Digital Sanskrit Buddhist Canon

१३ संचोदनापरिवर्तस्त्रयोदशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 13 saṁcodanāparivartastrayodaśaḥ
१३ संचोदनापरिवर्तस्त्रयोदशः।



इति हि भिक्षव आत्मरुतहर्षमुदीरयन्त आगता आसन् बोधिसत्त्वस्यान्तःपुरमध्यगतस्य अनेकैर्देवैर्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालाः, ये बोधिसत्त्वस्य पूजाकर्मणे औत्सुक्यमापत्स्यन्ते स्म॥



तत्र भिक्षवो अपरेण समयेन संबहुलानां देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालानामेतदभवत्-अतिचिरं बतायं सत्पुरुषोऽन्तःपुरे विलम्बितः। ये चास्येमे दीर्घरात्रं परिपाचिताः सत्त्वाश्चतुर्भिः संग्रहवस्तुभिर्दानेन प्रियवाक्येनार्थक्रियया समानार्थतया, यस्य बोधिप्राप्तस्य धर्मदेशितमाज्ञास्यन्ति, तत्सहैव च तानि धर्मभाजनानि सर्वाण्यन्तर्हितानि भविष्यन्ति। बोधिसत्त्वश्च पश्चादभिनिष्क्रम्यानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते॥



ततस्ते सगौरवाः सप्रतीक्षाः प्राञ्जलीभूता बोधिसत्त्वं नमस्यन्ति स्म। एवमभिप्रायाश्चोदीक्षमाणाः स्थिता अभूवन्-कदा च नाम तद्भविष्यति यद्वयं वरप्रवरं शुद्धसत्त्वमभिनिष्क्रामन्तं पश्येम, अभिनिष्क्रम्य च तस्मिन् महाद्रुमराजमूलेऽभिनिषद्य सबलं मारं धर्षयित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धं दशभिस्तथागतबलैः समन्वागतं चतुर्भिश्च तथागतवैशारद्यैः समन्वागतमष्टादशभिश्चावेणिकैर्बुद्धधर्मैः समन्वागतं त्रिपरिवर्तं द्वादशाकारमनुत्तरं धर्मचक्रं प्रवर्तयन्तं महता बुद्धविक्रीडितेन सदेवमानुषासुरलोकं यथाधिमुक्त्या सुभाषितेन संतोषयन्तमिति॥



तत्र भिक्षवो बोधिसत्त्वो दीर्घरात्रमसंख्येयान् कल्पानुपादाय सततं समितमपरप्रणेयोऽभूत्। सर्वलौकिकलोकोत्तरेषु धर्मेषु स्वयमेवाचार्यः सर्वकुशलमूलधर्मचर्यासु दीर्घकालं च कालज्ञो वेलाज्ञः समयज्ञोऽभूदच्युतोऽभिज्ञः पञ्चाभिज्ञाभिः समन्वागतोऽभूत्। ऋद्धिपादविक्रीडतः सर्वेन्द्रियकुशलः कालाकालज्ञः कालवेषी महासागर इव प्राप्तां वेलां नातिक्रामति स्म। सोऽभिज्ञज्ञानबलेन समन्वागतः स्वयमेव सर्वं जानाति स्म। अस्यायं कालः प्रग्रहस्य, अयं कालो निग्रहस्य, अयं कालः संग्रहस्य, अयं कालोऽनुग्रहस्य, अयं काल उपेक्षायाः, अयं कालो भाषितस्य, अयं कालस्तूष्णींभावस्य, अयं कालो निष्क्रम्यस्य, अयं कालः प्रव्रज्यायाः, अयं कालः स्वाध्यायस्य, अयं कालो योनिशोमनस्कारस्य, अयं कालः प्रविवेकस्य, अयं कालः क्षत्रियपर्षदमुपसंक्रमितुं.............पेयालं...............यावदयं कालो ब्राह्मणगृहपतिपर्षदमुपसंक्रमितुम्, अयं कालो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालभिक्षुभिक्षुण्युपासकोपासिकापर्षदमुपसंक्रमितुम्, अयं कालो धर्मदेशनायाः, अयं कालः प्रतिसंलयनस्य। सर्वत्र बोधिसत्त्वो नित्यकालं कालज्ञो भवति स्म कालवेषी॥



अथ च पुनर्भिक्षवो धर्मताप्रतिलम्भ एष च चरमभाविकानां बोधिसत्त्वानां यदवश्यं दशदिग्लोकधातुस्थितैर्बुद्धैर्भगवद्भिरन्तःपुरमध्यगताः संगीतितूर्यनिर्नादितैरेभिरेवंरूपैर्धर्ममुखैः संचोदितव्या भवन्ति॥



तत्रेदमुच्यते—



ये सत्त्वाग्रा दशदिग्लोके तेषु विशेषात्तत्र रतितुरियैः।

गाथा गीता इम रतिमधुरा संचोदेन्ती नरवरप्रवरम्॥१॥



पूर्वि तुभ्यं अयु कृतु प्रणिधी दृष्ट्वा सत्त्वान् दुःखशतभरितान्।

लेनं त्राणं जगनिजशरणे भेष्ये नाथु हितकरु परमः॥२॥



साधो वीरा स्मर चरि पुरिमां या ते आसीज्जगहितप्रणिधिः।

कालो वेला अयु तव समयो निष्क्रम्याही ऋषिवरप्रवरा॥३॥



यस्यार्थे ते धनवर विविधा त्यक्ता पूर्वे शिरकरचरणा।

भेष्ये बुद्धो नरमरुदमको लोकस्याग्रो गुणशतनिचितः॥४॥



त्वं शीलेन व्रततपचरितः त्वं क्षान्तीये जगहितकरणः।

त्वं वीर्येणा शुभगुणनिचितो ध्याने प्रज्ञे न तु समु त्रिभवे॥ ५॥



क्रोधाविष्टा खिलमलबहुला ते मैत्रीये त्वयि स्फुट सुगता।

कारुण्यं ते बहुविधमबुधे मिथ्यात्वेषू शुभगुणरहिते॥६॥



पुण्यज्ञाने शुभानिचितात्मा ध्यानाभिज्ञो प्रतपसि विरजो।

ओभासेसी दश इम दिशतो मेघा मुक्तः शशिरिव विमलः॥७॥



एते चान्ये बहुविध रुचिरा तूर्यैर्घोषां जिनरुतरवना।

ये चोदेन्ती सुरनरमहितं निष्क्रम्याही अयु तव समयु॥८॥इति॥



बोधिसत्त्वस्य खलु पुनर्भिक्षवस्तस्मिन् गृहवरप्रधाने सर्वोपकरणसमृद्धिसमुदिते यथाभिप्रायसुखविहारानुकूले अमरपुरभवनप्रकाशे वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादवरप्रवरे सर्वरत्नविचित्रालंकारविविधभक्तिसुविभक्ते उच्छ्रितछत्रध्वजपताकानेकरत्नकिङ्किणीजालसमलंकृते अनेकपट्ठदामशतसहस्राभिप्रलम्बिते नानारत्नप्रत्युप्ते मुक्ताहाराभिप्रलम्बिते विचित्रपट्टरत्नसंक्रमोपशोभिते अवसक्तपट्टमाल्यदामकलापे गन्धघटिकानिर्धूपिते अवश्यायपटविततवितानेसर्वर्तुकपुष्पपरमसुगन्धिसुरुचिराभिप्रकीर्णपुष्करिणीपुण्डरीकनवनलिनीजालसंस्थानपरिभोगबहुले पत्रगुप्तशुकसारिककोकिलहंसमयूरचक्रवाककुनालकलविङ्कजीवजीवकादिनानाविधद्विजगणमधुर स्वरनिकूजितेनीलवैडूर्यमये धरणीतलसंस्थानपरिभोगे सर्वरूपप्रतिभाससंदर्शने अतृप्तनयनाभिरम्ये परमप्रीतिप्रामोद्यसंजनने तस्मिन् गृहवरप्रधानेऽध्यावसतो बोधिसत्त्वस्योदारवरशरणभवननिवासिनोऽमलविमलनिर्मलाङ्गस्यामुक्तमाल्याभरणस्य प्रवरसुरभिगन्धानुलेपनानुलिप्तगात्रस्य शुक्लशुभविमलविशुद्धनिर्मलवस्त्रप्रावृतशरीरस्य अनेकदिव्यदूष्यसूक्ष्मसुविन्यस्तमृदुकाचिलिन्दिकसुखसंस्पर्शवराङ्गरचितशयनतलाभिरूढस्य अमरवधूभिरिव सर्वतो अनवद्याप्रतिकूलदर्शनशुभोपचारचरितस्य अभिरूपान्तःपुरमध्यगतस्य शङ्खभेरीमृदङ्गपणवतुणववीणावल्लकिसंपताडकिपलनकुलसुघोषकमधुरवेणुनिर्नादितघोषरुतनानातूर्यसंगीतिसंप्रयोगप्रतिबोधितस्य ये च नारीगणाः स्निग्धमधुरमनोज्ञस्वरवेणुनिर्नादितनिर्घोषरुतेन बोधिसत्त्वं प्रतिसंबोधयन्ति स्म, तेषां दशदिगवस्थितानां बुद्धानां भगवतामधिस्थानेन तेभ्यो वेणुतूर्यनिनादनिर्घोषरुतेभ्य इमा बोधिसत्त्वस्य संचोदना गाथा निश्चरन्ति स्म—



या नार्यो मुदितमनाः प्रसन्नचित्ता

वेणुभ्यो मधुरमनोरमं रणन्ते।

आवेशाद्दशदिग्गतां जिनोत्तमानां

गाथेमा विविधविचित्रचित्ररूपाः॥९॥



पूर्वे ते अयु (कृतु) प्रणिधी अभूषि वीरा

दृष्ट्वेमां जनत सदा अनाथभुताम्।

शोचिष्ये जरमरणात्तथान्यदुःखाद्

बुद्धित्वा पदमजरं परं अशोकम्॥१०॥



तत्साधो पुरवर इत शीघ्रं

निष्क्रम्या पुरिमऋषिभि चीर्णम्।

आक्रम्या धरणितलप्रदेशं

संबुद्ध्या असदृशजिनज्ञानम्॥११॥



पूर्वे ते धनरतन विचित्रा

त्यक्ताभूत् करचरणप्रियात्मा।

एषोऽद्या तव समयु महर्षे

धर्मौघं जगि विभज अनन्तम्॥१२॥



शीलं ते शुभ विमलखण्डं

पूर्वान्ते वर सततमभूषी।

शीलेनानतिसदृशु महर्षे

शोचेही जगु विविधकिलेशैः॥१३॥



क्षान्तीये भव शतचरितस्त्वं

क्षान्तास्ते जगि विविध दुरुक्ताः।

क्षान्ताये क्षमदमनिरतात्म

नैष्क्रम्ये मति कुरु द्विपदेन्द्रा॥१४॥



वीर्यं ते दृढमचलमकम्प्यं

पूर्वान्ते पृथु सुगत अभूवन्।

धर्षित्वा नमुचि शठं ससैन्यं

शोषिष्ये त्रय सकल‍अपायात्॥१५॥



यस्यार्थे व्रततप चरितस्त्वं

ध्यायित्वा कलिकलुषकिलेशां।

त्वं वर्षा अमृतजलमोघं

तर्पेही चिरतृषित अनाथां॥१६॥



तां पूर्वां गिरवरमनुचिन्त्या

निष्क्रम्या पुरवर इत शीघ्रम्।

बुद्धित्वा पदममृतमशोकं

तर्पिष्ये अमृतरसि तृषार्तां॥१७॥



प्रज्ञाया परिचरिकुशल त्वं

ज्ञानं ते पृथु विपुलमनन्तम्।

मूढानां विमतिपथस्थितानां

प्रज्ञाभां शुभरुचिर कुरु त्वम्॥१८॥



मैत्रायां भव शतचरितस्त्वं

कारूण्ये वर मुदित उपेक्षे।

यामेवा वरचरि चरितस्त्वं

तामेवा चरिं विभज जगस्य॥१९॥



एवं दश दिश जिनतेजै-

र्गाथा वै गुणकुसुमविचित्राः।

तूर्येभ्यो विविधमनुरवन्ते

चोदेन्ती शयनगतकुमारम्॥२०॥



यद पुन प्रमुदित रतिकर प्रमदा

सुरुचिर सुमधुर प्रभणिषु तुरियैः।

अथ जिन दशदिशि सुरनरदमकाः

गिरवरमनुरवि ततु रवि तुरियैः॥२१॥



कृत त्वयि हितकर बहुगुण जनतो

निजिनितु निजगुण विचरति गतिषू।

स्मर स्मर पुरिमक ब्रततपचरण

लघु व्रज द्रुमवरु स्पृश पदममृतम्॥२२॥



सुतृषित नरमरु जिनगुणरहिता

त्वयि मति प्रतिबलु अमृतरसददा।

दशबलगुणधर बुधजनमहितं

लघु त्वयि नरपति विभजहि अमृतम्॥२३॥



त्यजि त्वयि पुरि भवि धनमणिकनका

सखि प्रिय सुत महि सनगरनिगमा।

शिरमपि त्यजि स्वकु करचरनयना

जगति य हितकरु जिनगुणनिरता॥२४॥



पुरि तुम नरवरसुतु नृपु यदभू

नरु तव अभिमुख इम गिरमवची।

दद मम इम महि सनगरनिगमां

त्यजि तद प्रमुदितु न च मनु क्षुभितो॥२५॥



पुरि तुम नरपति स्वकु द्विज यदभू

गुरुजनि परिचरि न च द्रुहि परतो।

स्थपयिसु द्विजवर बहुजन कुशले

च्युतु ततु भवगतु मरुपुरनिलयम्॥२६॥



पुरि तुम नृपसुत ऋषिवरु यदभू

छिनि तव तनुरुह कलिनृपु रुषितो।

कृत त्वयि कुलक्रिय न च मनु क्षुभितो

पयु तव स्रवि तद करतलचरणैः॥२७॥



स्यमु पुन ऋषिसुत त्वयि पुरि यदभू

व्रतरतु गुरुभरु गिरिवरनिलये।

हत भव नृपतिन विषकृत ईषुणा

कृप तव तहि नृप न च मनु क्षुभितो॥२८॥



पुरि तुम गुणधर मृगपति यदभू

गिरिनदिबहुजलि दुयमनु पुरुषो।

हित भव त्वयि नरु स्थलपथि स्थपितो

उपनयि तव अरि न च मनु क्षुभितो॥२९॥



पुरि तुम नरवर त्यजि सुतु यदभू

मणि तव प्रपतितु जलधरि विपुले।

च्यवयितु क्षपयितु त्वय मह‍उदधिं

लभि तद धनमणि दृढबल वषभी॥३०॥



पुरि तुम सुपुरुष ऋषिवरु यदभू

द्विज तव उपगतु भव मम शरणम्।

भणि ऋषि द्विजवर मम रिपु‍उपने

त्यजि त्वय स्वकि तनु न च द्विज त्यजसे॥३१॥



स्यमु ऋषि उपगतु पुरि द्रुमनिलये

रुचि भणि तरुरुह कति इम गणये।

सुविदित सुगणित यथ तहि किशला

तथ तव अवितथ समगिर रचिता॥३२॥



सुकुल सुगुणधर पुरि द्रुमि वसतो

क्षयगतु न च त्यजि कृतु स्मरि पुरिमम्।

मरुपति प्रमुदितु तव गुण स्मरतो

श्रियकरि द्रुमवरि यथरिव पुरिमा॥३३॥



इति तव असदृश व्रततपचरणा

बहुगुण गुणधर गुणपथि चरतो।

त्यजि महि सनगरि अयु तव समयो

लघु जगु स्थपयहि जिनगुणचरणे॥३४॥



यद प्रमदरतना शुभवस्त्रा भूषितगात्रा

वरप्रवरु तुरिया सुमनोज्ञा संप्रभणीषु।

अथ दशसू दिशतो जिनतेजैर्गाथ विचित्रा

इति रविषू मधुरा रुतघोषा तूर्यस्वरेभ्यः॥३५॥



तव प्रणिधी पुरिमे बहुकल्पां लोकप्रदीपा

जरमरणग्रसिते अहु लोके त्राणु भविष्ये।

स्मर पुरिमप्रणिधिं नरसिंहा या ति अभूषी

अयु समयो त्वमिहा द्विपदेन्द्रा निष्क्रमणाय॥३६॥



भवनयुते त्वमिहा बहुदानं दत्तमनेकं

धनकनका रतना शुभवस्त्रा रत्नविचित्रा।

करचरणा नयना प्रियपुत्रा राज्य समृद्धं

त्वयि त्यजितं न च ते खिलदोषा याचनकेषु॥३७॥



शिशुनृपति त्वमिहा शशिकेतो आसि सुदंष्ट्रो

कृप करुणामनसो मणिचूडो चन्द्रप्रदीपः।

इति प्रमुखा करिया दृढशूरो राजसुनेत्रो

बहु नृपति नयुता रत दाने त्वं सविकुर्वन्॥३८॥



तव सुगता चरितो बहुकल्पां शीलचरीये

मणिरत्ना विमला सदृशाभूच्छीलविशुद्धिः।

त्वयि चरता चमरी यथ बालं रक्षितु शीलं

कृतु त्वमिहा जगति विपुलार्थं शीलरतेना॥३९॥



गजवरु त्वमिहा रिपुलुब्धे विद्धु इषूणा

कृप करुणा जनिया अतिरौद्रे छादितु शोभे।

परित्यजि ते रुचिरा शुभदन्ता न च त्यजि शीलं

इति प्रमुखा करिया बहु तुभ्यं शीलविकुर्वी॥४०॥



त्वयि सहिता जगतोऽहित अनेका दुःखसहस्रा

बहुकटुकावचनं वधबन्धा क्षान्तिरतेना।

परिचारित पुरिमे नर ये ते सर्वसुखेना

पुन वधकास्तव तेह अभूवन् तच्च ति क्षान्तम्॥४१॥



गिरिप्रवरानिलये तुम नाथा ऋक्षु यदासी

हिमकिरणा सलिला भयभीतं त्वं नरु गृह्य।

परिचरसि विविधा फलमूलैः सर्वसुखेना

लघु वधकां स तवा उपनेत्री तं च ति क्षान्तम्॥४२॥



दृढु संस्थितमचलमकम्प्यं वीर्यु तवासीत्

व्रततपसा विविधा गुणज्ञानं एषत बोधिम्।

कृतु अबलो नमुची वशवर्ती वीयबलेना

अयु समयो त्वमिहा नरसिंहा निष्क्रमणाय॥४३॥



हयप्रवरू त्वमिहा पुरि आसी हेमसुवर्णो

लघु गगने वज्रसे कृपजातो राक्षसिद्वीपम्।

व्यसनगत मनुजां तद गृह्या क्षेमि थपेसी

इति प्रमुखा करिया बहु तुभ्यं वीर्यविकुर्वा॥४४॥



दमशमथेः नियमाहतक्लेशा ध्यायिन अग्रा

लघु चपलं विषयै रतिलोलं चित्तु दमित्वा।

कृतु स्वगुणो त्वमिहा जगतोऽर्थे ध्यानरतेना

अयु समयो त्वमिहा वरसत्त्वा ध्यानविकुर्वा॥४५॥



त्वं पुरिमे ऋषि सुस्थितु आसी ध्यानरतीये

नृपरहिता मनुजा त्वमु गृह्या राज्यभिषिञ्ची।

दशकुशली जनिता थपिता ते ब्रह्मपथेषु

च्युत मनुजा व्रजिषू तद सर्वे ब्रह्मनिकेतम्॥४६॥



दिशिविदिशि विविधागतिज्ञाने त्वं सुविधिज्ञो

परचरिता जगति रुतज्ञाने इन्द्रियज्ञाने।

नयविनये विविधामतिधारे पारगतस्त्वं

अयु समयो त्वमिहा नृपसूनो निष्क्रमणाय॥४७॥



त्वयि पुरिमा जनता इम दृष्ट्वा दृष्टिविपन्ना

जरमरणा विविधा बहुदुःखे कृछ्रगता हि।

भवविभवंकरणो ऋजुमार्गे स्वामनुबद्धा

हततमस त्वमिहा कृतु लोके अर्थु महन्तो॥४८॥



इति विविधा रुचिरा गुणयुक्ता गाथ विचित्रा

ततु रविषु तुरियेभी जिनतेजा चोदयि वीरम्।

दुःखभरितजनते इह दृष्ट्वा मा त्वमुपेक्षा

अयु समयो त्वमिहा वरबुद्धे निष्क्रमणाय॥४९॥



विचित्रवस्त्ररत्नहारगन्धमाल्यभूषिता

प्रसन्नचित्त प्रेमजात नारियो प्रहर्षिता।

प्रबोधयन्ति येऽग्रसत्त्व तूर्यसंप्रवादितैः

जिनानुभावि एकरूप गाथ तूर्य निश्चरी॥५०॥



यस्यार्थि तुभ्य कल्प नैक त्यक्तु त्याग दुस्त्यजा

सुचीर्ण शीलु क्षान्ति वीर्य ध्यान प्रज्ञ भाविता।

जगद्धितार्थ सो ति कालु सांप्रतं उपस्थितो

नैष्क्रम्यबुद्धि चिन्तयाशु मा विलम्ब नायक॥५१॥



त्युक्तु पूर्वि रत्नकोश स्वर्णरूप्यभूषणा

यष्टा ति यज्ञ नैकरूप तासु तासु जातिषु।

त्यक्त भार्य पुत्र धीत कायु राज्यु जीवितं

बोधिहेतुरप्रमेय त्यक्तुःदुस्त्यजा त्वया॥५२॥



अभूषि त्वं अदीनपुण्य राज विश्रुतश्रियो

निमिंधरो निमिश्च कृष्ण(बन्धु) ब्रह्मदत्त केसरी।

सहस्रयज्ञ धर्मचिन्ति अर्चिमान् दृढधनु

सुचिन्तितार्थ दीनसत्त्व येःति त्यक्त दुस्त्यजा॥५३॥



सुतसोम दीप्तवीर्य पुण्यरश्मि यो सोऽभू

महत्यागवन्तु स्थामवन्तु यः कृतज्ञ त्वं अभूः।

राजर्षि चन्द्ररूपवन्तु शूर सत्यवर्धनो

सुभाषितंगवेषि राजि असि सुमतिं च सूरतो॥५४॥



चन्द्रप्रभो विशेषगामि रेणुभू दिशांपति

प्रदानशूर काशिराजु रत्नचूड शान्तगः।

एति चान्यि पार्थिवेन्द्र येभि त्यक्त दुस्त्यजा

यथा ति वृष्ट त्यागवृष्टि एष धर्म वर्षही॥५५॥



दृष्टा ति पूर्विं सत्त्वसार गङ्गवालुकोपमा

कृता ति तेष बुद्धपूज अप्रमेयचिन्तिया।

वराग्रबोधि एषमाण सत्त्वमोक्षकारणादू

अयं स कालु प्राप्तु सूरु निष्क्रमा पुरोत्तमात्॥५६॥



प्रथमेन ते अमोघदर्शि शालपुष्पपूजितो

विरोचनः प्रसन्नचित्त प्रेक्षितः क्षणान्तरम्।

हरीतकी च एक दत्त दुन्दुभिस्वराय ते

तृणोत्थ गृह्य धारिता ति दृष्ट चन्दनं गृहम्॥५७॥



पुरप्रवेशि रेणु दृष्ट क्षिप्तु चूर्णमुष्टिका

धर्मेश्वराय साधुकारु दत्तु धर्म भाषतो।

नमो नमः समन्तदर्शि दृष्ट वाच भाषिता

महार्चिस्कन्धि स्वर्णमाल क्षिप्त हर्षितेन ते॥५८॥



धर्मध्वजो दशाप्रदानि रोधु मुङ्ग मुष्टिना

अशोकपुष्पि ज्ञानकेतु य्वागुपान सारथिः।

रत्नशिखी च दीपदानि पद्मयोनि ओषधी

सर्वाभिभूश्च मुक्तहारि पद्मदानि सागरो॥५९॥



वितानदानि पद्मगर्भि सिंहु वर्षसंस्तरे

शालेन्द्रराज सर्पिदानि क्षीरत्यागि पुष्पिती।

यशोदत्तु कुरुण्टपुष्पि सत्यदर्शि भोजने

कायु प्रणामि ज्ञानमेरु नागदत्तु चीवरे॥६०॥



अत्युच्चगामि चन्दनाग्रि तीक्ष्णलोहमुष्टिना

महावियूह पद्मदानि रश्मिराज रत्नभिः।

शाक्यमुनि च सुवर्णमुष्टि इन्द्रकेतु संस्तुतो

सूर्याननो वतंसके हि स्वर्णपट्टि सूमती॥६१॥



नागाभिभू मणिप्रदानि पुष्य दूष्यसंस्तरे

भैषज्यराजु रत्नछत्रि सिंहकेतु आसने।

गुणाग्रधारि रत्नजालि सर्ववादि काश्यपो

गन्धाग्रि चूर्णि मुक्त अर्चिकेतु पुष्पचैत्यके॥६२॥



अक्षोभ्यराज कूटागारि माल्य लोकपूजितो

तगरशिखि च राज्यत्यागि सर्वगन्धि दुर्जयो।

महाप्रदीप आत्मत्यागि भूषणे पद्मोत्तरो

विचित्रपुष्पि धर्मकेतु दीपकारि उत्पलैः॥६३॥



एति चान्यि सत्त्वसार ये ति पूर्व पूजिता

नानारूप विचित्र पूज अन्यजन्यकुर्वता।

स्मराहि ते अतीत बुद्ध ता च पूज शास्तुनां

अनाथसत्त्व शोकपूर्ण मा उपेक्षि निष्क्रमा॥६४॥



दीपंकरेति दृष्टमात्रि लब्ध क्षान्ति उत्तमा

अभिज्ञ पञ्च अच्युता ति लब्ध आनुलोमिका।

अतोत्तरेण एकमेक बुद्ध पूजचिन्तिया

प्रवर्तिता असंख्यकल्प सर्वलोकधातुषू॥६५॥



क्षीणा ति कल्प अप्रमेय ते च बुद्ध निर्वृता

तवापि सर्व आत्मभावि ते च नाम क्व गता।

क्षयान्तधर्मि सर्वि भावु नास्ति नित्यु संस्कृते

अनित्य काम राज्यभोग निष्क्रमा पुरोत्तमात्॥६६॥



जरा च व्याधि मृत्यु एन्ति दारुणा महाभया

हुताशनो व उग्रतेज भीम कल्पसंक्षये।

क्षयान्तधर्मि सर्वि भावु नास्ति नित्यु संस्कृते

सुकृच्छ्र प्राप्त सत्त्व* * निष्क्रमा गुणंधरा॥६७॥



यद नारिगणस्तुणवेणुरवैः

विविधैस्तुरियैः प्रतिबोधयिषु।

सुखशयनगतं मनुजाधिपतिं

तद तूर्यरवो अयु निश्चरते॥६८॥



ज्वलितं त्रिभवं जरव्याधिदुखैः

मरणाग्निप्रदीप्तमनाथमिदम्।

भवनि शरणे सद मूढ जगत्

भ्रमती भ्रमरो यथ कुम्भगतो॥६९॥



अध्रुवं त्रिभवं शरदभ्रनिभं

नटरङ्गसमा जगि रूर्मिचुती।

गिरिनद्यसमं लघुशीघ्रजवं

व्रजतायु जगे यथ विद्यु नभे॥७०॥



भुवि देवपुरे त्रि‍अपायपथे

भवतृष्ण‍अविद्यवशा जनता।

परिवर्तिषु पञ्चगतिष्वबुधाः

यथ कुम्भकरस्य हि चक्रभ्रमी॥७१॥



प्रियरूपवरैः सह स्निग्धरुतैः

शुभगन्धरसै वरस्पर्शसुखैः।

परिषिक्तमिदं कलिपाश जगत्

मृगलुब्धकपाशि यथैव कपि॥७२॥



सभया सरणाः सद वैरकराः

बहुशोक उपद्रव कामगुणाः।

असिधारसमा विषपत्रनिभा

जहितार्यजनैर्यथ मीढघटाः॥७३॥



स्मृतिशोककरास्तमसीकरणाः

भयहेतुकरा दुखमूल सदा।

भवतृष्णलताय विवृद्धिकराः

सभया सरणा सद कामगुणाः॥७४॥



यथ अग्निखदा ज्वलिता सभया

तथ काम इमे विदितार्यजनः।

महपङ्कसमा असिसुन्धुसमाः

मधुदिग्ध इव क्षुरधार यथा॥७५॥



यथ सर्पिसरो यथ मीढघटाः

तथ काम इमे विदिता विदुषाम्।

तथ शूलसमा द्विजपेशिसमाः

यथ श्वान करङ्क सवैरमुखाः॥७६॥



उदचन्द्रसमा इमि कामगुणाः

प्रतिबिम्ब इव गिरिघोष यथा।

प्रतिभाससमा नटरङ्गसमाः

तथ स्वप्नसमा विदितार्यजनैः॥७७॥



क्षणिका वशिका इमि कामगुणाः

तथ मायमरीचिसमा अलिकाः।

उदबुद्बुदफेनसमा वितथा

परिकल्पसमुछित बुद्ध बुधैः॥७८॥



प्रथमे वयसे वररूपधरः

प्रिय इष्ट मतो इय बालचरी।

जरव्याधिदुखै हततेजवपुं

विजहन्ति मृगा इव शुष्कनदीम्॥७९॥



धनधान्यवरो बहुद्रव्यबली

प्रिय इष्ट मतो इय बालचरी।

परिहीनधनं पुन कृच्छ्रगतं

विजहन्ति नरा इव शून्यटवीम्॥८०॥



यथ पुष्पद्रुमो सफलेव द्रुमो

नरु दानरतस्तथ प्रीतिकरो।

धनहीन जरार्तितु याचनको

भवते तद अप्रियु गृध्रसमः॥८१॥



प्रभु द्रव्यबली वररूपधरः

प्रियसंगमनेन्द्रियप्रीतिकरो।

जरव्याधिदुखार्दितु क्षीणधनो

भवते तद अप्रियु मृत्युसमः॥८२॥



जरया जरितः समतीतवयो

द्रुम विद्युहतेव यथा भवति।

जरजीर्ण अगारु यथा सभयो

जरनिःसरणं लघु ब्रूहि मुने॥८३॥



जर शोषयते नरनारिगणं

यथ मालुलता घनशालवनम्।

जर वीर्यपराक्रमवेगहरी

जर पङ्कनिमग्न यथा पुरुषो॥८४॥



जर रूपसुरूपविरूपकरी

जर तेजहरी बलस्थामहरी।

सद सौख्यहरी परिभावकरी

जर मृत्युकरी जर ओजहरी॥८५॥



बहुरोगशतै घनव्याधिदुखैः

उपसृष्ट जगज्ज्वलतेव मृगाः।

जरव्याधिगतं प्रसमीक्ष्व जगत्

दुखनिःसरणं लघु देशयही॥८६॥



शिशिरे हि यथा हिमधातु महान्

तृणगुल्मवनौषधि‍ओजहरो।

तथ ओजहरो अहु व्याधिजरो

परिहीयति इन्द्रिय रूप बलम्॥८७॥



धनधान्यमहार्थक्षयान्तकरो

परितापकरः सहव्याधिजरो।

प्रतिघातकरः प्रियु द्वेषकरः

परिदाहकरो यथ सूर्य नभे॥८८॥



मरणं चवनं चुति कालक्रिया

प्रियद्रव्यजनेन वियोगु सदा।

अपुनागमनं च असंगमनं

द्रुमपत्रफला नदिस्रोत यथा॥८९॥



मरणं वशितामवशीकुरुते

मरणं हरते नदि दारु यथा।

असहायु नरो व्रजतेऽद्वितियो

स्वककर्मफलानुगतो विवशः॥९०॥
मरणो ग्रसते बहुप्राणिशतं

मकरेव जला हरि भूतगणम्।

गरुडो उरगं मृगराजु गजं

ज्वलनेव तृणोषधिभूतगणम्॥९१॥



इम ईदृशकै बहुदोषशतैः

जगु मोचयितुं कृत या प्रणिधि।

स्मर तां पुरिमां प्रणिधानचरीं

अयु कालु तवा अभिनिष्क्रमितुम्॥९२॥



यद नारिगणः प्रहर्षितो

बोधयती तुरियैर्महामुनिम्।

तद गाथ विचित्र निश्चरी

तूर्यशब्दात् सुगतानुभावतः॥९३॥



लघु तद्भञ्जति सर्वसंस्कृतं

अचिरस्थायि नभेव विद्यतः।

अयु कालु तवा उपस्थितः

समयो निष्क्रमणाय सुव्रत॥९४॥



संस्कार अनित्य अध्रुवाः

आमकुम्भोपम भेदनात्मकाः।

परकेरक याचितोपमाः

पांशुनगरोपम तावकालिकाः॥९५॥



संस्कार प्रलोपधर्मिमे

वर्षकालि चलितं च लेपनम्।

नदिकूल इवा सवालुकं

प्रत्ययाधीन स्वभावदुर्बलाः॥९६॥



संस्कार प्रदीप‍अचिवत्

क्षिप्र‍उत्पत्तिनिरोधधर्मिकाः।

अनवस्थित मारुतोपमाः

फेनपिण्डवे असार दुर्बलाः॥९७॥



संस्कार निरीह शून्यकाः

कदलीस्कन्धसमा निरीक्षतः।

मायोपम चित्तमोहना

बाल‍उल्लापन उक्त मुष्टिवत्॥९८॥



हेतूभि च प्रत्ययेभि चा

सर्वसंस्कारगतं प्रवर्तते।

अन्योन्य प्रतीत्य हेतुतः

तदिदं बालजनो न बुध्यते॥९९॥



यथ मुञ्ज प्रतीत्य बल्वजं

रज्जु व्यायामबलेन वर्तिता।

घटियन्त्र सचक्र वर्तते

एष एकैकश नास्ति वर्तना॥१००॥



तथ सर्वभवाङ्गवर्तिनी

अन्यमन्योपचयेन निश्रिता।

एकैकश तेषु वर्तिनी

पूर्वपरान्तत नोपलभ्यते॥१०१॥



बीजस्य सतो यथाङ्कुरो

न च यो बीज स चैव अङ्कुरो।

न च ततो न चैव तत्

एवमनुच्छेद अशाश्वत धर्मता॥१०२॥



संस्कार अविद्यप्रत्ययाः

ते संस्कारे न सन्ति तत्त्वतः।

संस्कार अविद्य चैव हि

शून्य एके प्रकृतीनिरीहकाः॥१०३॥



मुद्रात्प्रतिमुद्र दृश्यते

मुद्रसंक्रान्ति न चोपलभ्यते।

न च तत्र न चैव शाश्वतो

एव संस्कारानुच्छेदशाश्वताः॥१०४॥



चक्षुश्च प्रतीत्य रूपतः

चक्षुविज्ञानमिहोपजायते।

न च चक्षुषि रूप निश्रित

रूपसंक्रान्ति न चैव चक्षुषि॥१०५॥



नैरात्म्यशुभाश्च धर्मिमे

पुनरात्मेति शुभाश्च कल्पिताः।

विपरीतमसद्विकल्पितं

चक्षुविज्ञान ततोपजायते॥१०६॥



विज्ञाननिरोधसंभवं

विज्ञानोत्पादव्ययं विपश्यति।

अकहिं च गतं अनागतं

शून्य मायोपम योगि पश्यति॥१०७॥



अरणिं यथ चोत्तरारणिं

हस्तव्यायाम त्रयेभि संगति।

इति प्रत्ययतोऽग्नि जायते

जातु कृतार्थु लघु निरुध्यते॥१०८॥



अथ पण्डितु कश्चि मार्गते

कुतयं आगतु कुत्र याति वा।

विदिशो दिशि सर्वि मार्गतो

नागति नास्य गतिश्च लभ्यते॥१०९॥



स्कन्धधात्वायतनानि धातवः

तृष्ण अविद्या इति कर्मप्रत्यया।

सामग्रि तु सत्त्वसूचना

स च परमार्थतु नोपलभ्यते॥११०॥



कण्ठोष्ठ प्रतीत्य तालुकं

जिह्वापरिवर्ति अक्षरा।

न च कण्ठगता न तालुके

अक्षरैकैक तु नोपलभ्यते॥१११॥



सामग्रि प्रतीत्यतश्च सा

वाचमनबुद्धिवशेन निश्चरी।

मन वाच अदृश्यरूपिणी

बाह्यतोऽभ्यन्तर नोपलभ्यते॥११२॥



उत्पादव्ययं विपश्यतो

वाच रुतघोषस्वरस्य पण्डितः।

क्षणिकां वशिकां तदा दृशी

सर्वा वाच प्रतिश्रुतकोपमाम्॥११३॥



यथ तन्त्रि प्रतीत्य दारू च

हस्तव्यायाम त्रयेभि संगति।

तुणवीणसुघोषकादिभिः

शब्दो निश्चरते तदुद्भवः॥११४॥



अथ पण्डितु कश्चि मार्गते

कुतयं आगतु कुत्र याति वा।

विदिशो दिशि सर्वि मार्गतः

शब्दगमनागमनं न लभ्यते॥११५॥



तथ हेतुभि प्रत्ययेभि च

सर्वसंस्कारगतं प्रवर्तते।

योगी पुन भूतदशनात्

शून्य संस्कार निरीह पश्यति॥११६॥



स्कन्धायतनानि धातवः

शून्य अध्यात्मिक शून्य बाह्यकाः।

सत्त्वात्मविविक्तमनालया

धर्माकाशस्वभावलक्षणाः॥११७॥



इय ईदृश धर्मलक्षणा

बुद्ध दीपंकर दर्शने त्वया।

अनुबुद्ध स्वयं यथात्मना

तथ बोधेहि सदेवमानुषां॥११८॥



विपरीत‍अभूतकल्पितैः

रागदोषैः परिदह्यते जगत्।

कृपमेघसमाम्बुशीतलां

मुञ्च धाराममृतस्य नायका॥११९॥



त्वयि यस्य कृतेन पण्डिता

दत्तु दानं बहुकल्पकोटिषु।

संप्राप्य हि बोधिमुत्तमां

आर्यधनसंग्रह करिष्य प्राणिनाम्॥१२०॥



तां पूर्वचरीमनुस्मरा

नार्य धनहीन दरिद्र दुःखिताम्।

मा उपेक्षहि सत्त्वसारथे

आर्यधनसंग्रहि तेषु कुर्वहि॥१२१॥



त्वयि शील सदा सुरक्षितं

पिथनार्थाय अपायभूमिनाम्।

स्वर्गामृतद्वारमुत्तमां

दर्शयिष्ये बहुसत्त्वकोटिनाम्॥१२२॥



तां पूर्वचरीमनुस्मरा

बद्ध्वा द्वार निरयाय भूमिनाम्।

स्वर्गामृतद्वार मुञ्चही

ऋद्ध्यहि शीलवतो विचिन्तितम्॥१२३॥



त्वयि क्षान्ति सदा सुरक्षिता

प्रतिघक्रोधशमार्थ देहिनाम्।

भावार्णव सत्त्व तारिया

स्थापयिष्ये शिवि क्षेमि निर्ज्वले॥१२४॥



तां पूर्वचरीमनुस्मरा

वैरव्यापादविहिंस‍आकुलाम्।

मा उपेक्ष विहिंसचारिणः

क्षान्तिभूमीय स्थपे इमं जगत्॥१२५॥



त्वयि वीर्य यदर्थ सेवितं

धर्मनावं समुदानयित्वना।

उत्तार्य जगद्भवार्णवात्

थपयिष्ये शिवि क्षेमि निर्ज्वले॥१२६॥



तां पूर्वचरीमनुस्मरा

चतुरोघैरिव मुह्यते जगत्॥

लघु वीर्यबलं पराक्रमा

सत्त्व संतारयही अनायकां॥१२७॥



त्वय ध्यानकिलेशध्येषणा

भाविता यस्य कृतेन सूरता।

भ्रान्तेन्द्रिय प्राकृतेन्द्रियां

क्वपि चित्तार्यपथे स्थपेष्यहम्॥१२८॥



तां पूर्वचरीमनुस्मरा

क्लेशजालैरिहमाकुलं जगत्।

मा उपेक्षहि क्लेशुपद्रुतां

ध्यानैकाग्रि स्थपेहिमां प्रजाम्॥१२९॥



त्वयि प्रज्ञ पुरा सुभाविता

मोहविद्यान्धतमोवृते जगे।

बहुधर्मशताभिलोकने

दास्ये चक्षुषि तत्त्वदर्शनम्॥१३०॥



तां पूर्वचरीमनुस्मरा

मोहविद्यान्धतमोवृते जगे।

ददही वरप्रज्ञ सुप्रभा

धर्मचक्षुं विमलं निरञ्जनम्॥१३१॥



इयमीदृश गाथ निश्चरी

तूर्यसंगीतिरवातु नारिणाम्।

यं श्रुत्व मिद्धं विवर्जिया

चित्तु प्रेषेति वराग्रबोधये॥१३२॥इति॥



इति हि भिक्षवोऽन्तःपुरमध्यगतो बोधिसत्त्वोऽविरहितोऽभूद्धर्मश्रवणेन, अविरहितोऽभूद्धर्ममनसिकारेण। तकस्माद्धेतोः? तथा हि भिक्षवो बोधिसत्त्वो दीर्घरात्रं सगौरवोऽभूत्। धर्मेषु धर्मभाणकेषु चाध्याशयेन धर्मार्थिको धर्मकामो धर्मरतिरतोऽभूत्। धर्मपर्येष्ट्यतृप्तो यथाश्रुतधर्मसंप्रकाशकः, अनुत्तरो महाधर्मदानपतिः, निरामिषधर्मदेशको धर्मदानेनामत्सरः, आचार्यमुष्टिविगतो धर्मानुधर्मप्रतिपन्नो धर्मप्रतिपत्तिशूरः, धर्मलयनो धर्मत्राणो धर्मशरणो धर्मप्रतिशरणो धर्मपरायणः धर्मनिध्याप्तिः क्षान्तिनिर्यातः प्रज्ञापारमिताचरित उपायकौशल्यगतिं गतः॥



तत्र भिक्षवो बोधिसत्त्वो महोपायकौशल्यविक्रीडितेन सर्वान्तःपुरस्य यथाधिमुक्त्या ईर्यापथमुपदर्श्य, पौर्विकाणां च बोधिसत्त्वानां लोकविषयसमतिक्रान्तानां लोकानुवर्तनक्रियाधर्मतामनुवर्त्य, दीर्घरात्रं सुविदितकामदोषः सत्त्वपरिपाकवशादकामात्कामोपभोगं संदर्श्य, अपरिमितकुशलमूलोपचयपुण्यसंभारबलविशेषणासदृशीं लोकाधिपतेयतां संदर्श्य, देवमनुष्यातिक्रान्तं सारोदारविविधविचित्ररूपशब्दगन्धरसस्पर्शपरमरतिरमणीयं कामरतिरसौख्यमुपदर्श्य, सर्वकामरतिस्वविषयेष्वपर्यन्तत्वात् स्वचित्तवशवर्तितां संदर्श्य, पूर्वप्रणिधानबलसहायकुशलमूलोपचितान् सत्त्वान् समानसंवासतया परिपाच्य, सर्वलोकसंक्लेशमलासंक्लिष्टचित्ततयान्तःपुरमध्यगतो यथाभिनिमन्त्रितस्य सत्त्वधातोः परिपाककालमवेक्षमाणो भूयस्या मात्रया बोधिसत्त्वस्तस्मिन् समये पूर्वप्रतिज्ञामनुस्मरति स्म, बुद्धधर्मांश्चामुखीकरोति स्म, प्रणिधानबलं चाभिनिर्हरति स्म। सत्त्वेषु च महाकरुणामवक्रामति स्म। सत्त्वप्रमोक्षं च चिन्तयति स्म। सर्वसंपदो विपत्तिपर्यवसाना इति प्रत्यवेक्षते स्म। अनेकोपद्रवभयबहुलं च संसारमुपपरीक्षते स्म। मारकलिपाशांश्च संछिनत्ति स्म। संसारप्रबन्धाच्चात्मानमुच्चारयति स्म। निर्वाणे च चित्तं संप्रेषयति स्म॥



तत्र भिक्षवो बोधिसत्त्वः पूर्वान्तत एव सुविदितसंसारदोषः संस्कृतेनाध्याशयेनानर्थिकः सर्वोपादानपरिग्रहैरनर्थिको बुद्धधर्मनिर्वाणाभिमुखः संसारपराङ्मुखस्तथागतगोचराभिरतः मारविषयगोचरासंसृष्टः आदीप्तभवदोषदर्शी त्रैधातुकान्निःशरणाभिप्रायः संसारदोषादीनवनिःसरणकुशलः प्रव्रज्याभिलाषी निष्क्रमणाभिप्रायो विवेकनिम्नो विवेकप्रवणो विवेकप्राग्भारः आरण्यप्रारण्याभिमुखः प्रविवेकप्रशमाभिकाङ्क्षी आत्मपरहितप्रतिपन्नः अनुत्तरप्रतिपत्तिशूरो लोकस्यार्थकामो हितकामः सुखकामो योगक्षेमकामो लोकानुकम्पको हितैषी मैत्रीविहारी महाकारुणिकः संग्रहवस्तुकुशलः सततसमितमपरिखिन्नमानसः सत्त्वपरिपाकविनयकुशलः सर्वसत्त्वेष्वेकपुत्रकप्रेमानुगतमनसिकारः सर्ववस्तुनिरपेक्षपरित्यागी दानसंविभागरतः प्रयुक्तत्यागः प्रयतपाणिः त्यागशूरो यष्टयज्ञः सुसमृद्धपुण्यः सुसंगृहीतपुण्यः परिष्कारविगतमलामात्सर्यसुनिगृहीतचित्तोऽनुत्तरो महादानपतिर्दत्त्वा च विपाकाप्रतिकाङ्क्षी प्रदानशूरः इच्छामहेच्छालोभद्वेषमदमानमोहमात्सर्यप्रमुखसर्वारिक्लेशगणप्रत्यर्थिकनिग्रहायाभ्युत्थितः सर्वज्ञताचित्तोत्पादप्रबन्धाच्चलितः महात्यागचित्तसंनाहसुसंनद्धः लोकानुकम्पको हितैषीव वर्मितकवचितवीर्यः सत्त्वप्रमोक्षालम्बनमहाकरुणाबलविक्रमपराक्रमः अवैवर्तिकसर्वसत्त्वसमचित्तत्यागप्रहरणो यथाभिप्रायसत्त्वाशयसंतोषणो बोधिभाजनीभूतः कालाक्षुण्णधर्मवेधी बोधिपरिणामप्रणिधिः अनवनामितध्वजस्त्रिमण्डलपरिशोधनदानपरित्यागी ज्ञानवरवज्रदृढप्रहरणः सुनिगृहीतक्लेशप्रत्यर्थिकः शीलगुणचारित्रप्रतिपन्नः स्वारक्षितकायवाङ्भनस्कर्मान्तोऽणुमात्रावद्यभयदर्शी सुपरिशुद्धशीलः अमलविमलनिर्मलचित्तः सर्वदुरुक्तदुरागतवचनपथाक्रोशपरिभाषणकुत्सनताडनतर्जनवधबन्धनावरोधनपरिक्लेशालुडितचित्तोऽक्षुभितचित्तः क्षान्तिसौरभ्यसंपन्नः अक्षतोऽनुपहतोऽव्यापन्नचित्तः सर्वसत्त्वहितार्थायोत्तप्तवीर्यारम्भी दृढसमादानसर्वकुशलमूलधर्मसमुदानयनाप्रत्युदावर्त्यस्मृतिमान् सुसंप्रज्ञासुसमाहितोऽविक्षिप्तचित्तो ध्यानैकाग्रमनसिकारो धर्मप्रविचयकुशलो लब्धालोको विगततमोन्धकारः अनित्यदुःखात्माशुभाकारपरिभावितचेताः स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गार्य सत्यसर्वबोधिपक्षधर्मसुपरिकर्मकृतमनसिकारः शमथविपश्यनासुपर्यवदातबुद्धिः प्रतीत्यसमुत्पादसत्यदर्शी सत्यानुबोधादपरप्रत्ययस्त्रिविमोक्षसुखविक्रीडितो मायामरीचिस्वप्नोदकचन्द्रप्रतिश्रुत्काप्रतिभासोपमसर्वधर्मनयावतीर्णः॥



इति हि भिक्षवो बोधिसत्त्वस्यैवं भवति प्रतिकृतिः-एवं धर्मविहारी एवं गुणमाहात्म्यविहारी एवं सत्त्वार्थाभियुक्तविहारी अभूत्। भूयस्या मात्रया आभिर्दशदिग्बुद्धाधिष्ठानतूर्यसंगीतिविनिः-सृताभिर्गाथाभिः संचोदितः स तस्यां वेलायां पूर्वेषां च बोधिसत्त्वानां चरमभवोपगतानामन्तःपुरपरिपाचितानि चत्वारि धर्ममुखान्यामुखीकरोति स्म। कतमानि चत्वारि ? यदिदं दानं प्रियवचनमर्थक्रियां समानार्थतां च। चतुःसंग्रहवस्तुप्रयोगनिर्हारविशुद्धिं च नाम धर्ममुखमामुखीकरोति स्म। त्रिरत्नवंशसाधारणाभिप्रायो विप्रणाशसर्वज्ञताचित्तप्रणिधानबलाधानावैवर्त्यविषयं च नाम धर्ममुखमामुखीकरोति स्म। सर्वसत्त्वापरित्यागाध्याशयमहाकरुणावतारतां च नाम धर्ममुखमामुखीकरोति स्म। सर्वबोधिपक्षधर्मपदे प्रभेदार्थाभिनिश्चयज्ञानसंसारबलविशेषसमुदानयमहाव्यूहं च नाम धर्ममुखमामुखीकरोति स्म। इमानि चत्वारि धर्ममुखान्यामुखीकृत्य बोधिसत्त्वः सर्वस्यान्तःपुरस्य परिपाचनार्थं तस्यां वेलायां तथारूपमृद्ध्यभिसंस्कारमभिसंस्करोति स्म, यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन तेभ्यः संगीतिरुतेभ्यो बोधिसत्त्वानुभावेनेमान्येवंरूपाणि धर्ममुखशतसहस्राणि निश्चरन्ति स्म। तद्यथा—



उदारछन्देन च आशयेन

अध्याशयेना करुणाय प्राणिषु।

उत्पद्यते चित्तु वराग्रबोधये

शब्दे च रूपस्तुरियेभि निश्चरी॥१३३॥



श्रद्धा प्रसादो अधिमुक्ति गौरवं

निर्मानता ओनमना गुरूणाम्।

परिपृच्छना किंकुशलंगवेषणा

अनुस्मृतीभावनु शब्द निश्चरी॥१३४॥



दाने दभे संयमशीलशब्दः

क्षान्तीय शब्दस्तथ वीर्यशब्दः।

ध्यानाभिनिर्हारसमाधिशब्दः

प्रज्ञा उपायस्य च शब्द निश्चरी॥१३५॥



मैत्राय शब्दः करुणाय शब्दो

मुदिता‍उपेक्षाय अभिज्ञशब्दः।

चतुसंग्रहावस्तुविनिश्चयेन

सत्त्वान परिपाचनशब्द निश्चरी॥१३६॥



स्मृतेरुपस्थानप्रभेदशब्दः

सम्यक्प्रहाणास्तथ ऋद्धिपादा।

पञ्चेद्रिया पञ्चबलप्रभेदा

बोध्यङ्गशब्दस्तुरियेभि निश्चरी॥१३७॥



अष्टाङ्गिको मार्गबलप्रभेदः

शमथस्य शब्दोऽथ विपश्यनायाः।

अनित्यदुःखार्तिनात्मशब्दः

अशुभार्तिशब्दो तुरियेभि निश्चरी॥१३८॥



विरागशब्दश्च विवेकशब्दः

क्षयज्ञानशब्दो अनुत्पादशब्दः।

अनिरोधशब्दश्च अनालयं च

निर्वाणशब्दस्तुरियेभि निश्चरी॥१३९॥



इम एवरूपास्तुरियेभि शब्दाः

संबोधिशब्दश्चनुभाव निश्चरी।

यं श्रुत्व सर्वा प्रमदा नु शिक्षिता

वराग्रसत्त्वे प्रणिधेन्ति बोधये॥१४०॥



इति हि भिक्षवो अन्तःपुरमध्यगतेन बोधिसत्त्वेन तानि चतुरशीतिस्त्रीसहस्राणि परिपाचितान्यभूवन् अनुत्तरायां सम्यक्संबोधौ बहूनि च देवताशतसहस्राणि ये तत्र संप्राप्ता अभूवन्॥



तथा अभिनिष्क्रमणकाले तस्मिन् समये बोधिसत्त्वस्य ह्रीदेवो नाम तुषितकायिको देवपुत्रोऽनुत्तरायाः सम्यक्संबोधेः स रात्रौ प्रशान्तायां द्वात्रिंशता देवपुत्रसहस्रैः परिवृतः पुरस्कृतो येन बोधिसत्त्वस्योपस्थानप्रासादस्तेनोपसंक्रामत्। उपसंक्रम्य गगनतलगत एव बोधिसत्त्वं गाथाभिरध्यभाषत—



च्युति दर्शिता अतियशा जन्म च संदर्शितं पुरुषसिंह।

अन्तःपुरं विदर्शितु कृतानुवृत्तिस्त्वया लोके॥१४१॥



परिपाचिता ति बहवो देव मनुज लोकि धर्ममनुप्राप्य।

अयमद्य कालसमयो निष्क्रम्ये मति विचिन्तेहि॥१४२॥



न हि बद्ध मोचयाती न चान्धपुरुषेन दर्शियति मार्गः।

मुक्तस्तु मोचयाती सचक्षुषा दर्शयति मार्गः॥१४३॥



ये सत्त्व कामदासा गृहे धने पुत्रभार्यपरिश्रद्धाः।

ते तुभ्य शिष्यमाणा नैष्क्रम्यमतौ स्पृहां कुर्युः॥१४४॥



ऐश्वर्य कामक्रीडा चतुद्वीपा सप्त रत्न विजहित्वा।

निष्क्रान्त त्वां विदित्वा स्पृहयेत्सनरामरो लोकः॥१४५॥



किं चापि ध्यानसौख्यैर्विहरसि धर्मैर्न चासि कामरतः।

अथ पुन चिरप्रसुप्तां बोधय मरुमानुषशतानि॥१४६॥



अतिपतित यौवनमिदं गिरिनदि यथ चञ्चलप्रचलवेगा।

गतयौवनस्य भवतो नैष्क्रम्यमतिर्न शोभेते॥१४७॥



तत्साधु तरुणरूपे प्रथमे वरयावनेऽभिनिष्क्रम्य।

उत्तारय प्रतिज्ञां कुरुष्व चार्थं सुरगणानाम्॥१४८॥



न च कामगुणरतीभिस्तृप्तिर्लवणोदधेर्यथाम्भोभिः।

ते तृप्त येष प्रज्ञा आर्या लोकोत्तरा विरजा॥१४९॥



त्वमिह प्रियो मनापो राज्ञः शुद्धोदनस्य राष्ट्रस्य।

शतपत्रसदृशवदना नैष्क्रम्यमतिं विचिन्तेहि॥१५०॥



आदीप्त क्लेशतापैरनिःशरणैर्गाढबन्धनैर्बद्धां।

शीघ्रं प्रमोक्षमार्गे स्थापय शान्ते असमवीरा॥१५१॥



त्वं वैद्य धातुकुशलश्चिरातुरां सत्त्वरोगसंस्पृष्टां।

भैषज्यधर्मयोगैर्निर्वाणसुखे स्थपय शीघ्रम्॥१५२॥



अन्धातमा अनयना मोहाकुलदृष्टिजालबद्धाः।

प्रज्ञाप्रदीपचक्षुः शोधय शीघ्रं नरमरूणाम्॥१५३॥



समुदीक्षन्ते बहवो देवासुरनागयक्षगन्धर्वाः।

द्रक्ष्याम बोधिप्राप्तं निरुत्तरं धर्म श्रोष्यामः॥१५४॥



द्रक्ष्यति च भुजगराजो भवनं अवभासितं तव शिरीये।

करियति अनन्तपूजा पूरेहि व्रताशयस्तस्य॥१५५॥



चत्वारि लोकपालाः ससैन्यकास्ते तव प्रदीक्षन्ते।

दास्याम चतुरि पात्रां बोधिध्वजि पूर्णमनसस्य॥१५६॥



ब्रह्म प्रशान्तचारी उदीक्षते मैत्रवाक्वरुणलाभी।

अध्योषिष्ये नरेन्द्रं वर्तेन्ति निरुत्तरं चक्रम्॥१५७॥



बोधिपरिपाचिकापि च देवत अभिवुस्त बोधिमण्डेस्मिं।

उत्पत्स्येऽयं सत्य ति द्रक्ष्याम्यभिबुध्यतो बोधिम्॥१५८॥



सत्यं हि बोधिसत्त्वा अन्तःपुरिये क्रिया विदर्शेन्ति।

पूर्वंगमो भव त्वं मा भेष्यसि पश्चिमस्तेषाम्॥१५९॥



मञ्जुरुत मञ्जुघोषा स्मराहि दीपंकरस्य व्याकरणम्।

भूतं तथा अवितथा जिनघोषरुतं उदीरेहि॥१६०॥



इति श्रीललितविस्तरे संचोदनापरिवर्तो नाम त्रयोदशोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project