन्त्रयुक्ताः

पालाश्चतस्रो हयचरणे शिलिष्टाः।

आरूढि शूरे प्रचलित त्रिसहस्राः

मार्गो नभेऽस्मिन् सुविपुल येन क्रान्तो॥१२२॥



आभा प्रमुक्ता विहततमोन्धकारा

पुष्पा पतिंसू तुरियशता रणिंषू।

देवाः स्तविंसू तथपि हि चाप्सराणि

नभसा प्रयातो परिवृतु देवसंघैः॥१२३॥



छन्दो गृहीत्वा हयवरु भूषणानि

अन्तःपुरे सो उपगतु रोदमानो।

दृष्ट्वा तु गोपा हयवरु छन्दकं च

संमूर्छयित्वा धरणितले निरस्ता॥१२४॥



उद्युक्त सर्वा सुविपुल नारिसंघाः

वारिं गृहीत्वा स्नपयिषु शाक्यकन्याम्।

मा हैव कालं करिष्यति शोकप्राप्ता

द्वाभ्यां प्रियाभ्यां बहु भवि विप्रयोगो॥१२५॥



स्थामं जनित्वा सुदुःखित शाक्यकन्या

कण्ठेऽवलम्ब्या हयवर‍अश्वराजे।

अनुस्मरित्वा पुरिमक कामक्रीडां

नानाप्रलापी प्रलपति शोकप्राप्ता॥१२६॥



हा मह्य प्रीतिजनना हा मम नरपुंगवा विमलचन्द्रमुखा।

हा मम सुरूपरूपा हा मम वरलक्षणा विमलतेजधरा॥१२७॥



हा मम अनिन्दिताङ्गा सुजात अनुपूर्व‍उद्गता असमा।

हा मम गुणाग्रधारिं नरमरूभिः पूजिता परमकारूणिका॥१२८॥



हा मम बलोपपेता नरायणस्थामवन्निहतशत्रुगणा।

हा मम सुमाञ्जघोषा कलविङ्करुतस्वरा मधुरब्रह्मरुता॥१२९॥



हा मम अनन्तकीर्ते शतपुण्यसमुद्गता विमलपुण्यधरा।

हा मम अनन्तवर्णा गुणगणप्रतिमण्डिता ऋषिगणप्रीतिकरा॥१३०॥



हा मम सुजातजाता लुम्बिनिवन उत्तमे भ्रमरगीतरुते।

हा मम विघुष्टशब्दा दिवि भुवि अभिपूजिता विपुलज्ञानद्रुमा॥१३१॥



हा मम रसारसाग्रा बिम्बोष्ठा कमललोचना कनकनिभा।

हा मम सुशुद्धदन्ता गोक्षीरतुषारसंनिभसहितदन्ता॥१३२॥



हा मम सुनास सुभ्रू ऊर्णाभ्रु मुखान्तरे स्थिता विमला।

हा मम सुवृत्तस्कन्धा चापोदर एणेयजङ्घवृत्तकटी॥१३३॥



हा मम गजहस्तोरू करचरणविशुद्धशोभना ताम्रनखा।

इति तस्य भूषणानि पुण्येहि कृतानि पार्थिवे प्रीतिकरा॥१३४॥



ह मह्य गीतवाद्या वरपुष्पविलेपना शुभऋतुप्रवरे।

हा मह्य पुष्पगन्धा अन्तःपुरि गीतवादितैर्हर्षकरा॥१३५॥



हा कण्ठका सुजाता मम भर्तु सहायकस्त्वया क्व नीतो।

हा छन्दका निकरुणा न बोधयसि गच्छमानके नरवरिष्ठे॥१३६॥



गच्छत्ययं हितकरो एका गिर तस्मिन्नन्तरि न भसि कस्मात्।

इतु अद्य पुरवरातो गच्छति नरदम्यसारथिः कारुणिकः॥१३७॥



कथ वा गतो हितकरो केन च निष्क्रमितो इतु स राजकुलात्।

कतमां दिशामनुगतो धन्या वनगुल्मदेवता यास्य सखी॥१३८॥



अतिदुःख मह्य छन्दा निधिदर्शिय नेत्र‍उद्धृता चक्षुददा।

सर्वैर्जनैश्च छन्दा मातापितृनित्यवर्णिता पूजनियाः॥१३९॥



तानपि जहित्व निर्गतु किं पुनरिम इस्त्रिकामरतिम्।

हा धिक् प्रियैर्वियोगो नटरङ्गस्वभावसंनिभा अनित्या॥१४०॥



संज्ञाग्रहेण बाला दृष्टिविपर्यासनिश्रिता जन्मच्युति।

प्रागेव तेन भणितं नास्ति जरामरणसंस्कृते काश्चि सखा॥१४१॥



परिपूर्यतोऽस्य आशा स्पृशतू वरबोधिसमुत्तमां द्रुमवरिष्ठे।

बुद्धित्व बोधिविरजां पुनरपि एतू इहा पुरवरें अस्मिन्॥१४२॥



छन्दकः परमदीनमानसो

गोपिकाय वचनं श्रुणित्वना।

साश्रुकण्ठ गिर संप्रभाषते

साधु गोपि निशृणोहि मे वचः॥१४३॥



रात्रिये रहसि यामि मध्यमे

सर्वनारिगणि संप्रसुप्तके।

सो तदा च शतपुण्य‍उद्गतो

आलपेति मम देहि कण्ठकम्॥१४४॥



तं निशाम्य वचनं तदन्तरं

तुभ्य प्रेक्षमि शयानि सुप्तिकाम्।

उच्चघोषु अहु तत्र मुञ्चमी

उत्थि गोपि अयु याति ते प्रियो॥१४५॥



देवता वचनु तं निरोधयि

एक इस्त्रि नपि काचि बुध्यते।

रोदमान समलंकरित्वना

अश्वराजु ददमी नरोत्तमे॥१४६॥



कण्ठको हिषति उग्रतेजस्वी

क्रोशमात्रु स्वरु तस्य गच्छती।

नो च कश्चि शृणुते पुरोत्तमे

देवताभि ओस्वापनं कृतम्॥१४७॥



स्वर्णरूप्यमणिकोटिता मही

कण्ठकस्य चरणैः पराहता।

सा रणी मधुरभीष्मशोभना

नो च केचि शृणुवन्ति मानुषाः॥१४८॥



पुष्ययुक्तु अभु तस्मि अन्तरे

चन्द्रज्योतिष नभे प्रतिस्थिता।

देवकोटि गगने कृताञ्जली

ओनमन्ति शिरसाभिवन्दिषू॥१४९॥



यक्षराक्षसगणैरुपस्थिता

लोकपाल चतुरो महर्द्धिकाः।

कण्ठकस्य चरणां करे न्यसी

पद्मकेशरविशुद्धनिर्मलम्॥१५०॥



सो च पुण्यशततेज‍उद्गतो

आरुही कुमुदवर्षिकोपमम्।

षड्विकार धरणी प्रकम्पिता

बुद्धक्षेत्र स्फुट आभनिर्मला॥१५१॥



शक्र देवगुरुः शचीपतिः

स्वाम द्वार विवरी तदन्तरे।

देवकोटिनयुतैः पुरस्कृतो

सो व्रजी अमरनागपूजितो॥१५२॥



संज्ञमात्र इह जाति कण्ठको

लोकनाथु वहती नभोऽन्तरे।

देवदानवगणा स‍इन्द्रिकाः

ये वहन्ति सुगतस्य गच्छतः॥१५३॥



अप्सरा कुशलगीतवादिते

बोधिसत्त्वगुणभाषमानिकाः।

कण्ठकस्य बलु ते ददन्तिकाः

मुञ्चि घोषु मधुरं मनोरमम्॥१५४॥



कण्ठका वहहि लोकनायकं

शीघ्र शीघ्र म जनेहि खेदताम्।

नास्ति मे भयमपायदुर्गतिं

लोकनाथमभिधारयित्वना॥१५५॥



एकमेक अभिनन्दते सुरो

वाहनं स्मि अहु लोकनायके।

नो च किंचिदपि देशु विद्यते

देवकोटिचरणैर्न मर्दितम्॥१५६॥



पश्य कण्ठक नभोन्तरे इमं

मार्गु संस्थितु विचित्रशोभनम्।

रत्नवेदिकविचित्रमण्डितं

दिव्यसारवरगन्धधूपितम्॥१५७॥



एन कण्ठक शुभेन कर्मणा

त्रायत्रिंशभवने सुनिर्मितो।

अप्सरै परिवृतः पुरस्कृतो

दिव्यकामरतिभी रमिष्यसे॥१५८॥



साधु गोपि म खु भूयु रोदही

तुष्ट भोहि परमप्रहर्षिता।

द्रक्षसे नचिरतो नरोत्तमं

बोधिप्राप्तममरैः पुरस्कृतम्॥१५९॥



ये नराः सुकृतकर्मकारकाः

ते न गोपि सद रोदितव्यकाः।

सो च पुण्यशततेज‍उद्गतो

हर्षितव्य न स रोदितव्यकः॥१६०॥



सप्तरात्र भणभानु गोपिके

सा वियूह नपि शक्य क्षेपितुम्।

या वियूह अभु तत्र पार्थिवे

निष्क्रमन्ति नरदेवपूजिते॥१६१॥



लाभ तुभ्य परमा अचिन्तिया

यं त्युपस्थितु जगे हितंकरो।

मह्य संज्ञि स्वकमेव वर्तते

त्वं हि भेष्यसि यथा नरोत्तमः॥१६२॥इति॥



॥ इति श्रीललितविस्तरेऽभिनिष्क्रमणपरिवर्तो नाम पञ्चदशमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project