Digital Sanskrit Buddhist Canon

७ जन्मपरिवर्तः सप्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7 janmaparivartaḥ saptamaḥ

७ जन्मपरिवर्तः सप्तमः।



इति हि भिक्षवो दशमासेषु निगतेषु बोधिसत्त्वस्य जन्मकालसमये प्रत्युपस्थिते राज्ञः शुद्धोदनस्य गृहोद्याने द्वात्रिंशत्पूर्वनिमित्तानि प्रादुरभूवन्। कतमानि द्वात्रिंशत्? सर्वपुष्पाणि सुङ्गीभूतानि न पुष्पन्ति स्म। पुष्करिणीषु चोत्पलपद्मकुमुदपुण्डरीकाण्यभ्युद्गतानि कुड्मलीभूतानि न पुष्पन्ति स्म। तदा च पुष्पफलवृक्षा धरणीतलादभ्युद्गम्य क्षारकजाता न फलन्ति स्म। अष्टौ च रत्नवृक्षाः प्रादुरभूवन्। विंशति च रत्ननिधानशतसहस्राण्युत्प्लत्य व्यवस्थितानि दृश्यन्ते स्म। अन्तःपुरे च रत्नाङ्कुराः प्रादुरभूवन्। सुगन्धितैलपरिवासिताश्च गन्धोदकशीतोष्णाः प्रस्रवन्ति स्म। हिमवत्पर्वतपार्श्वाच्च सिंहपोतका आगत्यागत्याभिनदन्तः कपिलाह्वयपुरवरं प्रदक्षिणीकृत्य द्वारमूलेष्ववतिष्ठन्ते स्म, न कंचित्सत्त्वं विहेठयन्ति स्म। पञ्चशतानि पाण्डराणां हस्तिशावकानामागत्य राज्ञः शुद्धोदनस्याग्रकरैश्चरणावभिलिखन्ति स्म। मेखलीबद्धकाश्च देवदारका राज्ञः शुद्धोदनस्यान्तःपुरे उत्सङ्गेनोत्सङ्गमनुपरिवर्तमानाः संदृश्यन्ते स्म। गगनतलगतार्धकाया नागकन्या नानापूजोपकरणपरिगृहीता अध्यालम्बमानाः संदृश्यन्ते स्म। दश च नागकन्यासहस्राणि मयूराङ्गहस्तकपरिगृहीता गगततलेऽवस्थिताः संदृश्यन्ते स्म। दश च पूर्णकुम्भसहस्राणि कपिलवस्तु महानगरं प्रदक्षिणीकुर्वन्ति संदृश्यन्ते स्म। दश च देवकन्यासहस्राणि गन्धोदकभृङ्गारपरिगृहीता मूर्ध्नि धारयन्त्योऽवस्थिताः संदृश्यन्ते स्म। दश च देवकन्यासहस्राणि छत्रध्वजपताकापरिगृहीता अवस्थिताः संदृश्यते स्म। बहूनि चाप्सरःशतसहस्राणि शङ्खभेरीमृदङ्गपणवैः घण्टावसक्तैः प्रतीक्षमाणान्यवस्थितानि संदृश्यन्ते स्म। सर्वे वायवश्चावस्थिता न वान्ति स्म। सर्वनदी च प्रस्रवणानि च न वहन्ति स्म। चन्द्रसूर्यविमानानि नक्षत्रज्योतिर्गणाश्च न वहन्ति स्म। पुष्यं च नक्षत्रयुक्तमभूत्। रत्नजालपरिस्फुटं च राज्ञः शुद्धोदनस्य गृहं संस्थितमभूत्। वैश्वानरश्च न ज्वलति स्म। कूटागारप्रासादतोरणद्वारकतलेषु च मणिरत्नान्यभिप्रलम्बमानानि च संदृश्यन्ते स्म। दूष्यगञ्जाश्च विविरत्नगञ्जाश्च प्रावृताः संदृश्यन्ते स्म। काकोलूकगृध्रवृकशृगालशब्दाश्चान्तर्हिता अभूवन्। सुजातजातशब्दाश्च श्रूयन्ते स्म। सर्वजनपदकर्मान्ताश्च समुच्छिन्ना अभूवन्। उत्कूलनिकूलाश्च पृथिवीप्रदेशाः समाः समवस्थिताः सर्ववीथीचत्वरशृङ्गाटकरथ्यान्तरापणमुखानि च पाणितलमृष्टानीव पुष्पाभिकीर्णानि विरोचन्ते स्म। सर्वाश्च गुर्विण्यः सम्यक्सुखेन प्रसूयन्ते स्म। सर्वशालवनदेवताश्च पत्रेष्वर्धकायानभिनिर्माय नम्यमानाः स्थिताः संदृश्यन्ते स्म। इमानि द्वात्रिंशत्पूर्वनिमित्तानि प्रादुरभूवन्॥



अथ खलु मायादेवी बोधिसत्त्वस्य जन्मकालसमयं ज्ञात्वा बोधिसत्त्वस्यैव तेजोनुभावेन रात्र्यां प्रथमे यामे राजानं शुद्धोदनमुपसंक्रम्य गाथाभिरभ्यभाषत—



देव शृणु हि मह्यं भाषतो यं मतं मे

अचिरचिरचिरेणा जात उद्यानबुद्धिः।

यदि च तव न रोषो नैव दोषो न मोहः

क्षिप्रमहु व्रजेया क्रीड‍उद्यानभूमिम्॥१॥



त्वमिह तपसि खिन्नो धर्मचित्तप्रयुक्तो

अहु च चिरप्रविष्टा शुद्धसत्त्वं धरेन्ती।

द्रुमवर प्रतिबुद्धाः फुल्लिता शालवृक्षाः

युक्त भविय देवा गन्तुमुद्यानभूमिम्॥२॥



ऋतुप्रवर वसन्तो योषितां मण्डनीयो

भ्रमरवरविघुष्टाः कोकिलबर्हिगीताः।

शुचिरुचिरविचित्रा भ्राम्यते पुष्परेणुः

साधु ददहि आज्ञां गच्छमो मा विलम्बः॥३॥



वचनमिमु श्रुणित्वा देविये पार्थिवेन्द्रः

तुष्टो मुदितचित्तः पारिषद्यानवोचत्।

हयगजरथं पङ्क्त्या वाहना योजयध्वं

प्रवरगुणसमृद्धां लुम्बिनीं मण्डयध्वम्॥४॥



नीलगिरिनिकाशां मेघवर्णानुबद्धां

विंशति च सहस्रान् योजयध्वं गजानाम्।

मणिकनकविचित्रां हेमजालोपगूढां

घण्टरुचिरपार्श्वान् षड्‍विषाणां गजेन्द्रान्॥५॥



हिमरजतनिकाशां मुञ्जकेशां सुकेशां

विंशति च सहस्रान् योजयध्वं हयानाम्।

कनकरचितपार्श्वा किङ्किणीजाललम्बा

पवनजवितवेगा वाहना पार्थिवस्य॥६॥



नरगण रणशौण्डान् शूर संग्रामकामान्

असिधनुशरशक्तिपाशखड्गाग्रहस्तान्।

विंशति च सहस्रान् योजयध्वं सुशीघ्रं

माय सपरिवारां रक्षथा अप्रमत्ता॥७॥



मणिकनकनिषिक्तां लुम्बिनीं कारयध्वं

विविधवसनरत्नैः सर्ववृक्षां प्रवेथा।

विविधकुसुमचित्रं नन्दनं वा सुराणां

वदथ च मम शीघ्रं सर्वमेतं विधाय॥८॥



वचनमिमु निशम्या पारिषद्यैः क्षणेन

वाहन कृत सज्जा लुम्बिनी मण्डिता सा।



पारिषद्य आह—



जय जय हि नरेन्द्रा आयु पालेहि दीर्घं

सर्व कृतु यथोक्तं कारु देव प्रतीक्ष॥९॥



सो च नरवरेन्द्रो हृष्टचित्तो भवित्वा

गृहवरमनुविष्टो इष्टिकानेवमाह।

यस्य अहु मनापो या च मे प्रीतिकामा

सा मि कुरुत आज्ञां मण्डयित्वात्मभावम्॥१०॥



वरसुरभिसुगन्धां भावरङ्गां विचित्रां

वसन मृदुमनोज्ञां प्रावृणोथा उदग्राः।

उरसि विगलितानां मुक्तहारा भवेथा

आभरणविभूषां दर्शयेथाद्य सर्वाः॥११॥



तुणपणवमृदङ्गां वीणवेणूमुकुण्डां

तूर्यशतसहस्रान् योजयध्वं मनोज्ञां।

भूय कुरुत हर्षं देवकन्यान यूयं

श्रुत्व मधुरघोषं देवतापि स्पृहेयुः॥१२॥



एकरथवरेस्मिं तिष्ठतां मायदेवी

मा च पुरुष इस्त्री अन्य तत्रारुहेया।

नारि विविधवर्मा तं रथं वाहयन्तां

मा च प्रतिकूलं मा मनापं श्रुणेष्या॥१३॥



हयगजरथपत्तीं सैन्यश्रीमद्विचित्रां

द्वारि स्थित नृपस्या श्रूयते उच्चघोषाः।

क्षुभितजलनिधिर्वा श्रूयते एव शब्दो

* * * * ॥१४॥



माय यद गृहातो निर्गता द्वारमूलं

घण्ट शतसहस्रा ताडिता मङ्गलार्थम्॥१५॥



सो च रथ विचित्रो मण्डितः पार्थिवेन

अपि च मरुसहस्रैर्दिव्यसिंहासनेभिः।

चतुरि रतनवृक्षा पत्रपुष्पोपपेता

अभिनदितमनोज्ञां हंसक्रौञ्चान् मयूरान्॥१६॥



छत्रध्वजपताकाश्चोच्छ्रिता वैजयन्त्यः

किङ्किणिवरजालैश्छादितं दिव्यवस्त्रैः।

मरुवधु गगनेस्मिं तं रथं प्रेक्षयन्ते

दिव्यमधुरघोषं श्रावयन्त्यः स्तुवन्ति॥१७॥



उपविशति यदा सा माय सिंहासनाग्रे

प्रचलित त्रिसहस्रा मेदिनी षड्विकारम्।

पुष्प मरु क्षिपिंसू अम्बरां भ्रामयिंसू

अद्य जगति श्रेष्ठो जायते लुम्बिनीये॥१८॥



चतुरि जगतिपालास्तं रथं वाहयन्ते

त्रिदशपतिरपीन्द्रो मार्गशुद्धिं करोति।

ब्रह्म पुरतु गच्छी दुर्जनां वारयन्तो

अमरशतसहस्राः प्राञ्जलीका नमन्ते॥१९॥



नृपति मुदितचित्तो वीक्षते तां वियूहां

तस्य भवति एवं व्यक्त यं देवदेवो।

यस्य चतुरि पाला ब्रह्म सेन्द्राश्च देवाः

कुरुत विपुलपूजां व्यक्त यं शुद्धभावी॥२०॥



नास्ति त्रिभवि सत्त्वो यः सहेत्पूजमेतां

देव अथ च नागाः शक्र ब्रह्मा च पालाः।

मूर्ध तद फलेया जीवितं चास्य नश्येत्

अयु पुन अतिदेवः सर्वपूजां सहाति॥२१॥



अथ खलु भिक्षवो मायादेवी चतुरशीत्या हयरथसहस्रैः सर्वालंकारविभूषितैः परिवृता चतुरशीत्या गजरथसहस्रैः सर्वालंकारविभूषितैः चतुरशीत्या च पत्तिसहस्रैः शूरैर्वीरैर्वराङ्गरूपिभिः सुसंनद्धदृढवर्मकवचितैरनुपरिगृहीता षष्ट्या च शाक्यकन्यासहस्रैः पुरस्कृता चत्वारिंशता च सहस्रै राज्ञः शुद्धोदनस्य ज्ञातिकुलप्रसूतैः शाक्यैः वृद्धदहरमध्यमैः संरक्षिता, षष्ट्या च सहस्रै राज्ञः शुद्धोदनस्यान्तःपुरेण गीतवाद्यसम्यक्तूर्यताडावचरसंगीतिसंप्रवादितेन परिवृता, चतुरशीत्या च देवकन्यासहस्रैः परिवृता, चतुरशीत्या च नागकन्यासहस्रैः चतुरशीत्या च गन्धर्वकन्यासहस्रैः चतुरशीत्या च किन्नरकन्यासहस्रैः चतुरशीत्या चासुरकन्यासहस्रैः नानाव्यूहालंकारालंकृताभिः नानागीतवाद्यवर्णभाषिणीभिरनुगम्यमाना निर्याति स्म। सर्वं च लुम्बिनीवनं गन्धोदकसिक्तं दिव्यपुष्पाभिकीर्णीकृतमभूत्। सर्ववृक्षाश्च तस्मिन् वनवरे अकालपत्रपुष्पफलानि ददन्ति स्म। देवैश्च तथा तद्वनं समलंकृतमभूत् तद्यथापि नाम मिश्रकावनं देवानां समलंकृतम्॥



अथ खलु मायादेवी लुम्बिनीवनमनुप्रविश्य तस्माद्रथवरादवतीर्य नरमरुकन्यापरिवृता वृक्षेण वृक्षं पर्यटन्ती वनाद्वनं चंक्रम्यमाणा द्रुमाद् द्रुमं निरीक्षमाणा अनुपूर्वेण येनासौ प्लक्षो महाद्रुमरत्नवरप्रवरः सुविभक्तशाखः समपत्रमञ्जरीधरो दिव्यमानुष्यनानापुष्पसंपुष्पितो वरप्रवरसुरभिगन्धिनानागन्धिनानारङ्गवस्त्राभिप्रलम्बितो विविधमणिविचित्रप्रभोज्ज्वलितः सर्वरत्नमूलदण्डशाखापत्रसमलंकृतः सुविभक्तविस्तीर्णशाखः करतलनिभे भूमिभागे सुविभक्तविस्तीर्णनीलतृणमयूरग्रीवासंनिभे काचिलिन्दिकसुखसंस्पर्शे धरणीतले संस्थितः पूर्वजिनजनेत्र्याभिनिवासितः देवसंगीत्यनुगीतः शुभविमलविशुद्धः शुद्धावासदेवशतसहस्रैः प्रशान्तचित्तैरभिनतजटामकुटावलम्बितावनतमूर्धभिरभिनन्द्यमानस्तं प्लक्षवृक्षमुपजगाम॥



अथ स प्लक्षवृक्षो बोधिसत्त्वस्य तेजोनुभावेनावनम्य प्रणमति स्म। अथ मायादेवी गगनतलगतेव विद्युत् दृष्टिं दक्षिणं बाहुं प्रसार्य प्लक्षशाखां गृहीत्वा सलीलं गगनतलं प्रेक्षमाणा विजृम्भमाना स्थिताभूत्। अथ तस्मिन् समये षष्ट्यप्सरःशतसहस्राणि कामावचरदेवेभ्य उपसंक्रम्य मायादेव्या उपस्थाने परिचर्यां कुर्वन्ति स्म॥



एवंरूपेण खलु पुन ऋद्धिप्रातिहार्येण समन्वागतो बोधिसत्त्वो मातुः कुक्षिगतोऽस्थात्। स परिपूर्णानां दशानां मासानामत्ययेन मातुर्दक्षिणपार्श्वान्निष्क्रमति स्म स्मृतः संप्रजानन्ननुपलिप्तो गर्भमलैर्यथा नान्यः कश्चिदुच्यतेऽन्येषां गर्भमल इति॥



तस्मिन् खलु पुनर्भिक्षवः समये शक्रो देवानामिन्द्रो ब्रह्मा च सहापतिः पुरतः स्थितावभूताम्, यौ बोधिसत्त्वं परमगौरवजातौ दिव्यकाशिकवस्त्रान्तरितं सर्वाङ्गप्रत्यङ्गैः स्मृतौ संप्रज्ञौ प्रतिगृह्णाते स्म॥



यस्मिंश्च कूटागारे बोधिसत्त्वो मातुः कुक्षिगतोऽस्थात्, तं ब्रह्मा सहापतिर्ब्रह्मकायिकाश्च देवपुत्रा अभ्युत्क्षिप्य ब्रह्मलोकं चैत्यार्थं पूजार्थं चोपनामयामासुः। अपरिगृहीतः खलु पुनर्बोधिसत्त्वः केनचिन्मनुष्यभूतेन, अथ तहि बोधिसत्त्वं देवताः प्रथमतरं प्रतिगृह्णन्ति स्म॥



अथ बोधिसत्त्वो जातमात्रः पृथिव्यामवतरति स्म। समनन्तरावतीर्णस्य च बोधिसत्त्वस्य महासत्त्वस्य महापृथिवीं भित्त्वा महापद्मं प्रादुरभूत्। नन्दोपनन्दौ च नागराजानौ गगनतलेऽर्धकायौ स्थित्वा शीतोष्णे द्वे वारिधारेऽभिनिर्भिंत्त्वा बोधिसत्त्वं स्नापयतः स्म। शक्रब्रह्मलोकपालाः पूर्वंगमाश्चान्ये च बहवो देवपुत्राः शतसहस्रा ये बोधिसत्त्वं जातमात्रं नानागन्धोदकमुक्तकुसुमैः स्नापयन्त्यभ्यवकिरन्ति स्म। अन्तरिक्षे च द्वे चामरे रत्नच्छत्रं च प्रादुर्भूतम्। स तस्मिन् महापद्मे स्थित्वा चतुर्दिशमवलोकयति स्म। (चतुर्दिशमवलोक्य) सिंहावलोकितं महापुरुषावलोकितं व्यवलोकयति स्म॥



तस्मिन् खलु पुनः समये बोधिसत्त्वः पूर्वकुशलमूलविपाकजेनाप्रतिहतेन दिव्यचक्षुप्रादुर्भूतेन दिव्येन चक्षुषा सर्वावन्तं त्रिसाहस्त्रं महासाहस्त्रं लोकधातुं सनगरनिगमजनपदराष्ट्रराजधानीं सदेवमानुषं पश्यति स्म। सर्वसत्त्वानां च चित्तचरितं च प्रजानाति स्म। ज्ञात्वा च व्यवलोकयति स्म-अस्ति त्वसौ कश्चित्सत्त्वो यो मया सदृशः शीलेन वा समाधिना वा प्रज्ञया वा कुशलमूलचर्यया वा। यदा च बोधिसत्त्वः त्रिसाहस्रमहासाहस्रलोकधातौ न कंचित्सत्त्वमात्मतुल्यं पश्यति स्म, अथ तस्मिन्समये बोधिसत्त्वः सिंह इव विगतभयभैरवोऽसंत्रस्तः अस्तम्भी सुचिन्तितं स्मृत्वा चिन्तयित्वा सर्वसत्त्वानां चित्तचरितानि ज्ञात्वा अपरिगृहीतो बोधिसत्त्वः पूर्वां दिशमभिमुखः सप्त पदानि प्रक्रान्तः-पूर्वंगमो भविष्यामि सर्वेषां कुशलमूलानां धर्माणाम्। तस्य प्रक्रमत उपर्यन्तरीक्षेऽपरिगृहीतं दिव्यश्वेतविपुलछत्रं चामरशुभे गच्छन्तमनुगच्छन्ति स्म-यत्र यत्र च बोधिसत्त्वः पदमुत्क्षिपति स्म, तत्र तत्र पद्मानि प्रादुर्भवन्ति स्म। दक्षिणां दिशमभिमुखः सप्त पदानि प्रक्रान्तः-दक्षिणीयो भविष्यामि देवमनुष्याणाम्। पश्चिमां दिशमभिमुखः सप्त पदानि प्रकान्तः। सप्तमे स्थित्वा सिंह इवाह्लादनात्मिकां वाचं भाषते स्म-अहं लोके ज्येष्ठोऽहं लोके श्रेष्ठः। इयं मे पश्चिमा जातिः। करिष्यामि जातिजरामरणदुःखस्यान्तम्। उत्तरां दिशमभिमुखः सप्त पदानि प्रक्रान्तः-अनुत्तरो भविष्यामि सर्वसत्त्वानाम्। अधस्ताद्दिशमभिमुखः सप्त पदानि प्रक्रान्तः-निहनिष्यामि मारं च मारसेनां च। सर्वनैरयिकाणां च निरयाग्निप्रतिघाताय सह धर्ममेघवृष्टिं वर्षिष्यामि, येन ते सुखसमर्पिता भविष्यन्ति। उपरिष्टाद्दिशमभिमुखः सप्त पदानि प्रक्रान्तः, उर्ध्वं चावलोकयति स्म-उल्लोकनीयो भविष्यामि सर्वसत्त्वानाम्। समनन्तरभाषिता चेयं बोधिसत्त्वेन वाकू। अथ तस्मिन् समये अयं त्रिसाहस्रमहासाहस्रलोकधातुः स्वरेणाभिविज्ञाप्तोऽभूत्। इयं बोधिसत्त्वस्य कर्मविपाकजा अभिज्ञाधर्मता॥



यदा बोधिसत्त्वश्चरमभविक उपजायते, यदा चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते, तदा अस्येमान्येवंरूपाणि ऋद्धिप्रातिहार्याणि भवन्ति-तस्मिन् खलु पुनर्भिक्षवः समये संहृषितरोमकूपजाताः सर्वसत्त्वा अभूवन्। महतश्च पृथिवीचालस्य लोके प्रादुर्भावोऽभूत् भैरवस्य रोमहर्षणस्य। अघट्टितानि च दिव्यमानुष्यकानि तूर्याणि संप्रवादितानि। सर्वर्तुकालिकाश्च वृक्षास्तस्मिन् समये त्रिसाहस्रमहासाहस्रलोकधातौ संकुसुमिताः फलिताश्च। विशुद्धाच्च गगनतलान्मेघशब्दः श्रूयते स्म। अपगतमेघाच्च गगनाच्छनैः सूक्ष्मसूक्ष्मो देवः प्रवर्षति स्म। नानावर्षदिव्यकुसुमवस्त्राभरणगन्धचूर्णव्यामिश्राः परमसुखसंस्पर्शाश्च सौम्याः सुगन्धवाताः प्रवायन्ति स्म। व्यपगततमोरजोधूमनीहाराश्च सर्वदिशः सुप्रसन्ना विराजन्ते स्म। उपरिष्टाच्चान्तरिक्षाददृश्या गम्भीरा महाब्रह्मघोषाः संश्रूयन्ते स्म। सर्वचन्द्रसूर्यशक्रब्रह्मलोकपालप्रभाश्चाभिभूता अभूवन्। परमसुखसंस्पर्शया च सर्वसत्त्वकायचित्तसुखसंजनन्या लोकोत्तरया अनेकशतसहस्रवर्णप्रभया सर्वत्रिसाहस्रमहासाहस्रलोकधातुः परिस्फुटोऽभूत्। समन्तरजातस्य खलु पुनर्बोधिसत्त्वस्यैकान्तसुखसमर्पिताः सर्वसत्त्वा बभूवुः। सर्वरागद्वेषमोहदर्पारतिविषादभयलोभेर्ष्यामात्सर्यविगताः सर्वाकुशलक्रियाप्रतिविरता व्याधितानां सत्त्वानां व्याधय उपशान्ताः। क्षुत्पिपासितानां सत्त्वानां क्षुत्पिपासा प्रस्रब्धाभूत्। मद्यमदमत्तानां च सत्त्वानां मदापगमः संवृत्तः। उन्मत्तैश्च स्मृतिः प्रतिलब्धा। चक्षुर्विकलैश्च सत्त्वैश्चक्षुः प्रतिलब्धम्, श्रोत्रविकलैश्च सत्त्वैः श्रोत्रम्। अङ्गप्रत्यङ्गविकलेन्द्रियाश्चाविकलेन्द्रियाः संवृत्ताः। दरिद्रैश्च धनानि प्रतिलब्धानि। बन्धनबद्धाश्च बन्धनेभ्यो विमुक्ताः। आवीचिमादिं कृत्वा सर्वनैरयिकाणां सत्त्वानां सर्वकारणाद् दुःखं तस्मिन्समये प्रस्रब्धम्। तियग्योनिकानामन्योन्यभक्षणादि दुःखम्, यमलोकिकानां सत्त्वानां क्षुत्पिपासादिदुःखं व्युपशान्तमभूत्॥



यदा च बोधिसत्त्वो जातमात्रः सप्त पदानि प्रक्रान्तोऽभूत्, असंख्येयाकल्पकोटिनयुतशतसहस्रैः सुचरितचरणैर्महावीर्यमहास्थामधर्मताप्रतिलम्भेन तस्मिन् समये दशदिग्लोकधातुस्थिता बुद्धा भगवन्तस्तं पृथ्वीप्रदेशं वज्रमयधितिष्ठन्ति स्म। येन महापृथिवी तस्मिन् प्रदेशे नावतीर्यत, तावन्महाबलवेगसमन्वागतो हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्त पदानि प्रक्रान्तोऽभूत्। सर्वलोकान्तरिकाश्च तस्मिन् समये महतावभासेन स्फुटा अभूवन्। महांश्च तस्मिन् समये गीतशब्दोऽभून्नृत्यशब्दः। अप्रमेयाश्च तस्मिन् समये पुष्पचूर्णगन्धमाल्यरत्नाभरणवस्त्रमेघा अभिप्रवर्षन्ति स्म। परमसुखसमर्पिताश्च सर्वसत्त्वा अभूवन्। संक्षेपादचिन्त्या सा क्रियाभूत्, यदा बोधिसत्त्वो लोके प्रादुरभूत् सर्वलोकाभ्युद्गतः॥



अथ खल्वायुष्मानानन्दः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-सर्वसत्त्वानां भगवंस्तथागत आश्चर्यभूतोऽभूत्, बोधिसत्त्वभूत् एवाद्भुतधर्मसमन्वागतश्च। कः पुनर्वादः एवं ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। एषोऽहं भगवंश्चतुष्पञ्चकृत्वोऽपि दशकृत्वोऽपि यावत्पञ्चाशत्कृत्वोऽपि शतकृत्वोऽपि यावदनेकशतसहस्रशोऽप्यहं भगवन् बुद्धं भगवन्तं शरणं गच्छामि॥



एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-भविष्यन्ति खलु पुनरानन्द अनागतेऽध्वनि केचिद्भिक्षवोऽभावितकाया अभावितचित्ता अभावितशीला अभावितप्रज्ञा बाला अपण्डिता आभिमानिका उद्धता उन्नता असंवृता विक्षिप्तचित्ताः काङ्क्षापरीत्ता विचिकित्साबहुला अश्रद्धाः श्रमणमलाः श्रमणप्रतिरूपकाः। ते न श्रद्दास्यन्ति इमामेवंरूपां बोधिसत्त्वस्य गर्भावक्रान्तिपरिशुद्धिम्। तेऽन्योन्यमेकान्ते संनिपात्यैवं वक्ष्यन्ति-पश्यत भो यूयमेतदपूज्यमानं बोधिसत्त्वस्य किल मातुः कुक्षिगतस्योच्चारप्रस्रावमण्डोपरिमिश्रस्य ईदृशी विभूतिरासीत्। स च किल अभिनिष्क्रामन् मातुर्दक्षिणायाः कुक्षेरनुपलिप्तो गर्भमलेनाभूदिति। कथमेतद्योज्यते? न पुनस्ते मोहपुरुषा एवं ज्ञास्यन्ति-न सुकृतकर्मणां सत्त्वानामुच्चारप्रस्रावमण्डे कायः संभवतीति। भद्रिका खल्वपि तथारूपाणां सत्त्वानां गर्भावक्रान्तिर्भवति। गर्भावस्थितश्च सत्त्वानुकम्पया हि बोधिसत्त्वो मनुष्यलोके उपपद्यते, न देवभूत एव धर्मचक्रं प्रवर्तयति। तत्कस्मात्? मा खल्वानन्द सत्त्वाः कौसीद्यमापत्स्यन्ते। देवभूतः स भगवान् तथागतोऽर्हन् सम्यक्संबुद्धः, वयं तु मनुष्यमात्राः। न वयं समर्थास्तत्स्थानं परिपूरयितुमिति कौसीद्यमापद्येरन्। न खलु पुनस्तेषां मोहपुरुषाणां धर्मस्तैन्यकानामेवं भविष्यति-अचिन्त्यो हि स सत्त्वः, नासावस्माभिः प्रामाणिकः कर्तव्य इति। अपि तु खल्वानन्द बुद्धऋद्धिप्रातिहार्यमपि ते तस्मिन् काले नावकल्पयिष्यन्ति, किमङ्ग पुनर्बोधिसत्त्वभूतस्य तथागतस्य बोधिसत्त्वप्रातिहार्याणि। पश्य आनन्द कियन्तं ते मोहपुरुषा बह्वपुण्याभिसंस्कारमभिसंस्करिष्यन्ति, ये बुद्धधर्मान् प्रतिक्षेप्स्यन्ति लाभसत्कारश्लोकाभिभूता उच्चारलग्ना लाभसत्काराभिभूता इतरजातीयाः॥



आनन्द आह-मा मैवंरूपा भगवन् अनागतेऽध्वनि भिक्षवो भविष्यन्ति य इमामेवं भद्रिकां सूत्रान्तां प्रतिक्षेप्स्यन्ति प्रतिपक्षं पक्षन्ति च॥



भगवानाह-एवंरूपाश्च ते आनन्द सूत्रान्तां प्रपिक्षेप्स्यन्ति, प्रतिवक्ष्यन्ति चानेकप्रकारान् चान्यान् पापकानभिसंस्कारानभिसंस्करिष्यन्ति। अनर्थिकाश्च ते श्रामण्येन भविष्यन्ति॥



आनन्द आह-का पुनर्भगवन् तेषां तथारूपाणामसत्पुरुषाणां गतिर्भविष्यति? कोऽभिसंपरायः?



भगवानाह-या गतिर्बुद्धबोधिमन्तर्धायाप्यतीतानागतप्रत्युत्पन्नांश्च बुद्धान् भगवतोऽत्याख्याय तां ते गतिं गमिष्यन्ति॥



अथ खल्वायुष्मानानन्दः संहर्षितरोमकूपजातो नमो बुद्धाय इत्युक्त्वा भगवन्तमेतदवोचत्मूर्छा मे भगवन् कायस्याभूदिमं तेषामसत्पुरुषाणां समुदाचारं श्रुत्वा॥



भगवानाह-न तेषामानन्द समाचारो भविष्यति। विषमसमुदाचाराः खलु पुनस्ते सत्त्वा भविष्यन्ति। ते तेन विषमेन समुदाचारेणवीचौ महानरके प्रपतिष्यन्ति। तत्कस्य हेतोः? ये केचिदानन्द भिक्षवो वा भिक्षुण्यो वा उपासको वा उपासिका वा इमानेवंरूपान् सूत्रान्तान् श्रुत्वा नाधिमोक्ष्यन्ति न श्रद्धास्यन्ति न प्रतिवेत्स्यन्ति, ते च्युताः समाना अवीचौ महानरके प्रपतिष्यन्ति। मा आनन्द तथागताप्रामाणिकं अकार्षुः। तत्कस्माद्धेतोः? अप्रमेयो ह्यानन्द तथागतो गम्भीरो विपुलो दुरवगाहः। येषां केषांचिदानन्द इमानेवंरूपान् सूत्रान्ताञ्छ्रुत्वोपपत्स्यते प्रीतिप्रामोद्यम्, प्रसादलाभास्तैः सत्त्वैः सुलब्धाः। अमोघं च तेषां जीवितम्, अमोघं च तेषां मानुष्यम्, सुचरितचरणाश्च ते, आदत्तं च तैः सारम्, मुक्ताश्च ते त्रिभ्योऽपायेभ्यः, भविष्यन्ति च ते पुत्रास्तथागतस्य, परिप्राप्तं च तैः सर्वकार्यम्, अमोघश्च तेषां श्रद्धाप्रतिलम्भः, सुविभक्त च तै राष्ट्रपिण्डम्, प्रसन्नाश्च तेऽग्रसत्त्वैः, संछिन्नास्तैर्मारपाशाः, निस्तीर्णश्च तैः संसाराटवीकान्तारः, समुद्धृतश्च तैः शोकशल्यः, अनुप्राप्तं च तैः प्रामोद्यवस्तु, सुगृहीतानि च तैः शरणगमनानि, दक्षिणीयाश्च ते पूजार्हाः, दुर्लभप्रादुर्भावाश्च ते लोके, दक्षिणीयाश्च ते धारयितव्याः। तत्कस्य हेतोः? तथा हि-ते सर्वलोके इममेवं सर्वलोकविप्रत्यनीकं तथागतधर्मं श्रद्दधन्ति। न ते आनन्द सत्त्वा अवरकेण कुशलमूलेन समन्वागता भवन्ति। ते चानन्द सत्त्वा ममैकजातिप्रतिबद्धानि मित्राणि भविष्यन्ति। तत्कस्माद्धेतोः? कश्चिदानन्द श्रवणादेव प्रियो भवति मनापश्च न तु दर्शनेन। कश्चिदानन्द दर्शनेनापि प्रियो भवति मनापश्च न तु खलु पुनः श्रवणेन। कश्चिदानन्द दर्शनेनापि श्रवणेनापि प्रियो भवति मनापश्च। तेषां केषांचिदानन्द अहं दर्शनेन वा श्रवणेन वा प्रियो मनापो भवेयं निष्ठां त्वं तत्र गच्छेथाः-न तानि ममैकजातिप्रतिबद्धानि मित्राणि। दृष्टास्ते तथागतेन, मोचयितव्यास्ते तथागतेन, ते समगुणप्रत्यंशाः, ते तथागतगुणप्रत्यंशाः, ते तथागतेन कर्तव्या उपासकाः, ते तथागतं शरणं गताः, उपात्तास्ते तथागतेन। ममान्तिकात् खल्वप्यानन्द पूर्वं बोधिसत्त्वचर्यामेव तावच्चरतो ये केचिद्भयार्दिताः सत्त्वा आगत्य अभयं प्रतियाचन्ते स्म, तेभ्योऽहं सत्त्वेभ्योऽभयं दत्त्वान्, किमङ्ग पुनरेतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। श्रद्धायामानन्द योगः करणीयः। इदं तथागतो विज्ञापयति। यदानन्द तथागतेन युष्माकं करणीयं कृतम्, तत्तथागतेन शोधितो मानशल्यः। श्रवणेनाप्यानन्द मित्रस्य ननु योजनशतान्तरमपि गच्छन्ति, गत्वा च सुखिता भवन्ति अदृष्टपूर्वं मित्रं दृष्ट्वा। कः पुनर्वादो ये मां निश्रित्य कुशलमूलान्यवरोपयन्ति। ज्ञास्यन्त्यानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः-पूर्व मित्राण्येते सत्त्वास्तथागतानाम्, अस्माकमप्येते मित्राणि भवन्तीति। तत्कस्मात् खलु पुनरानन्द मित्रं मित्रस्य प्रियं च मनापं च भवति? तस्यापि (तदपि) प्रियमेव भवति, मित्रस्य यत्प्रियं मित्रम्, तदपि प्रियमेव भवति मनापं च। तस्मात्तर्ह्यानन्द आरोचयामि च प्रतिवेदयामि च। श्रद्धामात्रकमुत्पादयथ। अनुपरिन्दिष्यामो वयमनागतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके, तेऽस्माकमपि मित्राणीति विदित्वा यथाभिप्रायं परिपूरयिष्यन्ति। तद्यथापि नाम आनन्द कस्यचिदेव पुरुषस्यैकपुत्रको भवेत् सुवयाः प्रदक्षिणग्राही। स च पुरुषो बहुमित्रो भवेत्। स तस्मिन् पितरि कालगते न हि विहन्येत पितृमित्रसुपरिगृहीतः। एवभेव आनन्द ये केचिन्मम श्रद्धास्यन्ति तानहमुपाददामि। मित्राणीव मम तानि। (ते) मम शरणं गताः। बहुमित्रश्च तथागतः। तानि च तथागतस्य मित्राणि भूतवादीनि न मृषावादीनि। अनुपरिन्दाम्यहं भूतवादीनाम्। यानि तथागतस्य मित्राण्यनागतास्तथागता अर्हन्तः सम्यक्संबुद्धा। श्रद्धायामानन्द योगः करणीयः। अत्राहं युष्मान् विज्ञापयामीति॥



इति हि जाते बोधिसत्त्वे गगनतलगतान्यप्सरःकोटिनयुतशतसहस्राणि दिव्यैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणैर्मायादेवीमभ्यवकिरन्ति स्म। तत्रेदमुच्यते—



शुभविमलविशुद्धहेमप्रभा चन्द्रसूर्यप्रभा

षष्टि दशसहस्र देवाप्सरा मञ्जुघोषस्वराः।

तस्मि क्षणि उपेत्य तां लुम्बिनीं मायदेव्यब्रुवन्

मा खु जनि विषादु तुष्टा भवोपस्थायिकाष्ते वयम्॥२२॥



भणहि किं करणीयु किं कुर्महे केन कार्यं च ते

वयं तव सुसमर्थोपस्थायिका प्रेमभावस्थिताः।

अपि च भव उदग्र हर्षान्विता मा च खेदं जनेहि

जरामरणविघाति वैद्योत्तमं अद्य देवी जनेषी लघुम्॥२३॥



यथ द्रुम परिफुल्ल संपुष्पिता शालवृक्षा इमे

यथ च मरुसहस्र पार्श्वे स्थिता भ्रामयन्तो भुजान्।

यथ च चलि ससागरा मेदिनी षड्विकारा इयं

दिवि दिवि च विघुष्ट लोकोत्तरं त्वं जनेषी सुतम्॥२४॥



यथ च प्रभ विशुद्ध विभ्राजते स्वर्णवर्ण शुभा

तूर्यशत मनोज्ञा चाघट्टिता घुष्ययन्तेऽम्बरे।

यथ च शतसहस्र शुद्धा शुभा वीतरागाः सुरा

नमिषु मुदितचित्ता अद्यो जने सर्वलोके हितम्॥२५॥



शक्रमपि च ब्रह्मपालापि चान्या च या देवता

तुष्टमुदितचित्ता पार्श्वे स्थिता नामयन्तो भुजाम्।

सो च पुरुषसिंह शुद्धव्रतो (भित्त्व) कुक्षिनिर्धावितो

कनकगिरिनिकाश शुद्धव्रतो निष्क्रमी नायकः॥२६॥



शक्रमपि च ब्रह्म तौ पाणिभिः संप्रतीच्छा मुनिं

क्षेत्र शतसहस्र संकम्पिता आभ मुक्ता शुभा।

अपि च त्रिषु अपायि सत्त्वा सुखी नास्ति दुःखं पुन

अमरशतसहस्र पुष्पां क्षिपी भ्रामयन्त्यम्बरान्॥२७॥



वीर्यबल‍उपेत वज्रात्मिका मेदिनी संस्थिता(ऽभुत्तदा)

पद्मु रुचिरचित्रु अभ्युद्गतो यत्र (चक्राङ्गचित्रेभिः) पद्भ्यां स्थितो(ऽपि) नायकः।

सप्त पद क्रमित्व ब्रह्मस्वरो मुञ्चि घोषोत्तमं

जरमरणविघाति वैद्योत्तमो भेष्यि सत्त्वोत्तमः॥२८॥



गगनतल स्थिहित्व ब्रह्मोत्तमो शक्रदेवोत्तमः

शुचिरुचिरप्रसन्नगन्धोदकैर्विस्नपी नायकम्।

अपि च उरगराजा शीतोष्ण द्वे वारिधारे शुभे(व्यमुञ्चतान्तरीक्षे स्थिताः)

अमर शतसहस्र गन्धोदकैर्विस्नपी नायकम्॥२९॥



लोकपालाश्च संभ्रान्त संधारयन्ती करैः शोभनैः।

त्रिसहस्रा इयं भूमिः कम्पते सचराचरा॥३०॥



प्रभा च रुचिरा मुक्ता अपायाश्च विशोधिताः।

क्लेशदुःखाश्च ते शान्ता जाते लोकविनायके॥३१॥



क्षिपन्ति मरुतः पुष्पं जातेऽस्मिन्नरनायके।

क्रम सप्त पदां वीरः क्रमते बलवीर्यवान्॥३२॥



पादौ निक्षिपते यत्र भूमौ पद्मवराः शुभाः।

अभ्युद्गच्छंस्ततो मह्यां सर्वरत्नविभूषिताः॥३३॥



यदा सप्त पदां गत्वा ब्रह्मस्वरमुदाहरि।

जरामरणविघाति भिषग्वर इवोद्गतः॥३४॥



व्यवलोकयित्वा च विशारदो दिशः

ततो गिरां मुञ्चति अर्थयुक्ताम्।

ज्येष्ठोऽहं सर्वलोकस्य श्रष्ठो (लोके विनायकः)

इयं च जातिर्मम पश्चिमा (इति)॥३५॥



हास्यं च मुक्तं नरनायकेन

सलोकपालैर्मरुभिश्च सेन्द्रैः।

प्रसन्नचित्तैर्वरगन्धवारिभिः

संस्कारितो लोकहितार्थकारी॥३६॥



अपि चोरगेन्द्रैः सहितैः समग्रैः

गन्धोग्रधाराविसरैः स्नपिंसु।

अन्येऽपि देवा नयुता (स्थिताः)ऽन्तरीक्षे

स्नपिंसु गन्धाग्रजिने स्वयंभुम्॥३७॥



श्वेतं च विपुलं छत्रं चामरांश्च शुभाम्बरान्।

अन्तरीक्षे गता देवाः स्नापयन्ति नरर्षभम्॥३८॥



पञ्चकुलिकशतानि प्रसूयन्ते स्म।



पुरुष त्वरितु गत्व शुद्धोदनमब्रवीत् हर्षितो

वृद्धि विपुल जातु देवा सुतो भूषितो लक्षणैः।

महकुलरतनस्य (वृद्धिभूता) व्यक्तो असौ चक्रवर्तीश्वरः

न च भवि प्रतिशत्रु जम्बुध्वजे एकछत्रो भवेत्॥३९॥



द्वितियु पुरुषु गत्व (राज्ञि) शुद्धोदने श्लेषयित्वा क्रमे

वृद्धि विपुल देव जाता नृपे शाकियानां कुले।

पञ्चविंशतिसहस्र जाताः सुताः शाकियानां गृहे

सर्वि बल‍उपेत नग्नाः समा दुष्प्रधर्षा परैः॥४०॥



अपरु पुरुष आह देवा श्रुणा नन्दशब्दं ममा

छन्दकप्रमुखानि चेटीसुता जात अष्टौ शता।

अपि च दशसहस्र जाता हयाः कण्ठकस्य सखा

तुरगवरप्रधान हेमप्रभा मञ्जुकेशा वराः॥४१॥



विंशति च सहस्र पर्यन्तकाः कोट्टराजास्तथा

नृपति क्रमतलेभि चान्वाक्रमी साधु देवा जया।

आज्ञा खलु ददाहि गच्छाम किं वा करोमो नृपा

त्वमिह वशितु प्राप्तु भृत्या वयं भट्ट देवा जया॥४२॥



विंशति च सहस्र नागोत्तमा हेमजालोज्ज्वला

त्वरितमुपगमिंसु राज्ञो गृहं गर्जमाना नभे।

कृष्णशबल वत्स गोपामुखा जात षष्टिशता

इयमपि सुति देवदेवोत्तमे वृद्धि राज्ञो गृहे॥४३॥



अपि च नृपति गच्छ प्रेक्ष स्वयं सर्वमेव प्रभो (पुण्यतेज प्रभो)

नरमरुतसहस्र ये हर्षिता दृष्ट्व जाते गुणां।

बोधिवर अशोक संप्रस्थिताः क्षिप्र भोमा जिनाः॥४४॥ इति॥



इति हि भिक्षवो जाते बोधिसत्त्वे तत्क्षणं दाननिसर्गः पुनरुत्तरि प्रवर्तते स्म। पञ्च च कुलिकाशतानि प्रसूयन्ते स्म, दश च कन्यासहस्राणि यशोवतीप्रमुखानि। अष्टौ दासीशतानि अष्टौ दासशतानि छन्दकप्रमुखानि। दश वडवासहस्राणि दश किशोरसहस्राणि कण्ठकप्रमुखानि। पञ्च करेणुसहस्राणि पञ्च पिङ्गसहस्राणि प्रसूयन्ते स्म। तानि सर्वाणि राज्ञा शुद्धोदनेन पुस्तवरोपितानि कुमारस्य क्रीडार्थं दत्तान्यभूवन्॥



चतुर्णां च द्वीपकोटीशतसहस्राणां मध्ये पृथिवीप्रदेशे अश्वत्थयष्टिः प्रादुरभूदन्तर्द्वीपे च चन्दनवनं प्रादुर्बभूव बोधिसत्त्वस्य परिभोगार्थं बोधिसत्त्वस्यैवानुभावेन। पञ्च चोद्यानशतानि समन्तान्नगरस्य प्रादुर्बभूवुर्बोधिसत्त्वस्य परिभोगाय। पञ्च च निधानसहस्राणि धरणीतलादुत्प्लुत्य मुखं दर्शयन्ति स्म। इति हि ये केचिद्राज्ञः शुद्धोदनस्यार्थाभिप्रेता अभूवन्, ते सर्वे समृद्धाभिप्रेता अभूवन् संसिद्धाः॥



ततो राज्ञः शुद्धोदनस्यैतदभूत्-किमहं कुमारस्य नामधेयं करिष्यामीति। ततोऽस्यैतदभूत्- अस्य हि जातमात्रेण मम सर्वार्थाः संसिद्धाः। यन्न्वहमस्य सर्वार्थसिद्ध इति नाम कुर्याम्। ततो राजा बोधिसत्त्वं महता सत्कारेण सत्कृत्य सर्वार्थसिद्धोऽयं कुमारो नाम्ना भवतु इति नामास्याकार्षीत्॥



इति हि भिक्षवो जाते बोधिसत्त्वे मातुः कुक्षिपार्श्वमक्षतमनुपहतमभवद्यथा पूर्वं तथा पश्चात्। त्रितविष्यन्दाम्बुकूपाः प्रादुरभूवन् अपि च सुगन्धतैलपुष्करिण्यः। पञ्चाप्सरः-सहस्राणि दिव्यगन्धपरिवासिततैलपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म। पञ्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म। पञ्चाप्सरःसहस्राणि दिव्यगन्धोदकपरिपूर्णघटापरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म। पच्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतनि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म। पञ्चाप्सरःसहस्राणि दिव्यदारकाचीवरपरिगृहीतानि बोधिसत्वमातरमुपसंक्रम्य सुजारजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म। पञ्चाप्सरः- सहस्राणि दिव्यदारकाभरणपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म। पञ्चाप्सरःसहस्राणि दिव्यतूर्यसंगीतिसंप्रभणितेन बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म। यावन्तश्चेह जम्बुद्वीपे बाह्याः पञ्चभिज्ञा ऋषयस्ते सर्वे गगनतलेनागत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिशब्दमनुश्रावयन्ति स्म॥



इति हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्तरात्रः लुम्बिनीवने दिव्यमानुष्यकैस्तूर्यतालावचरैः सत्क्रियते स्म, गुरुक्रियते स्म, मान्यते स्म, पूज्यते स्म, खाद्यभोज्यस्वादनीयानि विश्राण्यन्ते स्म। सर्वशाक्यगणाश्च संनिपात्यानन्दशब्दमुदीरयन्ति स्म, दानानि च ददन्ति स्म, पुण्यानि च कुर्वन्ति स्म। द्वात्रिंशच्च ब्राह्मणशतसहस्राणि दिने दिने संतर्प्यन्ते स्म। येषां च येनार्थेन तेभ्यस्तद्दीयते स्म। शक्रश्च देवानामिन्द्रो ब्रह्मा च तस्यां ब्राह्मणपर्षदि माणवकरूपमभिनिर्मायाग्रासने निषद्येमां मङ्गल्यां गाथामभ्यभाषताम्-



अपायाश्च यथा शान्ता सुखी सर्वं यथा जगत्।

ध्रुवं सुखावहो जातः सुखे स्थापयिता जगत्॥४५॥



यथा वितिमिरा चाभा रविचन्द्रसुरप्रभाः।

अभिभूता न भासन्ते ध्रुवं पुण्यप्रभोद्भवः॥४६॥



पश्यन्त्यनयना यद्वच्छ्रोत्रहीनाः श्रुणन्ति च।

उन्मत्तकाः स्मृतीमन्तो भविता लोकचेतियः॥४७॥



न बाधन्ते यथा क्लेशा जातं मैत्रजनं जगत्।

निःसंशयं ब्रह्मकोटीनां भविता पूजनारहः॥४८॥



यथा संपुष्पिताः शाला मेदिनी च समा स्थिता।

ध्रुवं सर्वजगत्पूज्यः सर्वज्ञोऽयं भविष्यति॥४९॥



यथा निराकुलो लोको महापद्मो यथोद्भवः।

निःसंशयं महातेजा लोकनाथो भविष्यति॥५०॥



यथा च मृदुका वाता दिव्यगन्धोपवासिताः।

शमेन्ति व्याधिं सत्त्वानां वैद्यराजो भविष्यति॥५१॥



वीतरागा यथा चेमे रूपधातौ मरुच्छताः।

कृताञ्जलिं नमस्यन्ते दक्षिणीयो भविष्यति॥५२॥



यथा च मनुजा देवान् देवाः पश्यन्ति मानुषान्।

हेठयन्ति न चान्योन्यं सार्थवाहो भविष्यति॥५३॥



यथा च ज्वलनः शान्तः सर्वा नद्यश्च विस्थिताः।

सूक्ष्मं च कम्पते भूमिः भविता तत्त्वदर्शकः॥५४॥ इति॥



इति हि भिक्षवः सप्तरात्रजातस्य बोधिसत्त्वस्य माता मायादेवी कालमकरोत्। सा कालगता त्रायत्रिंशति देवेषूपपद्यत। स्यात् खलु पुनर्भिक्षवो युष्माकमेवं बोधिसत्त्वापराधेन मायादेवी कालगतेति? न खल्वेवं द्रष्टव्यम्। तत्कस्माद्धेतोः? एतत् परमं हि तस्या आयुष्प्रमाणमभूत्। अतीतानामपि भिक्षवो बोधिसत्त्वानां सप्तरात्रजातानां जनेत्र्यः कालमकुर्वन्त। तत्कस्माद्धेतोः? विवृद्धस्य हि बोधिसत्त्वस्य परिपूर्णेन्द्रियस्याभिनिष्क्रामतो मातुर्हृदयं स्फुटेत्॥



इति हि भिक्षवः सप्तमे दिवसे यादृशेनैव व्यूहेन मायादेवी कपिलवस्तुनो महानगरादुद्यानभूमिमभिनिष्क्रान्ताभूत्, ततः कोटीशतसहस्रगुणोत्तरेण महाव्यूहेन बोधिसत्त्वः कपिलवस्तु महानगरं प्राविक्षत्। तस्य च प्रविशतः पञ्च पूर्णकुम्भसहस्राणि गन्धोदकपरिपूर्णानि पुरतो नीयन्ते स्म। एवं पञ्चकन्यासहस्राणि मयूरहस्तकम्परिगृहीतानि पुरतो गच्छन्ति स्म। पञ्च च कन्यासहस्राणि तालवृक्षकपरिगृहीतानि पुरतो गच्छन्ति स्म। पञ्च स कन्यासहस्राणि गन्धोदकभृङ्गारपरिगृहीतानि पुरतो गच्छन्ति स्म, मार्गमवसिञ्चन्ति स्म। पञ्च च कन्यासहस्राणि विचित्रपटलकपरिगृहीतानि पुरतो गच्छन्ति स्म। पञ्च च कन्यासहस्राणि नवविचित्रप्रलम्बनमालापरिगृहीतानि पुरतो गच्छन्ति स्म। पञ्च च कन्यासहस्राणि रत्नभद्रालंकारपरिगृहीतानि पुरतो गच्छन्ति स्म, मार्गं शोधयन्ति स्म। पञ्च च कन्यासहस्राणि भद्रासनपरिगृहीतानि पुरतो गच्छन्ति स्म। पञ्च च ब्राह्मणसहस्राणि घण्टापरिगृहीतानि माङ्गल्यशब्दं श्रावयन्तः पुरतो गच्छन्ति स्म। विंशति नागसहस्राणि सर्वालंकारविभूषितानि पुरतो गच्छन्ति स्म। विंशति हयसहस्राणि सुवर्णालंकारसंछन्नानि सर्वालंकारविभूषितानि पुरतो गच्छन्ति स्म। अशीति रथसहस्राणि उछ्रितछत्रध्वजपताकाकिङ्किणीजालसमलंकृतानि बोधिसत्त्वस्य पृष्ठतोऽनुच्छन्ति स्म। चत्त्वारिंशत्पदातिसहस्राणि शूराणां वीराणां वराङ्गुरूपिणां संनद्धदृढवर्मकवचानां बोधिसत्त्वं गच्छन्तमनुगच्छन्ति स्म। गगनतलगतानि चाप्रमेयासंख्येयान्यभिज्ञातानि कामावचराणां रूपावचरदेवपुत्रकोटीनयुतशतसहस्राणि नानाप्रक्रारमनेकव्यूहैर्बोधिसत्त्वस्य पूजां कुर्वन्तोऽनुगच्छन्ति स्म। यस्मिंश्च वरप्रवररथे बोधिसत्त्वः समभिरूढोऽभूत्, स कामावचरैर्देवैरनेकैर्महाव्यूहैः समलंकृतोऽभूत्। विंशति च देवकन्यासहस्राणि सर्वालंकारविभूषितानि रत्नसूत्रपरिगृहीतानि तं रथं वहन्ति स्म। द्वयोश्चाप्सरसोर्मध्ये एका मानुषी कन्या द्वयोर्मानुषीकन्ययोर्मध्ये एकाप्सरा। न चाप्सरसो मानुषीणामामगन्धं जिघ्रन्ति स्म। न च मानुषा अप्सरसां रूपं दृष्ट्वा प्रमादमापद्यन्ते स्म यदिदं बोधिसत्त्वस्य तेजोनुभावेन॥



इति हि भिक्षवः कपिलाह्वये पुरवरे सर्वार्थसिद्धाय पञ्चमात्रैः शाक्यशतैः पञ्चगृहशतानि निर्मापितान्यभूवन् बोधिसत्त्वमुद्दिश्य। ते बोधिसत्त्वं नगरं प्रविशन्तं स्वस्वगृहद्वारमूले स्थित्वा कृताञ्जलिपुटा अभिनतकायाः सगौरवा एवमाहुः-इह भोः सर्वार्थसिद्ध प्रविश। इह भो देवातिदेव प्रविश। इह भोः शुद्धसत्त्व प्रविश। इह भोः सारथिवर प्रविश। इह भोः प्रीतिप्रामोद्यकर प्रविश। इह भो अनिन्दितयशः प्रविश। इह भोः समन्तचक्षु प्रविश। इह भो असमसम प्रविश। इह भो असदृशगुणतेजोधर लक्षणानुव्यञ्जनस्वलंकृतकाय प्रविशेति। ततश्चोपादाय कुमारस्येह सर्वार्थसिद्धः सर्वार्थसिद्ध इति संज्ञामगमत्॥



तत्र राजा शुद्धोदनस्तेषां सर्वेषामनुवर्तनार्थं बोधिसत्त्वं सर्वगृहेषु प्रवेश्य चतुर्णां मासानामत्ययाद्बोधिसत्त्वं स्वगृहे प्रवेशयति स्म। तत्र च नानारत्नव्यूहो नाम महाप्रासादस्तं बोधिसत्त्वः समारूढोऽभूत्। तत्र ते बृद्धवृद्धाः शाक्याः संनिपत्यैवं मतं चारयन्ति स्म-का नु खलु समर्था बोधिसत्त्वं गोपायितुं केलयितुं ममायितुं हितचित्ततया मैत्रचित्ततया गुणचित्ततया सौम्यचित्ततया चेति। तत्र पञ्चमात्राणि शाक्यवधूशतानि। एकैका एवमाहूः- अहं कुमारमुपस्थास्य इति। तत्र महल्लकमहल्लिकाः शाक्या एवमाहुः-सर्वा एता वधूका नवा दह्नास्तरुण्यः रूपयौवनमदमत्ताः। नैताः समर्था बोधिसत्त्वं कालेन कालमुपस्थापयितुम्। अथ च पुनरियं महाप्रजापती गौतमी कुमारस्य मातृस्वसा। एषा समर्था कुमारं सम्यक्सुखेन संवर्धयितुम्, राजानं च शुद्धोदनमभिधारयितुम्। इति हि ते सर्वे समग्रा भूत्वा महाप्रजापतीं गौतमीमुत्साहयन्ति स्म। इति हि महाप्रजापती गौतमी कुमारं संवर्धयति स्म। तत्र बोधिसत्त्वस्यार्थे द्वात्रिंशद्धात्र्यः संस्थापिता अभुवन् अष्टावङ्गधात्र्यः, अष्टौ क्षीरधात्र्यः, अष्टौ मलधात्र्यः, अष्टौ क्रीडाधात्र्यः॥



ततो राजा शुद्धोदनः सर्वं शाक्यगणं संनिपात्यैवं मीमांसते स्म-किं नु खल्वयं कुमारो राजा भविष्यति चक्रवर्ती, आहोस्विदभिनिष्क्रमिष्यति प्रव्रज्यायै?



तेन च समयेन हिमवतः पर्वतराजस्य पार्श्वे असितो नाम महर्षिः प्रतिवसति स्म पञ्चाभिज्ञः सार्धं नरदत्तेन भागिनेयेन। स बोधिसत्त्वस्य जातमात्रस्य बहून्याश्चर्याद्भुतप्रातिहार्याण्यद्राक्षीत्। गगनतलगतांश्च देवपुत्रान् बुद्धशब्दमनुश्रावयतोऽम्बराणि च भ्रामयत इतस्ततः प्रमुदितान् भ्रमतोऽद्राक्षीत्। तस्यैतदभूत्-यन्न्वहं व्यवलोकयेयमिति। स दिव्येन चक्षुषा सर्वं जम्बुद्वीपमनुविलोकयन्नद्राक्षीत् कपिलाह्वये महापुरवरे राज्ञः शुद्धोदनस्य गृहे कुमारं जातं शतपुण्यतेजस्तेजितं सर्वलोकमहितं द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतगात्रम्। दृष्ट्वा च पुनर्नरदत्तं माणवकमामन्त्रयते स्म-यत् खलु माणवक जानीया जम्बुद्वीपे महारत्नमुत्पन्नम्। कपिलवस्तुनि महानगरे राज्ञः शुद्धोदनस्य गृहे कुमारो जातः शतपुण्यतेजस्तेजितः सर्वलोकमहितो द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः। सचेत्सोऽगारमध्यावसिष्यति, राजा भविष्यति चतुरङ्गश्चक्रवर्ती विजितवान् धार्मिको धर्मराजो जानपदस्थामवीर्यप्राप्तः सप्तरत्नसमन्वागतः। तस्येमानि सप्त रत्नानि भवन्ति। तद्यथा-चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम्। एवं सप्तरत्नसंपूर्णश्च। अस्य पुत्रसहस्रं भविष्यति शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। स इमं महापृथिवीमण्डलं समुद्रपरिखमदण्डेनाशस्त्रेण स्वेन (धर्मेण) बलेनाभिभूयाभिनिर्जित्य राज्यं करिष्यत्यैश्वर्याधिपत्येन। सचेत्पुनरगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यति अर्हन् सम्यक्संबुद्धो नेता अनन्यनेयः शास्ता लोके संबुद्धः। तदेतर्ह्युपसंक्रमिष्यावस्तद् द्रष्टुमिति॥



अथ खल्वसितो महर्षिः सार्धं नरदत्तेन भागिनेयेन राजहंस इव गगनतलादभ्युद्गम्य समुत्प्लुत्य येन कपिलवस्तु महानगरं तेनोपसंक्रामत्। उपसंक्रम्य ऋद्धिं प्रतिसंहृत्य पद्भ्यामेव कपिलवस्तु महानगरं प्रविश्य येन राज्ञः शुद्धोदनस्य निवेशनं तेनोपसंक्रामत्। उपसंक्रम्य राज्ञः शुद्धोदनस्य गृहद्वारेऽस्थात्॥



इति हि भिक्षवोऽसितो महर्षिः पश्यति स्म राज्ञः शुद्धोदनस्य गृहद्वारेऽनेकानि प्राणिशतसहस्राणि संनिपतितानि। अथ खल्वसितो महर्षिर्दौवारिकमुपसंक्रम्यैवमाह-गच्छ त्वं भोः पुरुष राज्ञः शुद्धोदनस्य, निवेदय द्वारे ऋषिर्व्यवस्थित इति। परमेति दौवारिकोऽसितस्य महर्षेः प्रतिश्रुत्य येन राजा शुद्धोदनस्तेनोपसंक्रामत्। उपसंक्रम्य कृताञ्जलिपुटो राजानं शुद्धोदनमेवमाह-यत् खलु देव जानीया ऋषिर्जीर्णो वृद्धो महल्लको द्वारे स्थितः। एवं च वदति-राजानमहं द्रष्टुकाम इति। अथ राजा शुद्धोदनोऽसितस्य महर्षेरासनं प्रज्ञाप्य तं पुरुषमेवमाह-प्रविशतु ऋषिरिति। अथ स पुरुषो राजकुलान्निष्क्रम्यासितं महर्षिमेवमाह-प्रविशेति॥



अथ खल्वसितो महर्षिर्येन राजा शुद्धोदनस्तेनोपसंक्रामत्। उपसंक्रम्य पुरतः स्थित्वा राजानं शुद्धोदनमेवमाह-जय जय महाराज, चिरमायुः पालय, धर्मेण राज्यं कारयेति॥



अथ स राजा शुद्धोदनोऽसितस्य महर्षेरर्घपाद्यमर्चनं च कृत्वा साधु सुष्ठु च परिगृह्य आसनेनोपनिमन्त्रयते स्म। सुखोपविष्टं चैनं ज्ञात्वा सगौरवः सुप्रतीत एवमाह-न स्मराम्यहं तव ऋषे दर्शनम्। तत्केनार्थेनेहाभ्यागतोऽसि, किं प्रयोजनम्?



एवमुक्तेऽसितो महर्षी राजानं शुद्धोदनमेतदवोचत्-पुत्रस्ते महाराज जातस्तमहं द्रष्टुकाम इहागत इति॥



राजा आह-स्वपिति महर्षे कुमारः। मुहूर्तमागमय यावदुत्थास्यतीति॥



ऋषिरवोचत्-न महाराज तादृशा महापुरुषाश्चिरं स्वपन्ति। जागरशीलास्तादृशाः सत्पुरुषा भवन्ति॥



इति हि भिक्षवो बोधसत्त्वोऽसितस्य महर्षेरनुकम्पया जागरणनिमित्तमकरोत्। अथ खलु राजा शुद्धोदनः सर्वार्थसिद्धं कुमारमुभाभ्यां पाणिभ्यां साधु च सुष्ठु चानुपरिगृह्य असितस्य महर्षेरन्तिकमुपनामयति स्म॥



इति हि असितो महर्षिर्बोधिसत्त्वमवलोक्य द्वात्रिंशता महापुरुषलक्षणैः समन्वागतमशीत्यनुव्यञ्जनसुविचित्रगात्रं शक्रब्रह्मलोकपालातिरेकवपुषं दिनकरशतसहस्रातिरेकतेजसं सर्वाङ्गसुन्दरं दृष्ट्वा चोदानमुदानयति स्म-आश्चर्यपुद्गलो बतायं लोके प्रादुर्भूत, महाश्चर्यपुद्गलो बतायं लोके प्रादुर्भूतः इत्युत्थायासनात्कृताञ्जलिपुटो बोधिसत्त्वस्य चरणयोः प्रणिपत्य प्रदक्षिणीकृत्य च बोधिसत्त्वमङ्केन परिगृह्य निध्यायन्नवस्थितोऽभूत्। सोऽद्राक्षीद्बोधिसत्त्वस्य द्वात्रिंशन्महापुरुषलक्षणानि यैः समन्वागतस्य पुरुषपुद्गलस्य द्वे गती भवतो नान्या। सचेदगारमध्यावसति राजा भवति चतुरङ्गश्चक्रवर्ती पूर्ववद्यावदेवैश्वर्याधिपत्येन। सचेत्पुनरगारादनगारिकां प्रव्रजति तथागतो भविष्यति विघुष्टशब्दः सम्यक्संबुद्धः। स तं दृष्ट्वा प्रारोदीदश्रूणि च प्रवर्तयन् गम्भीरं च निश्वसति स्म॥



अद्राक्षीद्राजा शुद्धोदनोऽसितं महर्षिं रुदन्तमश्रूणि च प्रवर्तयमानं गम्भीरं च निश्वसन्तम्। दृष्ट्वा च संहर्षितरोमकूपजातस्त्वरितत्वरितं दीनमना असितं महर्षिमेतदवोचत्-किमिदमृषे रोदसि अश्रूणि च प्रवर्तयसि गम्भीरं च निश्वससि? मा खलु कुमारस्य काचिद्विप्रतिपत्तिः॥



एवमुक्तेऽसितो महर्षी राजानं शुद्धोदनमेवमाह-नाहं महाराज कुमारस्यार्थेन रोदिमि, नाप्यस्य काचिद्विप्रतिपत्तिः। किं त्वात्मानमहं रोदिमि। तत्कस्माद्धेतोः? अहं च महाराज जीर्णो वृद्धो महल्लकः। अयं च सर्वार्थसिद्धः कुमारोऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यति। अभिसंबुध्य चानुत्तरं धर्मचक्रं प्रवर्तयिष्यति अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा अन्येन वा पुनः केनचिल्लोके सहधर्मेण। सदेवकस्य लोकस्य हिताय सुखाय धर्मं देशयिष्यति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम्। स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं सत्त्वानां संप्रकाशयिष्यति। अस्मात्तं धर्मं श्रत्वा जातिधर्माणः सत्त्वा जात्या परिमोक्षन्ते। एवं जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्षन्ते। रागद्वेषमोहाग्निसंतप्तानां सत्त्वानां सद्धर्मजलवर्षेण प्रह्लादनं करिष्यति। नानाकुदृष्टिग्रहणप्रस्कन्धानां सत्त्वानां कुपथप्रयातानामृजुमार्गेण निर्वाणपथमुपनेष्यति। संसारपञ्जरचारकावरुद्धानां क्लेशबन्धनबद्धानां बन्धननिर्मोक्षं करिष्यति। अज्ञानतमस्तिमिरपटलपर्यवनद्धनयनानां सत्त्वानां प्रज्ञाचक्षुरुत्पादयिष्यति। क्लेशशल्यविद्धानां सत्त्वानां शल्योद्धरणं करिष्यति। तद्यथा महाराज औदुम्बरपुष्पं कदाचित्कर्हिचिल्लोके उत्पद्यते, एवमेव महाराज कदाचित्कर्हिचिद्बहुभिः कल्पकोटिनयुतैर्बुद्धा भगवन्तो लोके उत्पद्यन्ते। सोऽयं कुमारोऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। अभिसंबुध्य च सत्त्वकोटीनियुतशतसहस्राणि संसारसागरात् पारमुत्तारयिष्यति, अमृते च प्रतिष्ठापयिष्यति। वयं च तं बुद्धरत्नं न द्रक्ष्यामः। इत्येव तदहं महाराज रोदिमि परिदीनमना दीर्घं च निश्वसामि यदहमिमं नारोग्येऽपि राधयिष्यामि॥



यथा ह्यस्माकं महाराज मन्त्रवेदशास्त्रेष्वागच्छति-नार्हति सर्वार्थसिद्धः कुमारोऽगारमध्यावसितुम्। तत्कस्य हेतोः? तथा हि महाराज सर्वार्थसिद्धः कुमारो द्वात्रिंशता महापुरुषलक्षणैः समान्वागतः। कतमैर्द्वात्रिंशता? तद्यथा। उष्णीषशीर्षो महाराज सर्वार्थसिद्धः कुमारः। अनेन महाराज प्रथमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः। भिन्नाञ्जनमयूरकलापाभिनीलवल्लितप्रदक्षिणावर्तकेशः। समविपुलललाटः। ऊर्णा महाराज सर्वार्थसिद्धस्य कुमारस्य भ्रुवो र्मध्ये जाता हिमरजतप्रकाशा। गोपक्ष्मनेत्रः। अभिनीलनेत्रः। समचत्त्वारिंशद्दन्तः। अविरलदन्तः। शुक्लदन्तः। ब्रह्मस्वरो महाराज सर्वार्थसिद्धः कुमारः। रसरसाग्रवान्। प्रभूततनुजिह्वः। सिंहहनुः। सुसंवृत्तस्कन्धः। सप्तोत्सदः। चितान्तरांसः। सूक्ष्मसुवर्णवर्णच्छविः। स्थितोऽनवनतप्रलम्बबाहु। सिंहपूर्वार्धकायः। न्यग्रोधपरिमण्डलो महाराज सर्वार्थसिद्धः कुमारः। एकैकरोमा। ऊर्ध्वाग्राभि-

प्रदक्षिणावर्तरोमाः। कोशोपगतबस्तिगुह्यः। सुविवर्तितोरुः। एणेयमृगराजजङ्घः। दीर्घाङ्गुलिः। आयतपार्ष्णिपादः। उत्सङ्गपादः। मृदुतरुणहस्तपादः। जालाङ्गुलिहस्तपादः। दीर्घाङ्गुलिरधःक्रमतलयोर्महाराज सर्वार्थसिद्धस्य कुमारस्य चक्रे जाते चि (अर्चिष्मती प्रभास्वरे सिते) सहस्रारे सनेमिके सनाभिके। सुप्रतिष्ठितसमपादो महाराज सर्वार्थसिद्धः कुमारः। अनेन महाराज द्वात्रिंशत्तमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः। न च महाराज चक्रवर्तिनामेवंविधानि लक्षणानि भवन्ति। बोधिसत्त्वानां च तादृशानि लक्षणानि भवन्ति॥



संविद्यन्ते खलु पुनर्महाराज सर्वार्थसिद्धस्य कुमारस्य कायेऽशीत्यनुव्यञ्जनानि, यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम्। अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै। कतमानि च महाराज तान्यशीत्यनुव्यञ्जनानि? तद्यथा-तुङ्गनखश्च महाराज सर्वार्थसिद्धः कुमारः। ताम्रनखश्च स्निग्धनखश्च वृत्ताङ्गुलिश्च अनुपूर्वचित्राङ्गुलिश्च गूढशिरश्च गूढगुल्फश्च घनसंधिश्च अविषमसमपादश्च आयतपार्ष्णिश्च महाराज सर्वार्थसिद्धः कुमारः। स्निग्धपाणिलेखश्च तुल्यपाणिलेखश्च गम्भीरपाणिलेखश्च अजिह्मपाणिलेखश्च अनुपूर्वपाणिलेखश्च बिम्बोष्ठश्च नोच्चवचनशब्दश्च मृदुतरुणताम्रजिह्वश्च गजगर्जिताभिस्तनितमेघस्वरमधुरमञ्जुघोषश्च परिपूर्णव्यञ्जनश्च महाराज सर्वार्थसिद्धः कुमारः। प्रलम्बबाहुश्च शुचिगात्रवस्तुसंपन्नश्च मृदुगात्रश्च विशालगात्रश्च अदीनगात्रश्च अनुपूर्वोन्नतगात्रश्च सुसमाहितगात्रश्च सुविभक्तगात्रश्च पृथुविपुलसुपरिपूर्णजानुमण्डलश्च वृत्तगात्रश्च महाराज सर्वार्थसिद्धः कुमारः। सुपरिमृष्टगात्रश्च अजिह्मवृषभगात्रश्च अनुपूर्वगात्रश्च गम्भीरनाभिश्च अजिह्मनाभिश्च अनुपूर्वनाभिश्च शुच्याचारश्च ऋषभवत्समन्तप्रासादिकश्च परमसुविशुद्धवितिमिरालोकसमन्तप्रभश्च नागविलम्बितगतिश्च महाराज सर्वार्थसिद्धः कुमारः। सिंहविक्रान्तगतिश्च ऋषभविक्रान्तगतिश्च हंसविक्रान्तगतिश्च अभिप्रदक्षिणावर्तगतिश्च वृत्तकुक्षिश्च मृष्टकुक्षिश्च अजिह्मकुक्षिश्च चापोदरश्च व्यपगतछन्ददोषनीलकालकादुष्टशरीरश्च वृत्तदंष्ट्रश्च महाराज सर्वार्थसिद्धः कुमारः। तीक्ष्णदंष्ट्रश्च अनुपूर्वदंष्ट्रश्च तुङ्गनासश्च शुचिनयनश्च विमलनयनश्च प्रहसितनयनश्च आयतनयनश्च विशालनयनश्च नीलकुवलयदलसदृशनयनश्च सहितभ्रूश्च महाराज सर्वार्थसिद्धः कुमारः। चित्रभ्रूश्च असितभ्रूश्च संगतभ्रूश्च अनुपूर्वभ्रूश्च पीनगण्डश्च अविषमगण्डश्च व्यपगतगण्डदोषश्च अनुपहतक्रुष्टश्च सुविदितेन्द्रियश्च सुपरिपूर्णेन्द्रियश्च महाराज सर्वार्थसिद्धः कुमारः। संगतमुखललाटश्च परिपूर्णोत्तमाङ्गश्च असितकेशश्च सहितकेशश्च (सुसंगतकेशश्च) सुरभिकेशश्च अपरुषकेशश्च अनाकुलकेशश्च अनुपूर्वकेशश्च सुकुञ्चितकेशश्च श्रीवत्सस्वस्तिकनन्द्यावर्तवर्धमानसंस्थानकेशश्च महाराज सर्वार्थसिद्धः कुमारः। इमानि तानि महाराज सर्वार्थसिद्धस्य कुमारस्याशीत्यनुव्यञ्जनानि, यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम्। अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै॥



अथ खलु राजा शुद्धोदनोऽसितस्य महर्षेः सकाशात्कुमारस्येदं व्याकरणं श्रुत्वा संतुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजात उत्थायासनाद्बोधिसत्त्वस्य चरणयोः प्रणिपत्येमां गाथामभाषत—



वन्दितस्त्वं सुरैः सेन्द्रैः ऋषिभिश्चासि पूजितः।

वैद्य सर्वस्य लोकस्य वन्देऽहमपि त्वां विभो॥५५॥



इति हि भिक्षवो राजा शुद्धोदनोऽसितं महर्षि सार्धं नरदत्तेन भागिनेयेनानुरूपेण भक्तेन संतर्पयति स्म। संतर्प्याभिच्छाद्य प्रदक्षिणमकरोत्। अथ खल्वसितो महर्षिस्तत एवर्द्ध्या विहायसा प्राक्रमत्, येन स्वाश्रमस्तेनोपासंक्रामत्॥



अथ खलु द्वयं संक्रम्य तत्र खल्वसितो महर्षिर्नरदत्तं माणवकमेतदवोचत्-यदा त्वं नरदत्त शृणुया बुद्धो लोके उत्पन्न इति, तदा त्व गत्वा तस्य शासने प्रव्रजेः। तत्ते भविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति॥



तत्रेदमुच्यते-



दृष्ट्वा देवगणान्नभस्तलगतान् बुद्धश्रवोद्गारिणो

देवर्षीरसितोऽद्रिकन्दरगतः प्रीतिं परां प्राप्तवान्।

बुद्धो नाम पदं किमेतदिह भो हर्षावहं प्राणिनां

प्रह्लाद मम काय एति सुखितं शान्तं च चित्तं परम्॥५६॥



किं देवो त्वसुरोऽथवापि स भवेद् गरुडोऽथवा किन्नरः

बुद्धो नाम किमेतदश्रुतपदं प्रीतिकरं मोदनम्।

दिव्या चक्षुष प्रेक्षते दश दिशः शैलान् महीं सागरान्

भूयः पश्यति चाद्भुतं बहुविधं भूमौ गिरौ सागरे॥५७॥



आभेयं प्रविराजते सुरुचिरा प्रह्लादयन्ती तनुं

जाताश्चैव यथा हि शैलशिखरे स्निग्धाः प्रवालाङ्कुराः।

वृक्षाश्चैव यथा सुपुष्पभरिता नानाफलैर्मण्डिताः

सुव्यक्तं त्रिभवे भविष्यति लघु रत्नोद्भवः शोभनः॥५८॥



भूमिर्भाति यथा च पाणिसदृशा सर्वा समा निर्मला

देवाश्चैव यथा प्रहृष्टमनसः खे भ्रामयन्त्यम्बरान्।

यद्वत् सागरनागराजनिलये रत्नाः प्लवन्तेऽद्भुताः

सुव्यक्तं जिनरत्न जम्बुनिलये धर्माकरस्योद्भवः॥५९॥



यद्वच्छान्त अपाय दुःखविगताः सत्त्वाश्च सौख्यान्विताः

यद्वद्देवगणा नभस्तलगता गच्छन्ति हर्षान्विताः।

यथ च स्निग्धरवं मनोज्ञ शृणुया दिव्यान संगीतिनां

रतनस्या इव प्रादुर्भावु त्रिभवे यस्या निमित्ता इमे॥६०॥



असितः प्रेक्षति जम्बुसाह्वयमिदं दिव्येन वै चक्षुषा

सोऽद्राक्षीत् कपिलाह्वये पुरवरे शुद्धोदनस्यालये।

जातो लक्षणपुण्यतेजभरितो नारायणस्थामवान्

दृष्ट्वा चात्तमना उदग्रमनसः स्थामास्य संवर्धितः॥६१॥



उद्युक्तस्त्वरितोऽतिविस्मितमना चासौ स्वशिष्यान्वितः

आगत्वा कपिलाह्वयं पुरवरं द्वारि स्थितो भूपतेः।

अनुबद्धा बहुप्राणिकोटिनयुता दृष्ट्वा ऋषिर्जीर्णकः

अवची सारथि राज्ञ वेदय लघुं द्वारे ऋषिस्तिष्ठति॥६२॥



श्रुत्वा चाशु प्रविश्य राजभवनं राज्ञस्तमाख्यातवान्

द्वारे देव तपस्वि तिष्ठति महान् जीर्णो ऋषिर्जर्जरः।

सो चापी अभिनन्दते ऋषिवरः प्रावेष्टु राज्ञो गृहं

आज्ञा दीयतु ताव पार्थिववरा देमि प्रवेशं तेसा॥६३॥



स्थाप्या चासनमस्य चाह नृपतिः गच्छ प्रवेशं दद

असितः सारथिवाक्य श्रुत्व मुदितः प्रीत्या सुखेनान्वितः।

शीतं वारि यथाभिकाङ्क्षि तृषितो भुक्त्वादितो चाशनं

तद्वत्सुख्यभिनन्दितो ऋषिवरः तं द्रष्टु सत्त्वोत्तमम्॥६४॥



जय भोः पार्थिव इत्युवाच मुदितो चायुं चिरं पालय

वृद्धिं कृत्व निषण्ण दान्तमनसः शान्तेन्द्रियः सूरतः।

राजा वै अभिवाद्य तं सुनिभृतं प्रोवाच किं कारणं

आगामस्तव पार्थिवेन्द्र निलये तद् ब्रूहि शीघ्रं मुने॥६५॥



पुत्रस्ते वररूप पारमिगतो जातो महातेजवान्

द्वात्रिंशद्वरलक्षणैः कवचितो नारायणस्थामवान्।

तं द्रष्टुं हि ममेप्सितं नरपते सर्वार्थसिद्धं शिशुम्

इत्यर्थं समुपागतोऽस्मि नृपते नास्त्यन्यकार्यं मम॥६६॥



साधु स्वागतु याचसे किलमितः प्रीतोऽस्मि ते दर्शनात्

एषोऽसौ शयितः कुमार वरदो द्रष्टुं न शक्योऽधुना।

साधू ताव मूहूर्तमागम इहा यद् द्रक्ष्यसे निर्मलं

चन्द्रं वा यथ पूर्णमासि विमलं तारागणैर्मण्डितम्॥६७॥



यद चासौ प्रतिबुद्ध सारथिवरः परिपूर्णचन्द्रप्रभः

तद राजा प्रतिगृह्य वह्निवपुषं सूर्यातिरेकप्रभम्।

हन्ता पश्य ऋषे नृदेवमहितं हेमाग्रबिम्बोपमम्

असितो दृष्ट्व च तस्य तौ सुचरणौ चक्राङ्कितौ शोभनौ॥६८॥



प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणानि सो वन्दते

अङ्के गृह्य महात्मशास्त्रकुशलो निध्यायतो प्रेक्षते।

सोऽपश्यद्वरलक्षणैः कवचितं नारायणस्थामवं

शीर्षं कम्प्य स वेदशास्त्रकुशलो द्वे तस्य पश्यद्गती॥६९॥



राजा वा भवि चक्रवर्ति बलवान् बुद्धो व लोकोत्तमः

बाष्पं त्यक्त सुदीनकायमनसो गम्भीर निश्वस्य च।

उद्विग्नश्च बभूव पार्थिववरः किं ब्राह्मणो रोदिती

मा विघ्नं खलु पश्यतेऽयमसितः सर्वार्थसिद्धस्य मे॥७०॥



भूतं व्याहर किं तु रोदिषि ऋषे श्रेयोऽथ किं पापकं

पापं नास्ति न चान्तरायमिह भोः सर्वार्थसिद्धस्य ते।

आत्मानं बहु शोचमी नरपते जीर्णोऽस्मि यज्जर्जरः

यदयं भेष्यति बुद्ध लोकमहितो धर्मं यदा वक्ष्यते॥७१॥



न द्रक्षे अहु लब्धप्रीतिमनसो इत्यर्थ रोदाम्यहं

यस्या कायि भवन्ति लक्षणवरा द्वात्रिंशति निर्मला।

द्वे तस्या गतयो न अन्य तृतिया जानीष्व एवं नृप

राजा वा भवि चक्रवर्ति बलवान् बुद्धोऽथ लोकोत्तमः॥७२॥



नायं कामगुणेभिरर्थिकु पुनः बुद्धो अयं भेष्यति

श्रुत्वा व्याकरणं ऋषेः स नृपतिः प्रीतिं सुखं लब्धवान्।

प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणावसौ वन्दते

देवैस्त्वं स्वभिपूजितः सुबलवान् ऋषिभिश्च संवर्णितः॥७३॥



वन्दे त्वां वरसार्थवाह त्रिभवे सर्वे जगे पूजितं

असितः प्राह च भागिनेय मुदितः संश्रूयतां भाषतो।

बुद्धा बोधि यदा शृणोषि जगतो वर्तेति चक्रं ह्ययं

शीघ्रं प्रव्रज शासनेऽस्य मुनये तत्प्राप्स्यसे निर्वृतिम्॥७४॥



वन्दित्वा चरणौ ह्यसौ मुनिवरः कृत्वा च प्रादक्षिणं

लाभा ते नृपते सुलब्ध विपुला यस्येदृशस्ते सुतः।

एषो लोक सदेवकं समनुजं धर्मेण तर्पेष्यति

निष्क्रामं कपिलाह्वयादृषिवरोऽरण्ये स्थितः स्वाश्रमे॥७५॥इति॥



इति हि भिक्षवो जातमात्रस्य बोधिसत्त्वस्य महेश्वरो देवपुत्रः शुद्धावासकायिकान् देवपुत्रानामन्त्र्यैवमाह-योऽसौ मार्षा असंख्येयकल्पकोटिनियुतशतसहस्रसुकृतकर्मदानशीलक्षान्तिवीर्यध्यानप्रज्ञोपायश्रतचरणव्रततपःसुचरितचरणः महामैत्रीमहाकरुणामहामुदितासमन्वागतः उपेक्षासमुद्गतचित्तः सर्वसत्त्वहितसुखोद्यतः दृढवीर्यकवचसुसंनाहसंनद्धः पूर्वजिनकृतकुशलमूलोदितः शतपुण्यलक्षणसमलंकृतः सुकृतनिश्चयपराक्रमः परचक्रप्रमथनः सुविमलशुद्धाशयसंपन्नः सुचरितचरणो महाज्ञानकेतुध्वजः मारबलान्तकरणः त्रिसाहस्रमहासाहस्रसार्थवाहः देवमनुष्यपूजितमहायज्ञयष्टः सुसमृद्धपुण्यनिचयनिःसरणाभिप्रायो जातिजरामरणान्तकरः सुजातजातः इक्ष्वाकुराजकुलसंभूतो जगद्विबोधयिता बोधिसत्त्वो महासत्त्वो मनुष्यलोक उपपन्नः। न चिरादसावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। हन्त गच्छामस्तमभिवन्दितुं मानयितुं पूजयितुमभिस्तोतुमन्येषां च मानाभिभूतानां देवपुत्राणां मानमददर्पच्छेदनार्थम्। तेऽस्मानभिवन्दमानान् दृष्ट्वा तेऽपि बोधिसत्त्वं वन्दिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति च। तत्तेषां भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय यावदमृताधिगमाय। राज्ञश्च शुद्धोदनस्य जयवृद्धिरनुश्राविता भविष्यति। तत्त्वव्याकरणेन च बोधिसत्त्वं व्याकृत्य पुनरप्यागमिष्याम इति॥



अथ खलु महेश्वरो देवपुत्रो द्वादशभिर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतः सर्वकपिलवस्तुमहानगरमवभासेन स्फुरयित्वा येन राज्ञः शुद्धोदनस्य निवेशनं तेनोपसंक्रामत्। उपसंक्रम्य दौवारिके निवेद्य राज्ञाभ्यनुज्ञातो राजकुलं प्रविश्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्यैकांसमुत्तरासङ्गं कृत्वां अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य बोधिसत्त्वमङ्के समारोप्य राजानं शुद्धोदनमाश्वासयति स्म-तुष्टो महाराज भव परमप्रीतश्च। तत्कस्माद्धेतोः? यथा महाराज बोधिसत्त्वस्य लक्षणैरनुव्यञ्जनैश्च कायः समलंकृतः, यथा च कुमारोऽभिभवति सदेवमानुषासुरलोकं वर्णेन तेजसा च यशसा लक्ष्म्या च, निःसंशयं महाराज बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते॥



इति हि भिक्षवो महेश्वरो देवपुत्रः सार्धं शुद्धावासकायिकैर्देवपुत्रैर्बोधिसत्त्वस्य महत्पूजोपस्थानं कृत्वा बोधिसत्त्वं तत्त्वव्याकरणेन व्याकृत्य पुनरपि स्वभवनं प्राक्रामत्॥



तत्रेदमुच्यते—



जातस्य तस्य गुणसागरसागरस्य

ज्ञात्वा सुरेश्वरमरुद् ब्रुवते उदग्रः।

यस्या सुदुर्लभश्रवो बहुकल्पकोट्या

हन्तेथ तं व्रजम पूजयितुं मुनीन्द्रम्॥७६॥



परिपूर्णद्वादशसहस्र मरुद्विशुद्धा

मणिरत्नचूडसमलंकृत इर्यवन्तः।

कपिलाह्वयं पुरवरं समुपेत्य शीघ्रं

द्वारि स्थिता नरपतेः सुविलम्बचूडाः॥७७॥



ते द्वारपालमवदन् सुमनोज्ञघोषाः

प्रतिवेदयस्व नृपते भवनं प्रविश्य।

दौवारिको वचन श्रुत्व गृहं प्रविष्टः

प्रह्वः कृताञ्जलिपुटो नृपतिं बभाषे॥७८॥



जय देव नित्यमनुपालय दीर्घमायुः

द्वारे स्थिता विपुलपुण्यविशुद्धभासः।

मणिरत्नचूडसुविभूषित इर्यवन्तः

परिपूर्णचन्द्रवदना शशिनिर्मलाभाः॥७९॥



छायां न तेष नृपते क्वचिदप्यपश्यन्

शब्दं न चैव चरणोत्क्षिपणे शृणोमि।

न च मेदिनीं विचरतो रजमुत्क्षिपन्ति

तृप्तिं न यान्ति च जनाः समुदीक्षतां वै॥८०॥



कायप्रभा सुविपुला च विभाति तेषां

वाचा मनोज्ञ यथ नास्ति ह मानुषाणाम्।

गम्भिरश्लक्ष्णसुशिला च सुआकरा च

शङ्का हि मे सुरगणा न हि ते मनुष्याः॥८१॥



वरपुष्पमाल्य‍अनुलेपनपट्टदामा

पाणी गृहीत्वन उदीक्षिषु गौरवेण।

निःसंशयं नृपति द्रष्टु कुमारमेते

देवाधिदेव मरुतागत पूजनार्थम्॥८२॥



राजा निशाम्य वचनं परमं उदग्रो

गच्छा भणाहि प्रविशन्तु गृहं भवन्तः।

न हि मानुषाण इयमीदृश ऋद्धि काचि

यथ भाषसे च गुण तेष यथा च इर्या॥८३॥



दौवारिकः कृतपुटो मरुतैवमाह

प्रविशी भवन्त अनुज्ञातु नराधिपेन।

ते हृष्टतुष्टमनसो वरमाल्यहस्ता

गेहं प्रविष्ट नृपतेरमरालयं वा॥८४॥



दृष्ट्वा च तां सुरवरां प्रविशन्त गेहं

प्रत्युत्थितो नृपतिरञ्जलि संप्रगृह्य।

संविद्ययन्त इम आसन रत्नपादा

अत्रा निषीदत भवन्ननुकम्प्य बुद्ध्या॥८५॥



ते मानदर्पविगता स्थित आसनेषु

यस्यार्थि आगत इहा नृपते शृणुष्व।

पुत्रस्तवातिपृथुपुण्यविशुद्धकायो

जातः सुजातचरणं वय द्रष्टुकामाः॥८६॥



अस्मो विधिज्ञ वरलक्षणलक्षणज्ञा

येषां तथा भवति या गति यः प्रयोगः।

तत्साधु पार्थिववर प्रजहस्व खेदं

पश्याम लक्षणविचित्रविभूषिताङ्गम्॥८७॥



स स्त्रीगणैः परिवृतो नृपतिः प्रहृष्टो

गृह्य कुमारमसमं ज्वलनार्चिवर्णम्।

उपनामयन् सुरवरां सुविलम्बचूडां

द्वारात्तु निष्क्रमतु कम्पित त्रिसहस्राः॥८८॥



दृष्ट्वैव ते सुरवरा क्रम नायकस्य

ताम्रा नखां विमलपत्रविशुद्धतेजा।

ते उत्थिता त्वरित रूपविलम्बचूडा

मूर्ध्नाभिवन्दिषु क्रमां विमलप्रभस्य॥८९॥



यथ लक्षणा यथ च दर्शित लक्षिता च

यथ पुण्यतेजि शिरि मूर्ध विलोकितं च।

यथ इर्य नेत्र विमलाप्रभ ऊर्णकोशा

निःसंशयं स्पृशति बोधि विजित्य मारम्॥९०॥



ते तं स्तुवन्ति गुणभूत यथार्थदर्शी

ध्यायी गुणां विगतक्लेशतमोनुदस्य।

सुचिरेण सत्त्वरतनस्य हि प्रादुर्भावो

जातीजरामरणक्लेशरणंजहस्य॥९१॥



आदीप्त सर्वत्रिभवं त्रिभिरग्नितप्तं

संकल्परागविषयारणि‍उच्छ्रितेन।

त्वं धर्ममेघ त्रिसहस्र स्फरित्व धीरा

अमृतोदकेन प्रशमेष्यसि क्लेशतापम्॥९२॥



त्वं मैत्रवाक्य करुणान्वित श्लक्ष्णवाक्य

ब्रह्मस्वरारचितघोष मनोज्ञवाणि।

त्रिसहस्र आज्ञपरिविज्ञपनी जगस्य

क्षिप्रं प्रमुञ्च भगवन् महबुद्धघोषम्॥९३॥



भग्ना कुतीर्थिकगणा विपरीतदृष्टिः

भवरागबन्धननिमग्न स्थिता भवाग्रे।

हेतु प्रतीत्य भव शून्य श्रुणित्व धर्मा

सिंहस्य क्रोष्टुकगणैव पलायिनास्ते॥९४॥



भित्त्वा अविद्यपटलं महक्लेशधूमं

पर्युत्थिता जनतये नियतप्रकाशे।

ज्ञानार्चिप्रज्ञप्रभविद्युविलोकितेन

सर्वं जगे विधमये महदन्धकारम्॥९५॥



लाभा सुलब्ध विपुला मरुमानुषाणां

यत्रोद्भवाऽद्भुत इहेदृशि शुद्धसत्त्वे।

पिथिता अपायपथ स्फीत मरुत्पथानि

भेष्यन्ति सत्त्वरतनेन विबोधकेन॥९६॥



वर्षित्व दिव्यकुसुमां कपिलाह्वयेऽस्मिन्

कृत्वा प्रदक्षिण स्तवित्व च गौरवेण।

बुद्ध सुबुद्ध इति वाक्यमुदीरयन्तः

प्रक्रान्त ते सुरगणा गगने सलीलाः॥९७॥इति॥



इति श्रीललितविस्तरे जन्मपरिवर्तो नाम सप्तमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project