Digital Sanskrit Buddhist Canon

६ गर्भावक्रान्तिपरिवर्तः षष्ठः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
६ गर्भावक्रान्तिपरिवर्तः षष्ठः।



इति हि भिक्षवः शिशिरकालविनिर्गते वैशाखमासे विशाखानक्षत्रानुगते ऋतुप्रवरे वसन्तकालसमये तरुवरपत्राकीर्णे वरप्रवरपुष्पसंकुसुमिते शीतोष्णतमोरजोविगते मृदुशाद्वले सुसंस्थिते त्रिभुवनज्येष्ठो लोकमहितो व्यवलोक्य ऋतुकालसमये पञ्चदश्यां पूर्णमास्यां पोषधगृहीताया मातुः पुष्यनक्षत्रयोगेन बोधिसत्त्वस्तुषितवरभवनाच्च्युत्वा स्मृतः संप्रजानन् पाण्डुरो गजपोतो भूत्वा षड्दन्त इन्द्रगोपकशिराः सुवर्णराजीदन्तः सर्वाङ्गप्रत्यङ्गोऽहीनेन्द्रियो जनन्या दक्षिणायां कुक्षाववक्रामत्। अवक्रान्तश्च स दक्षिणावचरोऽभून्न जातु वामावचरः। मायादेवी सुखशयनप्रसुप्ता इमं स्वप्नमपश्यत्—



हिमरजतनिभश्च षड्विषाणः

सुचरण चारुभुजः सुरक्तशीर्षः।

उदरमुपगतो गजप्रधानो

ललितगतिर्दृढवज्रगात्रसंधिः॥१॥



न च मम सुख जातु एवरूपं

दृष्टमपि श्रुतं नापि चानुभूतम्।

कायसुखचित्तसौख्यभावा

यथरिव ध्यानसमाहिता अभूवम्॥२॥



अथ खलु मायादेवी आभरणविगलितवसना प्रह्लादितकायचित्ता प्रीतिप्रामोद्यप्रसादप्रतिलब्धा शयनवरतलादुत्थाय नारीगणपरिवृता पुरस्कृता प्रासादवरशिखरादवतीर्य येनाशोकवनिका तेनोपजगाम। सा अशोकवनिकायां सुखोपविष्टा राज्ञः शुद्धोदनस्य दूतं प्रेषयति स्म-आगच्छतु देवो देवी ते द्रष्टुकामेति॥



अथ स राजा शुद्धोदनस्तद्वचनं श्रुत्वा प्रहर्षितमना आकम्पितशरीरो भद्रासनादुत्थाय अमात्यनैगमपार्षद्यबन्धुजनपरिवृतो येनाशोकवनिका तेनोपसंक्रामत्, उपसंक्रान्तश्च न शक्नोति स्म अशोकवनिकां प्रवेष्टुम्। गुरुतरमिवात्मानं मन्यते स्म। अशोकवनिकाद्वारे स्थितो मुहूर्तं संचिन्त्य तस्यां वेलायामिमां गाथामभाषत—



न स्मरि रणशौण्डि मूर्धसंस्थस्य मह्यम्

एव गुरु शरीरं मन्यमी यादृशोऽद्य।

स्वकुलगृहमद्य न प्रभोमि प्रवेष्टुं

किमिह मम भवेऽङ्गो कान्व पृच्छेय चाहम्॥३॥ इति॥



अथ खलु शुद्धावासकायिका देवपुत्रा गगनतलगता अर्धकायमभिनिर्माय राजानं गाथयाध्यभाषन्त—



व्रततपगुणयुक्तस्तिस्रलोकेषु पूज्यो

मैत्रकरुणलाभी पुण्यज्ञानाभिषिक्तः।

तुषितपुरि च्यवित्वा बोधिसत्त्वो महात्मा

नृपति तव सुतत्वं मायकुक्षौपपन्नः॥४॥



दशनख तद कृत्वा स्वं शिरं कम्पयन्तो

नृपतिरनुप्रविष्टश्चित्रिकारानुयुक्तः।

माय तद निरीक्ष्य मानदर्पोपनीतां

वदहि कुरुमि किं ते किं प्रयोगो भणाहि॥५॥



देव्याह—



हिमरजतनिकाशश्चन्द्रसूर्यातिरेकः

सुचरण सुविभक्तः षड्‍विषाणो महात्मा।

गजवरु दृढसंधिर्वज्रकल्पः सुरूपः

उदरि मम प्रविष्टस्तस्य हेतुं श्रुणुष्व॥६॥



वितिमिर त्रिसहस्रां पश्यमी भ्राजमानां

देवनयुत देवा ये स्तुवन्ती सयाना।

न च मम खिलदोषो नैव रोषो न मोहो

ध्यानसुखसमङ्गी जानमी शान्तचित्ता॥७॥



साधु नृपति शीघ्रं ब्राह्मणानानयास्मिन्

वेदसुपिनपाठा ये गृहेषू विधिज्ञाः।

सुपिनु मम हि येमं व्याकरी तत्त्वयुक्तं

किमिद मम भवेया श्रेयु पापं कुलस्य॥८॥



वचनमिमु श्रुणित्वा पार्थिवस्तत्क्षणेन

ब्राह्मण कृतवेदानानयच्छास्त्रपाठान्।

माय पुरत स्थित्वा ब्राह्मणानामवोचत्

सुपिन मयि ह दृष्टस्तस्य हेतुं शृणोथ॥९॥



ब्राह्मणा आहुः-ब्रूहि देवि त्वया कीदृशं स्वप्नं दृष्टम्। श्रुत्वा ज्ञास्यामः।

देव्याह—



हिमरजतनिकाशश्चन्द्रसूर्यातिरेकः

सुचरण सुविभक्तः षड्विषाणो महात्मा।

गजवरु दृढसंधिर्वज्रकल्पः सुरूपः

उदरि मम प्रविष्टस्तस्य हेतुं शृणोथ॥१०॥



वचनमिमु श्रुणित्वा ब्राह्मणा एवमाहुः

प्रीति विपुल चिन्त्या नास्ति पापं कुलस्य।

पुत्र तव जनेसी लक्षणैर्भूषिताङ्गं

राजकुलकुलीनं चक्रवर्ति महात्मं॥११॥



स च पुर विजहित्वा कामराज्यं च गेहं

प्रव्रजित निरपेक्षः सर्वलोकानुकम्पी।

बुद्धो भवति एषो दक्षिणीयस्त्रिलोके

अमृतरसवरेणा तर्पयेत् सर्वलोकम्॥१२॥



व्याकरित्व गिरं सौम्यां भुक्त्वा पार्थिवभोजनम्।

आच्छादनानि चोद्गृह्य प्रक्रान्ता ब्राह्मणास्ततः॥१३॥



इति हि भिक्षवो राजा शुद्धोदनो ब्राह्मणेभ्यो लक्षणनैमित्तिकवैपञ्चकेभ्यः स्वप्नाध्यायीपाठकेभ्यः प्रतिश्रुत्य हृष्टस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तान् ब्राह्मणान् प्रभूतेन खादनीयभोजनीयास्वादनीयेन संतर्प्य संप्रवार्याच्छादनानि च दत्वा विसर्जयति स्म। तस्यां वेलायां कपिलवस्तुनि महानगरे चतुर्षु नगरद्वारेषु सर्वनगरचत्वरशृङ्गाटकेषु च दानं दापयति स्म अन्नमन्नार्थिकेभ्यः, पानं पानार्थिकेभ्यः, वस्त्राणि वस्त्रार्थिकेभ्यः, यानानि यानार्थिकेभ्यः। एवं गन्धमाल्यविलेपनशय्योपाश्रयं प्राजीविकं प्राजीविकार्थिभ्यो यावदेव बोधिसत्त्वस्य पूजाकर्मणे॥



अथ खलु भिक्षवो राज्ञः शुद्धोदनस्यैतदभवत्- कतमस्मिन् गृहे मायादेवी सुखमनुपक्लिष्टा विहरेदिति। अथ तत्क्षणमेव चत्वारो महाराजानो राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः—



अल्पोत्सुको देव भव सुखं तिष्ठ उपेक्षको।

वयं हि बोधिसत्त्वस्य वेश्म वै मापयामहे॥१४॥



अथ खलु शक्रो देवानामिन्द्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह—



हीना विमाना पालानां त्रयत्रिंशानमुत्तमाः।

वैजयन्तसमं वेश्म बोधिसत्त्वस्य दाम्यहम्॥१५॥



अथ खलु सुयामो देवपुत्रो राजानं शुद्धोदनमुसंक्रम्यैवमाह—



मदीयं भवनं दृष्ट्वा विस्मिताः शक्रकोटयः।

सुयामभवनं श्रीमद्बोधिसत्त्वस्य दाम्यहम्॥१६॥



अथ खलु संतुषितो देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह—



यत्रैव उषितः पूर्वं तुषितेषु महायशाः।

तदेव भवनं रम्यं बोधिसत्त्वस्य दाम्यहम्॥१७॥



अथ खलु सुनिर्मितो देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह—



मनोमयमहं श्रीमद्वश्म तद्रतनामयम्।

बोधिसत्त्वस्य पूजार्थमुपनेष्यामि पार्थिव॥१८॥



अथ खलु परनिर्मितवशवर्ती देवपुत्रो राजानं शुद्धोदनमुपसंक्रम्यैवमाह—



यावन्तः कामधातुस्था विमानाः शोभनाः क्वचित्।

भाभिस्ते मद्विमानस्य भवन्त्यभिहतप्रभाः॥१९॥



तत् प्रयच्छाम्यहं श्रीमद्वेश्म रत्नमयं शुभम्।

बोधिसत्त्वस्य पूजार्थमानयिष्यामि पार्थिव॥२०॥



दिव्यैः पुष्पैः समाकीर्णं दिव्यगन्धोपवासितम्।

उपनामयिष्ये विपुलं यत्र देवी वसिष्यति॥२१॥



इति हि भिक्षवः सर्वैः कामावचर्रैदैवेश्वरैर्बोधिसत्त्वस्य पूजार्थं कपिलाह्वये महापुरवरे स्वकस्वकानि गृहाणि मापितान्यभूवन्। राज्ञा चपि शुद्धोदनेन मनुष्यातिक्रान्तं दिव्यासंप्राप्तं गृहतरं प्रतिसंस्कारितमभूत्। तत्र बोधिसत्त्वो महासत्त्वो महाव्यूहस्य समाधेरनुभावेन सर्वेषु तेषु गृहेषु मायादेवीमुपदर्शयति स्म। अभ्यन्तरगतश्च बोधिसत्त्वो मायादेव्याः कुक्षौ दक्षिणे पार्श्वे पर्यङ्कमाभुज्य निषण्णोऽभूत्। सर्वे च ते देवेश्वरा एकैकमेवं संजानीते स्म-ममैव गृहे बोधिसत्त्वमाता प्रतिवसति नान्यत्रेति॥



तत्रेदमुच्यते—



महाव्यूहाय स्थितः समाधिये

अचिन्तिया निर्मित निर्मिणित्वा।

सर्वेष देवानभिप्राय पूरिता

नृपस्य पूर्णश्च तदा मनोरथः॥२२॥



अथ खलु तस्यां देवपर्षदि केषांचिद्देवपुत्राणामेतदभवत्-येऽपि तावच्चातुर्महाराजकायिका देवास्तेऽपि तावन्मनुष्याश्रयगतत्वेन निर्विद्यापक्रमन्ति। कः पुनर्वादो ये तदन्ये उदारतमा देवाः त्रायत्रिंशा वा यामा वा तुषिता वा। तत्कथं हि नाम सर्वलोकाभ्युद्गतो बोधिसत्त्वः शुचिर्निरामगन्धः सत्त्वरत्नः संतुषिताद्देवनिकायाच्च्युत्वा दुर्गन्धे मनुष्याश्रये दशमासान् मातुः कुक्षौ स्थित इति॥



अथ खल्वायुष्मानानन्दो बुद्धानुभावेन भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावज्जुगुप्सनीयश्च मातृग्रामस्तथागतेनोक्तो यावद्रागचरितश्च। इदं तु भगवन् आश्चर्यतरम्। कथं हि नाम सर्वलोकाभ्युद्गतो भगवान् पूर्वं बोधिसत्त्वभूत एव तुषिताद्देवनिकायाच्च्यवित्वा मनुष्याश्रये (दुर्गन्धे) मातुर्दक्षिणे (पार्श्वे) कुक्षावुपपन्न इति। नाहं भगवन् इदमुत्सहे एवं वक्तं यथैव पूर्वे भगवता व्याकृतमिति। भगवानाह-इच्छसि त्वमानन्द रत्नव्यूहं बोधिसत्त्वपरिभोगं द्रष्टुं यो मातुः कुक्षिगतस्य बोधिसत्त्वस्य परिभोगोऽभूत्। आनन्द आह-अयमस्य भगवन् कालः, अयं सुगत समयः, यत्तथागतस्तं बोधिसत्त्वपरिभोगमुपदर्शयेद् यं दृष्ट्वा प्रीतिं वेत्स्यामः॥



अथ खलु भगवांस्तथारूपनिमित्तमकरोत्, यद् ब्रह्मा सहापतिः सार्धमष्टषष्टिब्रह्मशतसहस्रैर्ब्रह्मलोकेऽन्तर्हितो भगवतः पुरतः प्रत्यस्थात्। स भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिप्रदक्षिणीकृत्यैकान्तेऽस्थात् प्राञ्जलीभूतो भगवन्तं नमस्यन्। तत्र खलु भगवान् जानन्नेव ब्रह्माणं सहापतिमामन्त्रयते स्म-गृहीतस्त्वया ब्रह्मन् स बोधिसत्त्वपरिभोगो दशमासिको यो मम पूर्वं बोधिसत्त्वभूतस्य मातुः कुक्षिगतस्याभूत्। ब्रह्मा आह-एवमेतद्भगवन्, एवमेतत् सुगत। भगवानाह-क्व स इदानीं ब्रह्मन्? उपदर्शय तम्। ब्रह्मा चाह-ब्रह्मलोके स भगवन्। भगवानाह-तेन हि त्वं ब्रह्मन् उपदर्शय तं दशमासिकं बोधिसत्त्वपरिभोगम्, ज्ञास्यन्ति कियत्संस्कृतमिति॥



अथ खलु ब्रह्मा सहापतिस्तान् ब्राह्मणानेतदवोचत्-तिष्ठतु तावद्भवन्तो यावद्वयं रत्नव्यूहं बोधिसत्त्वपरिभोगमानयिष्यामः॥



अथ खलु ब्रह्मा सहापतिर्भगवतः पादौ शिरसाभिवन्दित्वा भगवतः पुरतोऽन्तर्हितस्तत्क्षणमेव ब्रह्मलोके प्रत्यस्थात्॥



अथ खलु ब्रह्मा सहापतिः सुब्रह्माणं देवपुत्रमेतदवोचत्-गच्छ त्वं मार्षा इतो ब्रह्मलोकमुपादाय यावत्त्रायत्रिंशद्भवनम्-शब्दमुदीरय, घोषमनुश्रावय। रत्नव्यूहं बोधिसत्त्वपरिभोगं वयं तथागतस्यान्तिकमुपनामयिष्यामः। यो युष्माकं द्रष्टुकामः स शीघ्रमागच्छत्विति॥



अथ खलु ब्रह्मा सहापतिश्चतुरशीत्या देवकोट्या नयुतशतसहस्रः सार्धं तं रत्नव्यूहं बोधिसत्त्वपरिभोगं परिगृह्य महति ब्राह्मे विमाने त्रियोजनशतिके प्रतिष्ठाप्यानेकैर्दैवकोटीनयुतशतसहस्रैः समन्ततोऽनुपरिवार्य जम्बूद्वीपमवतारयति स्म॥



तेन खलु पुनः समयेन कामावचराणां देवानां महासंनिपातोऽभूत् भगवत्सकाशे गन्तुम्। स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगो दिव्यैर्वस्त्रैर्दिव्यैर्माल्यैर्दिव्यैर्गन्धैर्दिव्यैः पुष्पैर्दिव्यैर्वाद्यैर्दिव्यैश्च परिभौगैरभिसंस्कृतोऽभूत्। तावन्महेशाख्यैश्च देवैः परिवृतोऽभूद् यच्छक्रो देवानामिन्द्रः सुमेरौ(समुद्रे) स्थित्वा दूरत एव मुखे तालच्छत्रकं दत्त्वा शीर्षव्यवलोकनेनानुविलोकयति स्म उन्मेषध्यायिकया वा। न च शक्नोति स्म द्रष्टुम्। तत्कस्मात्? महेशाख्या हि देवा ब्राह्मणाः। इतरास्त्रायत्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनः। कः पुनर्वादः शक्रो देवानामिन्द्रः। मोहं ते वै यान्ति स्म॥



अथ खलु भगवांस्तं दिव्यं वाद्यनिर्घोषमन्तर्धापयति स्म। तत्कस्मात्? यत्सहश्रवणादेव जाम्बुद्वीपका मनुष्या उन्मादमापत्स्यन्त इति॥



अथ खलु चत्वारो महाराजानः शक्रं देवानामिन्द्रमुपसंक्रम्यैवमाहुः-कथं देवानामिन्द्र करिष्यामो न लभामहे रत्नव्यूहं बोधिसत्त्वपरिभोगं द्रष्टुम्। स तानवोचत्-किमहं मार्षाः करिष्यामि? अहमपि न लभे द्रष्टुम्। अपि तु खलु पुनर्मार्षा भगवत्समीपमुपनीतं द्रक्ष्यामः। ते तदा आहुः-तेन हि देवानामिन्द्र तथा कुरु यथास्य क्षिप्रं दर्शनं भवेत्। शक्र आह-आगमयत मार्षा मुहूर्तं यावदतिक्रान्तातिक्रान्ततमा देवपुत्रा भगवन्तं प्रतिसंमोदयन्ते स्म। तदेकान्ते स्थित्वा शीर्षोन्मिञ्जितकया भगवन्तमनुविलोकयन्ति स्म॥



अथ खलु ब्रह्मा सहापतिः सार्धं तैश्चतुरशीत्या देवकोटीनयुतशतसहस्रैस्तं रत्नव्यूहं बोधिसत्त्वपरिभोगं गृहीत्वा येन भगवांस्तेनोपसंक्रामयति स्म। स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगोऽभिरूपः प्रासादिको दर्शनीयश्चतुरस्रश्चतुष्ठूणः। उपरिष्टाच्च कूटागारसमलंकृतः। एवंप्रमाणः तद्यथापि नाम षण्मासजातो दारक उच्चैस्त्वेन। तस्य खलु पुनः कूतागारस्य मध्ये पर्यङ्कः प्रज्ञप्तः तद्यथापि नाम षण्मासजातस्य दारकस्य भित्तीफलकः। स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोग एवं वर्णसंस्थानो यस्य न कश्चित् सदेवके लोके समारके सब्रह्मके सदृशोऽस्ति आकृत्या वा वर्णेन वा। देवाः खल्वपि तं दृष्ट्वा आश्चर्यप्राप्ता अभुवन्। चक्षूंषि तेषां विभ्रमन्ति स्म। स च तथागतस्यान्तिक उपनीतोऽतीव भासते तपति विरोचते स्म। तद्यथापि नाम द्विनिर्धान्तं सुवर्णं कुशलेन कर्मकारेण सुपरिनिष्ठितमपगतकाचदोषम्, एवं (तस्मिन् समये) स कूटागारो विराजते स्म। तस्मिन् खलु पुनर्बोधिसत्त्वपरिभोगे पर्यङ्कः प्रज्ञप्तो यस्य सदेवके लोके नास्ति कश्चित् सदृशो वर्णेन वा संस्थानेन वा अन्यत्र कम्बुग्रीवाया बोधिसत्त्वस्य। यत् खलु महाब्रह्मणा चीवरं प्रावृतमभूत्, तत्तस्य बोधिसत्त्वपर्यङ्कस्याग्रतो न भासते स्म तद्यथापि नाम वातवृष्ट्याभिहतः कृष्णकम्बलः। स खलु पुनः कूटागार उरगसारचन्दनमयो यस्यैकसुवर्णधरणी साहस्रं लोकधातुं मूल्यं क्षमते, तथाविधेनोरगसारचन्दनेन स कूटागारः समन्तादनुपलिप्तः। तादृश एव द्वितीयः कूटागारः कृतो यस्तस्मिन् प्रथमे कूटागारेऽभ्यन्तरतः असक्तोऽबद्धस्थितः। तादृश एव तृतीयोऽपि कूटागारो यस्तस्मिन् द्वितीये कूटागारेऽभ्यन्तरेऽसक्तोऽबद्धस्थितः। स च पर्यङ्कस्तस्मिन् गन्धमये तृतीये कूटागारे व्यवस्थितः संप्रतिच्छन्नः। तस्य खलु पुनरुरगसारचन्दनस्यैवंरूपो वर्णः तद्यथापि नाम अभिजातस्य नीलैवडूर्यस्य। तस्य खलु पुनर्गन्धकूटागारस्योपरि समन्ताद्यावन्ति कानिचिद्दिव्यातिक्रान्तानि पुष्पाणि सन्ति, तानि सर्वाणि तस्मिन् कूटागारे बोधिसत्त्वस्य पूर्वकुशलमूलविपाकेनानुप्राप्तान्येव जायन्ते स्म। स खलु पुन रत्नव्यूहो बोधिसत्त्वपरिभोगो दृढसारोऽभेद्यो वज्रोपमः स्पर्शेन च काचिलिन्दिकसुखसंस्पर्शः। तस्मिन् खलु पुन रत्नव्यूहे बोधिसत्त्वपरिभोगे ये केचित् कामावचराणां देवानां भवनव्यूहास्ते सर्वे तस्मिन् संदृश्यन्ते स्म॥



यामेव च रात्रिं बोधिसत्त्वो मातुः कुक्षिमवक्रान्तस्तामेव रात्रिमध आपस्कन्धमुपादाय अष्टषष्टियोजनशतसहस्राणि महापृथिवीं भित्त्वा यावद् ब्रह्मलोकं पद्मभ्युद्गतमभूत्। न च कश्चित्तं पद्मं पश्यति स्म अन्यत्र सारथिनरोत्तमाद्दशशतसाहस्रिकाच्च महाब्रह्मणः। यच्चेह त्रिसाहस्रमहासाहस्रलोकधातावोजो वा मण्डो व रसो वा, तत्सर्वं तस्मिन् महापद्मे मधुबिन्दुः संतिष्ठते स्म॥



तमेनं महाब्रह्मा शुभे वैडूर्यभाजने प्रक्षिप्य बोधिसत्त्वस्योपनामयति स्म। तं बोधिसत्त्वः परिगृह्य भुङ्क्ते स्म महाब्रह्मणोऽनुकम्पामुपादाय। नास्ति स कश्चित् सत्त्वः सत्त्वनिकाये यस्य स ओजोबिन्दुः परिभुक्तः सम्यक् सुखेन परिणामेदन्यत्र चरमभविकाद्बोधिसत्त्वात् सर्वबोधिसत्त्वभूमिपरिपूर्णात्। कस्य च कर्मणो विपाकेन स ओजोबिन्दुर्बोधिसत्त्वस्योपतिष्ठते स्म? दीर्घरात्रं खल्वपि बोधिसत्त्वेन पूर्वं बोधिसत्त्वचर्यां चरता ग्लानेभ्यः सत्त्वेभ्यो भैषज्यं दत्तमाशत्पराणां सत्त्वानामाशाः परिपूरिताः, शरणागताश्च न परित्यक्ताः, नित्यं चाग्रपुष्पमग्रफलमग्ररसं तथागतेभ्यस्तथागतचैत्येभ्यस्तथागतश्रावकसंघेभ्यो मातापितृभ्यश्च दत्त्वा पश्चादात्मना परिभुक्तम्। तस्य कर्मणो विपाकेन महाब्रह्मा बोधिसत्त्वस्य तं मधुबिन्दुमुपनामयति स्म॥



तस्मिन् खलु पुनः कूटागारे यानि कानिचित् सन्त्यतिक्रान्तातिक्रान्तानि मायागुणरतिक्रीडासमवसृतस्थानानि, तानि सर्वाणि तस्मिन् प्रादुर्भावानि संदृश्यन्ते स्म बोधिसत्त्वस्य पूर्वकर्मविपाकेन॥



तस्मिन् खलु पुन रत्नव्यूहे बोधिसत्त्वपरिभोगे शतसहस्रव्यूहं नाम वासोयुगं प्रादुर्भूतम्। न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यस्य तत्प्रादुर्भवेदन्यत्र चरमभविकाद् बोधिसत्त्वात्। न च ते केचन उदारोदारा रूपशब्दगन्धरसस्पर्शा ये तस्मिन् कूटागारे न संदृश्यन्ते स्म। सचेत्कूटागारपरिभोग एवं सुपरिभोग एवं सुपरिनिष्पन्नः सान्तरबहिरेवं सुपरिनिष्ठित एवं मृदुकश्च। तद्यथापि नाम काचिलिन्दिकसुखसंस्पर्शो निदर्शनमात्रेण, न तु तस्योपमा संविद्यते। धर्मता खल्वेषा बोधिसत्त्वस्य पूर्वकेण च प्रणिधानेन इयं चेतना ऋद्धाववश्यं बोधिसत्त्वेन महासत्त्वेन मनुष्यलोक उपपत्तव्यमभिनिष्क्रम्य चानुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयितव्यम्। यस्या मातुः कुक्षावुपपत्तिर्भवति, तस्या दक्षिणे कुक्षावादित एव रत्नव्यूहकूटागारोऽभिनिर्वर्तते। पश्चाद्बोधिसत्त्वस्तुषितेभ्यश्च्युत्त्वा तस्मिन् कूटागारे पर्यङ्कनिषण्णः संभवति। न हि चरमभविकस्य बोधिसत्त्वस्य कललार्बुदघनपेशीभावं कायः संतिष्ठते स्म। अथ तर्हि सर्वाङ्गप्रत्यङ्गलक्षणसंपन्नः संनिषण्ण एव प्रादुर्भवति। स्वप्नान्तरगता च बोधिसत्त्वमाता मायादेवी महानागकुञ्जरमवक्रान्तं संजानीते स्म॥



तस्य खलु पुनस्तथा निषण्णस्य शक्रो देवानामिन्द्रश्चत्वारश्च महाराजानोऽष्टाविंशतिश्च महायक्षसेनापतयो गुह्यकाधिपतिश्च नाम यक्षकुलं यतो वज्रपाणेरुत्पत्तिस्ते बोधिसत्त्वं मातुः कुक्षिगतं विदित्वा सततं समितमनुबद्धा भवन्ति स्म। सन्ति खलु पुनश्चतस्रो बोधिसत्त्वपरिचारका देवताः-उत्खली च नाम समुत्खली च नाम ध्वजवती च नाम प्रभावती च नाम। ता अपि बोधिसत्त्वं मातुः कुक्षिगतं विदित्वा सततं समितं रक्षन्ति स्म। शक्रोऽपि देवानामिन्द्रः सार्धं पञ्चमात्रैर्देवपुत्रशतैर्बोधिसत्त्वं मातुः कुक्षिगतं ज्ञात्वा सततं समितमनुबध्नाति स्म॥



बोधिसत्त्वस्य खलु पुनर्मातुः कुक्षिगतस्य कायस्तथाविधोऽभूत्, तद्यथापि नाम पर्वतमूर्धनि रात्रावन्धकारतमिस्रायां महानग्निस्कन्धो योजनादपि दृश्यते स्म, यावत् पञ्चभ्या योजनेभ्यो दृश्यते स्म। एवमेव बोधिसत्त्वस्य मातुः कुक्षिगतस्यात्मभावोऽभिनिर्वृत्तोऽभूत् प्रभास्वरोऽभिरूपः प्रासादिको दर्शनीयः। स तस्मिन् कूटागारे पर्यङ्कनिषण्णोऽतीव शोभते स्म। वैडूर्यप्रत्युप्तमिवाभिजातं जातरूपम्। बोधिसत्त्वस्य माता च निध्याय स्थिता पश्यति स्म कुक्षिगतं बोधिसत्त्वम्। तद्यथापि नाम महतोऽभ्रकूटाद्विद्युतो निःसृत्य महान्तमवभासं संजनयन्ति, एवमेव बोधिसत्त्वो मातुः कुक्षिगतः श्रिया तेजसा वर्णेन च तं प्रथमं रत्नकूटागारमवभासयति स्म। अवभास्य द्वितीयं गन्धकूटागारमवभासयति स्म। द्वितीयं गन्धकूटागारमवभास्य तृतीयं रत्नकूटागारमवभासयति स्म। तृतीयं रत्नकूटागारमवभास्य सर्वावन्तं मातुरात्मभावमवभासयति स्म। तमवभास्य यत्र चासने निषण्णो भवति स्म तदवभासयति स्म। तदवभास्य सर्वं गृहमवभासयति स्म। सर्वं गृहमवभास्य गृहस्योपरिष्टान्निःसृत्य पूर्वां दिशमवभासयति स्म। एवं दक्षिणां पश्चिमां उत्तरामध ऊर्ध्वं समन्ताद्दशदिशः क्रोशमात्रमेकैकस्यां दिशि मातुः कुक्षिगतो बोधिसत्त्वः श्रिया तेजसा वर्णेन चावभासयति स्म॥



आगच्छन्ति स्म खलु पुनर्भिक्षवश्चत्वारो महाराजानोऽष्टाविंशच्च महायक्षसेनापतयः सार्धं पञ्चमात्रयक्षशतैः पूर्वाह्णकालसमये बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च। तदा बोधिसत्त्वस्तानागतान् विदित्वा दक्षिणं पाणिमभ्युत्क्षिप्य एकाङ्गुलिकया आसनान्युपदर्शयति स्म। निषीदन्ति स्म ते लोकपालादयो यथाप्रज्ञप्तेष्वासनेषु। पश्यन्ति स्म बोधिसत्त्वं मातुः कुक्षिगतं जातरूपमिव विग्रहं हस्तं चालयन्तं विचालयन्तम् उत्क्षिपन्तं प्रतिष्ठापयन्तम्। ते प्रीतिप्रामोद्यप्रसादप्रतिलब्धा बोधिसत्त्वं नमस्कुर्वन्ति स्म। निषण्णांश्च तान् विदित्वा बोधिसत्त्वो धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म। यदा च प्रक्रमितुकामा भवन्ति तदा बोधिसत्त्वस्तेषां चेतसैव विचिन्तितं विज्ञाय दक्षिणं पाणिमुत्क्षिप्य संचारयति स्म। संचार्य विचारयति स्म। मातरं च न बाधते स्म। तदा तेषां चतुर्णां महाराजानामेवं भवति स्म-विसर्जिताः स्म वयं बोधिसत्त्वेनेति। ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य प्रक्रामन्ति स्म। अयं हेतुरयं प्रत्ययो यद्बोधिसत्त्वो रात्र्यां प्रशान्तायां दक्षिणं पाणिं संचार्य विचारयति स्म। विचार्य पुनरपि स्मृतः संप्रजानंस्तं पाणिं प्रतिष्ठापयति स्म। पुनरपरं यदा बोधिसत्त्वस्य केचिद्दर्शनायागच्छन्ति स्म स्त्रियो वा पुरुषो वा दारको वा दारिका वा, तान् बोधिसत्त्वः पूर्वतरमेव प्रतिसंमोदयते स्म, पश्चाद्बोधिसत्त्वस्य माता॥



इति हि भिक्षवो बोधिसत्त्वो मातुः कुक्षिगतः सन् सत्त्वान् प्रतिसंमोदनकुशलो भवति स्मेति। न च कश्चिद्देवो वा नागो वा यक्षो वा मनुष्यो वा अमनुष्यो वा यः शक्नोति स्म बोधिसत्त्वं पूर्वतरं प्रतिसंमोदितुम्। अथ तर्हि बोधिसत्त्व एव तावत् पूर्वतरं प्रतिसंमोदते स्म, पश्चाद्बोधिसत्त्वमाता॥



निर्गते खलु पुनः पूर्वाह्णकालसमये मध्याह्नकालसमये प्रत्युपस्थिते अथ खलु शक्रो देवानामिन्द्रो निष्क्रान्तः। अभिनिष्क्रान्ताश्च त्रायत्रिंशद्देवपुत्रा बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय। धर्मश्रवणाय चागच्छन्ति स्म। तांश्च बोधिसत्त्वो दूरत एवागच्छतो दृष्ट्वा दक्षिणं सुवर्णवर्णं बाहुं प्रसार्य शक्रं देवानामिन्द्रं देवांश्च त्रायत्रिंशान् प्रतिसंमोदते स्म। एकाङ्गुलिकया चासनान्युपदर्शयति स्म। न च शक्नोति स्म भिक्षवः शक्रो देवानामिन्द्रो बोधिसत्त्वस्याज्ञां प्रतिरोद्धुम्। निषीदति स्म शक्रो देवानामिन्द्रस्तदन्ये च देवपुत्रा यथाप्रज्ञप्तेष्वासनेषु। तान् बोधिसत्त्वो निषण्णान् विदित्वा धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म। येन च बोधिसत्त्वः पाणिं संचारयति स्म, तन्मुखा बोधिसत्त्वमाता भवति स्म। ततस्तेषामेवं भवति स्म-अस्माभिः सार्धं बोधिसत्त्वः संमोदते स्म। एकैकश्चैवं संजानीते स्म-मयैव सार्धं बोधिसत्त्वः संलपति, मामेव प्रतिसंमोदते स्म इति॥



तस्मिन् खलु पुनः कूटागारे शक्रस्य देवानामिन्द्रस्य त्रायत्रिंशानां देवानां च प्रतिभासः संदृश्यते स्म। न खलु पुनरन्यत्रैवं परिशुद्धो बोधिसत्त्वपरिभोगो भवति यथा मातुः कुक्षिगतस्य बोधिसत्त्वस्य। यदा च भिक्षवः शक्रो देवानामिन्द्रस्तदन्ये च देवपुत्राः प्रक्रमितुकामा भवन्ति स्म, तदा बोधिसत्त्वस्तेषां चेतसैव चेतःपरिवितर्कमाज्ञाय दक्षिणं पाणिमुत्क्षिप्य संचारयन्ति स्म। संचार्य विचार्य पुनरपि स्मृतः संप्रजानन् प्रतिष्ठापयति स्म। मातरं च न बाधते स्म। तदा शक्रस्य देवानामिन्द्रस्यान्येषां च त्रायत्रिंशानां देवानामेवं भवति स्म-विसर्जिता वयं बोधिसत्त्वेनेति। ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य प्रक्रामन्ति स्म॥



निर्गते च खलु पुनर्भिक्षवो मध्याह्नकालसमये सायाह्नकालसमये प्रत्युपस्थिते अथ खलु ब्रह्मा सहापतिरनेकैर्ब्रह्मकायिकैर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतस्तं दिव्यमोजोबिन्दुमादाय येन बोधिसत्त्वस्तेनोपसंक्रामति स्म बोधिसत्त्वं द्रष्टुं वन्दितुं पर्युपासितुं धर्मं च श्रोतुम्। समन्वाहरति स्म भिक्षवः बोधिसत्त्वो ब्रह्माणं सहापतिमागच्छन्तं सपरिवारम्। पुनरेव च बोधिसत्त्वो दक्षिणं सुवर्णवर्णपाणिमुत्क्षिप्य ब्रह्माणं सहापतिं ब्रह्मकायिकांश्च देवपुत्रान् प्रतिसंमोदते स्म। एकाङ्गुलिकया चासनान्युपदर्शयति स्म। न च शक्तिरस्ति भिक्षवो ब्रह्मणः सहापतेर्बोधिसत्त्वस्याज्ञां प्रतिरोद्धुम्। निषीदति स्म भिक्षवो ब्रह्मा सहापतिस्तदन्ये च ब्रह्मकायिका देवपुत्रा यथाप्रज्ञप्तेष्वासनेषु। तान् बोधिसत्त्वो निषण्णान् विदित्वा धर्म्यया कथया संदर्शयति स्म समादापयति स्म समुत्तेजयति स्म संप्रहर्षयति स्म। येन च बोधिसत्त्वः पाणिं संचारयति स्म, तन्मुखैव मायादेवी भवति स्म। ततस्तेषामेकैकस्यैवं भवति स्म-मया सार्धं बोधिसत्त्वः संलपति, मामेव प्रतिसंमोदते स्म इति। यदा च ब्रह्मा सहापतिस्तदन्ये च ब्रह्मकायिका देवपुत्रा गन्तुकामा भवन्ति स्म, तदा बोधिसत्त्वस्तेषां चेतसैव चेतःपरिवितर्कमाज्ञाय दक्षिणं सुवर्णवर्णं बाहुमुत्क्षिप्य संचारयति स्म। संचार्य विचारयति स्म। संचार्य विचार्य अवसादताकारेण पाणिं संचारयति स्म। मातरं च न बाधते स्म। ततो ब्रह्मणः सहापतेस्तदन्येषां च ब्रह्मकायिकानां देवपुत्राणामेवं भवति स्म-विसर्जिता वयं बोधिसत्त्वेनेति। ते बोधिसत्त्वं बोधिसत्त्वमातरं च त्रिप्रदक्षिणीकृत्य पुनरेव प्रक्रामन्ति स्म। बोधिसत्त्वश्च स्मृतः संप्रजानन् पाणिं प्रतिष्ठापयति स्म॥



आगच्छन्ति स्म खलु पुनर्भिक्षवः पूर्वदक्षिणपश्चिमोत्तराभ्यो दिग्भ्योऽधस्तादुपरिष्टात् सन्ताद्दशभ्यो दिग्भ्यो बहूनि बोधिसत्त्वशतसहस्राणि बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च धर्मसंगीतिसंगायनाय च। तेषामागतागतानां बोधिसत्त्वः कायात् प्रभामुत्सृज्य प्रभाव्यूहानि सिंहासनान्यभिनिर्मिमीते स्म। अभिनिर्माय तान् बोधिसत्त्वांस्तेष्वासनेषु निषीदयति स्म। निषण्णांश्चैनान् विदित्वा परिपृच्छति स्म परिप्रश्नयति स्म यदुतास्यैव बोधिसत्त्वस्य महायानस्य विस्तरविभागतामुपादाय। न च तान् कश्चिदन्यः पश्यति स्म अन्यत्र सभागेभ्यो देवपुत्रेभ्यः। अयं भिक्षवो हेतुरयं प्रत्ययो येन बोधिसत्त्वः प्रशान्तायां रात्र्यां कायात् प्रभामुत्सृजति स्म॥



न खलु पुनर्भिक्षवो मायादेवी बोधिसत्त्वकुक्षिगते गुरुकायतां संजानीते स्म अन्यत्र लघुतामेव मृदुतामेव सौख्यतामेव। न चोदरगतानि दुःखानि प्रत्यनुभवति स्म। न च रागपरिदाहेन वा द्वेषपरिदाहेन वा मोहपरिदाहेन वा परिदह्यते स्म। न च कामवितर्कं वा व्यापादवितर्कं वा विहिंसावितर्कं वा वितर्कयति स्म। न च शीतं न चोष्णं वा जिघत्सां वा पिपासां वा तमो वा रजो वा क्लेशं वा संजानीते स्म पश्यति वा। न चास्या अमनापा रूपशब्दगन्धरसस्पर्शा वा आभासमागच्छन्ति स्म। न च पापकान् स्वप्नान् पश्यति स्म। न चास्याः स्त्रीमाया न शाठ्यं नेर्ष्या न स्त्रीक्लेशा बाधन्ते स्म। पञ्चशिक्षापदसमादत्ता खलु पुनः शीलवती दशकुशलकर्मपथे प्रतिष्ठिता तस्मिन् समये बोधिसत्त्वमाता भवति स्म। न च बोधिसत्त्वमातुः क्वचित् पुरुषे रागचित्तमुत्पद्यते स्म, नापि कस्यचित्पुरुषस्य बोधिसत्त्वस्य मातुरन्तिके। ये च केचित्कपिलाह्वये महापुरवरे अन्येषु वा जनपदेषु देवनागयक्षगन्धर्वासुरगरुडभूताविष्टाः स्त्रीपुरुषदारकदारिका वा, ते सर्वे बोधिसत्त्वमातुः सहदर्शनादेव स्वस्थाः स्मृतिप्रतिलब्धा भवन्ति स्म। ते चामनुष्याः क्षिप्रमेव प्रक्रामन्ति स्म। ये च केचिन्नानारोगस्पृष्टाः सत्त्वा भवन्ति स्म, वातपित्तश्लेष्मसंनिपातजै रोगैः पीड्यन्ते स्म, चक्षुरोगेण वा श्रोत्ररोगेण वा घ्राणरोगेण वा जिह्वारोगेण वा ओष्ठरोगेण वा दन्तरोगेण कण्ठरोगेण वा गलगण्डरोगेण वा उरगण्डकुष्ठकिलासशोषोन्मादापस्मारज्वरगलगण्डपिटकविसर्पविचर्चिकाद्यै रोगैः संपीड्यन्ते स्म, तेषां बोधिसत्त्वमाता दक्षिणपाणिं मूर्ध्नि प्रतिष्ठापयति स्म। ते सहप्रतिष्ठापिते पाणौ विगतव्याधयो भूत्वा स्वकस्वकानि गृहाणि गच्छन्ति स्म। अन्ततो मायादेवी तृणगुल्मकमपि धरणितलादभ्युत्क्षिप्य ग्लानेभ्यः सत्त्वेभ्योऽनुप्रयच्छति स्म। ते सहप्रतिलम्भादरोगनिर्विकारा भवन्ति स्म। यदा च मायादेवी स्वं दक्षिणं पार्श्वं प्रत्यवेक्षते स्म, तदा पश्यति स्म बोधिसत्त्वं कुक्षिगतम्, तद्यथापि नाम सुपरिशुद्ध आदर्शमण्डले मुखमण्डलं दृश्यते। दृष्ट्वा च पुनस्तुष्टा उदग्रा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता भवति स्म॥



बोधिसत्त्वस्य खलु पुनर्भिक्षवो मातुः कुक्षिगतस्याधिष्ठितं सततं समितं रात्रिंदिवं दिव्यानि तूर्याणि अभि(निर्माय) प्रनदन्ति स्म। दिव्यानि च पुष्पाणि अभिप्रवर्षन्ति स्म। कालेन देवा वर्षन्ति स्म। कालेन वायवो वान्ति स्म। कालेन ऋतवो नक्षत्राणि च परिवर्तन्ते स्म। क्षेमं च राज्यं सुभिक्षं च सुमनाकुलमनुभवति स्म। सर्वे च कपिलाह्वये महापुरवरे शाक्या अन्ये च सत्त्वाः खादन्ति स्म, पिबन्ति स्म, (रमन्ते स्म,) क्रीडन्ति स्म, प्रविचारयन्ति स्म, दानानि च ददन्ति स्म, पुण्यानि च कुर्वन्ति स्म, कौमोद्यामिव चातुर्मास्यामेकान्तरे क्रीडासुखविहारैर्विहरन्ति स्म। राजापि शुद्धोदनः संप्राप्तब्रह्मचर्योपरतराष्ट्रकार्योऽपि सुपरिशुद्धस्तपोवनगत इव धर्ममेवानुवर्तते स्म॥



एवंरूपेण भिक्षव ऋद्धिप्रातिहार्येण समन्वागतो बोधिसत्त्वो मातुः कुक्षिगतोऽस्थात्। तत्र खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-द्रक्ष्यसि त्वमानन्द रत्नव्यूहं बोधिसत्त्वपरिभोगं यत्र बोधिसत्त्वो मातुः कुक्षिगतो व्याहार्षीत्। आह-पश्येयं भगवन् पश्येयं सुगत। दर्शयति स्म तथागत आयुष्मत आनन्दस्य शक्रस्य देवानामिन्द्रस्य चतुर्णां च लोकपालानां तदन्येषां च देवमनुष्याणाम्। दृष्ट्वा च ते तुष्टा अभूवन् उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः। स च ब्रह्मा सहापतिः पुनरेव ब्रह्मलोके समारोप्य प्रतिष्ठापयति स्म चैत्यार्थम्॥



तत्र खलु भगवान् पुनरपि भिक्षूनामन्त्रयते स्म-इति हि भिक्षवो दशमासकुक्षिगतेन बोधिसत्त्वेन षट्‍त्रिंशन्नयुतानि देवमनुष्याणां त्रिषु यानेषु परिपाचितान्यभूवन्। यत्रेदमुच्यते यत्—



बोधिसत्त्व अग्रसत्त्व मातुकुक्षिसंस्थितः

प्रकम्पिता च षड्‍विकार मेदिनी सकानना।

सुवर्णवर्ण आभ मुक्त सर्वापाय शोधिता

प्रहर्षिताश्च देवसंघ धर्मगञ्जु भेष्यते॥२३॥



सुंसंस्थितो महाविमानु नैकरत्नचित्रितो

यत्र वीरु आरुहित्व तिष्ठते विनायकः।

गन्धोत्तमेन चन्दनेन पूरितो विरोचते

यस्यैककर्षु त्रिसहस्रमूल्यरत्नपूरितो॥२४॥



महासहस्रलोकधातु हेष्वि भिन्दियित्वना

उदागतो गुणाकरस्य पद्म‍ओजबिन्दुको।

सो सप्तरात्र पुण्यतेज ब्रह्मलोकि उद्गतो

गृहीत्व ब्रह्म ओजबिन्दु बोधिसत्त्व नामयी॥२५॥



न अस्ति सर्वसत्त्वकायि भुक्तु यो जरेय तं

अन्यत्र भूरि बोधिसत्त्व ब्रह्मकल्पसंनिभे।

अनेककल्प पुण्यतेज ओजबिन्दु संस्थितो

भुजित्व सत्त्व कायचित्त ज्ञानशुद्ध गच्छिषु॥२६॥



शक्र ब्रह्म लोकपाल पूजनाय नायकं

त्रीणि काल आगमित्व बोधिसत्त्वमन्तिकम्।

वन्दयित्व पूजयित्व धर्म शृणुते वरं

प्रदक्षिणं करित्व सर्व गच्छिषू यथागता॥२७॥



बोधिसत्त्व धर्मकाम एन्ति लोकधातुषु

प्रभावियूह आसनेषु ते निषण्ण दृश्यिषु।

परस्परं च श्रुत्व धर्म यानश्रेष्ठमुत्तमं

प्रयान्ति सर्वि हृष्टचित्त वर्णमाल भाषतो॥२८॥



ये च इष्टिदारकासु दुःखिता तदा अभूत्

भूतस्पृष्ट क्षिप्तचित्त नग्न पांशुम्रक्षिता।

ते च सर्व दृष्ट्व माय भोन्ति लब्धचेतना

स्मृतीमतीगती‍उपेत गेहि गेहि गच्छिषु॥२९॥



वाततो व पित्ततो व श्लेष्मसंनिपातकैः

ये च चक्षुरोग श्रोत्ररोग कायचित्तपीडिता।

नैकरूप नैकजाति व्याधिभिश्च ये हता

स्थापिते स्म माय मूर्ध्नि पाणि भोन्ति निर्जरा॥३०॥



अथापि वा तृणस्य तूलि भूमितो गृहीत्वना

ददाति माय आतुराण सर्वि भोन्ति निर्जरा।

सौख्यप्राप्ति निर्विकार गेहि गेहि गच्छिषु

भैषज्यभूति वैद्यराजि कुक्षिसंप्रतिष्ठिते॥३१॥



यस्मि कालि मायदेवि स्वातनुं निरीक्षते

अदृशाति बोधिसत्त्व कुक्षिये प्रतिष्ठितम्।

यथैव चन्द्र अन्तरीक्ष तारकै परीवृतं

तथैव नाथु बोधिसत्त्वलक्षणैरलंकृतम्॥३२॥



नो च तस्य राग दोष नैव मोह बाधते

कामछन्दु नैव तस्य ईर्षि नैव हिंसिता।

तुष्टचित्त हृष्टचित्त प्रीति सौमनस्थिता

क्षुधापिपास शीत उष्ण नैव तस्य बाधते॥३३॥



अघट्टिताश्च नित्यकाल दिव्यतूर्य वादिषु

प्रवर्षयन्ति दिव्यपुष्प गन्धश्रेष्ठ शोभना।

देव पश्यि मानुषाश्च मानुषा अमानुषां

नो विहेठि नो विहिंसि तत्र ते परस्यरम्॥३४॥



रमन्ति सत्त्व क्रीडयन्ति अन्नपानुदेन्ति च

आनन्दशब्द घोषयन्ति हृष्टतुष्टमानसाः॥

क्षमा रजो‍अनाकुला च कालि देव वर्षते

तृणाश्च पुष्प ओषधीय तस्मि कालि रोहिषु॥३५॥



राजगेहि सप्तरात्र रत्नवर्ष वर्षितो

यतो दरिद्रसत्त्व गृह्य दान देन्ति भुञ्जते।

नास्ति सत्त्व यो दरिद्र यो च आसि दुःखितो

भेरुमूर्ध्नि नन्दनेव एव सत्त्व नन्दिषु॥३६॥



सो च राजु शाकियान पोषधी उपोषितो

राज्यकार्यु नो करोति धर्ममेव गोचरी।

तपोवनं च सो प्रविष्ट मायादेवी पृच्छते

कीदृशेन्ति कायि सौख्य अग्रसत्त्व धारति॥३७॥



इति श्रीललितविस्तरे गर्भावक्रान्तिपरिवर्तो नाम षष्ठमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project