Digital Sanskrit Buddhist Canon

११ कृषिग्रामपरिवर्त एकादशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

11 kṛṣigrāmaparivarta ekādaśaḥ

११ कृषिग्रामपरिवर्त एकादशः।



इति हि भिक्षवो यावद्विवृद्धः कुमारः। अथापरेण समयेन कुमारस्तदन्यैः कुमारैरमात्यपुत्रैः सार्धं कृषिग्रामवलोकयितुं गच्छति स्म। अवलोक्य च कृषिकर्मान्तमन्यत उद्यानभूमिं प्रविशति स्म। संविग्नमनास्तत्र बोधिसत्त्व एकाकी अद्वितीयोऽनुचंक्रम्यमाणोऽनुविचरन् जम्बुवृक्षमपश्यत् प्रासादिकं दर्शनीयम्। तत्र बोधिसत्त्वश्छायायां पर्यङ्केन निषीदति स्म। निषण्णश्च बोधिसत्त्वश्चित्तैकाग्रतामासादयति स्म। आसाद्य च विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति स्म। स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति स्म। स प्रीतेर्विरागादुपेक्षको विहरति स्म स्मृतिमान् संप्रजानन्। सुखं च कायेन प्रतिसंवेदयति स्म। यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुसंपद्य विहरति स्म। स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात् पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति स्म॥



तेन च समयेन पञ्च ऋषयो बाह्याः पञ्चाभिज्ञाः ऋद्धिमन्तो विहायसंगमा दक्षिणाया दिश उत्तरां दिशं गच्छन्ति स्म। ते तस्य वनखण्डस्योपरि गच्छन्तः प्रत्याहता इव न शक्नुवन्ति स्म गन्तुम्। ते संविग्नरोमकूपजाता इमां गाथामभाषन्त—



वयमिह मणिवज्रकूटं गिरिं मेरुमभ्युद्गतं तिर्यगत्यर्थवैस्तारिकं

गज इव सहकारशाखाकुलां वृक्षवृन्दां प्रदारित्व निर्धावितानेकशः।

वयमिह मरूणां पुरे चाप्यसक्ता गता यक्षगन्धर्ववेश्मनि चोर्ध्वं नभे निश्रिता

इम पुन वनखण्डमासाद्य सीदाम भोः कस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम्॥१॥ इति॥



अथ या तत्र वनखण्डदेवता सा तानृषीन् गाथयाध्यभाषत्—



नृपतिपतिकुलोदितः शाक्यराजात्मजो बालसूर्यप्रकाशप्रभः

स्फुटितकमलगर्भवर्णप्रभश्चारुचन्द्राननो लोकज्येष्ठो विदुः।

अयमिह वनमाश्रितो ध्यानचिन्तापरो देवगन्धर्वनागेन्द्रयक्षार्चितो

भवशतगुणकोटिसंवर्धितस्तस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम्॥२॥ इति॥



ततस्तेऽधस्तादवलोकयन्तोऽद्राक्षुः कुमारं श्रिया तेजसा च जाज्वल्यमानम्। तेषामेतदभूत्- को न्वयं निषण्णः? मा हैव वैश्रवणो धनाधिपतिर्भवेत्। आहोस्विन्मारः कामाधिपतिः। अथ महोरगेन्द्रः। अथेन्द्रो वज्रधरः। अथ रुद्रः कुम्भाण्डाधिपतिः। अथ कृष्णो महोत्साहः। उत चन्द्रो देवपुत्रः। उत सूर्यः सहस्ररश्मिः। उत राजा चक्रवर्ती भविष्यति ? तस्यां च वेलायामिमां गाथामभाषन्त—



रूपं वैश्रवणातिरेकवपुषं व्यक्तं कुबेरो ह्ययं

आहो वज्रधरस्य चैव प्रतिमा चन्द्रोऽथ सूर्यो ह्ययम्।

कामाग्राधिपतिश्च वा प्रतिकृती रूद्रस्य कृष्णस्य वा

श्रीमान् लक्षणचित्रिताङ्गमनघो बुद्धोऽथ वा स्यादयम्॥३॥ इति॥



ततः सा वनदेवता तानृषीन् गाथया प्रत्यभाषत्—



या श्री च वैश्रवणे च वै निवसते या वा सहस्रेक्षणे

लोकानां परिपालकेषु चतुषू या चासुरेन्द्रश्रिया।

ब्रह्मे या च सहापतौ निवसते कृष्णे च या च श्रिया

सा श्री प्राप्य इमं हि शाक्यतनयं नोपैति कांचित्कलाम्॥४॥



अथ खलु ते ऋषयस्तस्या देवताया वचनमुपश्रित्य धरणीतले प्रतिष्ठन्ते। ते पश्यन्ति स्म बोधिसत्त्वं ध्यायन्तमानिञ्ज्यमानेन कायेन तेजोराशिमिव ज्वलन्तम्। ते बोधिसत्त्वमुपनिध्याय गाथाभिरभितुष्टुवुः। तत्रैक आह—



लोके क्लेशाग्निसंतप्ते प्रादुर्भूतो ह्ययं ह्रदः।

अयं तं प्राप्स्यते धर्मं यज्जगद् ह्लादयिष्यति॥५॥



अपरोऽप्याह—



अज्ञानतिमिरे लोके प्रादुर्भूतः प्रदीपकः।

अयं तं प्राप्स्यते धर्मं यज्जगद्भासयिष्यति॥६॥



अपरोऽप्याह—



शोकसागरकान्तारे यानश्रेष्ठमुपस्थितम्।

अयं तं प्राप्स्यते धर्मं यज्जगत्तारयिष्यति॥७॥



अपरोऽप्याह—



क्लेशबन्धनबद्धानां प्रादुर्भूतः प्रमोचकः।

अयं तं प्राप्स्यते धर्मं यज्जगन्मोचयिष्यति॥८॥



अपरोऽप्याह—



जराव्याधिकिलिष्टानां प्रादुर्भूतो भिषग्वरः।

अयं तं प्राप्स्यते धर्मं जातिमृत्युप्रमोचकम्॥९॥



अथ खलु ते ऋषयो बोधिसत्त्वमाभिर्गाथाभिरभिस्तुत्वा त्रिप्रदक्षिणीकृत्य विहायसा प्रक्रान्ताः। राजापि शुद्धोदनो बोधिसत्त्वमपश्यन् बोधिसत्त्वेन विना न रमते स्म। सोऽवोचत्-कुमारः क्व गतः ? नैनं पश्यामीति। तत्र महाजनकायो निर्धावितोऽभूत् कुमारं परिगवेषमाणः। ततोऽन्यतम अमात्यो बोधिसत्त्वं पश्यति स्म जम्बुच्छायायां पर्यङ्कनिषण्णं ध्यायन्तम्। सर्ववृक्षाणां च तस्मिन् समये छाया परिवृत्ताभूत्। जम्बुच्छाया च बोधिसत्त्वस्य कायं न विजहाति स्म। स तं दृष्ट्वा आश्चर्यप्राप्तस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः शीघ्रं शीघ्रं त्वरमाणरूपो राजानं शुद्धोदनमुपसंक्रम्य गाथाभ्यामध्यभाषत—



पश्य देव कुमारोऽयं जम्बुच्छायाहि ध्यायति।

यथा शक्रोऽथवा ब्रह्मा श्रिया तेजेन शोभते॥१०॥



यस्य वृक्षस्य छायायां निषण्णो वरलक्षणः।

सैनं न जहते छाया ध्यायन्तं पुरूषोत्तमम्॥११॥



अथ राजा शुद्धोदनो येन स जम्बुवृक्षस्तेनोपसंक्रामत्। सोऽद्राक्षीद्बोधिसत्त्वं श्रिया तेजसा च ज्वलन्तम्। दृष्टा चैमां गाथामभाषत्—



हुताशनो वा गिरिमूर्ध्नि संस्थितः शशीव नक्षत्रगणानुचीर्णः।

वेपन्ति गात्राणि मि पश्यतो इमं ध्यायन्तु तेजो नु प्रदीपकल्पम्॥१२॥



स बोधिसत्त्वस्य पादावभिवन्द्येमां गाथामभाषत्—



यदा चासि मुने जातो यदा ध्यायसि चार्चिमन्।

एकद्विरपि ते नाथ पादौ वन्दे विनायक॥१३॥



तत्र त्रिफलवाहका दारकाः शब्दं कुर्वन्ति स्म। तानमात्या एवमाहुः- मा शब्दं मा शब्दं कार्ष्टेति। तेऽवोचन्-किमेतदिति। अमात्या आहुः—



व्यावृत्ते तिमिरनुदस्य मण्डलेऽपि

व्योमाभं शुभवरलक्षणाग्रधारिम्।

ध्यायन्तं गिरिनिचलं नरेन्द्रपुत्रं

सिद्धार्थं न जहति सैव वृक्षछाया॥१४॥



तत्रेदमुच्यते—



ग्रीष्मे वसन्त समुदागत जेष्ठमासे

संपुष्पिते कुसुमपल्लवसंप्रकीर्णे।

क्रोञ्चामयूरशुकसारिकसंप्रघुष्टे

भूयिष्ठ शाकियसुता अभिनिष्क्रमन्ति॥१५॥



छन्दोऽभ्युवाच परिवारितु दारिकेभिः

हन्ता कुमार वनि गच्छम लोचनार्थम्।

किं ते गृहे निवसतो हि यथा द्विजस्य

हन्त व्रजाम वय चोदननारिसंघम्॥१६॥



मध्याह्नकालसमये सुविशुद्धसत्त्वः

पञ्चाशतैः परिवृतैः सह चेटकेभिः।

न च मातु नैव च पितुः प्रतिवेदयित्वा

सोऽबुद्ध निष्क्रामिति गच्छि कृषाणग्रामम्॥१७॥



तस्मिंश्च पार्थिववरस्य कृषाणग्रामे

जम्बुद्रुमोऽभवदनेकविशालशाखः।

दृष्ट्वा कुमार प्रतिबुद्ध दुखेन चोत्तो

धिक्संस्कृतेति बहुदुःख कृषी करोति॥१८॥



सो जम्बुछायमुपगम्य विनीतचित्तो

तृणकानि गृह्य स्वय संस्तरु संस्तरित्वा।

पर्यङ्कमाभुजिय उज्जु करित्व कायं

चत्वारि ध्यान शुभ ध्यायि स बोधिसत्त्वः॥१९॥



पञ्चा ऋषी खगपथेन हि गच्छमाना

जम्बूय मूर्ध्नि न प्रभोन्ति पराक्रमेतुम्।

ते विस्थिता निहतमानमदाश्च भूत्वा

सर्वे समग्रसहिता समुदीक्षयन्तो॥२०॥



वय मेरुपर्वतवरं तथ चक्रवालान्

निर्भिद्य गच्छम जवेन असज्जमानाः।

ते जम्बुवृक्ष न प्रभोम अतिक्रमेतुं

को न्वत्र हेतुरयमद्य भविष्यतीह॥२१॥



अवतीर्य मेदिनितले च प्रतिष्ठिहित्वा

पश्यन्ति शाक्यतनयं तहि जम्बुमूले।

जम्बुनदार्चिसदृशं प्रभतेजरश्मिं

पर्यङ्कबन्धु तद ध्यायतु बोधिसत्त्वम्॥२२॥



ते विस्मिता दशनखा करियान मूर्ध्नि

प्रणता कृताञ्जलिपुटा निपतन् क्रमेषु।

साधो सुजात सुमुखं करुणा जगस्य

शीघ्रं विबुद्ध अमृते विनयस्व सत्त्वान्॥२३॥



परिवृत्त सूर्य न जही सुगतस्य छाया

ओलम्बते द्रुमवरं यथ पद्मपत्रम्।

देवा सहस्र बहवः स्थित अञ्जलीभिः

वन्दन्ति तस्य चरणौ कृतनिश्चयस्य॥२४॥



शुद्धोदनश्च स्वगृहे परिमार्गमाणः

संपृच्छते क्व नु गतः स हि मे कुमारः।

मातृस्वसा अवचि मार्गत नो लभामि

संपृच्छता नरपते क्व गतः कुमारः॥२५॥



शुद्धोदनस्त्वरितु पृच्छति काञ्चुकीयं

दौवारिकं तथपि चान्तजनं समन्तात्।

दृष्टं कुमार मम केनचि निष्क्रमन्तो

शृणुते वरूपगतु देव कृषाणग्रामम्॥२६॥



सो शीघ्रमेव त्वरितं सह शाकियेभिः

निष्क्रान्तु प्रेक्षि कृषिग्रामगिरिं प्रविष्टम्।

यथ सूर्यकोटिनियुतानि समुद्गतानि

तथ प्रेक्षते हितकरं शिरिया ज्वलन्तम्॥२७॥



मुकुटं च खङ्ग तथ पादुक छोरयित्वा

कृत्वा दशाङ्गुलि शिरे अभिवन्दिते तम्।

साधू सुभूतवचना ऋषयो महात्मा

व्यक्तं कुमार अभिनिष्क्रमि बोधिहेतोः॥२८॥



परिपूर्ण द्वादशशता सुप्रसन्नदेवाः

पच्चाशता उपगता यथ शाकियानाम्।

दृष्ट्वा च ऋद्धि सुगते गुणसागरस्य

संबोधिचित्तु जनयं दृढआशयेन॥२९॥



सो कम्पयित्व त्रिसहस्र अशेषभूमिं

स्मृतु संप्रजानु प्रतिबुद्ध ततः समाधेः।

ब्रह्मस्वरः पितरमालपते द्युतीमान्

उत्सृज्य तात कृषिग्रामभतो गवेष॥३०॥



यदि स्वर्णकार्यु अहु स्वर्ण प्रवर्षयिष्ये

यदि वस्त्रकार्यु अहमेव प्रदास्यि वस्त्रां।

अथ धान्यकार्यु अहमेव प्रवर्षयिष्ये

सम्यक्प्रयुक्त भव सर्वजगे नरेन्द्र॥३१॥



अनुशासयित्व पितरं जनपारिषद्यां

तस्मिन् क्षणे पुरवरं पुन सो प्रवेक्षी।

अनुवर्तमान जगतः स्थिहते पुरेस्मिं

नैष्म्क्रम्ययुक्तमनसः सुविशुद्धसत्त्वः॥३२॥इति॥



॥ इति श्रीललितविस्तरे कृषिग्रामपरिवर्तो नाम एकादशोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project