Digital Sanskrit Buddhist Canon

१४ स्वप्नपरिवर्तश्चतुर्दशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

14 svapnaparivartaścaturdaśaḥ

१४ स्वप्नपरिवर्तश्चतुर्दशः।



इति हि भिक्षवो बोधिसत्त्वः संचोदितः सन् तेन देवपुत्रेण राज्ञः शुद्धोदनस्येमं स्वप्नमुपदर्शयति स्म-यद्राजा शुद्धोदनः सुप्तः स्वप्नान्तरगतोऽद्राक्षीत् बोधिसत्त्वं रात्रौ प्रशान्तायामभिनिष्क्रमन्तं देवगणपरिवृतम्। अभिनिष्क्रम्य प्रव्रजितं चाद्राक्षीत् काषायवस्त्रप्रावृतम्। स प्रतिबुद्धः त्वरितं त्वरितं काञ्चुकीयं परिपृच्छति स्म-कच्चित् कुमारोऽन्तःपुरेऽस्ति ? सोऽवोचत्-अस्ति देवेति॥



ततो राज्ञः शुद्धोदनस्यान्तःपुरे शोकशल्यो हृदयेऽनुप्रविष्टोऽभूत्-अभिनिष्क्रमिष्यति अवश्यं कुमारोऽयम्। यच्चेमानि पूर्वनिमित्तानि संदृश्यन्ते स्म॥



तस्यैदभवत्-न खल्वव्ययं कुमारेण कदाचिदुद्यानभूमिमभिनिर्गन्तव्यम्। स्त्रीगणमध्येऽभिरतः इहैव रम्यते, नाभिनिष्क्रमिष्यतीति॥



ततो राज्ञा शुद्धोदनेन कुमारस्य परिभोगार्थं त्रयो यथर्तुकाः प्रासादाः कारिता अभूवन् ग्रैष्मिको वार्षिको हैमन्तिकश्च। तत्र यो ग्रैष्मिकः स एकान्तशीतलः। यो वार्षिकः स साधारणः। यो हैमन्तिकः स स्वभावोष्णः। एकैकस्य च प्रासादस्य सोपानानि पञ्च पञ्च पुरुषशतान्युत्क्षिपन्ति स्म, निक्षिपन्ति स्म। तेषां तथोत्क्षिप्यमाणानां निक्षिप्यमाणानां च शब्दोऽर्धयोजने श्रूयते स्म-मा खलु कुमारोऽनभिज्ञात एवाभिनिष्क्रमिष्यतीति। नैमित्तिकैर्वैपञ्चिकैश्च व्याकृतमभूत्-मङ्गलद्वारेण कुमारोऽभिनिष्क्रमिष्यतीति। ततो राजा मङ्गलद्वारस्य महान्ति कपाटानि कारयति स्म। एकैकं च कपाटं पञ्च पञ्च पुरुषशतान्युद्धाटयन्ति स्म, अपघाटयन्ति स्म। तेषां चार्धयोजनं शब्दो गच्छति स्म। पञ्च चास्य कामगुणान् सदृशानुपसंहरति स्म। गीतवादितनृत्यैश्चैनं सदैव युवतय उपतस्थुः॥



अथ भिक्षवो बोधिसत्त्वः सारथिं प्राह-शीघ्रं सारथे रथं योजय। उद्यानभूमिं गमिष्यामीति। ततः सारथी राजानं शुद्धोद्धनमुपसंक्रम्यैवमाह-देव कुमार उद्यानभूमिमभिनिर्यास्यतीति॥



अथ राज्ञः शुद्धोदनस्यैतदभवत्-न कदाचिन्मया कुमार उद्यानभूमिमभिनिष्क्रमितः। सुभूमिदर्शनाय। यन्न्वहं कुमारमुद्यानभूमिमभिनिष्क्रामयेयम्। ततः कुमारः स्त्रीगणपरिवृतो रतिं वेत्स्यते, नाभिनिष्क्रमिष्यतीति॥



ततो राजा शुद्धोदनः स्नेहबहुमानाभ्यां बोधिसत्त्वस्य नगरे घण्टावघोषणां कारयति स्म सप्तमे दिवसे कुमार उद्यानभूमिं निष्क्रमिष्यतीति (सुभूमिदर्शनाय)। तत्र भवद्भिः सर्वामनापानि चापनयितव्यानि-मा कुमारः प्रतिकूलं पश्येत्। सर्वमनापानि चोपसंहर्तव्यानि विषयाभिरम्याणि॥



ततः सप्तमे दिवसे सर्वं नगरमलंकृतमभूत् उद्यानभूमिमुपशोभितं नानारङ्गदूष्यवितानीकृतं छत्रध्वजपताकासमलंकृतम्। येन च मार्गेण बोधिसत्त्वोऽभिनिर्गच्छति स्म, स मार्गः सिक्तः संमृष्टो गन्धोदकपरिषिक्तो मुक्तकुसुमावकीर्णो नानागन्धघटिकानिर्धूपितः पूर्णकुम्भोपशोभितः कदलीवृक्षोच्छ्रितो नानाविचित्रपटवितानविततो रत्नकिङ्किणीजालहारार्धहाराभिप्रलम्बितोऽभूत्। चतुरङ्गसैन्यव्यूहितः परिवारश्चोद्युक्तोऽभूत् कुमारस्यान्तःपुरं प्रतिमण्डयितुम्। अथ शुद्धावासकायिका देवा निध्यापयन्ति स्म बोधिसत्त्वमाहरितुम्, तत्र बोधिसत्त्वस्य पूर्वेण नगरद्वारेणोद्यानभूमिमभिनिष्क्रामतो महता व्यूहेन अथ बोधिसत्त्वस्यानुभावेन शुद्धवासकायिकैर्देवपुत्रैस्तस्मिन् मार्गे पुरुषो जीर्णो वृद्धो महल्लको धमनीसंततगात्रः खण्डदन्तो वलीनिचितकायः पलितकेशः कुब्जो गोपानसीवक्रो विभग्नो दण्डपरायण आतुरो गतयौवनः खरखरावसक्तकण्ठः प्राग्भारेण कायेन दण्डमवष्टभ्य प्रवेपयमानः सर्वाङ्गप्रत्यङ्गैः पुरतो मार्गस्योपदर्शितोऽभूत्॥



अथ बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत्—



किं सारथे पुरुष दुर्बल अल्पस्थामो

उच्छुष्कमांसरुधिरत्वचस्नायुनद्धः।

श्वेतंशिरो विरलदन्त कृशाङ्गरूपो

आलम्ब्य दण्ड व्रजते असुखं स्खलन्तः॥१॥



सारथिराह—



एषो हि देव पुरुषो जरयाभिभूतः

क्षीणेन्द्रियः सुदुखितो बलवीर्यहीनः।

बन्धूजनेन परिभूत अनाथभूतः

कार्यासमर्थ अपविद्धु वनेव दारु॥२॥



बोधिसत्त्व आह—



कुलधर्म एष अयमस्य हितं भणाहि

अथवापि सर्वजगतोऽस्य इयं ह्यवस्था।

शीघ्रं भणाहि वचनं यथभूतमेतत्

श्रुत्वा तथार्थमिह योनिश चिन्तयिष्ये॥३॥



सारथिराह—



नैतस्य देव कुलधर्म न राष्ट्रधर्मः

सर्वे जगस्य जर यौवनु धर्षयाति।

तुभ्यं पि मातृपितृबान्धवज्ञातिसंघो

जरया अमुक्त न हि अन्य गतिर्जनस्य॥४॥



बोधिसत्त्व आह—



धिक्सारथे अबुध बालजनस्य बुद्धिः

यद्यौवनेन मदमत्त जरां न पश्येत्।

आवर्तयाशु मि रथं पुनरहं प्रवेक्ष्ये

किं मह्य क्रीडरतिभिर्जरयाश्रितस्य॥५॥



अथ बोधिसत्त्वः प्रतिनिर्वत्य रथवरं पुनरपि पुरं प्राविशत्॥



इति हि भिक्षवो बोधिसत्त्वोऽपरेण कालसमयेन दक्षिणेन नगरद्वारेणोद्यानभूमिमभिनिष्क्रमन् महता व्यूहेन सोऽद्राक्षीन्मार्गे पुरुषं व्याधिस्पृष्टं दग्धोदराभिभूतं दुर्बलकायं स्वके मूत्रपुरीषे निमग्नमत्राणमप्रतिशरणं कृच्छ्रेणोच्छ्वसन्तं प्रश्वसन्तम्। दृष्ट्वा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत्—



किं सारथे पुरुष रुष्यविवर्णगात्रः

सर्वेन्द्रियेभि विकलो गुरु प्रश्वसन्तः।

सर्वाङ्गशुष्क उदराकुल कृच्छ्रप्राप्तो

मूत्रे पुरीषि स्वकि तिष्ठति कुत्सनीये॥६॥



सारथिराह—



एषो हि देव पुरुषो परमं गिलानो

व्याधीभयं उपगतो मरणान्तप्राप्तः।

आरोग्यतेजरहितो बलविप्रहीनो

अत्राणद्वीपशरणो ह्यपरायणश्च॥७॥



बोधिसत्त्व आह—



आरोग्यता च भवते यथ स्वप्नक्रीडा

व्याधीभयं च इममीदृशु घोररूपम्।

को नाम विज्ञपुरुषो इम दृष्ट्ववस्थां

क्रीडारतिं च जनयेच्छुभसंज्ञतां वा॥८॥



अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्य रथवरं पुनरपि पुरवरं प्राविक्षत्॥



इति हि भिक्षवो बोधिसत्त्वोऽपरेण कालसमयेन पश्चिमेन नगरद्वारेणोद्यानभूमिमभिनिष्क्रमन् महता व्यूहेन सोऽद्राक्षीत् पुरुषं मृतं कालगतं मञ्चे समारोपितं चैलवितानीकृतं ज्ञातिसंघपरिवृतं सर्वै रुदद्भिः क्रन्दद्भिः परिदेवमानैः प्रकीर्णकेशैः पांश्ववकीर्णशिरोभिरुरांसि ताडयद्भिरुत्क्रोशद्भिः पृष्ठतोऽनुगच्छद्भिः। दृष्ट्वा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत्—



किं सारथे पुरुष मञ्चपरि गृहीतो

उद्धूतकेशनख पांशु शिरे क्षिपन्ति।

परिचारयित्व विहरन्त्युरस्ताडयन्तो

नानाविलापवचनानि उदीरयन्तः॥९॥



सारथिराह—



एषो हि देव पुरुषो मृतु जम्बुद्वीपे

नहि भूयु मातृपितृ द्रक्ष्यति पुत्रदारां।

अपहाय भोगगृह (मातृपितृ) मित्रज्ञातिसंघं

परलोकप्राप्तु न हि द्रक्ष्यति भूयु ज्ञातीं॥१०॥



बोधिसत्त्व आह—



धिग्यौवनेन जरया समभिद्रुतेन

आरोग्य धिग्विविधव्याधिपराहतेन।

धिग्जीवितेन विदुषा नचिरस्थितेन

धिक्पण्डितस्य पुरुषस्य रतिप्रसङ्गैः॥११॥



यदि जर न भवेया नैव व्याधिर्न मृत्युः

तथपि च महदुःखं पञ्चस्कन्धं धरन्तो।

किं पुन जरव्याधिर्मृत्यु नित्यानुबद्धाः

साधु प्रतिनिवर्त्या चिन्तयिष्ये प्रमोक्षम्॥१२॥



अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्य तं रथवरं पुनरपि पुरं प्राविक्षत्॥



इति हि भिक्षवो बोधिसत्त्वस्यापरेण कालसमयेनोत्तरेण नगरद्वारेणोद्यानभूमिमभिनिष्क्रामतस्तैरेव देवपुत्रैर्बोधिसत्त्वस्यानुभावेनैव तस्मिन्मार्गे भिक्षुरभिनिर्मितोऽभूत्। अद्राक्षीद्बोधिसत्त्वस्तं भिक्षुं शान्तं दान्तं संयतं ब्रह्मचारिणमविक्षिप्तचक्षुषं युगमात्रप्रेक्षिणं प्रासादिकेनैर्यापथेन संपन्नं प्रासादिकेनाभिक्रमप्रतिक्रमेण संपन्नं प्रासादिकेनावलोकितव्यवलोकितेन प्रासादिकेन समिञ्जितप्रसारितेन प्रासादिकेन संघाटीपात्रचीवरधारणेन मार्गे स्थितम्। दृष्ट्वा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत्—



किं सारथे पुरुष शान्तप्रशान्तचित्तो

नोत्क्षिप्तचक्षु व्रजते युगमात्रदर्शी।

काषायवस्त्रवसनो सुप्रशान्तचारी

पात्रं गृहीत्व न च उद्धतु उन्नतो वा॥१३॥



सारथिराह—



एषो हि देव पुरुषो इति भिक्षुनामा

अपहाय कामरतयः सुविनीतचारी।

प्रवज्यप्राप्तु शममात्मन एषमाणो

संरागद्वेषविगतोऽन्वेति पिण्डचर्या॥१४॥



बोधिसत्त्व आह—



साधू सुभाषितमिदं मम रोचते च

प्रव्रज्य नाम विदुभिः सततं प्रशस्ता।

हितमात्मनश्च परसत्त्वहितं च यत्र

सुखजीवितं सुमधुरं अमृतं फलं च॥१५॥



अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्य तं रथवरं पुनरपि पुरवरं प्राविक्षत्॥



इति हि भिक्षवो राजा शुद्धोदनो बोधिसत्त्वस्येमामेवंरूपां संचोदनां दृष्ट्वा श्रुत्वा च भूयस्या मात्रया बोधिसत्त्वस्य परिरक्षणार्थं प्राकारान् मापयते स्म, परिखाः खानयति स्म, द्वाराणि च गाढानि कारयति स्म। आरक्षान् स्थापयति स्म। शूरांश्चोदयति स्म। वाहनानि योजयति स्म। वर्माणि ग्राहयति स्म। चतुर्षु नगरद्वारशृङ्गाटकेषु चतुरो महासेनाव्यूहान् स्थापयति स्म बोधिसत्त्वस्य परिरक्षणार्थम्। य एनं रात्रिंदिवं रक्षन्ति स्म-मा बोधिसत्त्वोऽभिनिष्क्रमिष्यतीति। अन्तःपुरे चाज्ञां ददाति स्म-मा स्म कदाचित्संगीतिं विच्छेत्स्यथ। सर्वरतिक्रीडाश्चोपसंहर्तव्याः, स्त्रीमायाश्चोपदर्शयत, निर्बन्धत कुमारं यथानुरक्तचित्तो न निर्गच्छेत्प्रव्रज्यायै॥



तत्रेदमुच्यते—



द्वारे स्थापित युद्धशौण्डपुरुषाः खड्गायुधापाणयो

हस्ती‍अश्वरथाश्च वर्मितनरा आरूढ नागावली।

परिखा खोटकतोरणाश्च महता प्राकार उच्छ्रापिता

द्वारा बद्ध सुगाढबन्धनकृताः क्रोशस्वरामुञ्चनाः॥१६॥



सर्वे शाक्यगणा विषण्णमनसो रक्षन्ति रात्रिंदिवं

निर्घोषश्च बलस्य तस्य महतः शब्दो महा श्रूयते।

नगरं व्याकुलु भीतत्रस्तमनसो मा स्माद् व्रजेत्सूरतो

मा भूच्छाक्यकुलोदितस्य गमने छिद्येत वंशो ह्ययम्॥१७॥



आज्ञप्तो युवतीजनश्च सततं संगीति मा छेत्स्यथा

वस्थानं प्रकरोथ क्रीडरतिभिर्निर्बन्धथा मानसम्॥

ये वा इस्त्रियमाय नेकविविधा दर्शेथ चेष्टां बहुं

आरक्षां प्रकरोथ विघ्न कुरुथा मा खु व्रजेत्सूरतः॥१८॥



तस्या निष्क्रमिकालि सारथिवरे पूर्वे निमित्ता इमे

हंसा क्रोञ्च मयूर सारिक शुका नो ते रवं मुञ्चिषु।

प्रासादेषु गवाक्षतोरणवरेष्वातालमञ्चेषु च

जिह्माजिह्व सुदुर्मना असुखिता ध्यायन्त्यधोमूर्धकाः॥१९॥



पुडिनीपुष्करिणीषु पद्म रुचिरा म्लानानि म्लायन्ति च

वृक्षाः शुष्कपलाश पुष्परहिताः पुष्पन्ति भूयो न च।

वीणावल्लकिवंशतन्त्रिरचिता छिद्यन्त्यकस्मात्तदा

भेरीश्चैव मृदङ्ग पाण्यभिहता भिद्यन्ति नो वाद्यिषु॥२०॥



सर्वं व्याकुलमासि तच्च नगरं निद्राभिभूतं भृशं

नो नृत्ते न च गायिते न रमिते भूयो मनः कस्यचित्।

राजापी परमं सुदीनमनसः चिन्तापरो ध्यायते

हा धिक्शाक्यकुलस्य ऋद्धि विपुला मा हैव संधक्ष्यते॥२१॥



एकस्मिं शयने स्थिते स्थितमभूद्गोपा तथा पार्थिवो

गोपा रात्रियि अर्धरात्रसमये स्वप्नानिमां पश्यति।

सर्वेयं पृथिवी प्रकम्पितमभूच्छैला सकूटावटी

वृक्षा मारुत‍एरिता क्षिति पती उत्पाट्य मूलोद्धृताः॥२२॥



चन्द्रासूर्य नभातु भूमिपतितौ सज्योतिषालंकृतौ

केशानदृशि लून दक्षिणि भुजे मुकुटं च विध्वंसितम्।

हस्तौ छिन्न तथैव छिन्न चरणौ नग्ना दृशी आत्मनं

मुक्ताहार तथैव मेखलमणी छिन्ना दृशी आत्मनः॥२३॥



शयनस्या दृशि छिन्न पाद चतुरो धरणीतलेस्मिं छयी

छत्रे दण्डु सुचित्रु श्रीम रुचिरं छिन्ना दृशी पार्थिवे।

सर्वे आभरणा विकीर्ण पतिता मुह्यन्ति ते वारिणा

भर्तुश्चाभरणा सवस्त्रमुकुटा शय्यागता व्याकुला॥२४॥



उल्कां पश्यति निष्क्रमन्त नगरात्तमसाभिभूतं पुरं

छिन्नां जालिकमदृशाति सुपिने रतनामिकां शोभनां।

मुक्ताहारु प्रलम्बमानु पतितः क्षुभितो महासागरं

मेरुं पर्वतराजमदृशि तदा स्थानातु संकम्पितम्॥२५॥



एतानीदृश शाक्यकन्य सुपिनां सुपिनान्तरे अदृशी

दृष्ट्वा सा प्रतिबुद्ध रुण्णनयना स्वं स्वामिनं अब्रवीत्।

देवा किं मि भविष्यते खलु भणा सुपिनान्तराणीदृशा

भ्रान्ता मे स्मृति नो च पश्यमि पुनः शोकार्दितं मे मनः॥२६॥



श्रुत्वासौ कलविङ्कदुन्दुभिरुतो ब्रह्मस्वरः सुस्वरो

गोपामालपते भव प्रमुदिता पापं न ते विद्यते।

ये सत्त्वा कृतपुण्यपूर्वचरिता तेषेति स्वप्ना इमे

कोऽन्यः पश्यति नैकदुःखविहितः स्वप्नान्तराणीदृशा॥२७॥



यत्ते दृष्टा मेदिनी कम्पमाना

कूटा शैला मेदिनीये पतन्ता।

देवा नागा राक्षसा भूतसंघाः

सर्वे तुभ्यं पूज्यश्रेष्ठां करोन्ति॥२८॥



यत्ते दृष्टा वृक्षमूलोद्धृतानि

केशां लूनां दक्षिणेनादृशासि।

क्षिप्रं गोपे क्लेशजालं छिनित्वा

दृष्टीजालं उद्धरी संस्कृतातः॥२९॥



यत्ते दृष्टौ चन्द्रसूर्यौ पतन्तौ

दृष्टा नक्षत्रा ज्योतिषा नीपतन्तः।

क्षिप्रं गोपे क्लेशशत्रू निहत्वा

पूज्या लोके भाविनी त्वं प्रशस्या॥३०॥



यत्ते दृष्टा मुक्तहारं विशीर्णं

नग्नं भग्नं सर्वकायादृशासि।

क्षिप्रं गोपे इस्त्रिकायं जहित्वा

पुरुषस्त्वं वै भेष्यसे नोचिरेण॥३१॥



यत्ते दृष्टं मञ्चकं छिन्नपादं

छत्रे दण्डं रत्नचित्रं प्रभग्नम्।

क्षिप्रं गोपे ओघ चत्वारि तीर्त्वा

मां द्रष्टासी एकछत्रं त्रिलोके॥३२॥



यत्ते दृष्टा भूषणा उह्यमाना

चूडा वस्त्रा मह्य मञ्चेऽदृशासि।

क्षिप्रं गोपे लक्षणैर्भूषिताङ्गं

मां संपश्यी सर्वलोकैः स्तुवन्तम्॥३३॥



यत्ते दृष्टा दीपकोटीशतानि

नगरान्निष्क्रान्ता तत्पुरं चान्धकारम्।

क्षिप्रं गोपे मोहविद्यान्धकारे

प्रज्ञालोके कुर्वमी सर्वलोकम्॥३४॥



यत्ते दृष्टं मुक्तहारं प्रभग्नं

छिन्नं चैव स्वर्णसूत्रं विचित्रम्।

क्षिप्रं गोपे क्लेशजालं छिनित्वा

संज्ञा सूत्रं उद्धरी संस्कृतातः॥३५॥



यत्ते गोपे चित्तिकारं करोषी

नित्यं पूजां गौरवेणोत्तमेन।

नास्ती तुभ्यं दुर्गती नैव शोकः

क्षिप्रं भोही प्रीतिप्रामोद्यलब्धा॥३६॥



पूर्वे मह्यं दानु दत्तं प्रणीतं

शीलं चीर्णं भाविता नित्यक्षान्ति।

तस्मान्मह्यं ये प्रसादं लभन्ते

सर्वे भोन्ती प्रीतिप्रामोद्यलाभाः॥३७॥



कल्पा कोटी संस्कृता मे अनन्ता

बोधीमार्गो शोधितो मे प्रणीतः।

तस्मान्मह्यं ये प्रसादं करोन्ति

सर्वे छिन्ना तेषु त्रीण्यप्यपायाः॥३८॥



हर्षं विन्दा मा च खेदं जनेहि

तुष्टिं विन्दा संजनेही च प्रीतिम्।

क्षिप्रं भेष्ये प्रीतिप्रामोद्यलाभी

सेही गोपे भद्रका ते निमित्ता॥३९॥



सो पुण्यतेजभरितो सिरितेजगर्भो

पूर्वे निमित्तसुपिने इमि अदृशासि।

ये भोन्ति पूर्वशुभकर्मसमुच्चयानां

नैष्क्रम्यकालसमये नरपुंगवानाम्॥४०॥



सो अदृशासि च कराच्चरणाद्धताना

महसागरेभि चतुभिर्जल लोलयन्ता।

सर्वामिमां वसुमतीं शयनं विचित्रं

मेरुं च पर्वतवरं शिरसोपधानम्॥४१॥



आभा प्रमुक्त सुपिने तद अदृशासि

लोके विलोकितु महातमसान्धकारम्।

छत्रोद्गतं धरणिये स्फरते त्रिलोकं

आभाय स्पृष्ट विनिपातदुखा प्रशान्ता॥४२॥



कृष्णा शुभा चतुरि प्राणक पाद लेखी

चतुवर्ण एत्व शकुनाद्भुत एकवर्णाः।

मीढंगिरी परमहीन जुगुप्सनीया

अभिभूय चंक्रमति तत्र च नोपलिप्तो॥४३॥



भूयोऽदृशी सुपिनि नद्य जलप्रपूर्णा

बहुसत्त्वकोटिनयुतानि च उह्यमाना।

सो नाव कृत्व प्रतरित्व परां प्रतार्य

स्थापेति सो स्थलवरे अभये अशोके॥४४॥



भूयोऽदृशाति बहु आतुर रोगस्पृष्टां

आरोग्यतेजरहितां बलविप्रहीनां।

सो वैद्य भूत्व बहु ओषध संप्रयच्छा

मोचेति सत्त्वनयुतां बहुरोगस्पृष्टां॥४५॥



सिंहासने व हि निषण्ण सुमेरुपृष्ठे

शिष्यां कृताञ्जलिपुटानमरान्नमन्तां।

संग्राममध्यि जयु अदृशि आत्मनश्च

आनन्दशब्दममरां गगने ब्रुवन्तः॥४६॥



एवंविधा सुपिनि अदृशि बोधिसत्त्वो

मङ्गल्य शोभनव्रतस्य च पारिपूरिम्।

यां श्रुत्व देवमनुजा अभवन्प्रहृष्टा

न चिराद्भविष्यति अयं नरदेवदेवः॥४७॥ इति॥



इति श्रीललितविस्तरे स्वप्नपरिवर्तो नाम चतुर्दशोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project