Digital Sanskrit Buddhist Canon

१२ शिल्पसंदर्शनपरिवर्तो द्वादशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१२ शिल्पसंदर्शनपरिवर्तो द्वादशः।



इति हि भिक्षवः संवृद्धे कुमारे राजा शुद्धोदनोऽपरेण समयेन शाक्यगणेन सार्धं संस्थागारे निषण्णोऽभूत्। तत्र ते महल्लकमहल्लकाः शाक्या राजानं शुद्धोदनमेवमाहुः-यत्खलु देवो जानीयात्। अयं सर्वार्थसिद्धकुमारो नैमित्तिकैर्ब्राह्मणैः कृतनिश्चयैश्च देवैर्यद्भूयसैवं निर्दिष्टो यदि कुमारोऽभिनिष्क्रमिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धः। उत नाभिनिष्क्रमिष्यति राजा भविष्यति चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतः। तस्येमानि सप्त रत्नानि भविष्यन्ति। तद्यथा-चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम्। एवं सप्तरत्नम्। संपूर्णं चास्य पुत्रसहस्रं भविष्यति शूराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। स इमं पृथिवीमण्डलमदण्डेनाशस्त्रेणाभिनिर्जित्याध्यावसिष्यति सह धर्मेणेति। तस्मान्निवेशनं कुमारस्य क्रियतामिति। तत्र स्त्रीगणपरिवृतो रतिं वेत्स्यति, नाभिनिष्क्रमिष्यति। एवमस्माकं चक्रवर्तिवंशस्य चानुपच्छेदो भविष्यति। मानिताश्च भविष्यामोऽनवद्याश्च सर्वकोटराजभिः॥



ततो राजा शुद्धोदन एवमाह-यद्येवं तेन हि व्यवलोकयत कमता कन्या कुमारस्यानुरूपा स्यात्।



तत्र पञ्चमात्राणि शाक्यशतानि। एकैक एवमाह-मम दुहिता अनुरूपा स्यात् कुमारस्य। सुरूपा मम दुहितेति।



राजा प्राह-दुरासदः कुमारः। तत् प्रतिवेदयिष्यामस्तावत् कुमारस्य, कतमा ते कन्या रोचत इति।



ततश्च ते सर्वे संनिपत्य कुमारस्यैनां प्रकृतिमारोचयन्ति स्म। तान् कुमार उवाच-सप्तमे दिवसे प्रतिवचनं श्रोष्यथेति॥



ततो बोधिसत्त्वस्यैतदभवत्—



विदित मम अनन्त कामदोषाः

सरणसर्वैरसशोकदुःखमूलाः।

भयकर विषपत्रसंनिकाशाः

ज्वलननिभा असिधारतुल्यरूपाः॥१॥



कामगुणि न मेऽस्ति छन्दरागो

न च अहु शोभमि इस्त्रिगारमध्ये।

यन्नु अहु वने वसेय तूष्णीं

ध्यानसमाधिसुखेन शान्तचित्तः॥२॥ इति॥



स पुनरपि मीमांसोपायकौशल्यमामुखीकृत्य सत्त्वपरिपाकमवेक्षमाणो महाकरूणां संजनय्य तस्यां वेलायामिमां गाथामभाषत—



संकीर्णि पङ्कि पदुमानि विवृद्धिमन्ति

आकीर्ण राज नरमध्यि लभाति पूजाम्।

यद बोधिसत्त्व परिवारबलं लभन्ते

तद सत्त्वकोटिनयुतान्यमृते विनेन्ति॥३॥



ये चापि पूर्वक अभूद्विदु बोधिसत्त्वाः

सर्वेभि भार्य सुत दर्शित इस्त्रिगाराः।

न च रागरक्त न च ध्यानसुखेभि भ्रष्टाः

हन्तानुशिक्षयि अहं पि गुणेषु तेषाम्॥४॥



न च प्राकृता मम वधू अनुकूल या स्याद्

यस्या न इष्यतु गुणा सद सत्यवाक्यम्।

या चिन्ति मह्यमभिराधयतेऽप्रमत्ता

रूपेण जन्मकुलगोत्रतया सुशुद्धा॥५॥



सो गाथलेख लिखिते गुण‍अर्थयुक्ता

या कन्य ईदृश भवे मम तां वरेथा।

न ममार्थु प्राकृतजनेन असंवृतेन

यस्या गुणा कथयमी मम तां वरेथा॥६॥



या रूपयौवनवरा न च रूपमत्ता

माता स्वसा व यथ वर्तति मैत्रचित्ता।

त्यागे रता श्रमणब्राह्मणदानशीला

तां तादृशां मम वधूं वरयस्व तात॥७॥



यस्या न मानु न खिलो न च दोषमस्ति

न च शाठ्य ईर्ष्य न च माय न उज्जुभ्रष्टा।

स्वप्नान्तरेऽपि पुरूषे न परेऽभिरक्ता

तुष्टा स्वकेन पतिना शयतेऽप्रमत्ता॥८॥



न च गर्विता न पि च उद्धत न प्रगल्भा

निर्मान मानविगतापि च चेटिभूता।

न च पानगृद्ध न रसेषु न शब्दगन्धे

निर्लोभभिध्यविगता स्वधनेन तुष्टा॥९॥



सत्ये स्थिता न पि च चञ्चल नैव भ्रान्ता

न च उद्धतोन्नतस्थिता हिरिवस्त्रछन्ना।

न च दृष्टिमङ्गलरता सद धर्मयुक्ता

कायेन वाच मनसा सद शुद्धभावा॥१०॥



न च स्त्यानमिद्धबहुला न च मानमूढा

मीमांसयुक्त सुकृता सद धर्मचारी।

श्वश्रौ च तस्य श्वशुरे यथ शास्तृप्रेमा

दासी कलत्र जनि यादृशमात्मप्रेम॥११॥



शास्त्रे विधिज्ञ कुशला गणिका यथैव

पश्चात् स्वपेत् प्रथममुत्थिहते च शय्यात।

मैत्रानुवर्ति अकुहापि च मातृभूता

एतादृशीं मि नृपते वधुकां वृणीष्व॥१२॥इति॥



अथ खलु भिक्षवो राजा शुद्धोदन इमा गाथा वाचयित्वा पुरोहितमामन्त्रयते स्म-गच्छ त्वं महाब्राह्मण कपिलवस्तुमहानगरे। सर्वगृहाण्यनुप्रविश्य कन्या व्यवलोकय। यस्या एते गुणाः संविद्यन्ते क्षत्रियकन्याया वा ब्राह्मणकन्याया वा वैश्यकन्याया वा शूद्रकन्याया वा तां कन्यामस्माकं प्रतिवेदय। तत्कस्माद्धेतोः ? न हि कुमारः कुलार्थिको न गोत्रार्थिकः। गुणार्थिक एव कुमारः॥



तस्यां च वेलायामिमां गाथामभाषत—



ब्राह्मणीं क्षत्रियां कन्यां वेश्यां शूद्रीं तथैव च।

यस्या एते गुणाः सन्ति तां मे कन्यां प्रवेदय॥१३॥



न कुलेन न गोत्रेण कुमारो मम विस्मितः।

गुणे सत्ये च धर्मे च तत्रास्य रमते मनः॥१४॥इति॥



अथ खलु भिक्षवः स पुरोहितस्तं गाथालेखं गृहीत्वा कपिलवस्तुनि महानगरे गृहाद्गृहं व्यवलोकयन् गत्वा हिण्डन् कन्यां पर्येषते स्म। एवंगुणयुक्तामपश्यन् (न चैव गुणयुक्तां कन्यां)। सोऽनुपूर्वेण विचरन् येन दण्डपाणेः शाक्यस्य निवेशनं तेनोपसंक्रामत्। स तं निवेशनं प्रविष्टोऽद्राक्षीत् कन्यामभिरूपां प्रासादिकां दर्शनीयां परमया शुभवर्णपुष्करतया समन्वागतां नातिदीर्घां नातिह्रस्वां नातिस्थूलां नातिकृशां नातिगौरां नातिकृष्णां प्रथमयौवनावस्थां स्त्रीरत्नमिव ख्यायमानाम्।



अथ सा दारिका पुरोहितस्य चरणौ गृहीत्वा एवमाह-केन ते महाब्राह्मण कार्यम्?



पुरोहित आह—



शुद्धोदनस्य तनयः परमाभिरूपो

द्वात्रिंशलक्षणधरो गुणतेजयुक्तः।

तेनेति गाथ लिखिता गुणये वधूनां

यस्या गुणास्ति हि इमे स हि तस्य पत्नी॥१५॥



स तस्यास्तं लेखमुपनामयति स्म॥



अथ सा दारिका तं गाथालेखं वाचयित्वा स्मितमुपदर्श्य तं पुरोहितं गाथयाध्यभाषत्—



मह्येति ब्राह्मण गुणा अनुरूप सर्वे

सो मे पतिर्भवतु सौम्य सुरूपरूपः।

भणहि कुमारु यदि कार्य म हू विलम्ब

मा हीनप्राकृतजनेन भवेय वासः॥१६॥इति॥



अथ स खलु पुरोहितो राजानं शुद्धोदनमुपसंक्रम्यैव तमर्थमारोचयति स्म-दृष्टा मया देव कन्या या कुमारस्यानुरूपा स्यात्। आह-कस्यासौ? आह-दण्डपाणेर्देव शाक्यस्य दुहिता॥



अथ राज्ञः शुद्धोदनस्यैतदभवत्-दुरासदः कुमारः शुभाधिमुक्तश्च। प्रायेण च मातृग्रामोऽसंविद्यमानगुणोऽपि गुणानामात्मनि प्रजानीते। यन्न्वहमशोकभाण्डकानि कारयेयम्, यानि कुमारः सर्वदारिकाभ्योऽनुप्रयच्छेत्। तत्र यस्यां दारिकायां कुमारस्य चक्षुरभिनिवेश्यति, तां कुमारस्य वरयिष्यामीति॥



अथ खलु राजा शुद्धोदनोऽशोकभाण्डानि कारयति स्म सुवर्णमयानि रूप्यमयानि नानारत्नमयानि। कारयित्वा च कपिलवस्तुनि महानगरे घण्टाघोषणां कारयामास-सप्तमे दिवसे कुमारो दर्शनं दास्यति, अशोकभाण्डकानि च दारिकाभ्यो विश्राणयिष्यति। तत्र सर्वदारिकाभिः संस्थागारे संनिपतितव्यमिति॥



इति हि भिक्षवः सप्तमे दिवसे बोधिसत्त्वः संस्थागारमुपसंक्रम्य भद्रासने न्यषीदत्। राजापि शुद्धोदनोऽदृश्यपुरुषान् स्थापयति स्म-यस्यां दारिकायां कुमारस्य चक्षुः संनिविशेत्, तां ममारोचयध्वमिति॥



इति हि भिक्षवो यावन्त्यः कपिलवस्तुनि महानगरे दारिकास्ताः सर्वा येन संस्थागारो येन च बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य दर्शनाय अशोकभाण्डकानि च प्रतिगृहीतुम्॥



इति हि भिक्षवो बोधिसत्त्वो यथागताभ्यस्ताभ्यो दारिकाभ्योऽशोकभाण्डकान्यनुप्रयच्छति स्म। ताश्च दारिका न शक्नुवन्ति स्म बोधिसत्त्वस्य श्रियं तेजश्च सोढुम्। ता अशोकभाण्डकानि गृहीत्वा शीघ्रं शीघ्रमेव प्रक्रामन्ति स्म॥



अथ दण्डपाणेः शाक्यस्य दुहिता गोपा नाम शाक्यकन्या, सा दासीगणपरिवृता पुरस्कृता येन संस्थागारो येन च बोधिसत्त्वस्तेनोपसंक्रामत्। उपसंक्रम्यैकान्तेऽस्थात् बोधिसत्त्वमनिमेषाभ्यां नयनाभ्यां प्रेक्षमाणा। तद्यदा बोधिसत्त्वेन सर्वाण्यशोकभाण्डानि दत्तानि, तदा सा बोधिसत्त्वमुपसंक्रम्य प्रहसितवदना बोधिसत्त्वमेवमाह-कुमार किं ते मयापनीतं यस्त्वं मां विमानयसि?



आह-नाहं त्वां विमानयामि, अपि तु खलु पुनस्त्वमभिपश्चादागतेति। स तस्यै चानेकशतसहस्रमूल्यमङ्गुलीयकं निर्मुच्य प्रादात्॥



सा प्राह-इदमहं कुमार तवान्तिकादर्हामि? आह-इमानि मदीयान्याभरणानि, गृह्यताम्। सा आह-न वयं कुमारं व्यलंकरिष्यामः? अलंकरिष्यामो वयं कुमारम्। इत्युक्त्वा सा कन्या प्रक्रामत्॥



ततस्तैर्गुह्यपुरुषै राजानं शुद्धोदनमुपसंक्रम्यैष वृत्तान्तो निवेदितोऽभूत्-देव दण्डपाणेः शाक्यस्य दुहिता गोपा नाम शाक्यकन्या, तस्यां कुमारस्य चक्षुर्निविष्टम्, मुहूर्तं च तयोः संलापोऽभूत्॥



इत्येतत्खलु वचनं श्रुत्वा राजा शुद्धोदनो दण्डपाणेः शाक्यस्य पुरोहितं दौत्येन प्रेषयति स्म-या ते दुहिता, सा मम कुमारस्य प्रदीयतामिति॥



दण्डपाणिराह-आर्य कुमारो गृहे सुखसंवृद्धः। अस्माकं चायं कुलधर्मः शिल्पज्ञस्य कन्या दातव्या नाशिल्पज्ञस्येति। कुमारश्च न शिल्पज्ञो नासिधनुष्कलापयुद्धसालम्भविधिज्ञः। तत्कथमशिल्पज्ञायाहं दुहितरं दास्यामि?



इत्येतच्च राज्ञः प्रतिवेदितम्। ततो राज्ञ एतदभवत्-द्विरपीदमहं सहधर्मेण चोदितः। यदापि मयोक्तं कस्माच्छाक्यकुमाराः कुमारस्योपस्थानाय नागच्छन्तीति तदाप्यहमभिहितः-किं वयं मण्डकस्योपस्थानं करिष्याम इति। एतर्ह्यप्येवमिति प्रध्यायन्निषण्णोऽभूत्॥



बोधिसत्त्वश्चैनं वृत्तान्तमश्रोषीत्। श्रुत्वा च येन राजा शुद्धोदनस्तेनोपसंक्रामत्। उपसंक्रम्यैवमाह-देव किमिदं दीनमनास्तिष्ठसि?



राजा आह-अलं ते कुमार अनेन।



कुमार आह-देव सर्वथा तावदवश्यभेवमाख्यातव्यम्। यावत्त्रिरपि बोधिसत्त्वो राजानं शुद्धोदनं परिपृच्छति स्म॥



ततो राजा शुद्धोदनो बोधिसत्त्वाय तां प्रकृतिमारोचयति स्म। तां श्रुत्वा बोधिसत्त्व आह-देव अस्ति पुनरिह नगरे कश्चिद्यो मया सार्धं समर्थः शिल्पेन शिलपमुपदर्शयितुम्?



ततो राजा शुद्धोदनः प्रहसितवदनो बोधिसत्त्वमेवमाह-शक्यसि पुनस्त्वं पुत्र शिल्पमुपदर्शयितुम्? स आह-बाढं शक्यामि देव। तेन हि संनिपात्यन्तां सर्वशिल्पज्ञाः, येषां पुरतः स्वं शिल्पमुपदर्शयिष्यामि॥



ततो राजा शुद्धोदनः कपिलवस्तुनि महानगरवरे घण्टाघोषणां कारयति स्म-सप्तमे दिवसे कुमारः स्वं शिल्पमुपदर्शयति। तत्र सर्वशिल्पज्ञैः संनिपतितव्यम्॥



तत्र सप्तमे दिवसे पञ्चमात्राणि शाक्यकुमारशतानि संनिपतितान्यभूवन्। दण्डपाणेश्च शाक्यस्य दुहिता गोपा नाम शाक्यकन्या जयपताका स्थापिताभूत्-यो वा अत्र असिधनुष्कलापयुद्धसालम्भेषु जेष्यति, तस्यैषा भविष्यतीति॥



तत्र सर्वपुरतो देवदत्तः कुमारो नगरादभिनिष्क्रामति स्म। श्वेतश्च हस्ती महाप्रमाणो बोधिसत्त्वस्यार्थे नगरं प्रवेश्यते स्म। तत्र देवदत्तः कुमार ईर्ष्यया च शाक्यबलमदेन च मत्तः। स तं हस्तिनागं वामेन पाणिना शुण्डायां गृहीत्वा दक्षिणेन पाणिना चपेटया एकप्रहारेणैव हतोऽभूत्॥



तस्यानन्तरं सुन्दरनन्दकुमारोऽभिनिष्क्रामति स्म। सोऽद्राक्षीत्तं हस्तिनागं नगरद्वारे हतम्। दृष्ट्वा च पर्यपृच्छत्-केनायं हत इति। तत्र महाजनकाय आह-देवदत्तेनेति। स आह-अशोभनमिदं देवदत्तस्य। स तं हस्तिनागं लाङ्गूले गृहीत्वा नगरद्वारादपकर्षति स्म॥



तदनन्तरं बोधिसत्त्वो रथाभिरूढोऽभिनिष्क्रामति स्म। अद्राक्षीद्बोधिसत्त्वस्तं हस्तिनं हतम्। दृष्ट्वा च पर्यपृच्छत्-केनायं हत इति। आहुः-देवदत्तेनेति। आह-अशोभनं देवदत्तस्य। केन पुनरस्मान्नगरद्वारादपकर्षित इति। आहुः-सुन्दरनन्देनेति। आह-शोभनमिदं सुन्दरनन्दस्य। किं तु महाकायोऽयं सत्त्वः। सोऽयं क्लिन्नः सर्वनगरं दौर्गन्धेन स्फुरिष्यतीति॥



ततः कुमारो रथस्य एवैकं पादं भूमौ प्रसार्य पादाङ्गुष्ठेन तं हस्तिनागं लाङ्गूले गृहित्वा सप्त प्राकारान् सप्त च परिखानतिक्रम्य बहिर्नगरस्य क्रोशमात्रे प्रक्षिपति स्म। यत्र व प्रदेशे स हस्ती पतितस्तस्मिन् प्रदेशे महद्बिलं संवृत्तं यत्सांप्रतं हस्तिगर्तेत्यभिधीयते॥



तत्र देवमनुजाः शतसहस्राणि हाहाकारकिलकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन्। चैलविक्षेपांश्चाकार्षुः। गगनतलगताश्च देवपुत्रा इमे गाथेऽभाषन्त—



यथ मत्तगजेन्द्रगतीनां पादाङ्गुष्ठतलेन गजेन्द्रम्।

सप्त पुरापरिखा अतिक्रम्य क्षिप्तु बहिः स्वपुरातु अयं हि॥१७॥



निःसंशयमेष सुमेधा मानबलेन समुच्छ्रितकायान्।

संसारपुरातु बहिर्धा एक क्षपिष्यति प्रज्ञबलेन॥१८॥



इति हि पञ्चमात्राणि शाक्यकुमारशतानि नगरान्निष्कम्य येनान्यतमः पृथिवीप्रदेशो यत्र शाक्यकुमाराः शिल्पमुपदर्शयन्ति स्म तेनोपसंक्रामन्। राजापि शुद्धोदनो महल्लकमहल्लकाश्च शाक्या महांश्च जनकायो येनासौ पृथिवीप्रदेशस्तेनोपसंक्रामन् बोधिसत्त्वस्य चान्येषां च शाक्यकुमाराणां शिल्पविशेषं द्रष्टुकामाः॥



तत्र आदित एव ये शाक्यकुमारा लिप्यां पटुविधिज्ञास्ते बोधिसत्त्वेन सार्धं लिपिं विशेषयन्ति स्म। तत्र तैः शाक्यैर्विश्वामित्र आचार्यः साक्षी स्थापितोऽभूत्-स त्वं व्यवलोकय कतमोऽत्र कुमारो लिपिज्ञाने विशिष्यते यदि वा लेख्यतो यदि वा बहुलिपिनिर्याणतः। अथ विश्वामित्र आचार्यः प्रत्यक्षो बोधिसत्त्वस्य लिपिज्ञाने स्मितमुपदर्शयन्निमे गाथेऽभाषत—



मनुष्यलोकेऽथ च देवलोके गन्धर्वलोकेऽप्यसुरेन्द्रलोके।

यावन्ति केचिल्लिपि सर्वलोके तत्रैष पारंगतु शुद्धसत्त्वः॥१९॥



नामापि यूयं च अहं च तेषां लिपीन जानाम न चाक्षराणाम्।

यान्येष जानाति मनुष्यचन्द्रो अहमत्र प्रत्यक्षु विजेष्यतेऽयम्॥२०॥



शाक्या आहुः-विशिष्यतां तावत्कुमारो लिपिज्ञाने। संख्याज्ञाने कुमारो विशेषयितव्यो जिज्ञास्यश्च। तत्रार्जुनो नाम शाक्यगणको महामात्रः संख्यागणनासु पारंगतः, स साक्षी स्थापितोऽभूत्-स त्वं व्यवलोकय कतमोऽत्र कुमारो विशिष्यते संख्याज्ञानत इति। तत्र बोधिसत्त्वश्चोद्दिशति स्म, एकश्च शाक्यकुमारो निक्षिपति स्म, न च परिप्रापयति स्म। बोधिसत्त्वस्यैक द्वौ त्रयश्चत्वारः पञ्चदश विंशत्त्रिंशच्चत्वारिंशत्पञ्चाशच्छतं यावत्पञ्चापि शाक्यकुमारशतानि युगपत्काले निक्षिपन्ति स्म, न च परिप्रापयन्ति स्म। ततो बोधिसत्त्व आह-उद्दिशत यूयम्, अहं निक्षेप्स्यामीति। तत्रैकशाक्यकुमारो बोधिसत्त्वस्योद्दिशति स्म, न च परिप्रापयति स्म। द्वावपि त्रयोऽपि पञ्चापि दशापि विंशत्यपि त्रिंशदपि चत्वारिंशदपि पञ्चाशदपि यावत्पञ्चापि शाक्यकुमारशतानि युगपदुद्दिशन्ति स्म। न च परिप्रापयन्ति स्म बोधिसत्त्वस्य निक्षिपतः॥



बोधिसत्त्व आह-अलमलमनेन विवादेन। सर्व इदानीमेकीभूत्वा ममोद्दिशत, अहं निक्षेप्स्यामीति। तत्र पञ्चमात्राणि शाक्यकुमारशतान्येकवचनोदाहारेणापूर्वचरितं समुद्दिशन्ति स्म, बोधिसत्त्वश्चासंमूढो निक्षिपति स्म। एवमपर्यन्ताः सर्वशाक्यकुमाराः, अथ पर्यन्तश्च बोधिसत्त्वः॥



ततोऽर्जुनो गणकमहामात्र आश्चर्यप्राप्त इमे गाथेऽभाषत—



ज्ञानस्य शीघ्रता साधु बुद्धे संपरिपृच्छता।

पञ्चमात्रशतान्येते धिष्ठिता गणनापथे॥२१॥



ईदृशी च इयं प्रज्ञा बुद्धिर्ज्ञानं स्मृतिर्मतिः।

अद्यापि शिक्षते चायं गणितं ज्ञानसागरः॥२२॥



ततः सर्वशाक्यगण आश्चर्यप्राप्तः परमविस्मयापन्नोऽभूत्। एककण्ठाश्चेमां वाचमभाषन्त-जयति जयति भोः सर्वार्थसिद्धः कुमारः। सर्वे चासनेभ्य उत्थाय कृताञ्जलिपुटा भूत्वा बोधिसत्त्वं नमस्कृत्य राजानं शुद्धोदनमेतदवोचन्-लाभास्ते महाराज परमसुलब्धाः, यस्य ते पुत्र एवं शीघ्रलघुजवचपलपरिपृच्छाप्रतिभान इति॥



अथ स राजा शुद्धोदनो बोधिसत्त्वमेवमाह-शक्यसि पुत्र अर्जुनेन गणकमहामात्रेण सार्धं संख्याज्ञानकौशल्यगणनागतिमनुप्रवेष्टुम्? तेन हि गण्यताम्। अथार्जुनो गणकमहामात्रो बोधिसत्त्वमेवमाह-जानीषे त्वं कुमार कोटिशतोत्तरां नाम गणनागतिम्? बोधिसत्त्व आह-शक्यामि देव। आह-जानाम्यहम्। आह-कथं पुनः कोटिशतोत्तरा गणनागतिरनुप्रवेष्टव्या? बोधिसत्त्व आह- शतं कोटीनामयुतं नामोच्यते। शतमयुतानां नियुतो नामोच्यते। शतं नियुतानां कङ्करं नामोच्यते। शतं कङ्कराणां विवरं नामोच्यते। शतं विवराणामक्षोभ्यं नामोच्यते। शतमक्षोभ्याणां विवाहं नामोच्यते। शतं विवाहानामुत्सङ्गं नामोच्यते। शतमुत्सङ्गानां बहुलं नामोच्यते। शतं बहुलानां नागबलं नामोच्यते। शतं नागबलानां तिटिलम्भं नामोच्यते। शतं तिटिलम्भानां व्यवस्थानप्रज्ञप्तिर्नामोच्यते। शतं व्यवस्थानप्रज्ञप्तीनां हेतुहिलं नामोच्यते। शतं हेतुहिलानां करकुर्नामोच्यते। शतं करकूणां हेत्विन्द्रियं नामोच्यते। शतं हेत्विन्द्रियाणां समाप्तलम्भं नामोच्यते। शतं समाप्तलम्भानां गणनागतिर्नामोच्यते। शतं गणनागतीनां निरवद्यं नामोच्यते। शतं निरवद्यानां मुद्राबलं नामोच्यते। शतं मुद्राबलानां सर्वबलं नामोच्यते। शतं सर्वबलानां विसंज्ञागती नामोच्यते। शतं विसंज्ञागतीनां सर्वसंज्ञा नामोच्यते। शतं सर्वसंज्ञानां विभूतंगमा नामोच्यते। शतं विभूतंगमानां तल्लक्षणं नामोच्यते। इति हि तल्लक्षणगणनया सुमेरूपर्वतराजो लक्षनिक्षेपक्रियया परिक्षयं गच्छेत्। अतोऽप्युत्तरि ध्वजाग्रवती नाम गणना, यस्यां गणनायां गङ्गानदीवालिकासमा लक्षनिक्षेपक्रियया परिक्षयं गच्छेयुः। अतोऽप्युत्तरि ध्वजाग्रनिशामणी नाम गणना। अतोऽप्युत्तरि वाहनप्रज्ञप्तिर्नाम। अतोऽप्युत्तरि इङ्गा नाम। अतोऽप्युत्तरि कुरुटु नाम। अतोऽप्युत्तरि कुरुटावि नाम। अतोऽप्युत्तरि सर्वनिक्षेपा नाम गणना, यस्यां गणनायां दश गङ्गानदीवालिकासमा लक्षनिक्षेपक्रियया परिक्षयं गच्छेयुः। अतोऽप्युत्तरि अग्रसारा नाम गणना, यत्र कोटीशतं गङ्गानदीवालिकासमा लक्षनिक्षेपाः परिक्षयं गच्छेयुः। अतोऽप्युत्तरि परमाणुरजःप्रवेशानुगतानां गणना, यत्र तथागतं स्थापयित्वा बोधिमण्डवराग्रगतं च सर्वंधर्माभिषेकाभिमुखं बोधिसत्त्वं नान्यः कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते य एतां गणनां प्रजानाति अन्यत्राहं वा यो वा स्यान्मादृशः। एवं चरमभाविको विनिष्क्रान्तगृहवासो बोधिसत्त्वः॥



अर्जुनोऽवोचत्-कथं कुमार परमाणुरजःप्रवेशगणनानुप्रवेष्टव्या? बोधिसत्त्व आह-सप्त परमाणुरजांस्यणुः। सप्ताणवस्त्रुतिः। सप्तत्रुतेरेकं वातायनरजः। सप्त वातायनरजांस्येकं शशरजः। सप्त शशरजांस्येकमेडकरजः। सप्तैडकरजांस्येकं गोरजः। सप्त गोरजांस्येकं लिक्षारजः। सप्त लिक्षाः सर्षपः। सप्तसर्षपाद्यवः। सप्तयवादङ्गुलीपर्व। द्वादशाङ्गुलीपर्वाणि वितस्तिः। द्वे वितस्ती हस्तः। चत्वारो हस्ता धनुः। धनुःसहस्रं मार्गध्वजाक्रोशः। चत्वारः क्रोशा योजनम्। तत्र को युष्माकं योजनपिण्डं प्रजानाति ? कियन्ति तानि परमाणुरजांसि भवन्ति? अर्जुनोऽवोचत्-अहमेव तावत्कुमार संमोहमापन्नः, किमङ्ग पुनर्ये चान्येऽल्पबुद्धयः। निर्दिशतु कुमारो योजनपिण्डं कियन्ति तानि परमाणुरजांसि भवन्तीति। बोधिसत्त्वोऽवोचत्-तत्र योजनपिण्डः परमाणुरजसां परिपूर्णमक्षोभ्यनयुतमेकं त्रिंशच्च कोटीनयुतशतसहस्राणि षष्टिश्च कोटीशतानि द्वात्रिंशतिश्च कोट्यः पञ्च च दशशतसहस्राणि द्वादश च सहस्राणि एतावान् योजनपिण्डः परमाणुरजोनिक्षेपस्य। अनेन प्रवेशेनायं जम्बुद्वीपः सप्तयोजनसहस्राणि। गोदानीयोऽष्टौ योजनसहस्राणि। पूर्वविदेहो नव योजनसहस्राणि। उत्तरकुरुद्वीपो दशयोजनसहस्राणि। अनेन प्रवेशेनेमं चातुर्द्वीपकं लोकधातूं प्रमुखं कृत्वा परिपूर्णकोटीशतं चातुर्द्वीपकानां लोकधातूनां यत्र कोटीशतं महासमुद्राणाम्, कोटीशतं चक्रवालमहाचक्रवालानाम्, कोटीशतं सुमेरूणां पर्वतरजानाम्, कोटीशतं चतुर्महाराजिकानां देवानाम्, कोटीशतं त्रयत्रिंशानाम्, कोटीशतं यामानाम्, कोटीशतं तुषितानाम्, कोटीशतं निर्माणरतीनाम्, कोटीशतं परनिर्मितवशवर्तीनाम्, कोटीशतं ब्रह्मकायिकानाम्, कोटीशतं ब्रह्मपुरोहितानाम्, कोटीशतं ब्रह्मपार्षद्यानाम्, कोटीशतं महाब्रह्माणाम्, कोटीशतं परीत्ताभानाम्, कोटीशतं अप्रमाणाभानाम्, कोटीशतं आभास्वराणाम्, कोटीशतं परीत्तशुभानाम्, कोटीशतं अप्रमाणशुभानाम्, कोटीशतं शुभकृत्स्नानाम्, कोटीशतं अनभ्रकाणाम्, कोटीशतं पुण्यप्रसवानाम्, कोटीशतं बृहत्फलानाम्, कीटीशतं असंज्ञिसत्त्वानाम्, कोटीशतं अबृहानाम्, कोटीशतं अतपानाम् , कोटीशतं सुदृशानाम्, कोटीशतं सुदर्शनानाम्, कोटीशतं अकनिष्ठानां देवानाम्। अयमुच्यते त्रिसाहस्रमहासाहस्रलोकधातुर्विपुलश्च विस्तीर्णश्च। स यावन्ति योजनशतानि (परमाणुरजांसि त्रिसाहस्रमहासाहस्रलोकधातौ) यावन्ति योजनसहस्राणि, यावन्ति योजनकोटयः, यावन्ति योजननयुतानि ........पेयालं.............यावद्यावन्तो योजनाग्रसारा गणनाः। कियन्त्येतानि परमाणुरजांसि इत्याह। संख्यागणना व्यतिवृत्ता ह्येषां गणनानां तदुच्यतेऽसंख्येयमिति। अतोऽसंख्येयतमानि परमाणुरजांसि यानि त्रिसाहस्रमहासाहस्रलोकधातौ भवन्ति॥



अस्मिन् खलु पुनर्गणनापरिवर्ते बोधिसत्त्वेन निर्दिश्यमाने अर्जुनो गणकमहामात्रः सर्वश्च शाक्यगणस्तुष्ट उदग्र आत्तमनाः प्रमुदित आश्चर्याद्भुतप्राप्तोऽभूत्। ते सर्व एकैकैर्वस्त्रैः स्थिता अभूवन्। परिशिष्टैर्वस्त्राभरणैर्बोधिसत्त्वमभिछादयन्ति स्म॥



अथ खल्वर्जुनो गणकमहामात्र इमे गाथेऽभाषत—



कोटीशतं च अयुता नयुतास्तथैव

नियुतानु कङ्करगती तथ बिम्बराश्च।

अक्षोभिणी परमज्ञानु न मेऽस्त्यतोऽर्थ-

मत उत्तरे गणनमप्रतिमस्य ज्ञानम्॥२३॥



अपि च भोः शाक्याः—



त्रिसाहस्रि रजाश्रयन्तका तृणवन ओषधियो जलस्य बिन्दून्।

हुंकारेण न्यसेय एकिनैषो को पुनि विस्मयु पञ्चभिः शतेभिः॥२४॥



तत्र देवमनुजाः शतसहस्राणि हाहाकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन्। गगनतलगताश्च देवपुत्रा इमा गाथा अभाषन्त—



यावन्त सत्त्व निखिलेन त्रियध्वयुक्ताः

चित्तानि चैतसिकसंज्ञि वितर्कितानि।

हीनाः प्रणीत तथ संक्षिपविक्षिपा ये

एकस्मि चित्तपरिवर्ति प्रजानि सर्वान्॥२५॥



इति हि भिक्षवोऽभिभूताः सर्वे शाक्यकुमारा अभूवन्। बोधिसत्त्व एव विशिष्यते। तदनन्तरं लङ्घिते प्लविते जविते सर्वत्र बोधिसत्त्व एव विशिष्यते स्म। गगनतलगताश्च देवपुत्रा इमां गाथामभाषन्त—



व्रततपसगुणेन संयमेन क्षमदममैत्रबलेन कल्पकोट्यः।

अथ कृतुलघुकायचित्तनेता तस्य जवस्य विशेषतां शृणोथ॥२६॥



इह गृहगत युष्मे पश्यथा सत्त्वसारम्

अपि च दशसु दिक्षू गच्छतेऽयं क्षणेन।

अपरिमितजिनानां पूजनामेष कुर्वन्

मणिकनकविचित्रैर्लोकधातुष्वनन्ता॥२७॥



न च पुन गति आगतिं च अस्या यूयं प्रजानथ तावदृद्धिप्राप्तो।

कोऽत्र जविति विस्मयो जनेया असदृश एष करोथ गौरवोऽस्मिन्॥२८॥



एवं कृत्वा बोधिसत्त्व एव विशिष्यते स्म॥



तत्र शाक्या आहुः— युद्धेषु तावत्कुमारो विशेषयितव्यो जिज्ञास्यश्च। तत्र बोधिसत्त्व एकान्ते स्थितोऽभूत्। तानि च पञ्चमात्राणि शाक्यकुमारशतानि युगपद्युध्यन्ति स्म॥



इति हि द्वात्रिंशच्छाक्यकुमाराः सालम्भाय स्थिताः। तदा नन्दश्चानन्दश्च बोधिसत्त्वमभिगतौ सालम्भाय। तौ समनन्तरं स्पृष्टावेव बोधिसत्त्वेन पाणिना। तौ बोधिसत्त्वस्य बलं तेजश्चासहमानौ धरणीतले प्रपतितावभूताम्। तदनन्तरं देवदत्तः कुमारो गर्वितश्च मानी च बलवानेव तब्धः शाक्यमानेन च तब्धो बोधिसत्त्वेन सार्धं विस्पर्धमानः सर्वावन्तं रङ्गमण्डलं प्रदक्षिणीकृत्य विक्रीडमानो बोधिसत्त्वमभिपतति स्म। अथ बोधिसत्त्वोऽसंभ्रान्त एवात्वरन् दक्षिणेन पाणिना सलीलं देवदत्तं कुमारं गृहीत्वा त्रिर्गगनतले परिवर्त्य माननिग्रहार्थमविहिंसाबुद्ध्या मैत्रेण चित्तेन धरणीतले निक्षिपति स्म। न चास्य कायं व्याबाधते स्म॥



ततो बोधिसत्त्वोऽप्याह-अलमलमनेन विवादेन। सर्व एव एकीभूत्वा इदानीं सालम्भायागच्छतेति॥



अथ ते सर्वे हर्षिता भूत्वा बोधिसत्त्वमभिनिपतिताः। ते समनन्तरस्पृष्टा बोधिसत्त्वेन बोधिसत्त्वस्य श्रियं तेजश्च कायबलं स्थामं चासहमानाः स्पृष्टमात्रा एव बोधिसत्त्वेन धरणितले प्रापतन्। तत्र मरून्मनुजशतसहस्राणि हीहीकारकिलकिलाप्रक्ष्वेडितशतसहस्राण्यकार्षुः। गगनतलगताश्च देवपुत्रा महान्तं पुष्पवर्षमभिप्रवृष्यैकस्वरेणेमां गाथामभाषन्त—



यावन्त सत्त्वनयुता दशसू दिशासु

ते दुष्टमल्लमहनग्नसमा भवेयुः।

एकक्षणेन निपतेयु नरर्षभस्य

संस्पृष्टमात्र निपतेयु क्षितीतलेस्मिं॥२९॥



मेरूः सुमेरु तथ वज्रकचक्रवालाः

ये चान्य पर्वत क्वचिद्दशसू दिशासु।

पाणिभ्य गृह्य मसिचूर्णनिभां प्रकुर्यात्

को विस्मयो मनुजआश्रयके असारे॥३०॥



एषो द्रुमेन्द्रप्रवरे महदुष्टमल्लं

मारं ससैन्यसबलं सहयं ध्वजाग्रे।

मैत्रीबलेन विनिहत्य हि कृष्णबन्धुं

यावत् स्पृशिष्यति अनुत्तरबोधि सान्तम्॥३१॥इति॥



एवं कृत्वा बोधिसत्त्व एव विशिष्यते स्म॥



अथ दण्डपाणिः शाक्यकुमारानेतदवोचत्-जिज्ञासितमिदं दृष्टं च। हन्तेदानीमिषुक्षेपमुपदर्शयतेति। तत्र आनन्दस्य द्वयोः क्रोशयोरयस्मयी भेरी लक्षं स्थापिताभूत्। अस्यानन्तरं देवदत्तस्य चतुर्षु क्रोशेष्वयस्मयी भेरी स्थापिताभूत्। दण्डपाणेर्योजनद्वयेऽयस्मयी भेरी स्थापिताभूत्। बोधिसत्त्वस्य दशसु क्रोशेष्वयस्मयी भेरी स्थापिताभूत्। तस्यानन्तरं सप्त ताला अयस्मयी वराहप्रतिमा यन्त्रयुक्ता स्थापिताभूत्। तत्रानन्देन द्वाभ्यां क्रोशाभ्यां भेर्याहताभूत्, ततोत्तरि न शक्नोति स्म। देवदत्तेन चतुःक्रोशस्था भेर्याहताभूत्, नोत्तरि शक्नोति स्म। सुन्दरनन्देन षट्क्रोशस्था भेर्याहताभूत्, नोत्तरि शक्नोति स्म। दण्डपाणिना द्वियोजनस्था भेर्याहताभूत्, निर्विद्धा च नोत्तरि शक्नोति स्म। तत्र बोधिसत्त्वस्य यद्यदेव धनुरुपानम्यते स्म, तत्तदेव विच्छिद्यते स्म। ततो बोधिसत्त्व आह-अस्तीह देव नगरे किंचिदन्यद्धनुर्यन्ममारोपणं सहेत कायबलस्थामं च? राजा आह-अस्ति पुत्र। कुमार आह-क्व तद्देव? राजा आह- तव पुत्र पितामहः सिंहहनुर्नामाभूत्, तस्य यद्धनुस्तदेव तर्हि देवकुले गन्धमाल्यैर्महीयते। न पुनस्तत्कश्चिच्छक्नोति स्म तद्धनुरारोपयितुं प्रागेव पूरयितुम्। बोधिसत्त्व आह-आनीयतां देव तद्धनुः। जिज्ञासिष्यामहे॥



तावद्यावत्तद्धनुरुपनामितमभूत्। तत्र सर्वे शाक्यकुमाराः परमेणापि प्रयत्नेन व्यायच्छमाना न शक्नुवन्ति स्म तद्धनुरारोपयितुं प्रागेव पूरवितुम्। ततस्तद्धनुर्दण्डपाणेः शाक्यस्योपनामितमभूत्। अथ दण्डपाणिः शाक्यः सर्वं कायबलस्थाम संजनय्य तद्धनुरारोपयितुमारब्धोऽभूत्। न च शक्नोति स्म। यावद्बोधिसत्त्वस्योपनामितमभूत्। तद्बोधिसत्त्वो गृहीत्वा आसनादनुत्तिष्ठन्नेवार्धपर्यङ्कं कृत्वा वामेन पाणिना(गृहीत्वा) दक्षिणेन पाणिना एकाङ्गुल्यग्रेणारोपितवानभूत्। तस्य धनुष आरोप्यमाणस्य सर्वं कपिलवस्तु महानगरं शब्देनाभिविज्ञप्तमभूत्। सर्वनगरजनश्च विह्वलीभूतोऽन्योन्यमपृच्छत्-कस्यायमेवंविधः शब्द इति। अन्ये तदवोचन्-सिद्धार्थेन किल कुमारेण पैतामहधनुरारोपितम्, तस्यायं शब्द इति। तत्र देवमनुजशतसहस्राणि हाहाकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन्। गगनतलगताश्च देवपुत्रा राजानं शुद्धोदनं तं च महान्तं जनकायं गाथयाध्यभाषन्त—



यथ पूरित एष धनुर्मुनिना

न च उत्थितु आसनि नो च भूमी।

निःसंशयु पूर्णमभिप्रायु मुनि-

र्लघु भेष्यति जित्व च मारचमूम्॥३२॥



इति हि भिक्षवो बोधिसत्त्वस्तद्धनुः पूरयित्वेषुं गृहीत्वा तादृशेन बलस्थाम्ना तमिषुं क्षिपति स्म, येन या चानन्दस्य भेरी या च देवदत्तस्य यावत्सुन्द्दरनन्दस्य यावद्दण्डपाणेताः सर्वा अभिनिर्भिद्य तां च दशक्रोशस्थां स्वकामयस्मयीं भेरीं सप्ततालां यन्त्रयुक्तवराहप्रतिमामभिनिर्भिद्य स इषुर्धरणीतलं प्रविश्य अदर्शनाभासोऽभूत्। यत्र च प्रदेशे स इषुर्भूमितलं भित्त्वा प्रविष्टस्तस्मिन् प्रदेशे कूपः संवृत्तः, यदद्यत्वेऽपि शरकूप इत्यभिधीयते। तत्र देवमनुष्यशतसहस्राणि हीहीकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन्। सर्वश्च शाक्यगणो विस्मितोऽभूत् आश्चर्यप्राप्तः-आश्चर्यं भोः। न च नाम अनेन योग्या कृता, इदं चेदृशं शिल्पकौशलम्। गगनतलगताश्च देवपुत्रा राजानं शुद्धोदनं तं च महान्तं जनकायमेवमाहुः-कोऽत्र विस्मयो मनुजाः। तत्कस्मात्?



एष धरणिमण्डे पुर्वबुद्धासनस्थः

शमथधनु गृहीत्वा शून्यनैरात्मबाणैः।

क्लेशरिपु निहत्वा दृष्टिजालं च भित्त्वा

शिवविरजमशोकां प्राप्स्यते बोधिमग्र्याम्॥३३॥



एवमुक्त्वा ते देवपुत्रा बोधिसत्त्वं दिव्यैः पुष्पैरभ्यवकीर्य प्राक्रामन्॥



एवं लङ्घिते प्राग्वल्लिपिमुद्रागणनासंख्यसालम्भधनुर्वेदे जविते प्लविते तरणे इष्वस्त्रे हस्तिग्रीवायामश्वपृष्ठे रथे धनुष्कलापे स्थैर्यस्थाम्नि सुशौर्ये बाहुव्यायामे अङ्कुशग्रहे पाशग्रहे उद्याने निर्याणे अवयाने मुष्टिबन्धे पदबन्धे शिखाबन्धे छेद्ये भेद्ये दालने स्फालने अक्षुण्णवेधित्वे मर्मवेधित्वे शब्दवेधित्वे दृढप्रहारित्वे अक्षक्रीडायां काव्यकरणे ग्रन्थे चित्रे रूपे रूपकर्मणि धीते अग्निकर्मणि वीणायां वाद्ये नृत्ये गीते पठिते आख्याने हास्ये लास्ये नाट्ये विडम्बिते माल्यग्रथने संवाहिते मणिरागे वस्त्ररागे मायाकृते स्वप्नाध्याये शकुनिरुते स्त्रीलक्षणे पुरुषलक्षणे अश्वलक्षणे हस्तिलक्षणे गोलक्षणे अजलक्षणे मिश्रलक्षणे कौटुभेश्वरलक्षणे निर्घण्टे निगमे पुराणे इतिहासे वेदे व्याकरणे निरुक्ते शिक्षायां छन्दस्विन्यां यज्ञकल्पे ज्योतिषे सांख्ये योगे क्रियाकल्पे वैशिके वैशेषिके अर्थविद्यायां बार्हस्पत्ये आम्भिर्ये आसुर्ये मृगपक्षिरुते हेतुविद्यायां जलयन्त्रे मधूच्छिष्टकृते सूचिकर्मणि विदलकर्मणि पत्रछेदे गन्धयुक्तौ-इत्येवमाद्यासु सर्वकर्मकलासु लौकिकादिषु दिव्यमानुष्यकातिक्रान्तासु सर्वत्र बोधिसत्त्व एव विशिष्यते स्म॥



अथ खलु पुनस्तेन समयेन दण्डपाणिः शाक्यः स्वां दुहितरं गोपां शाक्यकन्यां बोधिसत्त्वाय प्रादात्। सा च राज्ञा शुद्धोदनेनानुपूर्वेण बोधिसत्त्वस्य वृताभूत्॥



तत्र खल्वपि बोधिसत्त्वश्चतुरशीतिस्त्रीसहस्राणां मध्ये प्राप्तो लोकानुभवनतया रममाणं क्रीडयन्तं परिचारयन्तमात्मानमुपदर्शयति स्म। तासां चतुरशीते स्त्रीसहस्राणां गोपा शाक्यकन्या सर्वासामग्रमहिष्यभिषिक्ताभूत्॥



तत्र खल्वपि गोपा शाक्यकन्या न कंचिद् दृष्ट्वा वदनं छादयति स्म श्वश्रूं वा श्वशुरं वान्तर्जनं वा। ते तामुपध्यायन्ति स्म, विचारयन्ति स्म-नववधूका हि नाम प्रतिलीना तिष्ठति, इयं पुनर्विवृतैव सर्वदा इति। ततो गोपा शाक्यकन्या एतां प्रकृतिं श्रुत्वा सर्वस्यान्तर्जनस्य पुरतः स्थित्वा इमा गाथा अभाषत-



विवृतः शोभते आर्य आसनस्थानचंक्रमे।

मणिरत्नं ध्वजाग्रे वा भासमानं प्रभास्वरम्॥३४॥



गच्छन् वै शोभते आर्य आगच्छन्नपि शोभते।

स्थितो वाथ निषण्णो वा आर्यः सर्वत्र शोभते॥३५॥



कथयं शोभते आर्यस्तूष्णीभूतोऽपि शोभते।

कलविङ्को यथा पक्षी दर्शनेन स्वरेण वा॥३६॥



कुशचीरनिवस्तो वा मन्दचैलः कृशंतनुः।

शोभतेऽसौ स्वतेजेन गुणवान् गुणभूषितः॥३७॥



सर्वेण शोभते आर्यो यस्य पापं न विद्यते।

कियद्विभूषितो बालः पापचारी न शोभते॥३८॥



ये किल्बिषाः स्वहृदये मधुरासु वाचं

कुम्भो विषस्मि परिषिक्तु यथामृतेन।

दुस्पर्श शैलशिलवत् कठिनान्तरात्मा

सर्पस्य वा विरसु दर्शन तादृशानाम्॥३९॥



सर्वेषु ते नमिषु सर्वमुपैति सौम्याः

सर्वेषु तिर्थमिव सर्वगोपजीव्याः।

दधिक्षीरपूर्णघटतुल्य सदैव आर्या

शुद्धात्मदर्शनु सुमङ्गलु तादृशानाम्॥४०॥



यैः पापमित्र परिवर्जित दीर्घरात्रं

कल्याणमित्ररतनैश्च परिगृहीताः।

पापं विवर्जयि निवेशयि बुद्धधर्मे

सफलं सुमङ्गलु सुदर्शनु तादृशानाम्॥४१॥



ये कायसंवृत सुसंवृतकायदोषाः

ये वाचसंवृत सदानवकीर्णवाचः।

गुप्तेन्द्रिया सुनिभृताश्च मनःप्रसन्नाः

किं तादृशान वदनं प्रतिछादयित्वा॥४२॥



वस्त्रा सहस्र यदि छादयि आत्मभावं

चित्तं च येषु विवृतं न हिरी न लज्जा।

न च येषु ईदृश गुणा नपि सत्यवाक्यं

नग्ने विनग्नतर ते विचरन्ति लोके॥४३॥



याश्चित्तगुप्त सततेन्द्रियसंयताश्च

न च अन्यसत्त्वमनसा स्वपतीन तुष्टाः।

आदित्यचन्द्रसदृशा विवृतप्रकाशा

किं तादृशान वदनं प्रतिछादयित्वा॥४४॥



अपि च—



जानन्ति आशयु मम ऋषयो महात्मा

परचित्तबुद्धिकुशलास्तथ देवसंघाः।

यथ मह्य शीलगुणसंवरु अप्रमादो

वदनावगुण्ठनमतः प्रकरोमि किं मे॥४५॥



अश्रोषीद्भिक्षवो राजा शुद्धोदनो नाम गोपायाः शाक्यकन्याया इमामेवंरूपां सर्वां गाथां प्रतिभाननिर्देशम्। श्रुत्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातोऽनेकरत्नप्रत्युप्तेन दूष्ययुगेन कोटीशतसहस्रमूल्येन च मुक्ताहारेणाभिजातलोहितमुक्ताप्रत्युप्तया च सुवर्णमालया गोपां शाक्यकन्यामभिच्छाद्यैनमुदानमुदानयति स्म—



यथा च पुत्रो मम भूषितो गुणैः

तथा च कन्या स्वगुणा प्रभासते।

विशुद्धसत्त्वौ तदुभौ समागतौ

समेति सर्पिर्यथ सर्पिमण्डे॥४६॥इति॥



(अनुपूर्वेण यथापूर्ववद्बोधिसत्त्वप्रमुखाः स्वपुरं प्रक्रामन्त॥)



इति श्रीललितविस्तरे शिल्पसंदर्शनपरिवर्तो नाम द्वादशमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project